| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
तयोर्भक्तिं शिवे ज्ञात्वा परामव्यभिचारिणीम् ॥ सर्वे शक्रादयो देवाश्चिचिन्तुरिति नारद ॥ १ ॥
तयोः भक्तिम् शिवे ज्ञात्वा पराम् अव्यभिचारिणीम् ॥ सर्वे शक्र-आदयः देवाः चिचिन्तुः इति नारद ॥ १ ॥
tayoḥ bhaktim śive jñātvā parām avyabhicāriṇīm .. sarve śakra-ādayaḥ devāḥ cicintuḥ iti nārada .. 1 ..
देवा ऊचुः ।।
एकान्तभक्त्या शैलश्चेत्कन्यां तस्मै प्रदास्यति ॥ ध्रुवं निर्वाणता सद्यस्स प्राप्स्यति च भारते ॥ २॥
एकान्त-भक्त्या शैलः चेद् कन्याम् तस्मै प्रदास्यति ॥ ध्रुवम् निर्वाण-ता सद्यस् स प्राप्स्यति च भारते ॥ २॥
ekānta-bhaktyā śailaḥ ced kanyām tasmai pradāsyati .. dhruvam nirvāṇa-tā sadyas sa prāpsyati ca bhārate .. 2..
अनन्तरत्नाधारश्चेत्पृथ्वी त्यक्त्वा प्रयास्यति ॥ रत्नगर्भाभिधा भूमिर्मिथ्यैव भविता ध्रुवम् ॥ ३॥
अनन्त-रत्न-आधारः चेद् पृथ्वी त्यक्त्वा प्रयास्यति ॥ रत्नगर्भ-अभिधा भूमिः मिथ्या एव भविता ध्रुवम् ॥ ३॥
ananta-ratna-ādhāraḥ ced pṛthvī tyaktvā prayāsyati .. ratnagarbha-abhidhā bhūmiḥ mithyā eva bhavitā dhruvam .. 3..
स्थावरत्वं परित्यज्य दिव्यरूपं विधाय सः ॥ कन्यां शूलभृते दत्त्वा शिवलोकं गमिष्यति॥ ४॥
स्थावर-त्वम् परित्यज्य दिव्य-रूपम् विधाय सः ॥ कन्याम् शूलभृते दत्त्वा शिव-लोकम् गमिष्यति॥ ४॥
sthāvara-tvam parityajya divya-rūpam vidhāya saḥ .. kanyām śūlabhṛte dattvā śiva-lokam gamiṣyati.. 4..
महादेवस्य सारूप्यं लप्स्यते नात्र संशयः ॥ तत्र भुक्त्वा वरान्भोगांस्ततो मोक्षमवाप्स्यति ॥ ५॥
महादेवस्य सारूप्यम् लप्स्यते न अत्र संशयः ॥ तत्र भुक्त्वा वरान् भोगान् ततस् मोक्षम् अवाप्स्यति ॥ ५॥
mahādevasya sārūpyam lapsyate na atra saṃśayaḥ .. tatra bhuktvā varān bhogān tatas mokṣam avāpsyati .. 5..
ब्रह्मोवाच ।।
इत्यालोच्य सुरास्सर्वे कृत्वा चामन्त्रणं मिथः ॥ प्रस्थापयितुमैच्छंस्ते गुरुं तत्र सुविस्मिताः ॥ ६॥
इति आलोच्य सुराः सर्वे कृत्वा च आमन्त्रणम् मिथस् ॥ प्रस्थापयितुम् ऐच्छन् ते गुरुम् तत्र सु विस्मिताः ॥ ६॥
iti ālocya surāḥ sarve kṛtvā ca āmantraṇam mithas .. prasthāpayitum aicchan te gurum tatra su vismitāḥ .. 6..
ततः शक्रादयो देवास्सर्वे गुरुनिकेतनम्॥ जग्मुः प्रीत्या सविनया नारद स्वार्थसाधकाः॥ ७॥
ततस् शक्र-आदयः देवाः सर्वे गुरु-निकेतनम्॥ जग्मुः प्रीत्या स विनयाः नारद स्व-अर्थ-साधकाः॥ ७॥
tatas śakra-ādayaḥ devāḥ sarve guru-niketanam.. jagmuḥ prītyā sa vinayāḥ nārada sva-artha-sādhakāḥ.. 7..
गत्वा तत्र गुरुं नत्वा सर्वे देवास्सवासवाः॥ चक्रुर्निवेदनं तस्मै गुरवे वृत्तमादरात्॥ ८॥ ।
गत्वा तत्र गुरुम् नत्वा सर्वे देवाः स वासवाः॥ चक्रुः निवेदनम् तस्मै गुरवे वृत्तम् आदरात्॥ ८॥ ।
gatvā tatra gurum natvā sarve devāḥ sa vāsavāḥ.. cakruḥ nivedanam tasmai gurave vṛttam ādarāt.. 8.. .
।। देवा ऊचुः ।।
गुरो हिमालयगृहं गच्छास्मत्कार्य्यसिद्धये ॥ तत्र गत्वा प्रयत्नेन कुरु निन्दाञ्च शूलिनः ॥ ९॥
गुरोः हिमालय-गृहम् गच्छ अस्मद्-कार्य्य-सिद्धये ॥ तत्र गत्वा प्रयत्नेन कुरु निन्दाम् च शूलिनः ॥ ९॥
guroḥ himālaya-gṛham gaccha asmad-kāryya-siddhaye .. tatra gatvā prayatnena kuru nindām ca śūlinaḥ .. 9..
पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति ॥ अनिच्छया सुतां दत्त्वा फलं तूर्णं लभिष्यति ॥ 2.3.31.१०॥
पिनाकिना विना दुर्गा वरम् न अन्यम् वरिष्यति ॥ अनिच्छया सुताम् दत्त्वा फलम् तूर्णम् लभिष्यति ॥ २।३।३१।१०॥
pinākinā vinā durgā varam na anyam variṣyati .. anicchayā sutām dattvā phalam tūrṇam labhiṣyati .. 2.3.31.10..
कालेनैवाधुना शैल इदानीं भुवि तिष्ठतु॥ अनेकरत्नाधारं तं स्थापय त्वं क्षितौ गुरौ ॥ ११॥
कालेन एव अधुना शैलः इदानीम् भुवि तिष्ठतु॥ अनेक-रत्न-आधारम् तम् स्थापय त्वम् क्षितौ गुरौ ॥ ११॥
kālena eva adhunā śailaḥ idānīm bhuvi tiṣṭhatu.. aneka-ratna-ādhāram tam sthāpaya tvam kṣitau gurau .. 11..
।। ब्रह्मोवाच ।।
इति देववचः श्रुत्वा प्रददौ कर्णयोः करम् ॥ न स्वीचकार स गुरुस्स्मरन्नाम शिवेति च ॥ १२॥
इति देव-वचः श्रुत्वा प्रददौ कर्णयोः करम् ॥ न स्वीचकार स गुरुः स्मरन् नाम शिव इति च ॥ १२॥
iti deva-vacaḥ śrutvā pradadau karṇayoḥ karam .. na svīcakāra sa guruḥ smaran nāma śiva iti ca .. 12..
अथ स्मृत्वा महादेवं बृहस्पतिरुदारधीः॥ उवाच देववर्यांश्च धिक्कृत्वा च पुनः पुनः ॥ १३॥
अथ स्मृत्वा महादेवम् बृहस्पतिः उदार-धीः॥ उवाच देव-वर्यान् च धिक्कृत्वा च पुनर् पुनर् ॥ १३॥
atha smṛtvā mahādevam bṛhaspatiḥ udāra-dhīḥ.. uvāca deva-varyān ca dhikkṛtvā ca punar punar .. 13..
बृहस्पतिरुवाच ।।
सर्वे देवास्स्वार्थपराः परार्थध्वंसकारकाः ॥ कृत्वा शंकरनिंदा हि यास्यामि नरकं ध्रुवम् ॥ १४ ॥
सर्वे देवाः स्व-अर्थ-पराः पर-अर्थ-ध्वंस-कारकाः ॥ कृत्वा शंकर-निंदा हि यास्यामि नरकम् ध्रुवम् ॥ १४ ॥
sarve devāḥ sva-artha-parāḥ para-artha-dhvaṃsa-kārakāḥ .. kṛtvā śaṃkara-niṃdā hi yāsyāmi narakam dhruvam .. 14 ..
कश्चिन्मध्ये च युष्माकं गच्छेच्छैलान्तिकं सुराः ॥ संपादयेत्स्वाभिमतं शैलेन्द्रं प्रतिबोध्य च ॥ १५॥
कश्चिद् मध्ये च युष्माकम् गच्छेत् शैल-अन्तिकम् सुराः ॥ संपादयेत् स्व-अभिमतम् शैलेन्द्रम् प्रतिबोध्य च ॥ १५॥
kaścid madhye ca yuṣmākam gacchet śaila-antikam surāḥ .. saṃpādayet sva-abhimatam śailendram pratibodhya ca .. 15..
अनिच्छया सुतां दत्त्वा सुखं तिष्ठतु भारते ॥ तस्मै भक्त्या सुतां दत्त्वा मोक्षं प्राप्स्यति निश्चितम्॥ १६॥
अनिच्छया सुताम् दत्त्वा सुखम् तिष्ठतु भारते ॥ तस्मै भक्त्या सुताम् दत्त्वा मोक्षम् प्राप्स्यति निश्चितम्॥ १६॥
anicchayā sutām dattvā sukham tiṣṭhatu bhārate .. tasmai bhaktyā sutām dattvā mokṣam prāpsyati niścitam.. 16..
पश्चात्सप्तर्षयस्सर्वे बोधयिष्यन्ति पर्वतम् ॥ पिनाकिना विना दुर्गा वरं नान्यं वरिष्यति॥ १७॥
पश्चात् सप्तर्षयः सर्वे बोधयिष्यन्ति पर्वतम् ॥ पिनाकिना विना दुर्गा वरम् न अन्यम् वरिष्यति॥ १७॥
paścāt saptarṣayaḥ sarve bodhayiṣyanti parvatam .. pinākinā vinā durgā varam na anyam variṣyati.. 17..
अथवा गच्छत सुरा ब्रह्मलोकं सवासवाः ॥ वृत्तं कथयत स्वं तत्स वः कार्यं करिष्यति ॥ १८॥
अथवा गच्छत सुराः ब्रह्म-लोकम् स वासवाः ॥ वृत्तम् कथयत स्वम् तत् स वः कार्यम् करिष्यति ॥ १८॥
athavā gacchata surāḥ brahma-lokam sa vāsavāḥ .. vṛttam kathayata svam tat sa vaḥ kāryam kariṣyati .. 18..
ब्रह्मोवाच ।।
तच्छ्रुत्वा ते समालोच्याजग्मुर्मम सभां सुराः ॥ सर्वे निवेदयांचक्रुर्नत्वा तद्गतमादरात् ॥ १९॥
तत् श्रुत्वा ते समालोच्य आजग्मुः मम सभाम् सुराः ॥ सर्वे निवेदयांचक्रुः नत्वा तद्-गतम् आदरात् ॥ १९॥
tat śrutvā te samālocya ājagmuḥ mama sabhām surāḥ .. sarve nivedayāṃcakruḥ natvā tad-gatam ādarāt .. 19..
देवानां तद्वचः श्रुत्वा शिवनिन्दाकरं तदा ॥ वेदवक्ता विलप्याहं तानवोचं सुरान्मुने ॥ 2.3.31.२० ॥
देवानाम् तत् वचः श्रुत्वा शिव-निन्दा-करम् तदा ॥ वेद-वक्ता विलप्य अहम् तान् अवोचम् सुरान् मुने ॥ २।३।३१।२० ॥
devānām tat vacaḥ śrutvā śiva-nindā-karam tadā .. veda-vaktā vilapya aham tān avocam surān mune .. 2.3.31.20 ..
ब्रह्मोवाच ।।
नाहं कर्तुं क्षमो वत्साः शिवनिन्दां सुदुस्सहाम् ॥ संपद्विनाश रूपाञ्च विपदां बीजरूपिणीम् ॥ २१ ॥
न अहम् कर्तुम् क्षमः वत्साः शिव-निन्दाम् सु दुस्सहाम् ॥ संपद्-विनाश रूपान् च विपदाम् बीज-रूपिणीम् ॥ २१ ॥
na aham kartum kṣamaḥ vatsāḥ śiva-nindām su dussahām .. saṃpad-vināśa rūpān ca vipadām bīja-rūpiṇīm .. 21 ..
सुरा गच्छत कैलासं सन्तोषयत शंकरम् ॥ प्रस्थापयत तं शीघ्रं हिमालयगृहं प्रति॥ २२॥
सुराः गच्छत कैलासम् सन्तोषयत शंकरम् ॥ प्रस्थापयत तम् शीघ्रम् हिमालय-गृहम् प्रति॥ २२॥
surāḥ gacchata kailāsam santoṣayata śaṃkaram .. prasthāpayata tam śīghram himālaya-gṛham prati.. 22..
स गच्छेदुपशैलेशमात्मनिन्दां करोतु वै ॥ परनिन्दाविनाशाय स्वनिन्दा यशसे मता ॥ २३ ॥
स गच्छेत् उपशैलेशम् आत्म-निन्दाम् करोतु वै ॥ पर-निन्दा-विनाशाय स्व-निन्दा यशसे मता ॥ २३ ॥
sa gacchet upaśaileśam ātma-nindām karotu vai .. para-nindā-vināśāya sva-nindā yaśase matā .. 23 ..
ब्रह्मोवाच ।।
श्रुत्वेति मद्वचो देवा मां प्रणम्य मुदा च ते ॥ कैलासं प्रययुः शीघ्रं शैलानामधिपं गिरिम्।२४॥
श्रुत्वा इति मद्-वचः देवाः माम् प्रणम्य मुदा च ते ॥ कैलासम् प्रययुः शीघ्रम् शैलानाम् अधिपम् गिरिम्।२४॥
śrutvā iti mad-vacaḥ devāḥ mām praṇamya mudā ca te .. kailāsam prayayuḥ śīghram śailānām adhipam girim.24..
तत्र गत्वा शिवं दृष्ट्वा प्रणम्य नतमस्तकाः॥ सुकृतांजलयस्सर्वे तुष्टुवुस्तं सुरा हरम् ॥ २५॥
तत्र गत्वा शिवम् दृष्ट्वा प्रणम्य नत-मस्तकाः॥ सुकृत-अंजलयः सर्वे तुष्टुवुः तम् सुराः हरम् ॥ २५॥
tatra gatvā śivam dṛṣṭvā praṇamya nata-mastakāḥ.. sukṛta-aṃjalayaḥ sarve tuṣṭuvuḥ tam surāḥ haram .. 25..
।। देवा ऊचुः ।।
देवदेव महादेव करुणाकर शंकर ॥ वयं त्वां शरणापन्नाः कृपां कुरु नमोऽस्तु ते ॥ २६॥
देवदेव महादेव करुणाकर शंकर ॥ वयम् त्वाम् शरण-आपन्नाः कृपाम् कुरु नमः अस्तु ते ॥ २६॥
devadeva mahādeva karuṇākara śaṃkara .. vayam tvām śaraṇa-āpannāḥ kṛpām kuru namaḥ astu te .. 26..
त्वं भक्तवत्सलः स्वामिन्भक्तकार्यकरस्सदा ॥ दीनोद्धरः कृपासिन्धुर्भक्तापद्विनिमोचकः॥ २७॥
त्वम् भक्त-वत्सलः स्वामिन् भक्त-कार्य-करः सदा ॥ ॥ २७॥
tvam bhakta-vatsalaḥ svāmin bhakta-kārya-karaḥ sadā .. .. 27..
।। ब्रह्मोवाच।।
इति स्तुत्वा महेशानं सर्वे देवास्सवासवाः ॥ सर्वं निवेदयांचक्रुस्तद्वृत्तं तत आदरात् ॥ २८॥
इति स्तुत्वा महेशानम् सर्वे देवाः स वासवाः ॥ सर्वम् निवेदयांचक्रुः तत् वृत्तम् ततस् आदरात् ॥ २८॥
iti stutvā maheśānam sarve devāḥ sa vāsavāḥ .. sarvam nivedayāṃcakruḥ tat vṛttam tatas ādarāt .. 28..
तच्छ्रुत्वा देववचनं स्वीचकार महेश्वरः ॥ देवान् सुयापयामास तानाश्वास्य विहस्य सः ॥ २९॥
तत् श्रुत्वा देव-वचनम् स्वीचकार महेश्वरः ॥ देवान् तान् आश्वास्य विहस्य सः ॥ २९॥
tat śrutvā deva-vacanam svīcakāra maheśvaraḥ .. devān tān āśvāsya vihasya saḥ .. 29..
देवा मुमुदिरे सर्वे शीघ्रं गत्वा स्वमंदिरम्॥ सिद्धं मत्वा स्वकार्य्यं हि प्रशंसन्तस्सदाशिवम् ॥ 2.3.31.३० ॥
देवाः मुमुदिरे सर्वे शीघ्रम् गत्वा स्व-मंदिरम्॥ सिद्धम् मत्वा स्व-कार्य्यम् हि प्रशंसन्तः सदाशिवम् ॥ २।३।३१।३० ॥
devāḥ mumudire sarve śīghram gatvā sva-maṃdiram.. siddham matvā sva-kāryyam hi praśaṃsantaḥ sadāśivam .. 2.3.31.30 ..
ततः स भगवाञ्छम्भुर्महेशो भक्तवत्सलः ॥ प्रययौ शैलभूपञ्च मायेशो निर्विकारवान् ॥ ३१॥
ततस् स भगवान् शम्भुः महेशः भक्त-वत्सलः ॥ प्रययौ शैल-भूपः च माया-ईशः निर्विकारवान् ॥ ३१॥
tatas sa bhagavān śambhuḥ maheśaḥ bhakta-vatsalaḥ .. prayayau śaila-bhūpaḥ ca māyā-īśaḥ nirvikāravān .. 31..
यदा शैलस्सभामध्ये समुवास मुदान्वितः ॥ बन्धुवर्गैः परिवृतः पार्वतीसहितस्स्वयम् ॥ ३२ ॥
यदा शैलः सभा-मध्ये समुवास मुदा अन्वितः ॥ बन्धु-वर्गैः परिवृतः पार्वती-सहितः स्वयम् ॥ ३२ ॥
yadā śailaḥ sabhā-madhye samuvāsa mudā anvitaḥ .. bandhu-vargaiḥ parivṛtaḥ pārvatī-sahitaḥ svayam .. 32 ..
एतस्मिन्नन्तरे तत्र ह्याजगाम सदाशिवः ॥ दण्डी छत्री दिव्यवासा बिभ्रत्तिलकमुज्ज्वलम् ॥ ३३॥
एतस्मिन् अन्तरे तत्र हि आजगाम सदाशिवः ॥ दण्डी छत्री दिव्य-वासाः बिभ्रत् तिलकम् उज्ज्वलम् ॥ ३३॥
etasmin antare tatra hi ājagāma sadāśivaḥ .. daṇḍī chatrī divya-vāsāḥ bibhrat tilakam ujjvalam .. 33..
करे स्फटिकमालाञ्च शालग्रामं गले दधत् ॥ जपन्नाम हरेर्भक्त्या साधुवेषधरौ द्विजः ॥ ३४॥
करे स्फटिक-मालान् च शालग्रामम् गले दधत् ॥ जपन् नाम हरेः भक्त्या साधु-वेष-धरौ द्विजः ॥ ३४॥
kare sphaṭika-mālān ca śālagrāmam gale dadhat .. japan nāma hareḥ bhaktyā sādhu-veṣa-dharau dvijaḥ .. 34..
तं च दृष्ट्वा समुत्तस्थौ सगणोऽपि हिमालयः ॥ ननाम दण्डवद्भूमौ भक्त्यातिथिमपूर्वकम् ॥ ३५॥
तम् च दृष्ट्वा समुत्तस्थौ स गणः अपि हिमालयः ॥ ननाम दण्ड-वत् भूमौ भक्त्या अतिथिम् अपूर्वकम् ॥ ३५॥
tam ca dṛṣṭvā samuttasthau sa gaṇaḥ api himālayaḥ .. nanāma daṇḍa-vat bhūmau bhaktyā atithim apūrvakam .. 35..
ननाम पार्वती भक्त्या प्राणेशं विप्ररूपिणम्॥ ज्ञात्वा तं मनसा देवी तुष्टाव परया मुदा॥ ३६॥
ननाम पार्वती भक्त्या प्राणेशम् विप्र-रूपिणम्॥ ज्ञात्वा तम् मनसा देवी तुष्टाव परया मुदा॥ ३६॥
nanāma pārvatī bhaktyā prāṇeśam vipra-rūpiṇam.. jñātvā tam manasā devī tuṣṭāva parayā mudā.. 36..
आशिषं युयुजे विप्रस्सर्वेषां प्रीतितश्शिवः॥ शिवाया अधिकं तात मनोभिलषितं हृदा ॥ ३७॥
आशिषम् युयुजे विप्रः सर्वेषाम् प्रीतितः शिवः॥ शिवायाः अधिकम् तात मनः-भिलषितम् हृदा ॥ ३७॥
āśiṣam yuyuje vipraḥ sarveṣām prītitaḥ śivaḥ.. śivāyāḥ adhikam tāta manaḥ-bhilaṣitam hṛdā .. 37..
मधुपर्कादिकं सर्वं जग्राह ब्राह्मणो मुदा ॥ दत्तं शैलाधिराजेन हिमांगेन महादरात् ॥ ३८॥
मधुपर्क-आदिकम् सर्वम् जग्राह ब्राह्मणः मुदा ॥ दत्तम् शैल-अधिराजेन हिमांगेन महा-आदरात् ॥ ३८॥
madhuparka-ādikam sarvam jagrāha brāhmaṇaḥ mudā .. dattam śaila-adhirājena himāṃgena mahā-ādarāt .. 38..
पप्रच्छ कुशलं चास्य हिमाद्रिः पर्वतोत्तमः॥ तं द्विजेन्द्रं महाप्रीत्या सम्पूज्य विधिवन्मुने॥ ३९॥
पप्रच्छ कुशलम् च अस्य हिमाद्रिः पर्वत-उत्तमः॥ तम् द्विजेन्द्रम् महा-प्रीत्या सम्पूज्य विधिवत् मुने॥ ३९॥
papraccha kuśalam ca asya himādriḥ parvata-uttamaḥ.. tam dvijendram mahā-prītyā sampūjya vidhivat mune.. 39..
पुनः पप्रच्छ शैलेशस्तं ततः को भवानिति ॥ उवाच शीघ्रं विप्रेन्द्रो गिरीद्रं सादरं वचः॥ 2.3.31.४०॥
पुनर् पप्रच्छ शैलेशः तम् ततस् कः भवान् इति ॥ उवाच शीघ्रम् विप्र-इन्द्रः गिरीद्रम् स आदरम् वचः॥ २।३।३१।४०॥
punar papraccha śaileśaḥ tam tatas kaḥ bhavān iti .. uvāca śīghram vipra-indraḥ girīdram sa ādaram vacaḥ.. 2.3.31.40..
विप्रेन्द्र उवाच ।।
ब्राह्मणोऽहं गिरिश्रेष्ठ वैष्णवो बुधसत्तमः ॥ घटिकीं वृतिमाश्रित्य भ्रमामि धरणीतले ॥ ४१॥
ब्राह्मणः अहम् गिरि-श्रेष्ठ वैष्णवः बुध-सत्तमः ॥ घटिकीम् वृतिम् आश्रित्य भ्रमामि धरणी-तले ॥ ४१॥
brāhmaṇaḥ aham giri-śreṣṭha vaiṣṇavaḥ budha-sattamaḥ .. ghaṭikīm vṛtim āśritya bhramāmi dharaṇī-tale .. 41..
मनोयायी सर्व गामी सर्वज्ञोहं गुरोर्बलात् ॥ परोपकारी शुद्धात्मा दयासिन्धुर्विकारहा ॥ ४२॥
मनः-यायी सर्व-गामी सर्वज्ञः अहम् गुरोः बलात् ॥ पर-उपकारी शुद्ध-आत्मा दया-सिन्धुः विकार-हा ॥ ४२॥
manaḥ-yāyī sarva-gāmī sarvajñaḥ aham guroḥ balāt .. para-upakārī śuddha-ātmā dayā-sindhuḥ vikāra-hā .. 42..
मया ज्ञातं हराय त्वं स्वसुतां दातुमिच्छसि॥ इमां पद्मसमां दिव्यां वररूपां सुलक्षणाम् ॥ ४३॥
मया ज्ञातम् हराय त्वम् स्व-सुताम् दातुम् इच्छसि॥ इमाम् पद्म-समाम् दिव्याम् वर-रूपाम् सु लक्षणाम् ॥ ४३॥
mayā jñātam harāya tvam sva-sutām dātum icchasi.. imām padma-samām divyām vara-rūpām su lakṣaṇām .. 43..
निराश्रयायासंगाय कुरूपायागुणाय च ॥ श्मशानवासिने व्यालग्राहिरूपाय योगिने ॥ ४४॥
निराश्रयाय असंगाय कु रूपाय अगुणाय च ॥ श्मशान-वासिने व्याल-ग्राहि-रूपाय योगिने ॥ ४४॥
nirāśrayāya asaṃgāya ku rūpāya aguṇāya ca .. śmaśāna-vāsine vyāla-grāhi-rūpāya yogine .. 44..
दिग्वाससे कुगात्राय व्यालभूषणधारिणे ॥ अज्ञातकुलनाम्ने च कुशीलायाविहारिणे ॥ ४५॥
दिग्वाससे कु गात्राय व्याल-भूषण-धारिणे ॥ अज्ञात-कुल-नाम्ने च कुशीलाय अ विहारिणे ॥ ४५॥
digvāsase ku gātrāya vyāla-bhūṣaṇa-dhāriṇe .. ajñāta-kula-nāmne ca kuśīlāya a vihāriṇe .. 45..
विभूतिदिग्धदेहाय संक्रुद्धायाविवेकिने ॥ अज्ञातवयसेऽतीव कुजटाधारिणे सदा ॥ ४६ ॥
विभूति-दिग्ध-देहाय संक्रुद्धाय अविवेकिने ॥ अज्ञात-वयसे अतीव कुजटा-धारिणे सदा ॥ ४६ ॥
vibhūti-digdha-dehāya saṃkruddhāya avivekine .. ajñāta-vayase atīva kujaṭā-dhāriṇe sadā .. 46 ..
सर्वाश्रयाय भ्रमिणे नागहाराय भिक्षवेकुमार्गनिरतायाथ वेदाऽध्वत्यागिने हठात् ॥ ४७ ॥
सर्व-आश्रयाय भ्रमिणे नागहाराय वेद-अध्व-त्यागिने हठात् ॥ ४७ ॥
sarva-āśrayāya bhramiṇe nāgahārāya veda-adhva-tyāgine haṭhāt .. 47 ..
इयं ते बुद्धिरचल न हि मंगलदा खलु ॥ विबोध ज्ञानिनां श्रेष्ठ नारायणकुलोद्भव ॥ ४८ ॥
इयम् ते बुद्धिः अचल न हि मंगल-दा खलु ॥ विबोध ज्ञानिनाम् श्रेष्ठ नारायण-कुल-उद्भव ॥ ४८ ॥
iyam te buddhiḥ acala na hi maṃgala-dā khalu .. vibodha jñāninām śreṣṭha nārāyaṇa-kula-udbhava .. 48 ..
न ते पात्रानुरूपश्च पार्वतीदानकर्मणि ॥ महाजनः स्मेरमुखः श्रुतमात्राद्भविष्यति ॥ ४९ ॥
न ते पात्र-अनुरूपः च पार्वती-दान-कर्मणि ॥ महाजनः स्मेर-मुखः श्रुत-मात्रात् भविष्यति ॥ ४९ ॥
na te pātra-anurūpaḥ ca pārvatī-dāna-karmaṇi .. mahājanaḥ smera-mukhaḥ śruta-mātrāt bhaviṣyati .. 49 ..
पश्य शैलाधिप त्वं च न तस्यैकोस्ति बान्धवः ॥ महारत्नाकरस्त्वञ्च तस्य किञ्चिद्धनं न हि ॥ 2.3.31.५० ॥
पश्य शैल-अधिप त्वम् च न तस्य एकः अस्ति बान्धवः ॥ महा-रत्न-आकरः त्वम् च तस्य किञ्चिद् धनम् न हि ॥ २।३।३१।५० ॥
paśya śaila-adhipa tvam ca na tasya ekaḥ asti bāndhavaḥ .. mahā-ratna-ākaraḥ tvam ca tasya kiñcid dhanam na hi .. 2.3.31.50 ..
बान्धवान्मेनकां कुध्रपते शीघ्रं सुतांस्तथा ॥ सर्वान्पृच्छ प्रयत्नेन पण्डितान्पार्वती विना ॥ ५१ ॥
बान्धवान् मेनकाम् कुध्र-पते शीघ्रम् सुतान् तथा ॥ सर्वान् पृच्छ प्रयत्नेन पण्डितान् पार्वती विना ॥ ५१ ॥
bāndhavān menakām kudhra-pate śīghram sutān tathā .. sarvān pṛccha prayatnena paṇḍitān pārvatī vinā .. 51 ..
रोगिणो नौषधं शश्वद्रोचते गिरिसत्तम ॥ कुपथ्यं रोचतेऽभीक्ष्णं महादोषकरं सदा ॥ ५२॥
रोगिणः ना औषधम् शश्वत् रोचते गिरि-सत्तम ॥ कुपथ्यम् रोचते अभीक्ष्णम् महा-दोष-करम् सदा ॥ ५२॥
rogiṇaḥ nā auṣadham śaśvat rocate giri-sattama .. kupathyam rocate abhīkṣṇam mahā-doṣa-karam sadā .. 52..
ब्रह्मोवाच ।।
इत्युक्त्वा ब्राह्मणः शीघ्रं स वै भुक्त्वा मुदान्वितः ॥ जगाम स्वालयं शान्तो नानालीलाकर श्शिवः ॥ ५३॥
इति उक्त्वा ब्राह्मणः शीघ्रम् स वै भुक्त्वा मुदा अन्वितः ॥ जगाम स्व-आलयम् शान्तः नाना लीला-कर श्शिवः ॥ ५३॥
iti uktvā brāhmaṇaḥ śīghram sa vai bhuktvā mudā anvitaḥ .. jagāma sva-ālayam śāntaḥ nānā līlā-kara śśivaḥ .. 53..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवमायावर्णनं नामैकत्रिंशोऽध्यायः ॥ ३१॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवमायावर्णनम् नाम एकत्रिंशः अध्यायः ॥ ३१॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivamāyāvarṇanam nāma ekatriṃśaḥ adhyāyaḥ .. 31..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In