| |
|

This overlay will guide you through the buttons:

।। ऋषय ऊचुः ।।
जगत्पिता शिवः प्रोक्तो जगन्माता शिवा मता ॥ तस्माद्देया त्वया कन्या शंकराय महात्मने ॥ १ ॥
जगत्-पिता शिवः प्रोक्तः जगन्माता शिवा मता ॥ तस्मात् देया त्वया कन्या शंकराय महात्मने ॥ १ ॥
jagat-pitā śivaḥ proktaḥ jaganmātā śivā matā .. tasmāt deyā tvayā kanyā śaṃkarāya mahātmane .. 1 ..
एवं कृत्वा हिमगिरे सार्थकं ते भवेज्जनुः ॥ जगद्गुरोर्गुरुस्त्वं हि भविष्यसि न संशयः ॥ २ ॥
एवम् कृत्वा हिमगिरे सार्थकम् ते भवेत् जनुः ॥ जगद्गुरोः गुरुः त्वम् हि भविष्यसि न संशयः ॥ २ ॥
evam kṛtvā himagire sārthakam te bhavet januḥ .. jagadguroḥ guruḥ tvam hi bhaviṣyasi na saṃśayaḥ .. 2 ..
।। ब्रह्मोवाच ।।
एवं वचनमाकर्ण्य सप्तर्षीणां मुनीश्वर ॥ प्रणम्य तान्करौ बद्ध्वा गिरिराजोऽब्रवीदिदम्॥ ३॥
एवम् वचनम् आकर्ण्य सप्तर्षीणाम् मुनि-ईश्वर ॥ प्रणम्य तान् करौ बद्ध्वा गिरि-राजः अब्रवीत् इदम्॥ ३॥
evam vacanam ākarṇya saptarṣīṇām muni-īśvara .. praṇamya tān karau baddhvā giri-rājaḥ abravīt idam.. 3..
हिमालय उवाच ।।
सप्तर्षयो महाभागा भवद्भिर्यदुदीरितम्॥ तत्प्रमाणीकृतं मे हि पुरैव गिरिशेच्छया॥ ४॥
सप्तर्षयः महाभागाः भवद्भिः यत् उदीरितम्॥ तत् प्रमाणीकृतम् मे हि पुरा एव गिरिश-इच्छया॥ ४॥
saptarṣayaḥ mahābhāgāḥ bhavadbhiḥ yat udīritam.. tat pramāṇīkṛtam me hi purā eva giriśa-icchayā.. 4..
इदानीमेक आगत्य विप्रो वैष्णवधर्मवान्॥ शिवमुद्दिश्य सुप्रीत्या विपरीतं वचोऽब्रवीत् ॥ ।५॥
इदानीम् एकः आगत्य विप्रः वैष्णव-धर्मवान्॥ शिवम् उद्दिश्य सु प्रीत्या विपरीतम् वचः अब्रवीत् ॥ ।५॥
idānīm ekaḥ āgatya vipraḥ vaiṣṇava-dharmavān.. śivam uddiśya su prītyā viparītam vacaḥ abravīt .. .5..
तदारभ्य शिवामाता ज्ञानभ्रष्टा बभूव ह ॥ सुताविवाहं रुद्रेण योगिना तेन नेच्छति ॥ ६॥
तत् आरभ्य शिवामाता ज्ञान-भ्रष्टा बभूव ह ॥ सुता-विवाहम् रुद्रेण योगिना तेन ना इच्छति ॥ ६॥
tat ārabhya śivāmātā jñāna-bhraṣṭā babhūva ha .. sutā-vivāham rudreṇa yoginā tena nā icchati .. 6..
कोपागारमगात्सा हि सुतप्ता मलिनाम्बरा ॥ कृत्वा महाहठं विप्रा बोध्यमानापिऽनाबुधत् ॥ ७॥
कोप-आगारम् अगात् सा हि सु तप्ता मलिन-अम्बरा ॥ कृत्वा महा-हठम् विप्राः ॥ ७॥
kopa-āgāram agāt sā hi su taptā malina-ambarā .. kṛtvā mahā-haṭham viprāḥ .. 7..
अहं च ज्ञानविभ्रष्टो जातोहं सत्यमीर्य्यते ॥ दातुं सुतां महेशाय नेच्छामि भिक्षुरूपिणे ॥ ८ ॥
अहम् च ज्ञान-विभ्रष्टः जातः हम् सत्यम् ईर्य्यते ॥ दातुम् सुताम् महेशाय ना इच्छामि भिक्षु-रूपिणे ॥ ८ ॥
aham ca jñāna-vibhraṣṭaḥ jātaḥ ham satyam īryyate .. dātum sutām maheśāya nā icchāmi bhikṣu-rūpiṇe .. 8 ..
ब्रह्मोवाच॥ इत्युक्त्वा शैलराजस्तु शिवमायाविमोहितः ॥ तूष्णीं बभूव तत्रस्थो मुनीनां मध्यतो मुने॥ ९॥
ब्रह्मा उवाच॥ इति उक्त्वा शैलराजः तु शिव-माया-विमोहितः ॥ तूष्णीम् बभूव तत्रस्थः मुनीनाम् मध्यतस् मुने॥ ९॥
brahmā uvāca.. iti uktvā śailarājaḥ tu śiva-māyā-vimohitaḥ .. tūṣṇīm babhūva tatrasthaḥ munīnām madhyatas mune.. 9..
सर्वे सप्तर्षयस्ते हि शिवमायां प्रशस्य वै ॥ प्रेषयामासुरथ तां मेनकां प्रत्यरुन्धतीम् ॥ 2.3.33.१ ०॥
सर्वे सप्तर्षयः ते हि शिव-मायाम् प्रशस्य वै ॥ प्रेषयामासुः अथ ताम् मेनकाम् प्रत्यरुन्धतीम् ॥ २।३।३३।१ ०॥
sarve saptarṣayaḥ te hi śiva-māyām praśasya vai .. preṣayāmāsuḥ atha tām menakām pratyarundhatīm .. 2.3.33.1 0..
अथ पत्युस्समादाय निदेशं ज्ञानदा हि सा॥ जगामारुन्धती तूर्णं यत्र मेना च पार्वती ॥ ११॥
अथ पत्युः समादाय निदेशम् ज्ञान-दा हि सा॥ जगाम अरुन्धती तूर्णम् यत्र मेना च पार्वती ॥ ११॥
atha patyuḥ samādāya nideśam jñāna-dā hi sā.. jagāma arundhatī tūrṇam yatra menā ca pārvatī .. 11..
गत्वा ददर्श मेनां तां शयानां शोकमूर्च्छिताम्॥ उवाच मधुरं साध्वी सावधाना हितं वचः ॥ १२॥
गत्वा ददर्श मेनाम् ताम् शयानाम् शोक-मूर्च्छिताम्॥ उवाच मधुरम् साध्वी स अवधाना हितम् वचः ॥ १२॥
gatvā dadarśa menām tām śayānām śoka-mūrcchitām.. uvāca madhuram sādhvī sa avadhānā hitam vacaḥ .. 12..
अरुन्धत्युवाच ।।
उत्तिष्ठ मेनके साध्वि त्वद्गृहेऽहमरुन्धती ॥ आगता मुनयश्चापि सप्तायाताः कृपालवः ॥ १३॥
उत्तिष्ठ मेनके साध्वि त्वद्-गृहे अहम् अरुन्धती ॥ आगताः मुनयः च अपि सप्त आयाताः कृपालवः ॥ १३॥
uttiṣṭha menake sādhvi tvad-gṛhe aham arundhatī .. āgatāḥ munayaḥ ca api sapta āyātāḥ kṛpālavaḥ .. 13..
ब्रह्मोवाच ।।
अरुन्धतीस्वरं श्रुत्वा शीघ्रमुत्थाय मेनका ॥ उवाच शिरसा नत्वा तां पद्मामिव तेजसा ॥ १४॥
अरुन्धती-स्वरम् श्रुत्वा शीघ्रम् उत्थाय मेनका ॥ उवाच शिरसा नत्वा ताम् पद्माम् इव तेजसा ॥ १४॥
arundhatī-svaram śrutvā śīghram utthāya menakā .. uvāca śirasā natvā tām padmām iva tejasā .. 14..
मेनोवाच ।।
अहोद्य किमिदं पुण्यमस्माकं पुण्यजन्मनाम् ॥ वधूर्जगद्विधेः पत्नी वसिष्ठस्यागतेह वै ॥ १५॥
अहोद्य किम् इदम् पुण्यम् अस्माकम् पुण्य-जन्मनाम् ॥ वधूः जगत्-विधेः पत्नी वसिष्ठस्य आगता इह वै ॥ १५॥
ahodya kim idam puṇyam asmākam puṇya-janmanām .. vadhūḥ jagat-vidheḥ patnī vasiṣṭhasya āgatā iha vai .. 15..
किमर्थमागता देवि तन्मे ब्रूहि विशेषतः ॥ अहं दासीसमा ते हि ससुता करुणां कुरु ॥ १६ ॥
किमर्थम् आगता देवि तत् मे ब्रूहि विशेषतः ॥ अहम् दासी-समा ते हि स सुता करुणाम् कुरु ॥ १६ ॥
kimartham āgatā devi tat me brūhi viśeṣataḥ .. aham dāsī-samā te hi sa sutā karuṇām kuru .. 16 ..
ब्रह्मोवाच ।।
इत्युक्त्वा मेनकां साध्वी बोधयित्वा च तां बहु ॥ तथागता च सुप्रीत्या सास्ते यत्रर्षयोऽपि ते ॥ १७॥
इति उक्त्वा मेनकाम् साध्वी बोधयित्वा च ताम् बहु ॥ तथागता च सु प्रीत्या सास्ते यत्र ऋषयः अपि ते ॥ १७॥
iti uktvā menakām sādhvī bodhayitvā ca tām bahu .. tathāgatā ca su prītyā sāste yatra ṛṣayaḥ api te .. 17..
अथ शैलेश्वरं ते च बोधयामासुरादरात्॥ स्मृत्वा शिवपदद्वन्द्वं सर्वे वाक्यविशारदाः ॥ १८ ॥
अथ शैलेश्वरम् ते च बोधयामासुः आदरात्॥ स्मृत्वा शिव-पद-द्वन्द्वम् सर्वे वाक्य-विशारदाः ॥ १८ ॥
atha śaileśvaram te ca bodhayāmāsuḥ ādarāt.. smṛtvā śiva-pada-dvandvam sarve vākya-viśāradāḥ .. 18 ..
ऋषय ऊचुः ।।
शैलेन्द्र श्रूयतां वाक्यमस्माकं शुभकारणम् ॥ शिवाय पार्वतीं देहि संहर्त्तुः श्वशुरो भव ॥ १९ ॥
शैलेन्द्र श्रूयताम् वाक्यम् अस्माकम् शुभ-कारणम् ॥ शिवाय पार्वतीम् देहि संहर्त्तुः श्वशुरः भव ॥ १९ ॥
śailendra śrūyatām vākyam asmākam śubha-kāraṇam .. śivāya pārvatīm dehi saṃharttuḥ śvaśuraḥ bhava .. 19 ..
अयाचितारं सर्वेशं प्रार्थयामास यत्नतः ॥ तारकस्य विनाशाय ब्रह्मासम्बंधकर्म्मणि ॥ 2.3.33.२०॥
अ याचितारम् सर्व-ईशम् प्रार्थयामास यत्नतः ॥ तारकस्य विनाशाय ब्रह्म-असंबंध-कर्म्मणि ॥ २।३।३३।२०॥
a yācitāram sarva-īśam prārthayāmāsa yatnataḥ .. tārakasya vināśāya brahma-asaṃbaṃdha-karmmaṇi .. 2.3.33.20..
नोत्सुको दारसंयोगे शंकरो योगिनां वरः ॥ विधेः प्रार्थनया देवस्तव कन्यां ग्रहीष्यति ॥ २१॥
न उत्सुकः दार-संयोगे शंकरः योगिनाम् वरः ॥ विधेः प्रार्थनया देवः तव कन्याम् ग्रहीष्यति ॥ २१॥
na utsukaḥ dāra-saṃyoge śaṃkaraḥ yoginām varaḥ .. vidheḥ prārthanayā devaḥ tava kanyām grahīṣyati .. 21..
दुहितुस्ते तपस्तप्तं प्रतिज्ञानं चकार सा॥ हेतुद्वयेन योगीन्द्रो विवाहं च करिष्यति ॥ २२॥
दुहितुः ते तपः तप्तम् प्रतिज्ञानम् चकार सा॥ हेतु-द्वयेन योगि-इन्द्रः विवाहम् च करिष्यति ॥ २२॥
duhituḥ te tapaḥ taptam pratijñānam cakāra sā.. hetu-dvayena yogi-indraḥ vivāham ca kariṣyati .. 22..
ब्रह्मोवाच ।।
ऋषीणां वचनं श्रुत्वा प्रहस्य स हिमालयः ॥ उवाच किञ्चिद्भीतस्तु परं विनयपूर्वकम् ॥ २३ ॥
ऋषीणाम् वचनम् श्रुत्वा प्रहस्य स हिमालयः ॥ उवाच किञ्चिद् भीतः तु परम् विनय-पूर्वकम् ॥ २३ ॥
ṛṣīṇām vacanam śrutvā prahasya sa himālayaḥ .. uvāca kiñcid bhītaḥ tu param vinaya-pūrvakam .. 23 ..
हिमालय उवाच ।।
शिवस्य राजसामग्रीं न हि पश्यामि काञ्चन॥ कञ्चिदाश्रयमैश्वर्यं कं वा स्वजनबान्धवम् ॥ २४॥
शिवस्य राज-सामग्रीम् न हि पश्यामि काञ्चन॥ कञ्चिद् आश्रयम् ऐश्वर्यम् कम् वा स्व-जन-बान्धवम् ॥ २४॥
śivasya rāja-sāmagrīm na hi paśyāmi kāñcana.. kañcid āśrayam aiśvaryam kam vā sva-jana-bāndhavam .. 24..
नेच्छाम्यति विनिर्लिप्तयोगिने स्वां सुतामहम् ॥ यूयं वेदविधातुश्च पुत्रा वदत निश्चितम् ॥ २५॥
न इच्छामि अति विनिर्लिप्त-योगिने स्वाम् सुताम् अहम् ॥ यूयम् वेद-विधातुः च पुत्राः वदत निश्चितम् ॥ २५॥
na icchāmi ati vinirlipta-yogine svām sutām aham .. yūyam veda-vidhātuḥ ca putrāḥ vadata niścitam .. 25..
वरायाननुरूपाय पिता कन्यां ददाति चेत् ॥ कामान्मोहाद्भयाल्लोभात्स नष्टो नरकं यजेत् ॥ २६॥
वराय अननुरूपाय पिता कन्याम् ददाति चेद् ॥ कामात् मोहात् भयात् लोभात् स नष्टः नरकम् यजेत् ॥ २६॥
varāya ananurūpāya pitā kanyām dadāti ced .. kāmāt mohāt bhayāt lobhāt sa naṣṭaḥ narakam yajet .. 26..
न हि दास्याम्यहं कन्यामिच्छया शूलपाणये ॥ यद्विधानं भवेद्योग्यमृषयस्त द्विधीयताम् ॥ २७॥
न हि दास्यामि अहम् कन्याम् इच्छया शूलपाणये ॥ यत् विधानम् भवेत् योग्यम् ऋषयः त विधीयताम् ॥ २७॥
na hi dāsyāmi aham kanyām icchayā śūlapāṇaye .. yat vidhānam bhavet yogyam ṛṣayaḥ ta vidhīyatām .. 27..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य हिमागस्य मुनीश्वर ॥ प्रत्युवाच वसिष्ठस्तं तेषां वाक्यविशारद ॥ २८॥
इति आकर्ण्य वचः तस्य हिमागस्य मुनि-ईश्वर ॥ प्रत्युवाच वसिष्ठः तम् तेषाम् वाक्य-विशारद ॥ २८॥
iti ākarṇya vacaḥ tasya himāgasya muni-īśvara .. pratyuvāca vasiṣṭhaḥ tam teṣām vākya-viśārada .. 28..
वसिष्ठ उवाच ।।
शृणु शैलेश मद्वाक्यं सर्वथा ते हितावहम् ॥ धर्माविरुद्धं सत्यश्च परत्रेह मुदावहम् ॥ २९ ॥
शृणु शैलेश मद्-वाक्यम् सर्वथा ते हित-आवहम् ॥ धर्म-अविरुद्धम् सत्यः च परत्र इह मुदा आवहम् ॥ २९ ॥
śṛṇu śaileśa mad-vākyam sarvathā te hita-āvaham .. dharma-aviruddham satyaḥ ca paratra iha mudā āvaham .. 29 ..
वचनं त्रिविधं शैल लौकिके वैदिकेऽपि च ॥ सर्वं जानाति शास्त्रज्ञो निर्मलज्ञानचक्षुषा ॥ 2.3.33.३० ॥
वचनम् त्रिविधम् शैल लौकिके वैदिके अपि च ॥ सर्वम् जानाति शास्त्र-ज्ञः निर्मल-ज्ञानचक्षुषा ॥ २।३।३३।३० ॥
vacanam trividham śaila laukike vaidike api ca .. sarvam jānāti śāstra-jñaḥ nirmala-jñānacakṣuṣā .. 2.3.33.30 ..
असत्यमहितं पश्चात्सांप्रतं श्रुतिसुन्दरम् ॥ सुबुद्धिर्वक्ति शत्रुर्हि हितं नैव कदाचन ॥ ३१ ॥
असत्यम् अहितम् पश्चात् सांप्रतम् श्रुति-सुन्दरम् ॥ सुबुद्धिः वक्ति शत्रुः हि हितम् ना एव कदाचन ॥ ३१ ॥
asatyam ahitam paścāt sāṃpratam śruti-sundaram .. subuddhiḥ vakti śatruḥ hi hitam nā eva kadācana .. 31 ..
आदावप्रीतिजनकं परिणामे सुखावहम् ॥ दयालुर्धमशीलो हि बोधयत्येव बांधवः ॥ ३२ ॥
आदौ अप्रीति-जनकम् परिणामे सुख-आवहम् ॥ दयालुः धम-शीलः हि बोधयति एव बांधवः ॥ ३२ ॥
ādau aprīti-janakam pariṇāme sukha-āvaham .. dayāluḥ dhama-śīlaḥ hi bodhayati eva bāṃdhavaḥ .. 32 ..
श्रुतिमात्रात्सुधातुल्यं सर्वकालसुखावहम् ॥ सत्यसारं हितकरं वचनं श्रेष्ठमीप्सितम् ॥ ३३ ॥
श्रुति-मात्रात् सुधा-तुल्यम् सर्व-काल-सुख-आवहम् ॥ सत्य-सारम् हित-करम् वचनम् श्रेष्ठम् ईप्सितम् ॥ ३३ ॥
śruti-mātrāt sudhā-tulyam sarva-kāla-sukha-āvaham .. satya-sāram hita-karam vacanam śreṣṭham īpsitam .. 33 ..
एवञ्च त्रिविधं शैल नीतिशास्त्रोदितं वचः ॥ कथ्यतां त्रिषु मध्ये किं ब्रुवे वाक्यं त्वदीप्सितम् ॥ ३४ ॥
एवम् च त्रिविधम् शैल नीति-शास्त्र-उदितम् वचः ॥ कथ्यताम् त्रिषु मध्ये किम् ब्रुवे वाक्यम् त्वद्-ईप्सितम् ॥ ३४ ॥
evam ca trividham śaila nīti-śāstra-uditam vacaḥ .. kathyatām triṣu madhye kim bruve vākyam tvad-īpsitam .. 34 ..
ब्राह्मसम्पद्विहीनश्च शंकरस्त्रिदशेश्वरःतत्त्वज्ञानसमुद्रेषु सन्निमग्नैकमानसः ॥ ३५ ॥
ब्राह्म-सम्पद्-विहीनः च शंकरः त्रिदशेश्वरः तत्त्व-ज्ञान-समुद्रेषु सन् निमग्न-एक-मानसः ॥ ३५ ॥
brāhma-sampad-vihīnaḥ ca śaṃkaraḥ tridaśeśvaraḥ tattva-jñāna-samudreṣu san nimagna-eka-mānasaḥ .. 35 ..
ज्ञानानन्दस्येश्वरस्य ब्राह्मवस्तुषु का स्पृहा ॥ गृही ददाति स्वसुतां राज्यसम्पत्तिशालिने ॥ ३६ ॥
ज्ञान-आनन्दस्य ईश्वरस्य ब्राह्म-वस्तुषु का स्पृहा ॥ गृही ददाति स्व-सुताम् राज्य-सम्पत्ति-शालिने ॥ ३६ ॥
jñāna-ānandasya īśvarasya brāhma-vastuṣu kā spṛhā .. gṛhī dadāti sva-sutām rājya-sampatti-śāline .. 36 ..
कन्यकां दुःखिने दत्त्वा कन्याघाती भवेत्पिता ॥ को वेद शंकरो दुःखी कुबेरो यस्य किंकरः ॥ ३७ ॥
कन्यकाम् दुःखिने दत्त्वा कन्या-घाती भवेत् पिता ॥ कः वेद शंकरः दुःखी कुबेरः यस्य किंकरः ॥ ३७ ॥
kanyakām duḥkhine dattvā kanyā-ghātī bhavet pitā .. kaḥ veda śaṃkaraḥ duḥkhī kuberaḥ yasya kiṃkaraḥ .. 37 ..
भ्रूभङ्गलीलया सृष्टिं स्रष्टुं हर्त्तुं क्षमो हि सः ॥ निर्गुणः परमात्मा च परेशः प्रकृतेः परः ॥ ३८ ॥
भ्रू-भङ्ग-लीलया सृष्टिम् स्रष्टुम् हर्त्तुम् क्षमः हि सः ॥ निर्गुणः परमात्मा च परेशः प्रकृतेः परः ॥ ३८ ॥
bhrū-bhaṅga-līlayā sṛṣṭim sraṣṭum harttum kṣamaḥ hi saḥ .. nirguṇaḥ paramātmā ca pareśaḥ prakṛteḥ paraḥ .. 38 ..
यस्य च त्रिविधा मूर्त्तिर्विधा तुस्सृष्टिकर्मणि ॥ सृष्टिस्थित्यन्तजननी ब्रह्मविष्णुहराभिधा ॥ ३९ ॥
यस्य च त्रिविधा मूर्त्तिः विधा ॥ ॥ ३९ ॥
yasya ca trividhā mūrttiḥ vidhā .. .. 39 ..
ब्रह्मा च ब्रह्मलोकस्थो विष्णुः क्षीरोदवासकृत् ॥ हरः कैलासनिलयः सर्वाः शिवविभूतयः ॥ 2.3.33.४० ॥
ब्रह्मा च ब्रह्म-लोक-स्थः विष्णुः क्षीरोद-वासकृत् ॥ सर्व ॥ २।३।३३।४० ॥
brahmā ca brahma-loka-sthaḥ viṣṇuḥ kṣīroda-vāsakṛt .. sarva .. 2.3.33.40 ..
धत्ते च त्रिविधा मूर्ती प्रकृतिः शिवसम्भवा ॥ अंशेन लीलया सृष्टौ कलया बहुधा अपि ॥ ४१ ॥
धत्ते च त्रिविधाः मूर्ती प्रकृतिः शिव-सम्भवा ॥ अंशेन लीलया सृष्टौ कलया बहुधा अपि ॥ ४१ ॥
dhatte ca trividhāḥ mūrtī prakṛtiḥ śiva-sambhavā .. aṃśena līlayā sṛṣṭau kalayā bahudhā api .. 41 ..
मुखोद्भवा स्वयं वाणी वागधिष्ठातृदेवता ॥ वक्षःस्थलोद्भवा लक्ष्मीस्सर्वसम्पत्स्वरूपिणी ॥ ४२ ॥
मुख-उद्भवा स्वयम् वाणी वाच्-अधिष्ठातृदेवता ॥ सर्व ॥ ४२ ॥
mukha-udbhavā svayam vāṇī vāc-adhiṣṭhātṛdevatā .. sarva .. 42 ..
शिवा तेजस्सु देवानामाविर्भावं चकार सा ॥ निहत्य दानवान्सर्वान्देवेभ्यश्च श्रियं ददौ ॥ ४३ ॥
शिवा तेजस्सु देवानाम् आविर्भावम् चकार सा ॥ निहत्य दानवान् सर्वान् देवेभ्यः च श्रियम् ददौ ॥ ४३ ॥
śivā tejassu devānām āvirbhāvam cakāra sā .. nihatya dānavān sarvān devebhyaḥ ca śriyam dadau .. 43 ..
प्राप कल्पान्तरे जन्म जठरे दक्ष योषितः ॥ नाम्ना सती हरं प्राप दक्षस्तस्मै ददौ च ताम् ॥ ४४ ॥
प्राप कल्प-अन्तरे जन्म जठरे दक्ष-योषितः ॥ नाम्ना सती हरम् प्राप दक्षः तस्मै ददौ च ताम् ॥ ४४ ॥
prāpa kalpa-antare janma jaṭhare dakṣa-yoṣitaḥ .. nāmnā satī haram prāpa dakṣaḥ tasmai dadau ca tām .. 44 ..
देहं तत्याज योगेन श्रुत्वा सा भर्तृनिन्दनम् ॥ साद्य त्वत्तस्तु मेनायां जज्ञे जठरतश्शिवा ॥ ४५ ॥
देहम् तत्याज योगेन श्रुत्वा सा भर्तृ-निन्दनम् ॥ सा अद्य त्वत्तः तु मेनायाम् जज्ञे जठरतः शिवा ॥ ४५ ॥
deham tatyāja yogena śrutvā sā bhartṛ-nindanam .. sā adya tvattaḥ tu menāyām jajñe jaṭharataḥ śivā .. 45 ..
शिवा शिवस्य पत्नीयं शैल जन्मनिजन्मनि ॥ कल्पेकल्पे बुद्धिरूपा ज्ञानिनां जननी परा ॥ ४६॥
शिवा शिवस्य पत्नी इयम् शैल जन्मनि जन्मनि ॥ कल्पेकल्पे बुद्धि-रूपा ज्ञानिनाम् जननी परा ॥ ४६॥
śivā śivasya patnī iyam śaila janmani janmani .. kalpekalpe buddhi-rūpā jñāninām jananī parā .. 46..
जायते स्म सदा सिद्धा सिद्धिदा सिद्धिरूपिणी ॥ सत्या अस्थि चिताभस्म भक्त्या धत्ते हरस्स्वयम् ॥ ४७ ॥
जायते स्म सदा सिद्धा सिद्धि-दा सिद्धि-रूपिणी ॥ सत्याः अस्थि चिता-भस्म भक्त्या धत्ते हरः स्वयम् ॥ ४७ ॥
jāyate sma sadā siddhā siddhi-dā siddhi-rūpiṇī .. satyāḥ asthi citā-bhasma bhaktyā dhatte haraḥ svayam .. 47 ..
अतस्त्वं स्वेच्छया कन्यां देहि भद्रां हराय च ॥ अथवा सा स्वयं कान्तस्थाने यास्यत्यदास्यसि ॥ ४८ ॥
अतस् त्वम् स्व-इच्छया कन्याम् देहि भद्राम् हराय च ॥ अथवा सा स्वयम् कान्त-स्थाने यास्यति अदास्यसि ॥ ४८ ॥
atas tvam sva-icchayā kanyām dehi bhadrām harāya ca .. athavā sā svayam kānta-sthāne yāsyati adāsyasi .. 48 ..
कृत्वा प्रतिज्ञां देवेशो दृष्ट्वा क्लेशमसंख्यकम् ॥ दुहितुस्ते तपःस्थानमाजगाम द्विजात्मकः ॥ ४९॥
कृत्वा प्रतिज्ञाम् देवेशः दृष्ट्वा क्लेशम् असंख्यकम् ॥ दुहितुः ते तपः-स्थानम् आजगाम द्विजात्मकः ॥ ४९॥
kṛtvā pratijñām deveśaḥ dṛṣṭvā kleśam asaṃkhyakam .. duhituḥ te tapaḥ-sthānam ājagāma dvijātmakaḥ .. 49..
तामाश्वास्य वरं दत्त्वा जगाम निजमन्दिरम् ॥ तत्प्रार्थनावशाच्छम्भुर्ययाचे त्वां शिवां गिरे ॥ 2.3.33.५०॥
ताम् आश्वास्य वरम् दत्त्वा जगाम निज-मन्दिरम् ॥ तद्-प्रार्थना-वशात् शम्भुः ययाचे त्वाम् शिवाम् गिरे ॥ २।३।३३।५०॥
tām āśvāsya varam dattvā jagāma nija-mandiram .. tad-prārthanā-vaśāt śambhuḥ yayāce tvām śivām gire .. 2.3.33.50..
अंगीकृतं युवाभ्यां तच्छिवभक्तिरतात्मना ॥ विपरीतमतिर्जाता वद कस्माद्गिरीश्वर ॥ ५१॥
अंगीकृतम् युवाभ्याम् तत् शिव-भक्ति-रत-आत्मना ॥ विपरीत-मतिः जाता वद कस्मात् गिरीश्वर ॥ ५१॥
aṃgīkṛtam yuvābhyām tat śiva-bhakti-rata-ātmanā .. viparīta-matiḥ jātā vada kasmāt girīśvara .. 51..
तद्गत्वा प्रभुणा देव प्रार्थितेन त्वदन्तिकम् ॥ प्रस्थापिता वयं शीघ्रं ह्यृषयस्साप्यरुन्धती ॥ ५२ ॥
तत् गत्वा प्रभुणा देव प्रार्थितेन त्वद्-अन्तिकम् ॥ प्रस्थापिताः वयम् शीघ्रम् हि ऋषयः सा अपि अरुन्धती ॥ ५२ ॥
tat gatvā prabhuṇā deva prārthitena tvad-antikam .. prasthāpitāḥ vayam śīghram hi ṛṣayaḥ sā api arundhatī .. 52 ..
शिक्षयामो वयं त्वा हि दत्त्वा रुद्राय पार्वतीम् ॥ एवंकृते महानन्दो भविष्यति गिरे तव ॥ ५३ ॥
शिक्षयामः वयम् त्वा हि दत्त्वा रुद्राय पार्वतीम् ॥ एवंकृते महा-आनन्दः भविष्यति गिरे तव ॥ ५३ ॥
śikṣayāmaḥ vayam tvā hi dattvā rudrāya pārvatīm .. evaṃkṛte mahā-ānandaḥ bhaviṣyati gire tava .. 53 ..
शिवां शिवाय शैलेन्द्र स्वेच्छया चेन्न दास्यसि॥ भविता तद्विवाहोऽत्र भवितव्यबलेन हि ॥ ५४ ॥
शिवाम् शिवाय शैलेन्द्र स्व-इच्छया चेद् न दास्यसि॥ भविता तद्-विवाहः अत्र भवितव्य-बलेन हि ॥ ५४ ॥
śivām śivāya śailendra sva-icchayā ced na dāsyasi.. bhavitā tad-vivāhaḥ atra bhavitavya-balena hi .. 54 ..
वरं ददौ शिवायै स तपन्त्यै तात शंकरः ॥ नहीश्वरप्रतिज्ञातं विपरीताय कल्पते ॥ ५५ ॥
वरम् ददौ शिवायै स तपन्त्यै तात शंकरः ॥ नहि ईश्वर-प्रतिज्ञातम् विपरीताय कल्पते ॥ ५५ ॥
varam dadau śivāyai sa tapantyai tāta śaṃkaraḥ .. nahi īśvara-pratijñātam viparītāya kalpate .. 55 ..
अहो प्रतिज्ञा दुर्लंघ्या साधूनामीशवर्तिनाम् ॥ सर्वेषां जगतां मध्ये किमीशस्य पुनर्गिरे ॥ ५६ ॥
अहो प्रतिज्ञा दुर्लंघ्या साधूनाम् ईश-वर्तिनाम् ॥ सर्वेषाम् जगताम् मध्ये किम् ईशस्य पुनर् गिरे ॥ ५६ ॥
aho pratijñā durlaṃghyā sādhūnām īśa-vartinām .. sarveṣām jagatām madhye kim īśasya punar gire .. 56 ..
एको महेन्द्रश्शैलानां पक्षांश्चिच्छेद लीलया ॥ पार्वती लीलया मेरोश्शृङ्गभङ्गं चकार च ॥ ५७।
एकः महा-इन्द्रः शैलानाम् पक्षान् चिच्छेद लीलया ॥ पार्वती लीलया मेरोः शृङ्ग-भङ्गम् चकार च ॥ ५७।
ekaḥ mahā-indraḥ śailānām pakṣān ciccheda līlayā .. pārvatī līlayā meroḥ śṛṅga-bhaṅgam cakāra ca .. 57.
एकार्थे नहि शैलेश नाश्यास्सर्वा हि सम्पदः ॥ एकं त्यजेत्कुलस्यार्थे श्रुतिरेषा सनातनी ॥ ५८॥
एक-अर्थे नहि शैलेश नाश्याः सर्वाः हि सम्पदः ॥ एकम् त्यजेत् कुलस्य अर्थे श्रुतिः एषा सनातनी ॥ ५८॥
eka-arthe nahi śaileśa nāśyāḥ sarvāḥ hi sampadaḥ .. ekam tyajet kulasya arthe śrutiḥ eṣā sanātanī .. 58..
दत्त्वा विप्राय स्वसुतामनरण्यो नृपेश्वर ॥ ब्राह्मणाद्भयमापन्नो ररक्ष निजसम्पदम् ॥ ५९ ॥
दत्त्वा विप्राय स्व-सुताम् अनरण्यः नृप-ईश्वर ॥ ब्राह्मणात् भयम् आपन्नः ररक्ष निज-सम्पदम् ॥ ५९ ॥
dattvā viprāya sva-sutām anaraṇyaḥ nṛpa-īśvara .. brāhmaṇāt bhayam āpannaḥ rarakṣa nija-sampadam .. 59 ..
तमाशु बोधयामासुर्नीतिशास्त्रविदो जनाः ॥ ब्रह्मशापाद्विभीताश्च गुरवो ज्ञातिसत्तमाः ॥ 2.3.33.६०॥
तम् आशु बोधयामासुः नीति-शास्त्र-विदः जनाः ॥ ब्रह्म-शापात् विभीताः च गुरवः ज्ञाति-सत्तमाः ॥ २।३।३३।६०॥
tam āśu bodhayāmāsuḥ nīti-śāstra-vidaḥ janāḥ .. brahma-śāpāt vibhītāḥ ca guravaḥ jñāti-sattamāḥ .. 2.3.33.60..
शैलराज त्वमप्येव सुतां दत्त्वा शिवाय च ॥ रक्ष सर्वान्बंधुवर्गान्वशं कुरु सुरानपि ॥ ६१॥
शैलराज त्वम् अपि एव सुताम् दत्त्वा शिवाय च ॥ रक्ष सर्वान् बंधु-वर्गान् वशम् कुरु सुरान् अपि ॥ ६१॥
śailarāja tvam api eva sutām dattvā śivāya ca .. rakṣa sarvān baṃdhu-vargān vaśam kuru surān api .. 61..
ब्रह्मोवाच ।।
इत्याकर्ण्य वसिष्ठस्य वचनं स प्रह स्य च ॥ पप्रच्छ नृपवार्त्ताश्च हृदयेन विदूयता ॥ ६२॥
इति आकर्ण्य वसिष्ठस्य वचनम् स प्रह स्य च ॥ पप्रच्छ नृप-वार्त्ताः च हृदयेन विदूयता ॥ ६२॥
iti ākarṇya vasiṣṭhasya vacanam sa praha sya ca .. papraccha nṛpa-vārttāḥ ca hṛdayena vidūyatā .. 62..
हिमालय उवाच ।।
कस्य वंशोद्भवो ब्रह्मन्ननरण्यो नृपश्चसः ॥ सुतां दत्त्वा स च कथं ररक्षाखिलसम्पदः ॥ ६३ ॥
कस्य वंश-उद्भवः ब्रह्मन् अनरण्यः ॥ सुताम् दत्त्वा स च कथम् ररक्ष अखिल-सम्पदः ॥ ६३ ॥
kasya vaṃśa-udbhavaḥ brahman anaraṇyaḥ .. sutām dattvā sa ca katham rarakṣa akhila-sampadaḥ .. 63 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वसिष्ठस्तु शैलवाक्यं प्रसन्नधीः ॥ प्रोवाच गिरये तस्मै नृपवार्त्ता सुखावहाम्॥ ६४॥
इति श्रुत्वा वसिष्ठः तु शैल-वाक्यम् प्रसन्न-धीः ॥ प्रोवाच गिरये तस्मै नृप-वार्त्ता सुख-आवहाम्॥ ६४॥
iti śrutvā vasiṣṭhaḥ tu śaila-vākyam prasanna-dhīḥ .. provāca giraye tasmai nṛpa-vārttā sukha-āvahām.. 64..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे गिरिसांत्वनोनाम त्रयस्त्रिंशोऽध्यायः॥ ३३॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे गिरिसांत्वनः नाम त्रयस्त्रिंशः अध्यायः॥ ३३॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe girisāṃtvanaḥ nāma trayastriṃśaḥ adhyāyaḥ.. 33..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In