| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
अनरण्यस्य चरितं सुतादानसमन्वितम् ॥ श्रुत्वा गिरिवरस्तात किं चकार च तद्वद ॥ १ ॥
अनरण्यस्य चरितम् सुता-दान-समन्वितम् ॥ श्रुत्वा गिरि-वरः तात किम् चकार च तत् वद ॥ १ ॥
anaraṇyasya caritam sutā-dāna-samanvitam .. śrutvā giri-varaḥ tāta kim cakāra ca tat vada .. 1 ..
ब्रह्मोवाच ।।
अनरण्यस्य चरितं कन्यादानसमन्वितम्॥ श्रुत्वा पप्रच्छ शैलेशो वसिष्ठं साञ्जलिः पुनः॥ २॥
अनरण्यस्य चरितम् कन्या-दान-समन्वितम्॥ श्रुत्वा पप्रच्छ शैलेशः वसिष्ठम् स अञ्जलिः पुनर्॥ २॥
anaraṇyasya caritam kanyā-dāna-samanvitam.. śrutvā papraccha śaileśaḥ vasiṣṭham sa añjaliḥ punar.. 2..
शैलेश उवाच ।।
वसिष्ठ मुनिशार्दूल ब्रह्मपुत्र कृपानिधे ॥ अनरण्यचरित्रन्ते कथितं परमाद्भुतम् ॥ ३॥
वसिष्ठ मुनि-शार्दूल ब्रह्म-पुत्र कृपा-निधे ॥ अनरण्य-चरित्र-अन्ते कथितम् परम-अद्भुतम् ॥ ३॥
vasiṣṭha muni-śārdūla brahma-putra kṛpā-nidhe .. anaraṇya-caritra-ante kathitam parama-adbhutam .. 3..
अनरण्यसुता यस्मात् पिप्पलादं मुनिं पतिम् ॥ सम्प्राप्य किमकार्षीत्सा तच्चरित्रं मुदावहम्॥ ४॥
अनरण्य-सुता यस्मात् पिप्पलादम् मुनिम् पतिम् ॥ सम्प्राप्य किम् अकार्षीत् सा तद्-चरित्रम् मुदा आवहम्॥ ४॥
anaraṇya-sutā yasmāt pippalādam munim patim .. samprāpya kim akārṣīt sā tad-caritram mudā āvaham.. 4..
वसिष्ठ उवाच ।।
पिप्पलादो मुनिवरो वयसा जर्जरोधिकः ॥ गत्वा निजाश्रमं नार्याऽनरण्यसुतया तया ॥ ५॥
॥ गत्वा निज-आश्रमम् नार्या अनरण्य-सुतया तया ॥ ५॥
.. gatvā nija-āśramam nāryā anaraṇya-sutayā tayā .. 5..
उवास तत्र सुप्रीत्या तपस्वी नातिलम्पटः॥ तत्रारण्ये गिरिवर स नित्यं निजधर्मकृत् ॥ ६ ॥
उवास तत्र सु प्रीत्या तपस्वी न अति लम्पटः॥ तत्र अरण्ये गिरि-वर स नित्यम् निज-धर्म-कृत् ॥ ६ ॥
uvāsa tatra su prītyā tapasvī na ati lampaṭaḥ.. tatra araṇye giri-vara sa nityam nija-dharma-kṛt .. 6 ..
अथानरण्यकन्या सा सिषेवे भक्तितो मुनिम् ॥ कर्मणा मनसा वाचा लक्ष्मीनारायणं यथा ॥ ७॥
अथा अनरण्य-कन्या सा सिषेवे भक्तितः मुनिम् ॥ कर्मणा मनसा वाचा लक्ष्मी-नारायणम् यथा ॥ ७॥
athā anaraṇya-kanyā sā siṣeve bhaktitaḥ munim .. karmaṇā manasā vācā lakṣmī-nārāyaṇam yathā .. 7..
एकदा स्वर्णदीं स्नातुं गच्छन्तीं सुस्मितां च ताम् ॥ ददर्श पथि धर्मश्च मायया वृषरूपधृक् ॥ ८ ॥
एकदा स्वर्णदीम् स्नातुम् गच्छन्तीम् सु स्मिताम् च ताम् ॥ ददर्श पथि धर्मः च मायया वृष-रूपधृक् ॥ ८ ॥
ekadā svarṇadīm snātum gacchantīm su smitām ca tām .. dadarśa pathi dharmaḥ ca māyayā vṛṣa-rūpadhṛk .. 8 ..
चारुरत्नरथस्थश्च नानालं कारभूषितः ॥ नवीनयौवनश्श्रीमान्कामदेवसभप्रभः ॥ ९ ॥
चारु-रत्न-रथ-स्थः च नाना अलम् कार-भूषितः ॥ नवीन-यौवनः श्रीमान् कामदेव-सभ-प्रभः ॥ ९ ॥
cāru-ratna-ratha-sthaḥ ca nānā alam kāra-bhūṣitaḥ .. navīna-yauvanaḥ śrīmān kāmadeva-sabha-prabhaḥ .. 9 ..
दृष्ट्वा तां सुन्दरीं पद्मामुवाच स वृषो विभुः ॥ विज्ञातुं भावमन्तःस्थं तस्याश्च मुनियोषितः ॥ 2.3.35.१० ॥
दृष्ट्वा ताम् सुन्दरीम् पद्माम् उवाच स वृषः विभुः ॥ विज्ञातुम् भावम् अन्तःस्थम् तस्याः च मुनि-योषितः ॥ २।३।३५।१० ॥
dṛṣṭvā tām sundarīm padmām uvāca sa vṛṣaḥ vibhuḥ .. vijñātum bhāvam antaḥstham tasyāḥ ca muni-yoṣitaḥ .. 2.3.35.10 ..
।। धर्म उवाच ।।
अयि सुन्दरि लक्ष्मीर्वै राजयोग्ये मनोहरे ॥ अतीव यौवनस्थे च कामिनि स्थिरयौवने ॥ ११ ॥
अयि सुन्दरि लक्ष्मीः वै राज-योग्ये मनोहरे ॥ अतीव यौवन-स्थे च कामिनि स्थिर-यौवने ॥ ११ ॥
ayi sundari lakṣmīḥ vai rāja-yogye manohare .. atīva yauvana-sthe ca kāmini sthira-yauvane .. 11 ..
जरातुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ॥ सत्यं वदामि तन्वंगि समीपे नैव राजसे ॥ १२ ॥
जरा-आतुरस्य वृद्धस्य पिप्पलादस्य वै मुनेः ॥ सत्यम् वदामि तन्वंगि समीपे ना एव राजसे ॥ १२ ॥
jarā-āturasya vṛddhasya pippalādasya vai muneḥ .. satyam vadāmi tanvaṃgi samīpe nā eva rājase .. 12 ..
विप्रं तपस्सु निरतं निर्घृणं मरणोन्मुखम् ॥ त्वक्त्वा मां पश्य राजेन्द्रं रतिशूरं स्मरातुरम् ॥ १३ ॥
विप्रम् तपस्सु निरतम् निर्घृणम् मरण-उन्मुखम् ॥ त्वक्त्वा माम् पश्य राज-इन्द्रम् रति-शूरम् स्मर-आतुरम् ॥ १३ ॥
vipram tapassu niratam nirghṛṇam maraṇa-unmukham .. tvaktvā mām paśya rāja-indram rati-śūram smara-āturam .. 13 ..
प्राप्नोति सुन्दरी पुण्यात्सौन्दर्य्यं पूर्वजन्मनः ॥ सफलं तद्भवेत्सर्वं रसिकालिंगनेन च ॥ १४॥
प्राप्नोति सुन्दरी पुण्यात् सौन्दर्य्यम् पूर्व-जन्मनः ॥ सफलम् तत् भवेत् सर्वम् रसिक-आलिंगनेन च ॥ १४॥
prāpnoti sundarī puṇyāt saundaryyam pūrva-janmanaḥ .. saphalam tat bhavet sarvam rasika-āliṃganena ca .. 14..
सहस्रसुन्दरीकान्तं कामशास्त्रविशारदम् ॥ किंकरं कुरु मां कान्ते सम्परित्यज्य तं पतिम् ॥ १५ ॥
॥ किंकरम् कुरु माम् कान्ते सम्परित्यज्य तम् पतिम् ॥ १५ ॥
.. kiṃkaram kuru mām kānte samparityajya tam patim .. 15 ..
निर्जने कानने रम्ये शैले शैले नदीतटे ॥ विहरस्व मया सार्द्धं जन्मेदं सफलं कुरु ॥ १६ ॥
निर्जने कानने रम्ये शैले शैले नदी-तटे ॥ विहरस्व मया सार्द्धम् जन्म इदम् सफलम् कुरु ॥ १६ ॥
nirjane kānane ramye śaile śaile nadī-taṭe .. viharasva mayā sārddham janma idam saphalam kuru .. 16 ..
।। वसिष्ठ उवाच ।।
इत्येवमुक्तवन्तं सा स्वरथादवरुह्य च ॥ ग्रहीतुमुत्सुकं हस्ते तमुवाच पतिव्रता ॥ १७ ॥
इति एवम् उक्तवन्तम् सा स्व-रथात् अवरुह्य च ॥ ग्रहीतुम् उत्सुकम् हस्ते तम् उवाच पतिव्रता ॥ १७ ॥
iti evam uktavantam sā sva-rathāt avaruhya ca .. grahītum utsukam haste tam uvāca pativratā .. 17 ..
पद्मो वाच ।।
गच्छ दूरं गच्छ दूरं पापिष्ठस्त्वं नराधिप ॥ मां चेत्पश्यसि कामेन सद्यो नष्टो भविष्यसि ॥ १८ ॥
गच्छ दूरम् गच्छ दूरम् पापिष्ठः त्वम् नराधिप ॥ माम् चेद् पश्यसि कामेन सद्यस् नष्टः भविष्यसि ॥ १८ ॥
gaccha dūram gaccha dūram pāpiṣṭhaḥ tvam narādhipa .. mām ced paśyasi kāmena sadyas naṣṭaḥ bhaviṣyasi .. 18 ..
पिप्पलादं मुनि श्रेष्ठं तपसा पूतविग्रहम् ॥ त्यक्त्वा कथं भजेयं त्वां स्त्रीजितं रतिलम्पटम् ॥ १९ ॥
पिप्पलादम् मुनि श्रेष्ठम् तपसा पूत-विग्रहम् ॥ त्यक्त्वा कथम् भजेयम् त्वाम् स्त्री-जितम् रति-लम्पटम् ॥ १९ ॥
pippalādam muni śreṣṭham tapasā pūta-vigraham .. tyaktvā katham bhajeyam tvām strī-jitam rati-lampaṭam .. 19 ..
स्त्रीजितस्पर्शमात्रेण सर्वं पुण्यं प्रणश्यति ॥ स्त्रीजितः परपापी च तद्दर्शनमघावहम् ॥ 2.3.35.२०॥
स्त्री-जित-स्पर्श-मात्रेण सर्वम् पुण्यम् प्रणश्यति ॥ स्त्री-जितः पर-पापी च तद्-दर्शनम् अघ-आवहम् ॥ २।३।३५।२०॥
strī-jita-sparśa-mātreṇa sarvam puṇyam praṇaśyati .. strī-jitaḥ para-pāpī ca tad-darśanam agha-āvaham .. 2.3.35.20..
सत्क्रियो ह्यशुचिर्नित्यं स पुमान् यः स्त्रिया जितः ॥ निन्दन्ति पितरो देवा मान वास्सकलाश्च तम्॥ २१॥
सत्क्रियः हि अशुचिः नित्यम् स पुमान् यः स्त्रिया जितः ॥ निन्दन्ति पितरः देवाः तम्॥ २१॥
satkriyaḥ hi aśuciḥ nityam sa pumān yaḥ striyā jitaḥ .. nindanti pitaraḥ devāḥ tam.. 21..
तस्य किं ज्ञान सुतपो जपहोमप्रपूजनैः ॥ विद्यया दानतः किम्वा स्त्रीभिर्यस्य मनो हृतम् ॥ २२ ॥
तस्य किम् ज्ञान सु तपः जप-होम-प्रपूजनैः ॥ विद्यया दानतः किम् वा स्त्रीभिः यस्य मनः हृतम् ॥ २२ ॥
tasya kim jñāna su tapaḥ japa-homa-prapūjanaiḥ .. vidyayā dānataḥ kim vā strībhiḥ yasya manaḥ hṛtam .. 22 ..
मातरं मां स्त्रियो भावं कृत्वा येन ब्रवीषि ह ॥ भविष्यति क्षयस्तेन कालेन मम शापतः ॥ २३॥
मातरम् माम् स्त्रियः भावम् कृत्वा येन ब्रवीषि ह ॥ भविष्यति क्षयः तेन कालेन मम शापतः ॥ २३॥
mātaram mām striyaḥ bhāvam kṛtvā yena bravīṣi ha .. bhaviṣyati kṣayaḥ tena kālena mama śāpataḥ .. 23..
वसिष्ठ उवाच ।।
श्रुत्वा धर्मस्सतीशापं नृप मूर्तिं विहाय च ॥ धृत्वा स्वमूर्तिं देवेशः कम्पमान उवाच सः ॥ २४ ॥
श्रुत्वा धर्मः सती-शापम् नृप मूर्तिम् विहाय च ॥ धृत्वा स्व-मूर्तिम् देवेशः कम्पमानः उवाच सः ॥ २४ ॥
śrutvā dharmaḥ satī-śāpam nṛpa mūrtim vihāya ca .. dhṛtvā sva-mūrtim deveśaḥ kampamānaḥ uvāca saḥ .. 24 ..
धर्म उवाच ।।
मातर्जानीहि मां धर्मं ज्ञानिनाञ्च गुरो र्गुरुम् ॥ परस्त्रीमातृबुद्धिश्च कुव्वर्न्तं सततं सति ॥ २५॥
मातर् जानीहि माम् धर्मम् ज्ञानिनाम् च गुरोः गुरुम् ॥ पर-स्त्री-मातृ-बुद्धिः च सततम् सति ॥ २५॥
mātar jānīhi mām dharmam jñāninām ca guroḥ gurum .. para-strī-mātṛ-buddhiḥ ca satatam sati .. 25..
अहं तवान्तरं ज्ञातुमागतस्तव सन्निधिम् ॥ तवाहञ्च मनो जाने तथापि विधिनोदितः ॥ २६ ॥
अहम् तव अन्तरम् ज्ञातुम् आगतः तव सन्निधिम् ॥ तव अहम् च मनः जाने तथा अपि विधिना उदितः ॥ २६ ॥
aham tava antaram jñātum āgataḥ tava sannidhim .. tava aham ca manaḥ jāne tathā api vidhinā uditaḥ .. 26 ..
कृतं मे दमनं साध्वि न विरुद्धं यथोचितम् ॥ शास्तिः समुत्पथस्थानामीश्वरेण विनिर्मिता ॥ २७ ॥
कृतम् मे दमनम् साध्वि न विरुद्धम् यथोचितम् ॥ शास्तिः समुत्पथ-स्थानाम् ईश्वरेण विनिर्मिता ॥ २७ ॥
kṛtam me damanam sādhvi na viruddham yathocitam .. śāstiḥ samutpatha-sthānām īśvareṇa vinirmitā .. 27 ..
स्वयं प्रदाता सर्वेभ्यः सुखदुःखवरान्क्षमः ॥ सम्पदं विपदं यो हि नमस्तस्मै शिवाय हि ॥ २८ ॥
स्वयम् प्रदाता सर्वेभ्यः सुख-दुःख-वरान् क्षमः ॥ सम्पदम् विपदम् यः हि नमः तस्मै शिवाय हि ॥ २८ ॥
svayam pradātā sarvebhyaḥ sukha-duḥkha-varān kṣamaḥ .. sampadam vipadam yaḥ hi namaḥ tasmai śivāya hi .. 28 ..
शत्रुं मित्रं सम्विधातुं प्रीतिञ्च कलहं क्षमः ॥ स्रष्टुं नष्टुं च यस्सृष्टिं नमस्तस्मै शिवाय हि ॥ २९॥
शत्रुम् मित्रम् सम्विधातुम् प्रीतिम् च कलहम् क्षमः ॥ स्रष्टुम् नष्टुम् च यः सृष्टिम् नमः तस्मै शिवाय हि ॥ २९॥
śatrum mitram samvidhātum prītim ca kalaham kṣamaḥ .. sraṣṭum naṣṭum ca yaḥ sṛṣṭim namaḥ tasmai śivāya hi .. 29..
येन शुक्लीकृतं क्षीरं जले शैत्यं कृतम्पुरा ॥ दाहीकृतो हुता शश्च नमस्तस्मै शिवाय हि ॥ 2.3.35.३०॥
येन शुक्लीकृतम् क्षीरम् जले शैत्यम् कृतम् पुरा ॥ दाहीकृतः हुता शः च नमः तस्मै शिवाय हि ॥ २।३।३५।३०॥
yena śuklīkṛtam kṣīram jale śaityam kṛtam purā .. dāhīkṛtaḥ hutā śaḥ ca namaḥ tasmai śivāya hi .. 2.3.35.30..
प्रकृतिर्निर्मिता येन तप्त्वाति महदादितः ॥ ब्रह्मविष्णुमहेशाद्या नमस्तस्मै शिवाय हि ॥ ३१॥
प्रकृतिः निर्मिता येन तप्त्वा अति महत् आदितः ॥ ब्रह्म-विष्णु-महेश-आद्याः नमः तस्मै शिवाय हि ॥ ३१॥
prakṛtiḥ nirmitā yena taptvā ati mahat āditaḥ .. brahma-viṣṇu-maheśa-ādyāḥ namaḥ tasmai śivāya hi .. 31..
ब्रह्मोवाचः ।।
इत्युक्त्वा पुरतस्तस्यास्तस्थौ धर्मो जगद्गुरुः ॥ किञ्चिन्नोवाच चकितस्तत्पातिव्रत्य तोषितः॥ ३२॥
इति उक्त्वा पुरतस् तस्याः तस्थौ धर्मः जगद्गुरुः ॥ किञ्चिद् ना उवाच चकितः तत् पातिव्रत्य तोषितः॥ ३२॥
iti uktvā puratas tasyāḥ tasthau dharmaḥ jagadguruḥ .. kiñcid nā uvāca cakitaḥ tat pātivratya toṣitaḥ.. 32..
पद्मापि नृपकन्या सा पिप्पलादप्रिसा तदा ॥ साध्वी तं धर्ममाज्ञाय विस्मितोवाच पर्वत॥ ३३॥
पद्मा अपि नृप-कन्या सा तदा ॥ साध्वी तम् धर्मम् आज्ञाय विस्मिता उवाच पर्वत॥ ३३॥
padmā api nṛpa-kanyā sā tadā .. sādhvī tam dharmam ājñāya vismitā uvāca parvata.. 33..
पद्मोवाच ।।
त्वमेव धर्म सर्वेषां साक्षी निखिलकर्मणाम्॥ कथं मनो मे विज्ञातुं विडम्बयसि मां विभो ॥ ३४ ॥
त्वम् एव धर्म सर्वेषाम् साक्षी निखिल-कर्मणाम्॥ कथम् मनः मे विज्ञातुम् विडम्बयसि माम् विभो ॥ ३४ ॥
tvam eva dharma sarveṣām sākṣī nikhila-karmaṇām.. katham manaḥ me vijñātum viḍambayasi mām vibho .. 34 ..
यत्तत्सर्वं कृतं ब्रह्मन् नापराधो बभूव मे ॥ त्वञ्च शप्तो मयाऽज्ञानात्स्त्रीस्वभा वाद्वृथा वृष ॥ ३५ ॥
यत् तत् सर्वम् कृतम् ब्रह्मन् न अपराधः बभूव मे ॥ त्वञ्च च शप्तः मया अज्ञानात् स्त्री-स्वभावात् वृथा वृष ॥ ३५ ॥
yat tat sarvam kṛtam brahman na aparādhaḥ babhūva me .. tvañca ca śaptaḥ mayā ajñānāt strī-svabhāvāt vṛthā vṛṣa .. 35 ..
का व्यवस्था भवेत्तस्य चिन्तयामीति साम्प्रतम् ॥ चित्ते स्फुरतु सा बुद्धिर्यया शं सँल्लभामि वै ॥ ३६ ॥
का व्यवस्था भवेत् तस्य चिन्तयामि इति साम्प्रतम् ॥ चित्ते स्फुरतु सा बुद्धिः यया शम् सन् लभामि वै ॥ ३६ ॥
kā vyavasthā bhavet tasya cintayāmi iti sāmpratam .. citte sphuratu sā buddhiḥ yayā śam san labhāmi vai .. 36 ..
आकाशोसौ दिशस्सर्वा यदि नश्यन्तु वायवः ॥ तथापि साध्वीशापस्तु न नश्यति कदाचन ॥ ३७ ॥
आकाशः उसौ दिशः सर्वाः यदि नश्यन्तु वायवः ॥ तथा अपि साध्वी-शापः तु न नश्यति कदाचन ॥ ३७ ॥
ākāśaḥ usau diśaḥ sarvāḥ yadi naśyantu vāyavaḥ .. tathā api sādhvī-śāpaḥ tu na naśyati kadācana .. 37 ..
सत्ये पूर्णश्चतुष्पादः पौर्ण मास्यां यथा शशी ॥ विराजसे देवराज सर्वकालं दिवानिशम्॥ ३८॥
सत्ये पूर्णः चतुष्पादः पौर्ण मास्याम् यथा शशी ॥ विराजसे देवराज सर्वकालम् दिवानिशम्॥ ३८॥
satye pūrṇaḥ catuṣpādaḥ paurṇa māsyām yathā śaśī .. virājase devarāja sarvakālam divāniśam.. 38..
त्वञ्च नष्टो भवसि चेत्सृष्टिनाशो भवेत्तदा॥ इति कर्तव्यतामूढा वृथापि च वदाम्यहम् ॥ ३९॥
त्वम् च नष्टः भवसि चेद् सृष्टि-नाशः भवेत् तदा॥ इति कर्तव्य-ता-मूढा वृथा अपि च वदामि अहम् ॥ ३९॥
tvam ca naṣṭaḥ bhavasi ced sṛṣṭi-nāśaḥ bhavet tadā.. iti kartavya-tā-mūḍhā vṛthā api ca vadāmi aham .. 39..
पादक्षयश्च भविता त्रेतायां च सुरोत्तम॥ पादोपरे द्वापरे च तृतीयोऽपि कलौ विभो ॥ 2.3.35.४०॥
पाद-क्षयः च भविता त्रेतायाम् च सुरोत्तम॥ पाद-उपरे द्वापरे च तृतीयः अपि कलौ विभो ॥ २।३।३५।४०॥
pāda-kṣayaḥ ca bhavitā tretāyām ca surottama.. pāda-upare dvāpare ca tṛtīyaḥ api kalau vibho .. 2.3.35.40..
कलिशेषेऽखिलाश्छिन्ना भविष्यन्ति तवांघ्रयः ॥ पुनस्सत्ये समायाते परिपूर्णो भविष्यसि ॥ ४१ ॥
कलि-शेषे अखिलाः छिन्नाः भविष्यन्ति तव अंघ्रयः ॥ पुनर् सत्ये समायाते परिपूर्णः भविष्यसि ॥ ४१ ॥
kali-śeṣe akhilāḥ chinnāḥ bhaviṣyanti tava aṃghrayaḥ .. punar satye samāyāte paripūrṇaḥ bhaviṣyasi .. 41 ..
सत्ये सर्वव्यापकस्त्वं तदन्येषु च कु त्रचित् ॥ युगव्यवस्थया स त्वं भविष्यसि तथा तथा ॥ ४२॥
सत्ये सर्व-व्यापकः त्वम् तद्-अन्येषु च कु त्रचित् ॥ युग-व्यवस्थया स त्वम् भविष्यसि तथा तथा ॥ ४२॥
satye sarva-vyāpakaḥ tvam tad-anyeṣu ca ku tracit .. yuga-vyavasthayā sa tvam bhaviṣyasi tathā tathā .. 42..
इत्येवं वचनं सत्यं ममास्तु सुखदं तव ॥ याम्यहं पतिसेवायै गच्छ त्वं स्वगृहं विभो ॥ ४३॥
इति एवम् वचनम् सत्यम् मम अस्तु सुख-दम् तव ॥ यामि अहम् पति-सेवायै गच्छ त्वम् स्व-गृहम् विभो ॥ ४३॥
iti evam vacanam satyam mama astu sukha-dam tava .. yāmi aham pati-sevāyai gaccha tvam sva-gṛham vibho .. 43..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्यास्सन्तुष्टोभूद्वृषस्स वै ॥ तदेवंवादिनीं साध्वीमुवाच विधिनन्दन ॥ ४४ ॥
इति आकर्ण्य वचः तस्याः सन्तुष्टः भूत् वृषः स वै ॥ तत् एवंवादिनीम् साध्वीम् उवाच विधिनन्दन ॥ ४४ ॥
iti ākarṇya vacaḥ tasyāḥ santuṣṭaḥ bhūt vṛṣaḥ sa vai .. tat evaṃvādinīm sādhvīm uvāca vidhinandana .. 44 ..
धर्म उवाच ।।
धन्यासि पतिभक्तासि स्वस्ति तेस्तु पतिव्रते ॥ वरं गृहाण त्वत्स्वामी त्वत्परित्राणकारणात् ॥ ४५ ॥
धन्या असि पति-भक्ता असि स्वस्ति तेः तु पतिव्रते ॥ वरम् गृहाण त्वद्-स्वामी त्वद्-परित्राण-कारणात् ॥ ४५ ॥
dhanyā asi pati-bhaktā asi svasti teḥ tu pativrate .. varam gṛhāṇa tvad-svāmī tvad-paritrāṇa-kāraṇāt .. 45 ..
युवा भवतु ते भर्ता रतिशूरश्च धार्मिकः ॥ रूपवान् गुणवान्वाग्मी संततस्थिरयौवनः ॥ ४६॥
युवा भवतु ते भर्ता रति-शूरः च धार्मिकः ॥ रूपवान् गुणवान् वाग्मी संतत-स्थिर-यौवनः ॥ ४६॥
yuvā bhavatu te bhartā rati-śūraḥ ca dhārmikaḥ .. rūpavān guṇavān vāgmī saṃtata-sthira-yauvanaḥ .. 46..
चिरञ्जीवी स भवतु मार्कण्डेयात्प रश्शुभे ॥ कुबेराद्धनवाँश्चैव शक्रादैश्वर्य्यवानपि ॥ ४७॥
चिरञ्जीवी स भवतु मार्कण्डेयात् प रः शुभे ॥ कुबेरात् धनवान् च एव शक्रात् ऐश्वर्य्यवान् अपि ॥ ४७॥
cirañjīvī sa bhavatu mārkaṇḍeyāt pa raḥ śubhe .. kuberāt dhanavān ca eva śakrāt aiśvaryyavān api .. 47..
शिवभक्तो हरिसमस्सिद्धस्तु कपिलात्परः ॥ बुद्ध्या बृहस्पतिसमस्समत्वेन विधेस्समः ॥ ४८ ॥
शिव-भक्तः हरि-समः सिद्धः तु कपिलात् परः ॥ बुद्ध्या बृहस्पति-समः सम-त्वेन विधेः समः ॥ ४८ ॥
śiva-bhaktaḥ hari-samaḥ siddhaḥ tu kapilāt paraḥ .. buddhyā bṛhaspati-samaḥ sama-tvena vidheḥ samaḥ .. 48 ..
स्वामिसौभाग्यसंयुक्ता भव त्वं जीवनावधि ॥ तथा च सुभगे देवि त्वं भव स्थिरयौवना ॥ ४९॥
स्वामि-सौभाग्य-संयुक्ता भव त्वम् जीवन-अवधि ॥ तथा च सुभगे देवि त्वम् भव स्थिर-यौवना ॥ ४९॥
svāmi-saubhāgya-saṃyuktā bhava tvam jīvana-avadhi .. tathā ca subhage devi tvam bhava sthira-yauvanā .. 49..
माता त्वं दशपुत्राणां गुणिनां चिरजीविनाम् ॥ स्वभर्तुरधिकानां च भविष्यसि न संशयः ॥ 2.3.35.५० ॥
माता त्वम् दश-पुत्राणाम् गुणिनाम् चिर-जीविनाम् ॥ स्व-भर्तुः अधिकानाम् च भविष्यसि न संशयः ॥ २।३।३५।५० ॥
mātā tvam daśa-putrāṇām guṇinām cira-jīvinām .. sva-bhartuḥ adhikānām ca bhaviṣyasi na saṃśayaḥ .. 2.3.35.50 ..
गृहा भवन्तु ते साध्वि सर्वसम्पत्सम न्विताः ॥ प्रकाशमन्तस्सततं कुबेरभवनाधिकाः ॥ ५१ ॥
गृहाः भवन्तु ते साध्वि सर्व-सम्पद्-सम-न्विताः ॥ प्रकाशम् अन्तर् सततम् कुबेर-भवन-अधिकाः ॥ ५१ ॥
gṛhāḥ bhavantu te sādhvi sarva-sampad-sama-nvitāḥ .. prakāśam antar satatam kubera-bhavana-adhikāḥ .. 51 ..
।। वसिष्ठ उवाच ।।
इत्येवमुक्ता सन्तस्थौ धर्मस्स गिरिसत्तम ॥ सा तं प्रदक्षिणीकृत्य प्रणम्य स्वगृहं ययौ ॥ ५२॥
इति एवम् उक्ता सन्तस्थौ धर्मः स गिरि-सत्तम ॥ सा तम् प्रदक्षिणीकृत्य प्रणम्य स्व-गृहम् ययौ ॥ ५२॥
iti evam uktā santasthau dharmaḥ sa giri-sattama .. sā tam pradakṣiṇīkṛtya praṇamya sva-gṛham yayau .. 52..
धर्मस्तथाशिषो दत्वा जगाम निजमन्दिरम् ॥ प्रशशंस च तां प्रात्या पद्मां संसदि संसदि ॥ ५३ ॥
धर्मः तथा आशिषः द-त्वा जगाम निज-मन्दिरम् ॥ प्रशशंस च ताम् प्रात्या पद्माम् संसदि संसदि ॥ ५३ ॥
dharmaḥ tathā āśiṣaḥ da-tvā jagāma nija-mandiram .. praśaśaṃsa ca tām prātyā padmām saṃsadi saṃsadi .. 53 ..
सा रेमे स्वामिना सार्द्धं यूना रहसि सन्ततम् ॥ पश्चाद्बभूवुऽस्सत्पुत्रास्तद्भर्तुरधिका गुणैः ॥ ५४॥
सा रेमे स्वामिना सार्द्धम् यूना रहसि सन्ततम् ॥ पश्चात् बभूवुः सत्-पुत्राः तद्-भर्तुः अधिकाः गुणैः ॥ ५४॥
sā reme svāminā sārddham yūnā rahasi santatam .. paścāt babhūvuḥ sat-putrāḥ tad-bhartuḥ adhikāḥ guṇaiḥ .. 54..
बभूव सकला सम्पद्दम्पत्योः सुखवर्द्धिनी ॥ सर्वानन्दवृद्धिकरी परत्रेह च शर्मणे ॥ ५५ ॥
बभूव सकला सम्पद् दम्पत्योः सुख-वर्द्धिनी ॥ सर्व-आनन्द-वृद्धि-करी परत्र इह च शर्मणे ॥ ५५ ॥
babhūva sakalā sampad dampatyoḥ sukha-varddhinī .. sarva-ānanda-vṛddhi-karī paratra iha ca śarmaṇe .. 55 ..
शैलेन्द्र कथितं सर्वमितिहासं पुरातनम् ॥ दम्पत्योश्च तयोः प्रीत्या श्रुतं ते परमादरात् ॥ ५६ ॥
शैलेन्द्र कथितम् सर्वम् इतिहासम् पुरातनम् ॥ दम्पत्योः च तयोः प्रीत्या श्रुतम् ते परम-आदरात् ॥ ५६ ॥
śailendra kathitam sarvam itihāsam purātanam .. dampatyoḥ ca tayoḥ prītyā śrutam te parama-ādarāt .. 56 ..
बुद्ध्वा तत्त्वं सुतां देहि पार्वतीमीश्वराय च ॥ कुरुषं त्यज शैलेन्द्र मेनया स्वस्त्रिया सह ॥ ५७ ॥
बुद्ध्वा तत् त्वम् सुताम् देहि पार्वतीम् ईश्वराय च ॥ त्यज शैल-इन्द्र मेनया स्व-स्त्रिया सह ॥ ५७ ॥
buddhvā tat tvam sutām dehi pārvatīm īśvarāya ca .. tyaja śaila-indra menayā sva-striyā saha .. 57 ..
सप्ताहे समतीते तु दुर्लभेति शुभे क्षणे ॥ लग्नाधिपे च लग्नस्थे चन्द्रेस्वत्नयान्विते ॥ ५८ ॥
सप्त-अहे समतीते तु दुर्लभा इति शुभे क्षणे ॥ लग्न-अधिपे च लग्न-स्थे ॥ ५८ ॥
sapta-ahe samatīte tu durlabhā iti śubhe kṣaṇe .. lagna-adhipe ca lagna-sthe .. 58 ..
मुदिते रोहिणीयुक्ते विशुद्धे चन्द्रतारके ॥ मार्गमासे चन्द्रवारे सर्वदोषविवर्जिते ॥ ५९ ॥
मुदिते रोहिणी-युक्ते विशुद्धे चन्द्र-तारके ॥ सर्व ॥ ५९ ॥
mudite rohiṇī-yukte viśuddhe candra-tārake .. sarva .. 59 ..
सर्वसद्ग्रहसंसृष्टऽसद्ग्रहदृष्टिवर्जिते ॥ सदपत्यप्रदे जीवे पतिसौभाग्यदायिनि ॥ 2.3.35.६० ॥
॥ सत्-अपत्य-प्रदे जीवे पति-सौभाग्य-दायिनि ॥ २।३।३५।६० ॥
.. sat-apatya-prade jīve pati-saubhāgya-dāyini .. 2.3.35.60 ..
जगदम्बां जगत्पित्रे मूलप्रकृतिमीश्वरीम् ॥ कन्यां प्रदाय गिरिजां कृती त्वं भव पर्वत ॥ ६१॥
जगदम्बाम् जगत्-पित्रे मूलप्रकृतिम् ईश्वरीम् ॥ कन्याम् प्रदाय गिरिजाम् कृती त्वम् भव पर्वत ॥ ६१॥
jagadambām jagat-pitre mūlaprakṛtim īśvarīm .. kanyām pradāya girijām kṛtī tvam bhava parvata .. 61..
ब्रह्मोवाच ।।
इत्युक्त्वा मुनिशार्दूलो वसिष्ठो ज्ञानिसत्तमः ॥ विरराम शिवं स्मृत्वा नानालीलाकरं प्रभुम् ॥ ६२ ॥
इति उक्त्वा मुनि-शार्दूलः वसिष्ठः ज्ञानि-सत्तमः ॥ विरराम शिवम् स्मृत्वा नाना लीला-करम् प्रभुम् ॥ ६२ ॥
iti uktvā muni-śārdūlaḥ vasiṣṭhaḥ jñāni-sattamaḥ .. virarāma śivam smṛtvā nānā līlā-karam prabhum .. 62 ..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनं नाम पञ्चत्रिंशोऽध्यायः ॥ ३५॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पद्मापिप्पलादचरितवर्णनम् नाम पञ्चत्रिंशः अध्यायः ॥ ३५॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe padmāpippalādacaritavarṇanam nāma pañcatriṃśaḥ adhyāyaḥ .. 35..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In