| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
ब्राह्मणस्य वचः श्रुत्वा मेनोवाच हिमालयम् ॥ शोकेनासाधुनयना हृदयेन विदूयता ॥ १ ॥
ब्राह्मणस्य वचः श्रुत्वा मेना उवाच हिमालयम् ॥ शोकेन असाधु-नयना हृदयेन विदूयता ॥ १ ॥
brāhmaṇasya vacaḥ śrutvā menā uvāca himālayam .. śokena asādhu-nayanā hṛdayena vidūyatā .. 1 ..
मेनोवाच ।।
शृणु शैलेन्द्र मद्वाक्यं परिणामे सुखावहम् ॥ पृच्छ शैववरान्सर्वान्किमुक्तं ब्राह्मणेन ह ॥ २ ॥
शृणु शैलेन्द्र मद्-वाक्यम् परिणामे सुख-आवहम् ॥ पृच्छ शैव-वरान् सर्वान् किम् उक्तम् ब्राह्मणेन ह ॥ २ ॥
śṛṇu śailendra mad-vākyam pariṇāme sukha-āvaham .. pṛccha śaiva-varān sarvān kim uktam brāhmaṇena ha .. 2 ..
निन्दानेन कृता शम्भोर्वैष्णवेन द्विजन्मना ॥ श्रुत्वा तां मे मनोऽतीव निर्विण्णं हि नगेश्वर ॥ ३॥
निन्दा अनेन कृता शम्भोः वैष्णवेन द्विजन्मना ॥ श्रुत्वा ताम् मे मनः अतीव निर्विण्णम् हि नग-ईश्वर ॥ ३॥
nindā anena kṛtā śambhoḥ vaiṣṇavena dvijanmanā .. śrutvā tām me manaḥ atīva nirviṇṇam hi naga-īśvara .. 3..
तस्मै रुद्राय शैलेश न दास्यामि सुतामहम् ॥ कुरूपशीलनम्मे हि सुलक्षणयुतां निजाम् ॥ ४ ॥
तस्मै रुद्राय शैलेश न दास्यामि सुताम् अहम् ॥ हि सु लक्षण-युताम् निजाम् ॥ ४ ॥
tasmai rudrāya śaileśa na dāsyāmi sutām aham .. hi su lakṣaṇa-yutām nijām .. 4 ..
न मन्यसे वचो चेन्मे मरिष्यामि न संशयः ॥ त्यक्ष्यामि च गृहं सद्यो भक्षयिष्यामि वा विषम् ॥ ५॥
न मन्यसे वचः चेद् मे मरिष्यामि न संशयः ॥ त्यक्ष्यामि च गृहम् सद्यस् भक्षयिष्यामि वा विषम् ॥ ५॥
na manyase vacaḥ ced me mariṣyāmi na saṃśayaḥ .. tyakṣyāmi ca gṛham sadyas bhakṣayiṣyāmi vā viṣam .. 5..
गले बद्ध्वांबिकां रज्ज्वा यास्यामि गहनं वनम् ॥ महाम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ॥ ६॥
गले बद्ध्वा अंबिकाम् रज्ज्वा यास्यामि गहनम् वनम् ॥ महा-अम्बुधौ मज्जयिष्ये तस्मै दास्यामि नो सुताम् ॥ ६॥
gale baddhvā aṃbikām rajjvā yāsyāmi gahanam vanam .. mahā-ambudhau majjayiṣye tasmai dāsyāmi no sutām .. 6..
इत्युक्त्वाशु तथा गत्वा मेना कोपालयं शुचा ॥ त्यक्त्वा हारं रुदन्ती सा चकार शयनं भुवि ॥ ७ ॥
इति उक्त्वा आशु तथा गत्वा मेना कोप-आलयम् शुचा ॥ त्यक्त्वा हारम् रुदन्ती सा चकार शयनम् भुवि ॥ ७ ॥
iti uktvā āśu tathā gatvā menā kopa-ālayam śucā .. tyaktvā hāram rudantī sā cakāra śayanam bhuvi .. 7 ..
एतस्मिन्नन्तरे तात शम्भुना सप्त एव ते ॥ संस्मृता ऋषयस्सद्यो विरहव्याकुलात्मना ॥ ८॥
एतस्मिन् अन्तरे तात शम्भुना सप्त एव ते ॥ संस्मृताः ऋषयः सद्यस् विरह-व्याकुल-आत्मना ॥ ८॥
etasmin antare tāta śambhunā sapta eva te .. saṃsmṛtāḥ ṛṣayaḥ sadyas viraha-vyākula-ātmanā .. 8..
ऋषयश्चैव ते सर्वे शम्भुना संस्मृता यदा ॥ तदाऽऽजग्मुः स्वयं सद्यः कल्पवृक्षा इवापरे ॥ ९ ॥
ऋषयः च एव ते सर्वे शम्भुना संस्मृताः यदा ॥ तदा आजग्मुः स्वयम् सद्यस् कल्पवृक्षाः इव अपरे ॥ ९ ॥
ṛṣayaḥ ca eva te sarve śambhunā saṃsmṛtāḥ yadā .. tadā ājagmuḥ svayam sadyas kalpavṛkṣāḥ iva apare .. 9 ..
अरुन्धती तथाऽऽयाता साक्षात्सिद्धिरिवापरा ॥ तान्द्रष्ट्वा सूर्यसंकाशान्विजहौ स्वजपं हरः ॥ 2.3.32.१० ॥
अरुन्धती तथा आयाता साक्षात् सिद्धिः इव अपरा ॥ तान् द्रष्ट्वा सूर्य-संकाशान् विजहौ स्व-जपम् हरः ॥ २।३।३२।१० ॥
arundhatī tathā āyātā sākṣāt siddhiḥ iva aparā .. tān draṣṭvā sūrya-saṃkāśān vijahau sva-japam haraḥ .. 2.3.32.10 ..
स्थित्वाग्रे ऋषयः श्रेष्ठं नत्वा स्तुत्वा शिवं मुने ॥ मेनिरे च तदात्मानं कृतार्थं ते तपस्विनः ॥ ११ ॥
स्थित्वा अग्रे ऋषयः श्रेष्ठम् नत्वा स्तुत्वा शिवम् मुने ॥ मेनिरे च तदा आत्मानम् कृतार्थम् ते तपस्विनः ॥ ११ ॥
sthitvā agre ṛṣayaḥ śreṣṭham natvā stutvā śivam mune .. menire ca tadā ātmānam kṛtārtham te tapasvinaḥ .. 11 ..
ततो विस्मयमापन्ना नम स्कृत्य स्थिताः पुनः ॥ प्रोचुः प्राञ्जलयस्ते वै शिवं लोकनमस्कृतम् ॥ १२ ॥
ततस् विस्मयम् आपन्नाः नमः स्कृत्य स्थिताः पुनर् ॥ प्रोचुः प्राञ्जलयः ते वै शिवम् लोक-नमस्कृतम् ॥ १२ ॥
tatas vismayam āpannāḥ namaḥ skṛtya sthitāḥ punar .. procuḥ prāñjalayaḥ te vai śivam loka-namaskṛtam .. 12 ..
ऋषय ऊचुः ।।
सर्वोत्कृष्टं महाराज सार्वभौम दिवौकसाम् ॥ स्वभाग्यं वर्ण्यतेऽस्माभिः किं पुनस्सकलोत्तमम् ॥ १३॥
सर्व-उत्कृष्टम् महा-राज सार्वभौम दिवौकसाम् ॥ स्वभाग्यम् वर्ण्यते अस्माभिः किम् पुनर् सकल-उत्तमम् ॥ १३॥
sarva-utkṛṣṭam mahā-rāja sārvabhauma divaukasām .. svabhāgyam varṇyate asmābhiḥ kim punar sakala-uttamam .. 13..
तपस्तप्तं त्रिधा पूर्वं वेदाध्ययनमुत्तमम् ॥ अग्नयश्च हुताः पूर्वं तीर्थानि विविधानि च ॥ १४॥
तपः तप्तम् त्रिधा पूर्वम् वेद-अध्ययनम् उत्तमम् ॥ अग्नयः च हुताः पूर्वम् तीर्थानि विविधानि च ॥ १४॥
tapaḥ taptam tridhā pūrvam veda-adhyayanam uttamam .. agnayaḥ ca hutāḥ pūrvam tīrthāni vividhāni ca .. 14..
वाङ्मनःकायजं किंचित्पुण्यं स्मरणसम्भवम् ॥ तत्सर्वं संगतं चाद्य स्मरणानुग्रहात्तव॥ १५॥
वाच्-मनः-काय-जम् किंचिद् पुण्यम् स्मरण-सम्भवम् ॥ तत् सर्वम् संगतम् च अद्य स्मरण-अनुग्रहात् तव॥ १५॥
vāc-manaḥ-kāya-jam kiṃcid puṇyam smaraṇa-sambhavam .. tat sarvam saṃgatam ca adya smaraṇa-anugrahāt tava.. 15..
यो वै भजति नित्यं त्वां कृतकृत्यो भवेन्नरः ॥ किं पुण्यं वर्ण्यते तेषां येषां च स्मरणं तव ॥ १६॥
यः वै भजति नित्यम् त्वाम् कृतकृत्यः भवेत् नरः ॥ किम् पुण्यम् वर्ण्यते तेषाम् येषाम् च स्मरणम् तव ॥ १६॥
yaḥ vai bhajati nityam tvām kṛtakṛtyaḥ bhavet naraḥ .. kim puṇyam varṇyate teṣām yeṣām ca smaraṇam tava .. 16..
सर्वोत्कृष्टा वयं जाताः स्मरणात्ते सदाशिव ॥ मनोरथपथं नैव गच्छसि त्वं कथंचन ॥ १७ ॥
सर्व-उत्कृष्टाः वयम् जाताः स्मरणात् ते सदाशिव ॥ मनोरथ-पथम् ना एव गच्छसि त्वम् कथंचन ॥ १७ ॥
sarva-utkṛṣṭāḥ vayam jātāḥ smaraṇāt te sadāśiva .. manoratha-patham nā eva gacchasi tvam kathaṃcana .. 17 ..
वामनस्य फलं यद्वज्जन्मान्धस्य दृशौ यथा ॥ वाचालत्वञ्च मूकस्य रंकस्य निधिदर्शनम् ॥ १८ ॥
वामनस्य फलम् यद्वत् जन्म अन्धस्य दृशौ यथा ॥ वाचाल-त्वञ्च मूकस्य रंकस्य निधि-दर्शनम् ॥ १८ ॥
vāmanasya phalam yadvat janma andhasya dṛśau yathā .. vācāla-tvañca mūkasya raṃkasya nidhi-darśanam .. 18 ..
पङ्गोर्गिरिवराक्रान्तिर्वन्ध्यायः प्रसवस्तथा ॥ दर्शनं भवतस्तद्वज्जातं नो दुर्लभं प्रभो ॥ १९ ॥
पङ्गोः गिरि-वर-आक्रान्तिः वन्ध्या अयः प्रसवः तथा ॥ दर्शनम् भवतः तद्वत् जातम् नः दुर्लभम् प्रभो ॥ १९ ॥
paṅgoḥ giri-vara-ākrāntiḥ vandhyā ayaḥ prasavaḥ tathā .. darśanam bhavataḥ tadvat jātam naḥ durlabham prabho .. 19 ..
अद्य प्रभृति लोकेषु मान्याः पूज्या मुनीश्वराः ॥ जातास्ते दर्शनादेव स्वमुच्चैः पदमाश्रिताः ॥ 2.3.32.२० ॥
अद्य प्रभृति लोकेषु मान्याः पूज्याः मुनि-ईश्वराः ॥ जाताः ते दर्शनात् एव स्वम् उच्चैस् पदम् आश्रिताः ॥ २।३।३२।२० ॥
adya prabhṛti lokeṣu mānyāḥ pūjyāḥ muni-īśvarāḥ .. jātāḥ te darśanāt eva svam uccais padam āśritāḥ .. 2.3.32.20 ..
अत्र किं बहुनोक्तेन सर्व था मान्यतां गताः ॥ दर्शनात्तव देवेश सर्वदेवेश्वरस्य हि ॥ २१॥
अत्र किम् बहुना उक्तेन मान्य-ताम् गताः ॥ दर्शनात् तव देवेश सर्व-देव-ईश्वरस्य हि ॥ २१॥
atra kim bahunā uktena mānya-tām gatāḥ .. darśanāt tava deveśa sarva-deva-īśvarasya hi .. 21..
पूर्णानां किञ्च कर्तव्यमस्ति चेत्परमा कृपा ॥ सदृशं सेवकानां तु देयं कार्यं त्वया शुभम् ॥ २२ ॥
पूर्णानाम् किञ्च कर्तव्यम् अस्ति चेद् परमा कृपा ॥ सदृशम् सेवकानाम् तु देयम् कार्यम् त्वया शुभम् ॥ २२ ॥
pūrṇānām kiñca kartavyam asti ced paramā kṛpā .. sadṛśam sevakānām tu deyam kāryam tvayā śubham .. 22 ..
।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तेषां शम्भुर्महेश्वरः ॥ लौकिकाचारमाश्रित्य रम्यं वाक्यमुपाददे ॥ २३ ॥
इति एवम् वचनम् श्रुत्वा तेषाम् शम्भुः महेश्वरः ॥ लौकिक-आचारम् आश्रित्य रम्यम् वाक्यम् उपाददे ॥ २३ ॥
iti evam vacanam śrutvā teṣām śambhuḥ maheśvaraḥ .. laukika-ācāram āśritya ramyam vākyam upādade .. 23 ..
शिव उवाच ।।
ऋषयश्च सदा पूज्या भवन्तश्च विशेषतः ॥ युष्माकं कारणाद्विप्राः स्मरणं च मया कृतम् ॥ २४ ॥
ऋषयः च सदा पूज्याः भवन्तः च विशेषतः ॥ युष्माकम् कारणात् विप्राः स्मरणम् च मया कृतम् ॥ २४ ॥
ṛṣayaḥ ca sadā pūjyāḥ bhavantaḥ ca viśeṣataḥ .. yuṣmākam kāraṇāt viprāḥ smaraṇam ca mayā kṛtam .. 24 ..
ममावस्था भवद्भिश्च ज्ञायते ह्युपकारिका ॥ साधनीया विशेषेण लोकानां सिद्धिहेतवे ॥ २५ ॥
मम अवस्था भवद्भिः च ज्ञायते हि उपकारिका ॥ साधनीयाः विशेषेण लोकानाम् सिद्धि-हेतवे ॥ २५ ॥
mama avasthā bhavadbhiḥ ca jñāyate hi upakārikā .. sādhanīyāḥ viśeṣeṇa lokānām siddhi-hetave .. 25 ..
देवानां दुःखमुत्पन्नं ता रकात्सुदुरात्मनः ॥ ब्रह्मणा च वरौ दत्तः किं करोमि दुरासदः ॥ २६ ॥
देवानाम् दुःखम् उत्पन्नम् ताः रकात् सु दुरात्मनः ॥ ब्रह्मणा च वरौ दत्तः किम् करोमि दुरासदः ॥ २६ ॥
devānām duḥkham utpannam tāḥ rakāt su durātmanaḥ .. brahmaṇā ca varau dattaḥ kim karomi durāsadaḥ .. 26 ..
मूर्तयोऽष्टौ च याः प्रोक्ता मदीयाः परमर्षयः ॥ तास्सर्वा उपकाराय न तु स्वार्थाय तत्स्फुटम् ॥ २७ ॥
मूर्तयः अष्टौ च याः प्रोक्ताः मदीयाः परम-ऋषयः ॥ ताः सर्वाः उपकाराय न तु स्वार्थाय तत् स्फुटम् ॥ २७ ॥
mūrtayaḥ aṣṭau ca yāḥ proktāḥ madīyāḥ parama-ṛṣayaḥ .. tāḥ sarvāḥ upakārāya na tu svārthāya tat sphuṭam .. 27 ..
तथा च कर्तुकामोहं विवाहं शिवया सह ॥ तया वै सुतपस्तप्तं दुष्करं परमर्षिभिः ॥ २८ ॥
तथा च कर्तु-कामः ऊहम् विवाहम् शिवया सह ॥ तया वै सु तपः तप्तम् दुष्करम् परम-ऋषिभिः ॥ २८ ॥
tathā ca kartu-kāmaḥ ūham vivāham śivayā saha .. tayā vai su tapaḥ taptam duṣkaram parama-ṛṣibhiḥ .. 28 ..
तस्यै परं फलं देयमभीष्टं तद्धितावहम् ॥ एतादृशः पणो मे हि भक्तानन्दप्रदः स्फुटम् ॥ २९ ॥
तस्यै परम् फलम् देयम् अभीष्टम् तत् हित-आवहम् ॥ एतादृशः पणः मे हि भक्त-आनन्द-प्रदः स्फुटम् ॥ २९ ॥
tasyai param phalam deyam abhīṣṭam tat hita-āvaham .. etādṛśaḥ paṇaḥ me hi bhakta-ānanda-pradaḥ sphuṭam .. 29 ..
पार्वतीवचनाद्भिक्षुरूपो यातो गिरेर्गृहम् ॥ अहं पावितवान्कालीं यतो लीलाविशारदः ॥ 2.3.32.३० ॥
पार्वती-वचनात् भिक्षु-रूपः यातः गिरेः गृहम् ॥ अहम् पावितवान् कालीम् यतस् लीला-विशारदः ॥ २।३।३२।३० ॥
pārvatī-vacanāt bhikṣu-rūpaḥ yātaḥ gireḥ gṛham .. aham pāvitavān kālīm yatas līlā-viśāradaḥ .. 2.3.32.30 ..
मां ज्ञात्वा तौ परं ब्रह्म दम्पती परभक्तितः ॥ दातुकामावभूतां च स्वसुतां वेदरीतितः ॥ ३१॥
माम् ज्ञात्वा तौ परम् ब्रह्म दम्पती पर-भक्तितः ॥ दातु-कामौ अभूताम् च स्व-सुताम् वेदरीतितः ॥ ३१॥
mām jñātvā tau param brahma dampatī para-bhaktitaḥ .. dātu-kāmau abhūtām ca sva-sutām vedarītitaḥ .. 31..
देवप्रेरणयाहं वै कृतवानस्मि निन्दनम् ॥ तदा स्वस्य च तद्भक्तिं विहन्तुं वैष्ण्णवात्मना ॥ ३२ ॥
देव-प्रेरणया अहम् वै कृतवान् अस्मि निन्दनम् ॥ तदा स्वस्य च तद्-भक्तिम् विहन्तुम् वैष्ण्णव-आत्मना ॥ ३२ ॥
deva-preraṇayā aham vai kṛtavān asmi nindanam .. tadā svasya ca tad-bhaktim vihantum vaiṣṇṇava-ātmanā .. 32 ..
तच्छ्रुत्वा तौ सुनिर्विण्णो तद्धीनौ संबभूवतुः ॥ स्वकन्यां नेच्छतो दातुं मह्यं हि मुनयोऽधुना ॥ ३३ ॥
तत् श्रुत्वा तौ सुनिर्विण्णः तद्-हीनौ संबभूवतुः ॥ स्व-कन्याम् न इच्छतः दातुम् मह्यम् हि मुनयः अधुना ॥ ३३ ॥
tat śrutvā tau sunirviṇṇaḥ tad-hīnau saṃbabhūvatuḥ .. sva-kanyām na icchataḥ dātum mahyam hi munayaḥ adhunā .. 33 ..
तस्माद्भवन्तो गच्छन्तु हिमाचलगृहं ध्रुवम् ॥ तत्र गत्वा गिरिवरं तत्पत्नीञ्च प्रबोधय ॥ ३४॥
तस्मात् भवन्तः गच्छन्तु हिमाचल-गृहम् ध्रुवम् ॥ तत्र गत्वा गिरि-वरम् तद्-पत्नीम् च प्रबोधय ॥ ३४॥
tasmāt bhavantaḥ gacchantu himācala-gṛham dhruvam .. tatra gatvā giri-varam tad-patnīm ca prabodhaya .. 34..
कथनीयं प्रयत्नेन वचनं वेदसम्मितम् ॥ सर्वथा करणीयन्तद्यथा स्यात्कार्य्यमुत्तमम् ॥ ३५॥
कथनीयम् प्रयत्नेन वचनम् वेद-सम्मितम् ॥ सर्वथा करणीयन् तत् यथा स्यात् कार्य्यम् उत्तमम् ॥ ३५॥
kathanīyam prayatnena vacanam veda-sammitam .. sarvathā karaṇīyan tat yathā syāt kāryyam uttamam .. 35..
उद्वाहं कर्तुमिच्छामि तत्पुत्र्या सह सत्तमाः ॥ स्वीकृतस्त द्विवाहो मे वरो दत्तश्च तादृशः ॥ ३६ ॥
उद्वाहम् कर्तुम् इच्छामि तद्-पुत्र्या सह सत्तमाः ॥ स्वीकृतः त द्विवाहः मे वरः दत्तः च तादृशः ॥ ३६ ॥
udvāham kartum icchāmi tad-putryā saha sattamāḥ .. svīkṛtaḥ ta dvivāhaḥ me varaḥ dattaḥ ca tādṛśaḥ .. 36 ..
अत्र किं बहुनोक्तेन बोधनीयो हिमालयः ॥ तथा मेना च बोद्धव्या देवानां स्याद्धितं यथा ॥ ३७ ॥
अत्र किम् बहुना उक्तेन बोधनीयः हिमालयः ॥ तथा मेना च बोद्धव्या देवानाम् स्यात् हितम् यथा ॥ ३७ ॥
atra kim bahunā uktena bodhanīyaḥ himālayaḥ .. tathā menā ca boddhavyā devānām syāt hitam yathā .. 37 ..
भवद्भिः कल्पितो यो वै विधिस्स्यादधिकस्ततः ॥ भवताञ्चैव कार्य्यं तु भवन्तः कार्य्यभागिनः ॥ ३८ ॥
भवद्भिः कल्पितः यः वै विधिः स्यात् अधिकः ततस् ॥ भवताम् च एव कार्य्यम् तु भवन्तः कार्य्य-भागिनः ॥ ३८ ॥
bhavadbhiḥ kalpitaḥ yaḥ vai vidhiḥ syāt adhikaḥ tatas .. bhavatām ca eva kāryyam tu bhavantaḥ kāryya-bhāginaḥ .. 38 ..
।। ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा मुनयस्तेऽमलाशयाः ॥ आनन्दं लेभिरे सर्वे प्रभुणानुग्रहीकृताः ॥ ३९॥
इति एवम् वचनम् श्रुत्वा मुनयः ते अमल-आशयाः ॥ आनन्दम् लेभिरे सर्वे प्रभुणा अनुग्रहीकृताः ॥ ३९॥
iti evam vacanam śrutvā munayaḥ te amala-āśayāḥ .. ānandam lebhire sarve prabhuṇā anugrahīkṛtāḥ .. 39..
वयं धन्या अभूवँश्च कृतकृत्याश्च सर्वथा ॥ वंद्या याताश्च सर्वेषां पूजनीया विशेषतः॥ 2.3.32.४०॥
वयम् धन्याः अभूवन् च कृतकृत्याः च सर्वथा ॥ वंद्याः याताः च सर्वेषाम् पूजनीयाः विशेषतः॥ २।३।३२।४०॥
vayam dhanyāḥ abhūvan ca kṛtakṛtyāḥ ca sarvathā .. vaṃdyāḥ yātāḥ ca sarveṣām pūjanīyāḥ viśeṣataḥ.. 2.3.32.40..
ब्रह्मणा विष्णुना यो वै वन्द्यस्सर्वार्थसाधकः॥ सोस्मान्प्रेषयते प्रेष्यान्कार्ये लोकसुखावहे ॥ ४१॥
ब्रह्मणा विष्णुना यः वै वन्द्यः सर्व-अर्थ-साधकः॥ सा उस्मान् प्रेषयते प्रेष्यान् कार्ये लोक-सुख-आवहे ॥ ४१॥
brahmaṇā viṣṇunā yaḥ vai vandyaḥ sarva-artha-sādhakaḥ.. sā usmān preṣayate preṣyān kārye loka-sukha-āvahe .. 41..
अयं वै जगतां स्वामी पिता सा जननी मता॥ अयं युक्तश्च सम्बन्धो वर्द्धतां चन्द्रवत्सदा ॥ ४२॥
अयम् वै जगताम् स्वामी पिता सा जननी मता॥ अयम् युक्तः च सम्बन्धः वर्द्धताम् चन्द्र-वत् सदा ॥ ४२॥
ayam vai jagatām svāmī pitā sā jananī matā.. ayam yuktaḥ ca sambandhaḥ varddhatām candra-vat sadā .. 42..
ब्रह्मोवाच।।
इत्युक्त्वा ह्यृषयो दिव्या नमस्कृत्य शिवं तदा ॥ गता आकाशमार्गेण यत्रास्ति हिमवत्पुरम्॥ ४३॥
इति उक्त्वा हि ऋषयः दिव्याः नमस्कृत्य शिवम् तदा ॥ गताः आकाश-मार्गेण यत्र अस्ति हिमवत्-पुरम्॥ ४३॥
iti uktvā hi ṛṣayaḥ divyāḥ namaskṛtya śivam tadā .. gatāḥ ākāśa-mārgeṇa yatra asti himavat-puram.. 43..
दृष्ट्वा तां च पुरं दिव्या मृषयस्तेऽतिविस्मिताः ॥ वर्णयन्तश्च स्वं पुण्यमब्रुवन्वै परस्परम् ॥ ४४ ॥
दृष्ट्वा ताम् च पुरम् दिव्याः मृषयः ते अति विस्मिताः ॥ वर्णयन्तः च स्वम् पुण्यम् अब्रुवन् वै परस्परम् ॥ ४४ ॥
dṛṣṭvā tām ca puram divyāḥ mṛṣayaḥ te ati vismitāḥ .. varṇayantaḥ ca svam puṇyam abruvan vai parasparam .. 44 ..
।। ऋषय ऊचुः ।।
पुण्यवन्तो वयं धन्या दृष्ट्वैतद्धिमव त्पुरम् ॥ यस्मादेवंविधे कार्य्ये शिवेनैव नियोजिताः ॥ ४५॥
पुण्यवन्तः वयम् धन्याः दृष्ट्वा एतत् हिमव पुरम् ॥ यस्मात् एवंविधे कार्ये शिवेन एव नियोजिताः ॥ ४५॥
puṇyavantaḥ vayam dhanyāḥ dṛṣṭvā etat himava puram .. yasmāt evaṃvidhe kārye śivena eva niyojitāḥ .. 45..
अलकायाश्च स्वर्गाच्च भोगवत्यास्तथा पुनः ॥ विशेषेणामरावत्या दृश्य ते पुरमुत्तमम् ॥ ४६ ॥
अलकायाः च स्वर्गात् च भोगवत्याः तथा पुनर् ॥ विशेषेण अमरावत्याः दृश्य ते पुरम् उत्तमम् ॥ ४६ ॥
alakāyāḥ ca svargāt ca bhogavatyāḥ tathā punar .. viśeṣeṇa amarāvatyāḥ dṛśya te puram uttamam .. 46 ..
सुगृहाणि सुरम्याणि स्फटिकैर्विविधैर्वरैः ॥ मणिभिर्वा विचित्राणि रचितान्यङ्गणानि च ॥ ४७ ॥
सु गृहाणि सु रम्याणि स्फटिकैः विविधैः वरैः ॥ मणिभिः वा विचित्राणि रचितानि अङ्गणानि च ॥ ४७ ॥
su gṛhāṇi su ramyāṇi sphaṭikaiḥ vividhaiḥ varaiḥ .. maṇibhiḥ vā vicitrāṇi racitāni aṅgaṇāni ca .. 47 ..
सूर्यकान्ताश्च मणयश्चन्द्रकान्तास्तथैव च ॥ गृहे गृहे विचित्राश्च वृक्षात्स्वर्गसमुद्भवाः ॥ ४८ ॥
सूर्य-कान्ताः च मणयः चन्द्र-कान्ताः तथा एव च ॥ गृहे गृहे विचित्राः च वृक्षात् स्वर्ग-समुद्भवाः ॥ ४८ ॥
sūrya-kāntāḥ ca maṇayaḥ candra-kāntāḥ tathā eva ca .. gṛhe gṛhe vicitrāḥ ca vṛkṣāt svarga-samudbhavāḥ .. 48 ..
तोरणानां तथा लक्ष्मीर्दृश्यते च गृहेगृहे ॥ विविधानि विचित्राणि शुकहंसैर्विमानकैः ॥ ४९ ॥
तोरणानाम् तथा लक्ष्मीः दृश्यते च गृहे गृहे ॥ विविधानि विचित्राणि शुक-हंसैः विमानकैः ॥ ४९ ॥
toraṇānām tathā lakṣmīḥ dṛśyate ca gṛhe gṛhe .. vividhāni vicitrāṇi śuka-haṃsaiḥ vimānakaiḥ .. 49 ..
वितानानि विचित्राणि चैलवत्तोरणैस्सह ॥ जलाशयान्यनेकानि दीर्घिका विविधाः स्थिताः ॥ 2.3.32.५० ॥
वितानानि विचित्राणि चैलवत्-तोरणैः सह ॥ जलाशयानि अनेकानि दीर्घिकाः विविधाः स्थिताः ॥ २।३।३२।५० ॥
vitānāni vicitrāṇi cailavat-toraṇaiḥ saha .. jalāśayāni anekāni dīrghikāḥ vividhāḥ sthitāḥ .. 2.3.32.50 ..
उद्यानानि विचित्राणि प्रसन्नैः पूजितान्यथ ॥ नराश्च देवतास्सर्वे स्त्रियश्चाप्सरसस्तथा ॥ ५१ ॥
उद्यानानि विचित्राणि प्रसन्नैः पूजितानि अथ ॥ नराः च देवताः सर्वे स्त्रियः च अप्सरसः तथा ॥ ५१ ॥
udyānāni vicitrāṇi prasannaiḥ pūjitāni atha .. narāḥ ca devatāḥ sarve striyaḥ ca apsarasaḥ tathā .. 51 ..
कर्मभूमौ याज्ञिकाश्च पौराणास्स्वर्गकाम्यया ॥ कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्पुरम् ॥ ५२ ॥
कर्म-भूमौ याज्ञिकाः च पौराणाः स्वर्ग-काम्यया ॥ कुर्वन्ति ते वृथा सर्वे विहाय हिमवत्-पुरम् ॥ ५२ ॥
karma-bhūmau yājñikāḥ ca paurāṇāḥ svarga-kāmyayā .. kurvanti te vṛthā sarve vihāya himavat-puram .. 52 ..
यावन्न दृष्टमेतच्च तावत्स्वर्गपरा नराः ॥ दृष्ट्रमेतद्यदा विप्राः किं स्वर्गेण प्रयोजनम् ॥ ५३॥
यावत् न दृष्टम् एतत् च तावत् स्वर्ग-पराः नराः ॥ विप्राः किम् स्वर्गेण प्रयोजनम् ॥ ५३॥
yāvat na dṛṣṭam etat ca tāvat svarga-parāḥ narāḥ .. viprāḥ kim svargeṇa prayojanam .. 53..
।। ब्रह्मोवाच ।।
इत्येवमृषिवर्य्यास्ते वर्णयन्तः पुरश्च तत्॥ गता हैमालयं सर्वे गृहं सर्वसमृद्धिमत् ॥ ५४ ॥
इति एवम् ऋषि-वर्य्याः ते वर्णयन्तः पुरस् च तत्॥ गताः हैमालयम् सर्वे गृहम् सर्व-समृद्धिमत् ॥ ५४ ॥
iti evam ṛṣi-varyyāḥ te varṇayantaḥ puras ca tat.. gatāḥ haimālayam sarve gṛham sarva-samṛddhimat .. 54 ..
तान्द्रष्ट्वा सूर्यसंकाशान् हिमवान्विस्मितोऽब्रवीत् ॥ दूरादाकाशमार्गस्थान्मुनीन्सप्त सुतेजसः ॥ ५५ ॥
तान् द्रष्ट्वा सूर्य-संकाशान् हिमवान् विस्मितः अब्रवीत् ॥ दूरात् आकाश-मार्ग-स्थान् मुनीन् सप्त सु तेजसः ॥ ५५ ॥
tān draṣṭvā sūrya-saṃkāśān himavān vismitaḥ abravīt .. dūrāt ākāśa-mārga-sthān munīn sapta su tejasaḥ .. 55 ..
।। हिमवानुवाच ।।
सप्तैते सूर्य्यसंकाशाः समायांति मदन्तिके ॥ पूजा कार्य्या प्रयत्नेन मुनीनां च मयाधुना ॥ ५६ ॥
सप्त एते सूर्य्य-संकाशाः समायांति मद्-अन्तिके ॥ पूजा कार्या प्रयत्नेन मुनीनाम् च मया अधुना ॥ ५६ ॥
sapta ete sūryya-saṃkāśāḥ samāyāṃti mad-antike .. pūjā kāryā prayatnena munīnām ca mayā adhunā .. 56 ..
वयं धन्या गृहस्थाश्च सर्वेषां सुखदायिनः॥ येषां गृहे समायान्ति महात्मानो यदीदृशाः ॥ ५७ ॥
वयम् धन्याः गृहस्थाः च सर्वेषाम् सुख-दायिनः॥ येषाम् गृहे समायान्ति महात्मानः यत् ईदृशाः ॥ ५७ ॥
vayam dhanyāḥ gṛhasthāḥ ca sarveṣām sukha-dāyinaḥ.. yeṣām gṛhe samāyānti mahātmānaḥ yat īdṛśāḥ .. 57 ..
ब्रह्मोवाच।।
एतस्मिन्नन्तरे चैवाकाशादेत्य भुवि स्थितान् ॥ सन्मुखे हिमवान्दृष्ट्वा ययौ मानपुरस्सरम् ॥ ५८॥
एतस्मिन् अन्तरे च एव आकाशात् एत्य भुवि स्थितान् ॥ सत्-मुखे हिमवान् दृष्ट्वा ययौ मान-पुरस्सरम् ॥ ५८॥
etasmin antare ca eva ākāśāt etya bhuvi sthitān .. sat-mukhe himavān dṛṣṭvā yayau māna-purassaram .. 58..
कृतांजलिर्नतस्कन्धः सप्तर्षीन्सुप्रणम्य सः ॥ पूजां चकार तेषां वै बहुमानपुरस्सरम्॥ ५९॥
कृतांजलिः नत-स्कन्धः सप्तर्षीन् सु प्रणम्य सः ॥ पूजाम् चकार तेषाम् वै बहु-मान-पुरस्सरम्॥ ५९॥
kṛtāṃjaliḥ nata-skandhaḥ saptarṣīn su praṇamya saḥ .. pūjām cakāra teṣām vai bahu-māna-purassaram.. 59..
हितास्सप्तर्षयस्ते च हिमवन्तन्नगेश्वरम्॥ गृहीत्वोचुः प्रसन्नास्या वचनं मङ्गलालयम् ॥ 2.3.32.६० ॥
हिताः सप्तर्षयः ते च हिमवन्तन् नगेश्वरम्॥ गृहीत्वा ऊचुः प्रसन्न-आस्याः वचनम् मङ्गल-आलयम् ॥ २।३।३२।६० ॥
hitāḥ saptarṣayaḥ te ca himavantan nageśvaram.. gṛhītvā ūcuḥ prasanna-āsyāḥ vacanam maṅgala-ālayam .. 2.3.32.60 ..
यथाग्रतश्च तान्कृत्वा धन्या मम गृहाश्रमः ॥ इत्युक्त्वासनमानीय ददौ भक्तिपुरस्सरम् ॥ ६१ ॥
यथा अग्रतस् च तान् कृत्वा धन्या मम गृह-आश्रमः ॥ इति उक्त्वा आसनम् आनीय ददौ भक्ति-पुरस्सरम् ॥ ६१ ॥
yathā agratas ca tān kṛtvā dhanyā mama gṛha-āśramaḥ .. iti uktvā āsanam ānīya dadau bhakti-purassaram .. 61 ..
आसनेषूपविष्टेषु तदाज्ञप्तस्स्वयं स्थितः ॥ उवाच हिमवाँस्तत्र मुनीञ्ज्योतिर्मयास्तदा ॥ ६२॥
आसनेषु उपविष्टेषु तद्-आज्ञप्तः स्वयम् स्थितः ॥ उवाच हिमवान् तत्र मुनीन् ज्योतिः-मयाः तदा ॥ ६२॥
āsaneṣu upaviṣṭeṣu tad-ājñaptaḥ svayam sthitaḥ .. uvāca himavān tatra munīn jyotiḥ-mayāḥ tadā .. 62..
हिमालय उवाच ।।
धन्यो हि कृतकृत्योहं सफलं जीवित मम ॥ लोकेषु दर्शनीयोहं बहुतीर्थसमो मतः ॥ ६३॥
धन्यः हि कृतकृत्यः हम् स फलम् मम ॥ लोकेषु दर्शनीया उहम् बहु-तीर्थ-समः मतः ॥ ६३॥
dhanyaḥ hi kṛtakṛtyaḥ ham sa phalam mama .. lokeṣu darśanīyā uham bahu-tīrtha-samaḥ mataḥ .. 63..
यस्माद्भवन्तो मद्गेहमागता विष्णुरूपिणः ॥ पूर्णानां भवतां कार्य्यं कृपणानां गृहेषु किम् ॥ ६४॥
यस्मात् भवन्तः मद्-गेहम् आगताः विष्णु-रूपिणः ॥ पूर्णानाम् भवताम् कार्य्यम् कृपणानाम् गृहेषु किम् ॥ ६४॥
yasmāt bhavantaḥ mad-geham āgatāḥ viṣṇu-rūpiṇaḥ .. pūrṇānām bhavatām kāryyam kṛpaṇānām gṛheṣu kim .. 64..
तथापि किञ्चित्कार्यं च सदृशं सेवकस्य मे ॥ कथनीयं सुदयया सफलं स्याज्जनुर्मम ॥ ६५॥
तथा अपि किञ्चिद् कार्यम् च सदृशम् सेवकस्य मे ॥ कथनीयम् सु दयया सफलम् स्यात् जनुः मम ॥ ६५॥
tathā api kiñcid kāryam ca sadṛśam sevakasya me .. kathanīyam su dayayā saphalam syāt januḥ mama .. 65..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनं नाम द्वात्रिंशोऽध्यायः ॥ ३२॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे सप्तर्ष्यागमनवर्णनम् नाम द्वात्रिंशः अध्यायः ॥ ३२॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe saptarṣyāgamanavarṇanam nāma dvātriṃśaḥ adhyāyaḥ .. 32..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In