| |
|

This overlay will guide you through the buttons:

।। नारद उवाच।।
विधे तात महाभाग धन्यस्त्वं परमार्थदृक् ॥ अद्भुतेयं कथाश्रावि त्वदनुग्रहतो मया ॥ १ ॥
विधे तात महाभाग धन्यः त्वम् परम-अर्थ-दृश् ॥ अद्भुता इयम् कथा-श्रावि त्वद्-अनुग्रहतः मया ॥ १ ॥
vidhe tāta mahābhāga dhanyaḥ tvam parama-artha-dṛś .. adbhutā iyam kathā-śrāvi tvad-anugrahataḥ mayā .. 1 ..
गते हरे स्वशैले हि पार्वती सर्वमंगला ॥ किं चकार गता कुत्र तन्मे वद महामते ॥ २ ॥
गते हरे स्व-शैले हि पार्वती सर्व-मंगला ॥ किम् चकार गता कुत्र तत् मे वद महामते ॥ २ ॥
gate hare sva-śaile hi pārvatī sarva-maṃgalā .. kim cakāra gatā kutra tat me vada mahāmate .. 2 ..
।। ब्रह्मोवाच ।।
शृणु सुप्रीतितस्तात यज्जातं तदनन्तरम् ॥ हरे गते निजस्थाने तद्वदामि शिवं स्मरन् ॥ ३॥
शृणु सु प्रीतितः तात यत् जातम् तद्-अनन्तरम् ॥ हरे गते निज-स्थाने तत् वदामि शिवम् स्मरन् ॥ ३॥
śṛṇu su prītitaḥ tāta yat jātam tad-anantaram .. hare gate nija-sthāne tat vadāmi śivam smaran .. 3..
पार्वत्यपि सखीयुक्ता रूपं कृत्वा तु सार्थकम् ॥ जगाम स्वपितुर्गेहं महादेवेति वादिनी ॥ ४ ॥
पार्वती अपि सखी-युक्ता रूपम् कृत्वा तु सार्थकम् ॥ जगाम स्व-पितुः गेहम् महादेव इति वादिनी ॥ ४ ॥
pārvatī api sakhī-yuktā rūpam kṛtvā tu sārthakam .. jagāma sva-pituḥ geham mahādeva iti vādinī .. 4 ..
पार्वत्यागमनं श्रुत्वा मेना च स हिमाचलः ॥ दिव्यं यानं समारुह्य प्रययौ हर्षविह्वलः ॥ ५ ॥
पार्वती-आगमनम् श्रुत्वा मेना च स हिमाचलः ॥ दिव्यम् यानम् समारुह्य प्रययौ हर्ष-विह्वलः ॥ ५ ॥
pārvatī-āgamanam śrutvā menā ca sa himācalaḥ .. divyam yānam samāruhya prayayau harṣa-vihvalaḥ .. 5 ..
पुरोहितश्च पौराश्च सख्यश्चैवाप्यनेकशः ॥ सम्वन्धिनस्तथान्ये च सर्वे ते च समाययुः ॥ ६॥
पुरोहितः च पौराः च सख्यः च एव अपि अनेकशस् ॥ सम्वन्धिनः तथा अन्ये च सर्वे ते च समाययुः ॥ ६॥
purohitaḥ ca paurāḥ ca sakhyaḥ ca eva api anekaśas .. samvandhinaḥ tathā anye ca sarve te ca samāyayuḥ .. 6..
भ्रातरः सकला जग्मुर्मैनाकप्रमुखास्तदा ॥ जयशब्दं प्रब्रुवन्तो महाहर्षसमन्विताः ॥ ७॥
भ्रातरः सकलाः जग्मुः मैनाक-प्रमुखाः तदा ॥ जय-शब्दम् प्रब्रुवन्तः महा-हर्ष-समन्विताः ॥ ७॥
bhrātaraḥ sakalāḥ jagmuḥ maināka-pramukhāḥ tadā .. jaya-śabdam prabruvantaḥ mahā-harṣa-samanvitāḥ .. 7..
संस्थाप्य मंगलघटं राजवर्त्मनि राजिते ॥ चन्दनागरुकस्तूरीफलशाखासमन्विते ॥ ८॥
संस्थाप्य मंगल-घटम् राजवर्त्मनि राजिते ॥ चन्दन-अगरु-कस्तूरी-फल-शाखा-समन्विते ॥ ८॥
saṃsthāpya maṃgala-ghaṭam rājavartmani rājite .. candana-agaru-kastūrī-phala-śākhā-samanvite .. 8..
सपुरोधोब्राह्मणैश्च मुनिभिर्ब्रह्मवादिभिः ॥ नारीभिर्नर्तकीभिश्च गजेन्द्राद्रिसुशोभितैः ॥ ९॥
स पुरोधः-ब्राह्मणैः च मुनिभिः ब्रह्म-वादिभिः ॥ नारीभिः नर्तकीभिः च गज-इन्द्र-अद्रि-सु शोभितैः ॥ ९॥
sa purodhaḥ-brāhmaṇaiḥ ca munibhiḥ brahma-vādibhiḥ .. nārībhiḥ nartakībhiḥ ca gaja-indra-adri-su śobhitaiḥ .. 9..
परितः परितो रंभास्तम्भवृन्दसमन्विते॥ पतिपुत्रवतीयोषित्समूहैर्दीपहस्तकैः ॥ 2.3.30.१ ०॥
परितस् परितस् रंभा-स्तम्भ-वृन्द-समन्विते॥ पति-पुत्रवती-योषित्-समूहैः दीप-हस्तकैः ॥ २।३।३०।१ ०॥
paritas paritas raṃbhā-stambha-vṛnda-samanvite.. pati-putravatī-yoṣit-samūhaiḥ dīpa-hastakaiḥ .. 2.3.30.1 0..
द्विजवृन्दैश्च संयुक्ते कुर्वद्भिर्मङ्गलध्वनिम् ॥ नानाप्रकारवाद्यैश्च शंखध्वनिभिरन्विते ॥ ११ ॥
द्विज-वृन्दैः च संयुक्ते कुर्वद्भिः मङ्गल-ध्वनिम् ॥ नाना प्रकार-वाद्यैः च शंख-ध्वनिभिः अन्विते ॥ ११ ॥
dvija-vṛndaiḥ ca saṃyukte kurvadbhiḥ maṅgala-dhvanim .. nānā prakāra-vādyaiḥ ca śaṃkha-dhvanibhiḥ anvite .. 11 ..
एतस्मिन्नन्तरे दुर्गा जगाम स्वपुरान्तिकम् ॥ विशंती नगरं देवी ददर्श पितरौ पुनः ॥ १२॥
एतस्मिन् अन्तरे दुर्गा जगाम स्व-पुर-अन्तिकम् ॥ विशंती नगरम् देवी ददर्श पितरौ पुनर् ॥ १२॥
etasmin antare durgā jagāma sva-pura-antikam .. viśaṃtī nagaram devī dadarśa pitarau punar .. 12..
सुप्रसन्नौ प्रधावन्तौ हर्षविह्वलमानसौ ॥ दृष्ट्वा काली सुप्रहृष्टा स्वालिभिः प्रणनाम तौ ॥ १३॥
सु प्रसन्नौ प्रधावन्तौ हर्ष-विह्वल-मानसौ ॥ दृष्ट्वा काली सु प्रहृष्टा सु आलिभिः प्रणनाम तौ ॥ १३॥
su prasannau pradhāvantau harṣa-vihvala-mānasau .. dṛṣṭvā kālī su prahṛṣṭā su ālibhiḥ praṇanāma tau .. 13..
तौ सम्पूर्णाशिषं दत्त्वा चक्रतुस्तौ स्ववक्षसि ॥ हे वत्से त्वेवमुच्चार्य रुदन्तौ प्रेमविह्वलौ ॥ १४॥
तौ सम्पूर्ण-आशिषम् दत्त्वा चक्रतुः तौ स्व-वक्षसि ॥ हे वत्से तु एवम् उच्चार्य रुदन्तौ प्रेम-विह्वलौ ॥ १४॥
tau sampūrṇa-āśiṣam dattvā cakratuḥ tau sva-vakṣasi .. he vatse tu evam uccārya rudantau prema-vihvalau .. 14..
ततस्स्वकीया अप्यस्या अन्या नार्यापि संमुदा ॥ भ्रातृस्त्रियोपि सुप्रीत्या दृढालिंगनमादधुः ॥ १५ ॥
ततस् स्वकीयाः अपि अस्याः अन्या नार्या अपि संमुदा ॥ भ्रातृ-स्त्रियः उपि सु प्रीत्या दृढ-आलिंगनम् आदधुः ॥ १५ ॥
tatas svakīyāḥ api asyāḥ anyā nāryā api saṃmudā .. bhrātṛ-striyaḥ upi su prītyā dṛḍha-āliṃganam ādadhuḥ .. 15 ..
साधितं हि त्वया सम्यक्सुकार्यं कुलतारणम् ॥ त्वत्सदाचरणेनापि पाविताः स्माखिला वयम् ॥ १६ ॥
साधितम् हि त्वया सम्यक् सु कार्यम् कुल-तारणम् ॥ त्वद्-सत्-आचरणेन अपि पाविताः स्म अखिलाः वयम् ॥ १६ ॥
sādhitam hi tvayā samyak su kāryam kula-tāraṇam .. tvad-sat-ācaraṇena api pāvitāḥ sma akhilāḥ vayam .. 16 ..
इति सर्वे सुप्रशंस्य प्रणेमुस्तां प्रहर्षिताः ॥ चन्दनैः सुप्रसूनैश्च समानर्चुश्शिवां मुदा ॥ १७ ॥
इति सर्वे सु प्रशंस्य प्रणेमुः ताम् प्रहर्षिताः ॥ चन्दनैः सुप्रसूनैः च समानर्चुः शिवाम् मुदा ॥ १७ ॥
iti sarve su praśaṃsya praṇemuḥ tām praharṣitāḥ .. candanaiḥ suprasūnaiḥ ca samānarcuḥ śivām mudā .. 17 ..
तस्मिन्नवसरे देवा विमानस्था मुदाम्बरे ॥ पुष्पवृष्टिं शुभां चक्रुर्नत्वा तां तुष्टुवुः स्तवैः ॥ १८ ॥
तस्मिन् अवसरे देवाः विमान-स्थाः मुदा अम्बरे ॥ पुष्प-वृष्टिम् शुभाम् चक्रुः नत्वा ताम् तुष्टुवुः स्तवैः ॥ १८ ॥
tasmin avasare devāḥ vimāna-sthāḥ mudā ambare .. puṣpa-vṛṣṭim śubhām cakruḥ natvā tām tuṣṭuvuḥ stavaiḥ .. 18 ..
तदा तां च रथे स्थाप्य सर्वे शोभान्विते वरे ॥ पुरं प्रवेशयामासुस्सर्वे विप्रादयो मुदा ॥ १९॥
तदा ताम् च रथे स्थाप्य सर्वे शोभा-अन्विते वरे ॥ पुरम् प्रवेशयामासुः सर्वे विप्र-आदयः मुदा ॥ १९॥
tadā tām ca rathe sthāpya sarve śobhā-anvite vare .. puram praveśayāmāsuḥ sarve vipra-ādayaḥ mudā .. 19..
अथ विप्राः पुरोधाश्च सख्योन्याश्च स्त्रियः शिवाम् ॥ गृहं प्रवेशयामासुर्बहुमानपुरस्सरम् ॥ 2.3.30.२० ॥
अथ विप्राः पुरोधाः च सख्यः अन्याः च स्त्रियः शिवाम् ॥ गृहम् प्रवेशयामासुः बहु-मान-पुरस्सरम् ॥ २।३।३०।२० ॥
atha viprāḥ purodhāḥ ca sakhyaḥ anyāḥ ca striyaḥ śivām .. gṛham praveśayāmāsuḥ bahu-māna-purassaram .. 2.3.30.20 ..
स्त्रियो निर्मच्छनं चक्रुर्विप्रा युयुजुराशिषः ॥ हिमवान्मेनका माता मुमोदाति मुनीश्वर ॥ २१ ॥
स्त्रियः चक्रुः विप्राः युयुजुः आशिषः ॥ हिमवान् मेनका माता मुमोद अति मुनि-ईश्वर ॥ २१ ॥
striyaḥ cakruḥ viprāḥ yuyujuḥ āśiṣaḥ .. himavān menakā mātā mumoda ati muni-īśvara .. 21 ..
स्वाश्रमं सफलं मेने कुपुत्रात्पुत्रिका वरा ॥ हिमवान्नारदं त्वाञ्च संस्तुवन् साधुसाध्विति ॥ २२ ॥
स्व-आश्रमम् सफलम् मेने कु पुत्रात् पुत्रिका वरा ॥ हिमवान् नारदम् त्वान् च संस्तुवन् साधु-साधु इति ॥ २२ ॥
sva-āśramam saphalam mene ku putrāt putrikā varā .. himavān nāradam tvān ca saṃstuvan sādhu-sādhu iti .. 22 ..
ब्राह्मणेभ्यश्च बंदिभ्यः पर्वतेन्द्रो धनं ददौ ॥ मङ्गलं पाठयामास स द्विजेभ्यो महोत्सवम् ॥ २३॥
ब्राह्मणेभ्यः च बंदिभ्यः पर्वत-इन्द्रः धनम् ददौ ॥ मङ्गलम् पाठयामास स द्विजेभ्यः महा-उत्सवम् ॥ २३॥
brāhmaṇebhyaḥ ca baṃdibhyaḥ parvata-indraḥ dhanam dadau .. maṅgalam pāṭhayāmāsa sa dvijebhyaḥ mahā-utsavam .. 23..
एवं स्वकन्यया हृष्टौ पितरौ भ्रातरस्तथा ॥ जामयश्च महाप्रीत्या समूषुः प्रांगणे मुने ॥ २४॥
एवम् स्व-कन्यया हृष्टौ पितरौ भ्रातरः तथा ॥ जामयः च महा-प्रीत्या समूषुः प्रांगणे मुने ॥ २४॥
evam sva-kanyayā hṛṣṭau pitarau bhrātaraḥ tathā .. jāmayaḥ ca mahā-prītyā samūṣuḥ prāṃgaṇe mune .. 24..
ततस्स हिमवान् तात सुप्रहृष्टाः प्रसन्नधीः ॥ सम्मान्य सकलान्प्रीत्या स्नातुं गंगां जगाम ह ॥ २२ ॥
ततस् स हिमवान् तात सु प्रहृष्टाः प्रसन्न-धीः ॥ सम्मान्य सकलान् प्रीत्या स्नातुम् गंगाम् जगाम ह ॥ २२ ॥
tatas sa himavān tāta su prahṛṣṭāḥ prasanna-dhīḥ .. sammānya sakalān prītyā snātum gaṃgām jagāma ha .. 22 ..
एतस्मिन्नंतरे शंभुस्सुलीलो भक्तवत्सलः ॥ सुनर्तकनटो भूत्वा मेनकासंनिधिं ययौ ॥ २६ ॥
एतस्मिन् अन्तरे शंभुः सु लीलः भक्त-वत्सलः ॥ सु नर्तक-नटः भूत्वा मेनका-संनिधिम् ययौ ॥ २६ ॥
etasmin antare śaṃbhuḥ su līlaḥ bhakta-vatsalaḥ .. su nartaka-naṭaḥ bhūtvā menakā-saṃnidhim yayau .. 26 ..
शृंगं वामे करे धृत्वा दक्षिणे डमरु तथा ॥ पृष्ठे कंथां रक्तवासा नृत्यगानविशारदः ॥ २७॥
शृंगम् वामे करे धृत्वा दक्षिणे डमरु तथा ॥ पृष्ठे कंथाम् रक्त-वासाः नृत्य-गान-विशारदः ॥ २७॥
śṛṃgam vāme kare dhṛtvā dakṣiṇe ḍamaru tathā .. pṛṣṭhe kaṃthām rakta-vāsāḥ nṛtya-gāna-viśāradaḥ .. 27..
ततस्सुनटरूपोसौ मेनकाया गणे मुदा ॥ चक्रे सुनृत्यं विविधं गानं चातिमनोहरम्॥ २८॥
ततस् सुनट-रूपा उसौ मेनकायाः गणे मुदा ॥ चक्रे सु नृत्यम् विविधम् गानम् च अति मनोहरम्॥ २८॥
tatas sunaṭa-rūpā usau menakāyāḥ gaṇe mudā .. cakre su nṛtyam vividham gānam ca ati manoharam.. 28..
शृंगं च डमरुं तत्र वादयामास सुध्वनिम् ॥ महतीं विविधां तत्र स चकार मनोहराम् ॥ २९॥
शृंगम् च डमरुम् तत्र वादयामास सु ध्वनिम् ॥ महतीम् विविधाम् तत्र स चकार मनोहराम् ॥ २९॥
śṛṃgam ca ḍamarum tatra vādayāmāsa su dhvanim .. mahatīm vividhām tatra sa cakāra manoharām .. 29..
तां द्रष्टुं नागरास्सर्वे पुरुषाश्च स्त्रियस्तथा ॥ आजग्मुस्सहसा तत्र बाला वृद्धा अपि ध्रुवम् ॥ 2.3.30.३०॥
ताम् द्रष्टुम् नागराः सर्वे पुरुषाः च स्त्रियः तथा ॥ आजग्मुः सहसा तत्र बालाः वृद्धाः अपि ध्रुवम् ॥ २।३।३०।३०॥
tām draṣṭum nāgarāḥ sarve puruṣāḥ ca striyaḥ tathā .. ājagmuḥ sahasā tatra bālāḥ vṛddhāḥ api dhruvam .. 2.3.30.30..
श्रुत्वा सुगीतं तद्दृष्ट्वा सुनृत्यं च मनोहरम् ॥ सहसा मुमुहुस्सर्वे मेनापि च तदा मुने ॥ ३॥ ।
श्रुत्वा सु गीतम् तत् दृष्ट्वा सु नृत्यम् च मनोहरम् ॥ सहसा मुमुहुः सर्वे मेना अपि च तदा मुने ॥ ३॥ ।
śrutvā su gītam tat dṛṣṭvā su nṛtyam ca manoharam .. sahasā mumuhuḥ sarve menā api ca tadā mune .. 3.. .
मूर्च्छां संप्राप्य सा दुर्गा सुदृष्ट्वा हृदि शंकरम् ॥ त्रिशूलादिकचिह्नानि बिभ्रतं चातिसुन्दरम् ॥ ३२॥
मूर्च्छाम् संप्राप्य सा दुर्गा सु दृष्ट्वा हृदि शंकरम् ॥ त्रिशूल-आदिक-चिह्नानि बिभ्रतम् च अति सुन्दरम् ॥ ३२॥
mūrcchām saṃprāpya sā durgā su dṛṣṭvā hṛdi śaṃkaram .. triśūla-ādika-cihnāni bibhratam ca ati sundaram .. 32..
विभूतिविभूषितं रम्यमस्थिमालासमन्वितम् ॥ त्रिलोचनोज्ज्वलद्वक्त्रं नागायज्ञोपवीतकम् ॥ ३३ ॥
विभूति-विभूषितम् रम्यम् अस्थि-माला-समन्वितम् ॥ ॥ ३३ ॥
vibhūti-vibhūṣitam ramyam asthi-mālā-samanvitam .. .. 33 ..
वरं वृण्वित्युक्तवन्तं गौरवर्णं महेश्वरम् ॥ दीनबन्धु दयासिन्धुं सर्वथा सुमनोहरम् ॥ ३४ ॥
वरम् वृणु इति उक्तवन्तम् गौर-वर्णम् महेश्वरम् ॥ दीन-बन्धु दया-सिन्धुम् सर्वथा सु मनोहरम् ॥ ३४ ॥
varam vṛṇu iti uktavantam gaura-varṇam maheśvaram .. dīna-bandhu dayā-sindhum sarvathā su manoharam .. 34 ..
हृदयस्थं हरं दृष्ट्वेदृशं सा प्रणनाम तम् ॥ वरं वव्रे मानसं हि पतिर्मे त्वं भवेति च ॥ ३५॥ ।
हृदय-स्थम् हरम् दृष्ट्वा ईदृशम् सा प्रणनाम तम् ॥ वरम् वव्रे मानसम् हि पतिः मे त्वम् भव इति च ॥ ३५॥ ।
hṛdaya-stham haram dṛṣṭvā īdṛśam sā praṇanāma tam .. varam vavre mānasam hi patiḥ me tvam bhava iti ca .. 35.. .
वरं दत्त्वा शिवं चाथ तादृशं प्रीतितो हृदा ॥ अन्तर्धाय पुनस्तत्र सुननर्त्त स भिक्षुकः ॥ ३६॥
वरम् दत्त्वा शिवम् च अथ तादृशम् प्रीतितः हृदा ॥ अन्तर्धाय पुनर् तत्र सुननर्त्त स भिक्षुकः ॥ ३६॥
varam dattvā śivam ca atha tādṛśam prītitaḥ hṛdā .. antardhāya punar tatra sunanartta sa bhikṣukaḥ .. 36..
ततो मेना सुरत्नानि स्वर्णपात्रस्थितानि च ॥ तस्मै दातुं ययौ प्रीत्या तद्भूति प्रीतमानसः ॥ ३७ ॥
ततस् मेना सु रत्नानि स्वर्ण-पात्र-स्थितानि च ॥ तस्मै दातुम् ययौ प्रीत्या तद्-भूति प्रीत-मानसः ॥ ३७ ॥
tatas menā su ratnāni svarṇa-pātra-sthitāni ca .. tasmai dātum yayau prītyā tad-bhūti prīta-mānasaḥ .. 37 ..
तानि न स्वीचकारासौ भिक्षां याचे शिवां च ताम् ॥ पुनस्सुनृत्यं गानश्च कौतुकात्कर्तुमुद्यतः ॥ ३८ ॥
तानि न स्वीचकार असौ भिक्षाम् याचे शिवाम् च ताम् ॥ पुनर् सु नृत्यम् गानः च कौतुकात् कर्तुम् उद्यतः ॥ ३८ ॥
tāni na svīcakāra asau bhikṣām yāce śivām ca tām .. punar su nṛtyam gānaḥ ca kautukāt kartum udyataḥ .. 38 ..
मेना तद्वचनं श्रुत्वा चुकोपाति सुविस्मिता ॥ भिक्षुकं भर्त्सयामास बहिष्कर्तुमियेष सा ॥ ३९ ॥
मेना तद्-वचनम् श्रुत्वा चुकोप अति सु विस्मिता ॥ भिक्षुकम् भर्त्सयामास बहिष्कर्तुम् इयेष सा ॥ ३९ ॥
menā tad-vacanam śrutvā cukopa ati su vismitā .. bhikṣukam bhartsayāmāsa bahiṣkartum iyeṣa sā .. 39 ..
एतस्मिन्नन्तरे तत्र गंगातो गिरिराययौ ॥ ददर्श पुरतो भिक्षुं प्रांगणस्थं नराकृतिम् ॥ 2.3.30.४० ॥
एतस्मिन् अन्तरे तत्र गंगातः गिरिः आययौ ॥ ददर्श पुरतस् भिक्षुम् प्रांगण-स्थम् नर-आकृतिम् ॥ २।३।३०।४० ॥
etasmin antare tatra gaṃgātaḥ giriḥ āyayau .. dadarśa puratas bhikṣum prāṃgaṇa-stham nara-ākṛtim .. 2.3.30.40 ..
श्रुत्वा मेनामुखाद्वृत्तं तत्सर्वं सुचुकोप सः ॥ आज्ञां चकारानुचरान्बहिष्कर्तुञ्च तं नटम् ॥ ४१ ॥
श्रुत्वा मेना-मुखात् वृत्तम् तत् सर्वम् सुचुकोप सः ॥ आज्ञाम् चकार अनुचरान् बहिष्कर्तुम् च तम् नटम् ॥ ४१ ॥
śrutvā menā-mukhāt vṛttam tat sarvam sucukopa saḥ .. ājñām cakāra anucarān bahiṣkartum ca tam naṭam .. 41 ..
महाग्निमिव दुःस्पर्शं प्रज्वलन्तं सुतेजसम् ॥ न शशाक बहिष्कर्तुं कोपि तं मुनिसत्तम॥ ४२॥
महा-अग्निम् इव दुःस्पर्शम् प्रज्वलन्तम् सु तेजसम् ॥ न शशाक बहिष्कर्तुम् कः अपि तम् मुनि-सत्तम॥ ४२॥
mahā-agnim iva duḥsparśam prajvalantam su tejasam .. na śaśāka bahiṣkartum kaḥ api tam muni-sattama.. 42..
ततस्स भिक्षुकस्तात नानालीलाविशारदः ॥ दर्शयामास शैलाय स्वप्रभावमनन्तकम् ॥ ४३ ॥
ततस् स भिक्षुकः तात नाना लीला-विशारदः ॥ दर्शयामास शैलाय स्व-प्रभावम् अनन्तकम् ॥ ४३ ॥
tatas sa bhikṣukaḥ tāta nānā līlā-viśāradaḥ .. darśayāmāsa śailāya sva-prabhāvam anantakam .. 43 ..
शैलो ददर्श तं तत्र विष्णुरूपधरं द्रुतम् ॥ किरीटिनं कुण्डलिनं पीतवस्त्रं चतुर्भुजम् ॥ ४४ ॥
शैलः ददर्श तम् तत्र विष्णु-रूप-धरम् द्रुतम् ॥ किरीटिनम् कुण्डलिनम् पीत-वस्त्रम् चतुर्-भुजम् ॥ ४४ ॥
śailaḥ dadarśa tam tatra viṣṇu-rūpa-dharam drutam .. kirīṭinam kuṇḍalinam pīta-vastram catur-bhujam .. 44 ..
यद्यत्पुष्पादिकं दत्तं पूजाकाले गदाभृते ॥ गात्रे शिरसि तत्सर्वं भिक्षुकस्य ददर्श ह ॥ ४५॥
यत् यत् पुष्प-आदिकम् दत्तम् पूजा-काले गदाभृते ॥ गात्रे शिरसि तत् सर्वम् भिक्षुकस्य ददर्श ह ॥ ४५॥
yat yat puṣpa-ādikam dattam pūjā-kāle gadābhṛte .. gātre śirasi tat sarvam bhikṣukasya dadarśa ha .. 45..
ततो ददर्श जगतां स्रष्टारं स चतुर्मुखम् ॥ रक्तवर्णं पठन्तञ्च श्रुतिसूक्तं गिरीश्वरः ॥ ४६ ॥
ततस् ददर्श जगताम् स्रष्टारम् स चतुर्मुखम् ॥ रक्त-वर्णम् पठन्तम् च श्रुति-सूक्तम् गिरि-ईश्वरः ॥ ४६ ॥
tatas dadarśa jagatām sraṣṭāram sa caturmukham .. rakta-varṇam paṭhantam ca śruti-sūktam giri-īśvaraḥ .. 46 ..
ततस्सूर्य्यस्वरूपञ्च जगच्चक्षुस्स्वरूपकम् ॥ ददर्श गिरिराजस्स क्षणं कौतुककारिणाम् ॥ ४७ ॥
ततस् सूर्य्य-स्व-रूपञ्च जगच्चक्षुः-स्व-रूपकम् ॥ ददर्श गिरिराजः स क्षणम् कौतुक-कारिणाम् ॥ ४७ ॥
tatas sūryya-sva-rūpañca jagaccakṣuḥ-sva-rūpakam .. dadarśa girirājaḥ sa kṣaṇam kautuka-kāriṇām .. 47 ..
ततो ददर्श तं तात रुद्ररूपं महाद्भुतम् ॥ पार्वती सहितं रम्यं विहसन्तं सुतेजसम् ॥ ४८॥
ततस् ददर्श तम् तात रुद्र-रूपम् महा-अद्भुतम् ॥ पार्वती सहितम् रम्यम् विहसन्तम् सु तेजसम् ॥ ४८॥
tatas dadarśa tam tāta rudra-rūpam mahā-adbhutam .. pārvatī sahitam ramyam vihasantam su tejasam .. 48..
ततस्तेजस्स्वरूपञ्च निराकारं निरंजनम् ॥ निरुपाधिं निरीहञ्च महाद्भुतमरूपकम् ॥ ४९॥
ततस् तेजः-स्वरूपम् च निराकारम् निरंजनम् ॥ निरुपाधिम् निरीहम् च महा-अद्भुतम् अरूपकम् ॥ ४९॥
tatas tejaḥ-svarūpam ca nirākāram niraṃjanam .. nirupādhim nirīham ca mahā-adbhutam arūpakam .. 49..
एवं बहूनि रूपाणि तस्य तत्र ददर्श सः ॥ सुविस्मितो बभूवाशु परमानन्दसंयुतः ॥ 2.3.30.५०॥
एवम् बहूनि रूपाणि तस्य तत्र ददर्श सः ॥ सु विस्मितः बभूव आशु परम-आनन्द-संयुतः ॥ २।३।३०।५०॥
evam bahūni rūpāṇi tasya tatra dadarśa saḥ .. su vismitaḥ babhūva āśu parama-ānanda-saṃyutaḥ .. 2.3.30.50..
अथासौ भिक्षुवर्य्यो हि तस्मात्तस्याश्च सूतिकृत् ॥ भिक्षां ययाचे दुर्गान्तां नान्यज्जग्राह किञ्चन ॥ ५१॥
अथा असौ भिक्षु-वर्य्यः हि तस्मात् तस्याः च सूतिकृत् ॥ भिक्षाम् ययाचे दुर्ग-अन्ताम् न अन्यत् जग्राह किञ्चन ॥ ५१॥
athā asau bhikṣu-varyyaḥ hi tasmāt tasyāḥ ca sūtikṛt .. bhikṣām yayāce durga-antām na anyat jagrāha kiñcana .. 51..
न स्वीचकार शैलैन्द्रो मोहितश्शिवमायया ॥ भिक्षुः किंचिन्न जग्राह तत्रैवान्तर्दधे ततः ॥ ५२ ॥
न स्वीचकार शैल-ऐन्द्रः मोहितः शिव-मायया ॥ भिक्षुः किंचिद् न जग्राह तत्र एव अन्तर्दधे ततस् ॥ ५२ ॥
na svīcakāra śaila-aindraḥ mohitaḥ śiva-māyayā .. bhikṣuḥ kiṃcid na jagrāha tatra eva antardadhe tatas .. 52 ..
तदा बभूव सुज्ञानं मेनाशैलेशयोरिति ॥ आवां शिवो वञ्चयित्वा स्वस्थानं गतवान्प्रभुः ॥ ५३ ॥
तदा बभूव सु ज्ञानम् मेना-शैलेशयोः इति ॥ आवाम् शिवः वञ्चयित्वा स्व-स्थानम् गतवान् प्रभुः ॥ ५३ ॥
tadā babhūva su jñānam menā-śaileśayoḥ iti .. āvām śivaḥ vañcayitvā sva-sthānam gatavān prabhuḥ .. 53 ..
तयोर्विचिन्त्य तत्रैव शिवे भक्तिरभूत्परा ॥ महामोक्षकरी दिव्या सर्वानन्दप्रदायिनी ॥ ५४॥
तयोः विचिन्त्य तत्र एव शिवे भक्तिः अभूत् परा ॥ महा-मोक्ष-करी दिव्या सर्व-आनन्द-प्रदायिनी ॥ ५४॥
tayoḥ vicintya tatra eva śive bhaktiḥ abhūt parā .. mahā-mokṣa-karī divyā sarva-ānanda-pradāyinī .. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे पार्वतीप्रत्यागमनमहोत्सववर्णनं नाम त्रिंशोऽध्यायः ॥ ३० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पार्वतीप्रत्यागमनमहोत्सववर्णनम् नाम त्रिंशः अध्यायः ॥ ३० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pārvatīpratyāgamanamahotsavavarṇanam nāma triṃśaḥ adhyāyaḥ .. 30 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In