| |
|

This overlay will guide you through the buttons:

।। वसिष्ठ उवाच ।।
मनोर्वंशोद्भवो राजा सोऽनरण्यो नृपेश्वर ॥ इन्द्रसावर्णिसंज्ञस्य चतुर्दशमितस्य हि॥ १॥
मनोः वंश-उद्भवः राजा सः अनरण्यः नृप-ईश्वर ॥ इन्द्रसावर्णि-संज्ञस्य चतुर्दश-मितस्य हि॥ १॥
manoḥ vaṃśa-udbhavaḥ rājā saḥ anaraṇyaḥ nṛpa-īśvara .. indrasāvarṇi-saṃjñasya caturdaśa-mitasya hi.. 1..
अनरण्यो नृपश्रेष्ठस्स प्तद्वीपमहीपतिः ॥ शम्भुभक्तो विशेषेण मङ्गलारण्यजो बली ॥ २॥
अनरण्यः नृप-श्रेष्ठः स प्तद्वीपा-महीपतिः ॥ शम्भु-भक्तः विशेषेण मङ्गलारण्य-जः बली ॥ २॥
anaraṇyaḥ nṛpa-śreṣṭhaḥ sa ptadvīpā-mahīpatiḥ .. śambhu-bhaktaḥ viśeṣeṇa maṅgalāraṇya-jaḥ balī .. 2..
भृगुं पुरोधसं कृत्वा शतं यज्ञांश्चकार सः ॥ न स्वीचकार शक्रत्वं दीयमानं सुरैरपि ॥ ३॥
भृगुम् पुरोधसम् कृत्वा शतम् यज्ञान् चकार सः ॥ न स्वीचकार शक्र-त्वम् दीयमानम् सुरैः अपि ॥ ३॥
bhṛgum purodhasam kṛtvā śatam yajñān cakāra saḥ .. na svīcakāra śakra-tvam dīyamānam suraiḥ api .. 3..
बभूवश्शतपुत्राश्च राज्ञस्तस्य हिमालय ॥ कन्यैका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥ ४ ॥
बभूवः शत-पुत्राः च राज्ञः तस्य हिमालय ॥ कन्या एका सुन्दरी नाम्ना पद्मा पद्मालया समा ॥ ४ ॥
babhūvaḥ śata-putrāḥ ca rājñaḥ tasya himālaya .. kanyā ekā sundarī nāmnā padmā padmālayā samā .. 4 ..
यस्स्नेहः पुत्रशतके कन्यायाञ्च ततोऽधिकः ॥ नृपस्य तस्य तस्यां हि बभूव नगसत्तम ॥ ५॥
यः स्नेहः पुत्र-शतके कन्यायाः च ततस् अधिकः ॥ नृपस्य तस्य तस्याम् हि बभूव नग-सत्तम ॥ ५॥
yaḥ snehaḥ putra-śatake kanyāyāḥ ca tatas adhikaḥ .. nṛpasya tasya tasyām hi babhūva naga-sattama .. 5..
प्राणाधिकाः प्रियतमा महिष्यस्सर्वयोषितः ॥ नृपस्य पत्न्यः पञ्चासन्सर्वास्सौभाग्यसंयुता ॥ ६ ॥
प्राण-अधिकाः प्रियतमाः महिष्यः सर्व-योषितः ॥ नृपस्य पत्न्यः पञ्च आसन् सर्वाः सौभाग्य-संयुता ॥ ६ ॥
prāṇa-adhikāḥ priyatamāḥ mahiṣyaḥ sarva-yoṣitaḥ .. nṛpasya patnyaḥ pañca āsan sarvāḥ saubhāgya-saṃyutā .. 6 ..
सा कन्या यौवनस्था च बभूव स्वपितुर्गृहे ॥ पत्रं प्रस्थापयामास सुवरान यनायसः ॥ ७ ॥
सा कन्या यौवन-स्था च बभूव स्व-पितुः गृहे ॥ पत्रम् प्रस्थापयामास सुवरान् यन आयसः ॥ ७ ॥
sā kanyā yauvana-sthā ca babhūva sva-pituḥ gṛhe .. patram prasthāpayāmāsa suvarān yana āyasaḥ .. 7 ..
एकदा पिप्पलादर्षिर्गर्न्तुं स्वाश्रममुत्सुकः ॥ तपःस्थाने निर्जने च गन्धर्वं स ददर्श ह ॥ ८॥
एकदा पिप्पलाद-ऋषिः गर्न्तुम् स्व-आश्रमम् उत्सुकः ॥ तपः-स्थाने निर्जने च गन्धर्वम् स ददर्श ह ॥ ८॥
ekadā pippalāda-ṛṣiḥ garntum sva-āśramam utsukaḥ .. tapaḥ-sthāne nirjane ca gandharvam sa dadarśa ha .. 8..
स्त्रीयुतं मग्नचित्तं च शृङ्गारे रससागरे ॥ विहरन्तं महाप्रेम्णा कामशास्त्रविशारदम् ॥ ९॥
स्त्री-युतम् मग्न-चित्तम् च शृङ्गारे रस-सागरे ॥ विहरन्तम् महा-प्रेम्णा कामशास्त्र-विशारदम् ॥ ९॥
strī-yutam magna-cittam ca śṛṅgāre rasa-sāgare .. viharantam mahā-premṇā kāmaśāstra-viśāradam .. 9..
दृष्ट्वा तं मुनिशार्दूलः सकामः संबभूव सः ॥ तपत्स्वदत्तचित्तश्चाचिंतयद्दारसंग्रहम् ॥ 2.3.34.१० ॥
दृष्ट्वा तम् मुनि-शार्दूलः स कामः संबभूव सः ॥ तपत्स्व-दत्त-चित्तः च अचिंतयत् दार-संग्रहम् ॥ २।३।३४।१० ॥
dṛṣṭvā tam muni-śārdūlaḥ sa kāmaḥ saṃbabhūva saḥ .. tapatsva-datta-cittaḥ ca aciṃtayat dāra-saṃgraham .. 2.3.34.10 ..
एवंवृत्तस्य तस्यैव पिप्पलादस्य सन्मुनेः॥ कियत्कालो गतस्तत्र कामोन्मथितचेतसः ॥ ११॥
एवंवृत्तस्य तस्य एव पिप्पलादस्य सत्-मुनेः॥ कियत्कालः गतः तत्र काम-उन्मथित-चेतसः ॥ ११॥
evaṃvṛttasya tasya eva pippalādasya sat-muneḥ.. kiyatkālaḥ gataḥ tatra kāma-unmathita-cetasaḥ .. 11..
एकदा पुष्पभद्रायां स्नातुं गच्छन्मुनीश्वरः ॥ ददर्श पद्मां युवतीं पद्मामिव मनोरमाम् ॥ १२॥
एकदा पुष्पभद्रायाम् स्नातुम् गच्छन् मुनि-ईश्वरः ॥ ददर्श पद्माम् युवतीम् पद्माम् इव मनोरमाम् ॥ १२॥
ekadā puṣpabhadrāyām snātum gacchan muni-īśvaraḥ .. dadarśa padmām yuvatīm padmām iva manoramām .. 12..
केयं कन्येति पप्रच्छ समीपस्थाञ्जनान्मुनिः ॥ जना निवेदयांचक्रुर्नत्वा शापनियन्त्रिताः ॥ १३॥
का इयम् कन्या इति पप्रच्छ समीप-स्थान् जनान् मुनिः ॥ जनाः निवेदयांचक्रुः नत्वा शाप-नियन्त्रिताः ॥ १३॥
kā iyam kanyā iti papraccha samīpa-sthān janān muniḥ .. janāḥ nivedayāṃcakruḥ natvā śāpa-niyantritāḥ .. 13..
जना ऊचुः ।।
अनरण्यसुतेयं वै पद्मा नाम रमापरा॥ वरारोहा प्रार्थ्यमाना नृपश्रेष्ठैर्गुणालया ॥ १४ ॥
अनरण्य-सुता इयम् वै पद्मा नाम रमा-अपरा॥ वरारोहा प्रार्थ्यमाना नृप-श्रेष्ठैः गुण-आलया ॥ १४ ॥
anaraṇya-sutā iyam vai padmā nāma ramā-aparā.. varārohā prārthyamānā nṛpa-śreṣṭhaiḥ guṇa-ālayā .. 14 ..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा स मुनिर्वाक्यं जनानां तथ्यवादिनाम् ॥ चुक्षोभातीव मनसि तल्लिप्सुर भवच्च सः ॥ १५ ॥
तत् श्रुत्वा स मुनिः वाक्यम् जनानाम् तथ्य-वादिनाम् ॥ चुक्षोभ अतीव मनसि तद्-लिप्सुः अ भवत् च सः ॥ १५ ॥
tat śrutvā sa muniḥ vākyam janānām tathya-vādinām .. cukṣobha atīva manasi tad-lipsuḥ a bhavat ca saḥ .. 15 ..
मुनिः स्नात्वाभीष्टदेवं सम्पूज्य विधिवच्छिवम् ॥ जगाम कामी भिक्षार्थमनरण्यसभां गिरे ॥ १६ ॥
मुनिः स्नात्वा अभीष्टदेवम् सम्पूज्य विधिवत् शिवम् ॥ जगाम कामी भिक्षा-अर्थम् अन् अरण्य-सभाम् गिरे ॥ १६ ॥
muniḥ snātvā abhīṣṭadevam sampūjya vidhivat śivam .. jagāma kāmī bhikṣā-artham an araṇya-sabhām gire .. 16 ..
राजा शीघ्रं मुनिं दृष्ट्वा प्रणनाम भयाकुलः ॥ मधुपर्कादिकं दत्त्वा पूजयामास भक्तितः ॥ १७॥
राजा शीघ्रम् मुनिम् दृष्ट्वा प्रणनाम भय-आकुलः ॥ मधुपर्क-आदिकम् दत्त्वा पूजयामास भक्तितः ॥ १७॥
rājā śīghram munim dṛṣṭvā praṇanāma bhaya-ākulaḥ .. madhuparka-ādikam dattvā pūjayāmāsa bhaktitaḥ .. 17..
कामात्सर्वं गृहीत्वा च ययाचे कन्यकां मुनिः ॥ मौनी बभूव नृपतिः किञ्चिनिर्वक्तुमक्षमः ॥ १८ ॥
कामात् सर्वम् गृहीत्वा च ययाचे कन्यकाम् मुनिः ॥ मौनी बभूव नृपतिः किञ्चिद् निर्वक्तुम् अक्षमः ॥ १८ ॥
kāmāt sarvam gṛhītvā ca yayāce kanyakām muniḥ .. maunī babhūva nṛpatiḥ kiñcid nirvaktum akṣamaḥ .. 18 ..
मुनिर्ययाचे कन्यां स तां देहीति नृपेश्वर ॥ अन्यथा भस्मसात्सर्वं करिष्यामि क्षणेन च ॥ १९ ॥
मुनिः ययाचे कन्याम् स ताम् देहि इति नृप-ईश्वर ॥ अन्यथा भस्मसात् सर्वम् करिष्यामि क्षणेन च ॥ १९ ॥
muniḥ yayāce kanyām sa tām dehi iti nṛpa-īśvara .. anyathā bhasmasāt sarvam kariṣyāmi kṣaṇena ca .. 19 ..
सर्वे बभूववुराच्छन्ना गणास्तत्तेजसा मुने ॥ रुरोद राजा सगणो दृष्ट्वा विप्रं जरातुरम् ॥ 2.3.34.२० ॥
सर्वे बभूववुः आच्छन्नाः गणाः तद्-तेजसा मुने ॥ रुरोद राजा स गणः दृष्ट्वा विप्रम् जरा-आतुरम् ॥ २।३।३४।२० ॥
sarve babhūvavuḥ ācchannāḥ gaṇāḥ tad-tejasā mune .. ruroda rājā sa gaṇaḥ dṛṣṭvā vipram jarā-āturam .. 2.3.34.20 ..
महिष्यो रुरुदुस्सर्वा इतिकर्त्तव्यताक्षमाः ॥ मूर्च्छामाप महाराज्ञी कन्यामाता शुचाकुला ॥ २१ ॥
महिष्यः रुरुदुः सर्वाः इतिकर्त्तव्य-ता-क्षमाः ॥ मूर्च्छाम् आप महा-राज्ञी कन्या-माता शुचा आकुला ॥ २१ ॥
mahiṣyaḥ ruruduḥ sarvāḥ itikarttavya-tā-kṣamāḥ .. mūrcchām āpa mahā-rājñī kanyā-mātā śucā ākulā .. 21 ..
बभूवुस्तनयास्सर्वे शोकाकुलि तमानसाः ॥ सर्वं शोकाकुलं जातं नृपसम्बन्धि शैलप ॥ २२ ॥
बभूवुः तनयाः सर्वे शोक-आकुलि-त-मानसाः ॥ सर्वम् शोक-आकुलम् जातम् नृप-सम्बन्धि शैलप ॥ २२ ॥
babhūvuḥ tanayāḥ sarve śoka-ākuli-ta-mānasāḥ .. sarvam śoka-ākulam jātam nṛpa-sambandhi śailapa .. 22 ..
एतस्मिन्नन्तरे प्राज्ञो द्विजो गुरुरनुत्तमः ॥ पुरोहितश्च मतिमानागतो नृपसन्निधिम् ॥ २३॥
एतस्मिन् अन्तरे प्राज्ञः द्विजः गुरुः अनुत्तमः ॥ पुरोहितः च मतिमान् आगतः नृप-सन्निधिम् ॥ २३॥
etasmin antare prājñaḥ dvijaḥ guruḥ anuttamaḥ .. purohitaḥ ca matimān āgataḥ nṛpa-sannidhim .. 23..
राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरः ॥ सर्वं निवेदयांचक्रे पप्रच्छोचितमाशु तत् ॥ २४॥
राजा प्रणम्य सम्पूज्य रुरोद च तयोः पुरस् ॥ सर्वम् निवेदयांचक्रे पप्रच्छ उचितम् आशु तत् ॥ २४॥
rājā praṇamya sampūjya ruroda ca tayoḥ puras .. sarvam nivedayāṃcakre papraccha ucitam āśu tat .. 24..
अथ राज्ञो गुरुर्विप्रः पण्डितश्च पुरोहितः ॥ अपि द्वौ शास्त्रनीतिज्ञौ बोधयामासतुर्नृपम् ॥ २५ ॥
अथ राज्ञः गुरुः विप्रः पण्डितः च पुरोहितः ॥ अपि द्वौ शास्त्र-नीति-ज्ञौ बोधयामासतुः नृपम् ॥ २५ ॥
atha rājñaḥ guruḥ vipraḥ paṇḍitaḥ ca purohitaḥ .. api dvau śāstra-nīti-jñau bodhayāmāsatuḥ nṛpam .. 25 ..
शोकाकुलाश्च महिषीर्नृपबालाँश्च कन्यकाम् ॥ उत्तमा नीतिमादृत्य सर्वेषां हितकारिणीम् ॥ २६॥
शोक-आकुलाः च महिषीः नृप-बालान् च कन्यकाम् ॥ उत्तमा नीतिम् आदृत्य सर्वेषाम् हित-कारिणीम् ॥ २६॥
śoka-ākulāḥ ca mahiṣīḥ nṛpa-bālān ca kanyakām .. uttamā nītim ādṛtya sarveṣām hita-kāriṇīm .. 26..
गुरुपुरोधसावूचतुः।।
शृणु राजन्महाप्राज्ञ वचो नौ सद्धितावहम् ॥ मा शुचः सपरीवारश्शास्त्रे कुरु मतिं सतीम् ॥ २७॥
शृणु राजन् महा-प्राज्ञ वचः नौ सत्-हित-अवहम् ॥ मा शुचः स परीवारः शास्त्रे कुरु मतिम् सतीम् ॥ २७॥
śṛṇu rājan mahā-prājña vacaḥ nau sat-hita-avaham .. mā śucaḥ sa parīvāraḥ śāstre kuru matim satīm .. 27..
अद्य वाब्ददिनान्ते वा दातव्या कन्यका नृप ॥ पात्राय विप्रायान्यस्मै कस्मै चिद्वा विशेषतः ॥ २८ ॥
अद्य वा अब्द-दिन-अन्ते वा दातव्या कन्यका नृप ॥ पात्राय विप्राय अन्यस्मै कस्मै चित् वा विशेषतः ॥ २८ ॥
adya vā abda-dina-ante vā dātavyā kanyakā nṛpa .. pātrāya viprāya anyasmai kasmai cit vā viśeṣataḥ .. 28 ..
सत्पात्रं ब्राह्मणादन्यन्न पश्यावो जगत्त्रये ॥ सुतां दत्त्वा च मुनये रक्ष स्वां सर्वसम्पदम् ॥ २९ ॥
सत्पात्रम् ब्राह्मणात् अन्यत् न पश्यावः जगत्त्रये ॥ सुताम् दत्त्वा च मुनये रक्ष स्वाम् सर्व-सम्पदम् ॥ २९ ॥
satpātram brāhmaṇāt anyat na paśyāvaḥ jagattraye .. sutām dattvā ca munaye rakṣa svām sarva-sampadam .. 29 ..
राजन्नेकनिमित्तेन सर्वसंपद्विनश्यति ॥ सर्वं रक्षति तं त्यक्त्वा विना तं शरणागतम् ॥ 2.3.34.३० ॥
राजन् एक-निमित्तेन सर्व-संपद् विनश्यति ॥ सर्वम् रक्षति तम् त्यक्त्वा विना तम् शरण-आगतम् ॥ २।३।३४।३० ॥
rājan eka-nimittena sarva-saṃpad vinaśyati .. sarvam rakṣati tam tyaktvā vinā tam śaraṇa-āgatam .. 2.3.34.30 ..
राजा प्राज्ञवचः श्रुत्वा विलप्य च मुहुर्मुहुः ॥ कन्यां सालंकृतां कृत्वा मुनीन्द्राय ददौ किल ॥ ३१॥
राजा प्राज्ञ-वचः श्रुत्वा विलप्य च मुहुर् मुहुर् ॥ कन्याम् स अलंकृताम् कृत्वा मुनि-इन्द्राय ददौ किल ॥ ३१॥
rājā prājña-vacaḥ śrutvā vilapya ca muhur muhur .. kanyām sa alaṃkṛtām kṛtvā muni-indrāya dadau kila .. 31..
वसिष्ठ उवाच ।।
कान्तां गृहीत्वा स मुनिर्विवाह्य विधिवद्गिरे ॥ पद्मां पद्मोपमां तां वै मुदितस्स्वालयं ययौ ॥ ३२ ॥
कान्ताम् गृहीत्वा स मुनिः विवाह्य विधिवत् गिरे ॥ पद्माम् पद्म-उपमाम् ताम् वै मुदितः स्व-आलयम् ययौ ॥ ३२ ॥
kāntām gṛhītvā sa muniḥ vivāhya vidhivat gire .. padmām padma-upamām tām vai muditaḥ sva-ālayam yayau .. 32 ..
राजा सर्वान्परित्यज्य दत्त्वा वृद्धाय चात्मजाम् ॥ ग्लानिं चित्ते समाधाय जगाम तपसे वनम् ॥ ३३॥
राजा सर्वान् परित्यज्य दत्त्वा वृद्धाय च आत्मजाम् ॥ ग्लानिम् चित्ते समाधाय जगाम तपसे वनम् ॥ ३३॥
rājā sarvān parityajya dattvā vṛddhāya ca ātmajām .. glānim citte samādhāya jagāma tapase vanam .. 33..
तद्भार्य्यापि वनं याते प्राणनाथे तदा गिरे ॥ भर्तुश्च दुहितुश्शोकात्प्राणांस्तत्याज सुन्दरी ॥ ३४ ॥
तद्-भार्य्या अपि वनम् याते प्राणनाथे तदा गिरे ॥ भर्तुः च दुहितुः शोकात् प्राणान् तत्याज सुन्दरी ॥ ३४ ॥
tad-bhāryyā api vanam yāte prāṇanāthe tadā gire .. bhartuḥ ca duhituḥ śokāt prāṇān tatyāja sundarī .. 34 ..
पूज्याः पुत्राश्च भृत्याश्च मूर्च्छामापुर्नृपं विना ॥ शुशुचुः श्वाससंयुक्तं ज्ञात्वा सर्वेपरे जनाः॥ ३५॥
पूज्याः पुत्राः च भृत्याः च मूर्च्छाम् आपुः नृपम् विना ॥ शुशुचुः श्वास-संयुक्तम् ज्ञात्वा सर्वे परे जनाः॥ ३५॥
pūjyāḥ putrāḥ ca bhṛtyāḥ ca mūrcchām āpuḥ nṛpam vinā .. śuśucuḥ śvāsa-saṃyuktam jñātvā sarve pare janāḥ.. 35..
अनरण्यो वनं गत्वा तपस्तप्त्वाति शंकरम् ॥ समाराध्य ययौ भक्त्या शिवलोकमनामयम् ॥ ३६॥
अनरण्यः वनम् गत्वा तपः तप्त्वा अति शंकरम् ॥ समाराध्य ययौ भक्त्या शिव-लोकम् अनामयम् ॥ ३६॥
anaraṇyaḥ vanam gatvā tapaḥ taptvā ati śaṃkaram .. samārādhya yayau bhaktyā śiva-lokam anāmayam .. 36..
नृपस्य कीर्तिमान्नाम्ना ज्येष्ठपुत्रोथ धार्मिकः ॥ पुत्रवत्पालयामास प्रजा राज्यं चकार ह ॥ ३७ ॥
नृपस्य कीर्तिमान् नाम्ना धार्मिकः ॥ पुत्र-वत् पालयामास प्रजाः राज्यम् चकार ह ॥ ३७ ॥
nṛpasya kīrtimān nāmnā dhārmikaḥ .. putra-vat pālayāmāsa prajāḥ rājyam cakāra ha .. 37 ..
इति ते कथितं शैलानरण्यचरितं शुभम् ॥ कन्यां दत्त्वा यथारक्षद्वंशं चाप्यखिलं धनम् ॥ ३८॥
इति ते कथितम् शैलानरण्य-चरितम् शुभम् ॥ कन्याम् दत्त्वा यथा अरक्षत् वंशम् च अपि अखिलम् धनम् ॥ ३८॥
iti te kathitam śailānaraṇya-caritam śubham .. kanyām dattvā yathā arakṣat vaṃśam ca api akhilam dhanam .. 38..
शैलराज त्वमप्येवं सुतां दत्त्वा शिवाय च ॥ रक्ष सर्वकुलं सर्वान्वशान्कुरु सुरानपि ॥ ३९॥
शैलराज त्वम् अपि एवम् सुताम् दत्त्वा शिवाय च ॥ रक्ष सर्व-कुलम् सर्वान् वशान् कुरु सुरान् अपि ॥ ३९॥
śailarāja tvam api evam sutām dattvā śivāya ca .. rakṣa sarva-kulam sarvān vaśān kuru surān api .. 39..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डेऽनरण्यचरितवर्णनं नाम चतुस्त्रिंशोऽध्यायः ॥ ३४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे अनरण्यचरितवर्णनम् नाम चतुस्त्रिंशः अध्यायः ॥ ३४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe anaraṇyacaritavarṇanam nāma catustriṃśaḥ adhyāyaḥ .. 34..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In