| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
वसिष्ठस्य वचः श्रुत्वा सगणोपि हिमालयः ॥ विस्मितो भार्य्यया शैलानुवाच स गिरीश्वरः ॥ १॥
वसिष्ठस्य वचः श्रुत्वा स गणः उपि हिमालयः ॥ विस्मितः भार्य्यया शैलान् उवाच स गिरि-ईश्वरः ॥ १॥
vasiṣṭhasya vacaḥ śrutvā sa gaṇaḥ upi himālayaḥ .. vismitaḥ bhāryyayā śailān uvāca sa giri-īśvaraḥ .. 1..
हिमालय उवाच ।।
हे मेरो गिरिराट् सह्य गन्धमादन मन्दर ॥ मैनाक विन्ध्य शैलेन्द्रास्सर्वे शृणुत मद्वचः ॥ २ ॥
हे मेरो गिरि-राज् सह्य गन्धमादन मन्दर ॥ मैनाक-विन्ध्य-शैल-इन्द्राः सर्वे शृणुत मद्-वचः ॥ २ ॥
he mero giri-rāj sahya gandhamādana mandara .. maināka-vindhya-śaila-indrāḥ sarve śṛṇuta mad-vacaḥ .. 2 ..
वसिष्ठो हि वदत्येवं किं मे कार्य्यं विचार्य्यते ॥ यथा तथा च शंसध्वं निर्णीय मनसाखिलम् ॥ ३ ॥
वसिष्ठः हि वदति एवम् किम् मे कार्य्यम् विचार्य्यते ॥ यथा तथा च शंसध्वम् निर्णीय मनसा अखिलम् ॥ ३ ॥
vasiṣṭhaḥ hi vadati evam kim me kāryyam vicāryyate .. yathā tathā ca śaṃsadhvam nirṇīya manasā akhilam .. 3 ..
ब्रह्मोवाच ।।
तच्छुत्वा वचनं तस्य सुमेरुप्रमुखाश्च ते ॥ प्रोचुर्हिमालयं प्रीत्या सुनिर्णीय महीधराः ॥ ४॥
तत् शुत्वा वचनम् तस्य सुमेरु-प्रमुखाः च ते ॥ प्रोचुः हिमालयम् प्रीत्या सु निर्णीय महीधराः ॥ ४॥
tat śutvā vacanam tasya sumeru-pramukhāḥ ca te .. procuḥ himālayam prītyā su nirṇīya mahīdharāḥ .. 4..
शैला ऊचुः ।।
अधुना किं विमर्शेन कृतं कार्य्यं तथैव हि ॥ उत्पन्नेयं महाभाग देवकार्यार्थमेव हि ॥ ५॥
अधुना किम् विमर्शेन कृतम् कार्य्यम् तथा एव हि ॥ उत्पन्ना इयम् महाभाग देव-कार्य-अर्थम् एव हि ॥ ५॥
adhunā kim vimarśena kṛtam kāryyam tathā eva hi .. utpannā iyam mahābhāga deva-kārya-artham eva hi .. 5..
प्रदातव्या शिवायेति शिवस्यार्थेवतारिणी ॥ अनयाराधितो रुद्रो रुद्रेण यदि भाषिता ॥ ६॥
प्रदातव्या शिवाय इति ॥ अनया आराधितः रुद्रः रुद्रेण यदि भाषिता ॥ ६॥
pradātavyā śivāya iti .. anayā ārādhitaḥ rudraḥ rudreṇa yadi bhāṣitā .. 6..
ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तेषाम्मेर्वादीनां हिमाचलः ॥ सुप्रसन्नतरोभूद्वै जहास गिरिजा हृदि ॥ ७ ॥
एतत् श्रुत्वा वचः तेषाम् मेरु-आदीनाम् हिमाचलः ॥ सु प्रसन्नतरः भूत् वै जहास गिरिजा हृदि ॥ ७ ॥
etat śrutvā vacaḥ teṣām meru-ādīnām himācalaḥ .. su prasannataraḥ bhūt vai jahāsa girijā hṛdi .. 7 ..
अरुन्धती च तां मेनां बोधयामास कारणात् ॥ नानावाक्यसमूहेनेतिहासैर्विविधैरपि ॥ ८ ॥
अरुन्धती च ताम् मेनाम् बोधयामास कारणात् ॥ नाना वाक्य-समूहेन इतिहासैः विविधैः अपि ॥ ८ ॥
arundhatī ca tām menām bodhayāmāsa kāraṇāt .. nānā vākya-samūhena itihāsaiḥ vividhaiḥ api .. 8 ..
अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्नधीः ॥ मुनीनरुन्धतीं शैलं भोजयित्वा बुभोज च ॥ ९ ॥
अथ सा मेनका शैलपत्नी बुद्ध्वा प्रसन्न-धीः ॥ मुनीन् अरुन्धतीम् शैलम् भोजयित्वा बुभोज च ॥ ९ ॥
atha sā menakā śailapatnī buddhvā prasanna-dhīḥ .. munīn arundhatīm śailam bhojayitvā bubhoja ca .. 9 ..
अथ शैलवरो ज्ञानी सुसंसेव्य मुनींश्च ताम् ॥ उवाच साञ्जलिः प्रीत्या प्रसन्नात्मागतभ्रमः॥ 2.3.36.१० ॥
अथ शैल-वरः ज्ञानी सु संसेव्य मुनीन् च ताम् ॥ उवाच स अञ्जलिः प्रीत्या प्रसन्न-आत्म-आगत-भ्रमः॥ २।३।३६।१० ॥
atha śaila-varaḥ jñānī su saṃsevya munīn ca tām .. uvāca sa añjaliḥ prītyā prasanna-ātma-āgata-bhramaḥ.. 2.3.36.10 ..
हिमाचल उवाच ।।
सप्तर्षयो महाभागा वचः शृणुत मामकम् ॥ विस्मयो मे गतस्सर्वश्शिवयोश्चरितं श्रुतम् ॥ ११ ॥ ।
सप्तर्षयः महाभागाः वचः शृणुत मामकम् ॥ विस्मयः मे गतः सर्वः शिवयोः चरितम् श्रुतम् ॥ ११ ॥ ।
saptarṣayaḥ mahābhāgāḥ vacaḥ śṛṇuta māmakam .. vismayaḥ me gataḥ sarvaḥ śivayoḥ caritam śrutam .. 11 .. .
मदीयं च शरीरम्वै पत्नी मेना सुतास्सुता ॥ ऋद्धिस्सिद्धिश्च चान्यद्वै शिवस्यैव न चान्यथा ॥ १२॥
मदीयम् च शरीरम् वै पत्नी मेना ॥ ऋद्धिः सिद्धिः च च अन्यत् वै शिवस्य एव न च अन्यथा ॥ १२॥
madīyam ca śarīram vai patnī menā .. ṛddhiḥ siddhiḥ ca ca anyat vai śivasya eva na ca anyathā .. 12..
।। ब्रह्मोवाच ।।
इत्युक्त्वा स तदा पुत्रीं दृष्ट्वा तत्सादरं च ताम् ॥ भूषयित्वा तदङ्गानि ऋष्युत्संगे न्यवेशयेत्॥ १३॥
इति उक्त्वा स तदा पुत्रीम् दृष्ट्वा तद्-स आदरम् च ताम् ॥ भूषयित्वा तद्-अङ्गानि ऋषि-उत्संगे न्यवेशयेत्॥ १३॥
iti uktvā sa tadā putrīm dṛṣṭvā tad-sa ādaram ca tām .. bhūṣayitvā tad-aṅgāni ṛṣi-utsaṃge nyaveśayet.. 13..
उवाच च पुनः प्रीत्या शैलराज ऋषींस्तदा॥ ।अयं भागो मया तस्मै दातव्य इति निश्चितम् ॥ १४॥
उवाच च पुनर् प्रीत्या शैलराजे ऋषीन् तदा॥ ।अयम् भागः मया तस्मै दातव्यः इति निश्चितम् ॥ १४॥
uvāca ca punar prītyā śailarāje ṛṣīn tadā.. .ayam bhāgaḥ mayā tasmai dātavyaḥ iti niścitam .. 14..
।। ऋषय ऊचुः ।।
शंकरो भिक्षुकस्तेथ स्वयं दाता भवान् गिरे ॥ भैक्ष्यञ्च पार्वती देवी किमतः परमुत्तमम् ॥ १५॥
शंकरः स्वयम् दाता भवान् गिरे ॥ भैक्ष्यम् च पार्वती देवी किम् अतस् परम् उत्तमम् ॥ १५॥
śaṃkaraḥ svayam dātā bhavān gire .. bhaikṣyam ca pārvatī devī kim atas param uttamam .. 15..
हिमवन् शिखराणान्ते यद्धेतोस्सदृशी गतिः ॥ धन्यस्त्वं सर्वशैलानामधिपस्सर्वतो वरः ॥ १६ ॥
हिमवन् शिखराणाम् अन्ते यद्धेतोः सदृशी गतिः ॥ धन्यः त्वम् सर्व-शैलानाम् अधिपः सर्वतस् वरः ॥ १६ ॥
himavan śikharāṇām ante yaddhetoḥ sadṛśī gatiḥ .. dhanyaḥ tvam sarva-śailānām adhipaḥ sarvatas varaḥ .. 16 ..
।। ब्रह्मोवाच ।।
एवमुक्त्वा तु कन्यायै मुनयो विमलाशयाः ॥ आशिषं दत्तवन्तस्ते शिवाय सुखदा भव ॥ १७॥
एवम् उक्त्वा तु कन्यायै मुनयः विमल-आशयाः ॥ आशिषम् दत्तवन्तः ते शिवाय सुख-दा भव ॥ १७॥
evam uktvā tu kanyāyai munayaḥ vimala-āśayāḥ .. āśiṣam dattavantaḥ te śivāya sukha-dā bhava .. 17..
स्पृष्ट्वा करेण तां तत्र कल्याणं ते भविष्यति ॥ शुक्लपक्षे यथा चन्द्रो वर्द्धन्तां त्वद्गुणास्तथा॥ १८॥
स्पृष्ट्वा करेण ताम् तत्र कल्याणम् ते भविष्यति ॥ शुक्लपक्षे यथा चन्द्रः वर्द्धन्ताम् त्वद्-गुणाः तथा॥ १८॥
spṛṣṭvā kareṇa tām tatra kalyāṇam te bhaviṣyati .. śuklapakṣe yathā candraḥ varddhantām tvad-guṇāḥ tathā.. 18..
इत्युक्त्वा मुनयस्सर्वे दत्त्वा ते गिरये मुदा ॥ पुष्पाणि फलयुक्तानि प्रत्ययं चक्रिरे तदा ॥ १९ ॥
इति उक्त्वा मुनयः सर्वे दत्त्वा ते गिरये मुदा ॥ पुष्पाणि फल-युक्तानि प्रत्ययम् चक्रिरे तदा ॥ १९ ॥
iti uktvā munayaḥ sarve dattvā te giraye mudā .. puṣpāṇi phala-yuktāni pratyayam cakrire tadā .. 19 ..
अरुन्धती तदा तत्र मेनां सा सुसुखी मुदा ॥ गुणैश्च लोभयामास शिवस्य परमा सती ॥ 2.3.36.२० ॥
अरुन्धती तदा तत्र मेनाम् सा सु सुखी मुदा ॥ गुणैः च लोभयामास शिवस्य परमा सती ॥ २।३।३६।२० ॥
arundhatī tadā tatra menām sā su sukhī mudā .. guṇaiḥ ca lobhayāmāsa śivasya paramā satī .. 2.3.36.20 ..
हरिद्राकुंकुमैश्शैलश्मश्रूणि प्रत्यमार्जयत् ॥ लौकिकाचारमाधाय मंगलायनमुत्तमम् ॥ २१ ॥
हरिद्रा-कुंकुमैः शैल-श्मश्रूणि प्रत्यमार्जयत् ॥ लौकिक-आचारम् आधाय मंगलायनम् उत्तमम् ॥ २१ ॥
haridrā-kuṃkumaiḥ śaila-śmaśrūṇi pratyamārjayat .. laukika-ācāram ādhāya maṃgalāyanam uttamam .. 21 ..
ततश्च ते चतुर्थेह्नि संधार्य्य लग्नमुत्तमम् ॥ परस्परं च सन्तुष्य संजग्मुश्शिवसन्निधिम्॥ २२॥
ततस् च ते चतुर्थेह्नि इह्नि संधार्य्य लग्नम् उत्तमम् ॥ परस्परम् च सन्तुष्य संजग्मुः शिव-सन्निधिम्॥ २२॥
tatas ca te caturthehni ihni saṃdhāryya lagnam uttamam .. parasparam ca santuṣya saṃjagmuḥ śiva-sannidhim.. 22..
तत्र गत्वा शिवं नत्वा स्तुत्वा विवि धसूक्तिभिः ॥ ऊचुः सर्वे वसिष्ठाद्या मुनयः परमेश्वरम् ॥ २३॥
तत्र गत्वा शिवम् नत्वा स्तुत्वा ॥ ऊचुः सर्वे वसिष्ठ-आद्याः मुनयः परमेश्वरम् ॥ २३॥
tatra gatvā śivam natvā stutvā .. ūcuḥ sarve vasiṣṭha-ādyāḥ munayaḥ parameśvaram .. 23..
ऋषय ऊचुः ।।
देवदेव महादेव परमेश महाप्रभो ॥ शृण्वस्मद्वचनं प्रीत्या यत्कृतं सेवकैस्तव ॥ २४ ॥
देवदेव महादेव परमेश महा-प्रभो ॥ शृणु अस्मद्-वचनम् प्रीत्या यत् कृतम् सेवकैः तव ॥ २४ ॥
devadeva mahādeva parameśa mahā-prabho .. śṛṇu asmad-vacanam prītyā yat kṛtam sevakaiḥ tava .. 24 ..
बोधितो गिरिराजश्च मेना विविधसूक्तिभिः ॥ सेतिहासं महेशान प्रबुद्धोसौ न संशयः॥ २५॥
बोधितः गिरि-राजः च मेना विविध-सु उक्तिभिः ॥ स इतिहासम् महा-ईशान प्रबुद्धः असौ न संशयः॥ २५॥
bodhitaḥ giri-rājaḥ ca menā vividha-su uktibhiḥ .. sa itihāsam mahā-īśāna prabuddhaḥ asau na saṃśayaḥ.. 25..
वाक्यदत्ता गिरीन्द्रेण पार्वती ते हि नान्यथा ॥ उद्वाहाय प्रगच्छ त्वं गणैर्देवैश्च संयुतः ॥ २६॥
वाक्य-दत्ता गिरि-इन्द्रेण पार्वती ते हि ना अन्यथा ॥ उद्वाहाय प्रगच्छ त्वम् गणैः देवैः च संयुतः ॥ २६॥
vākya-dattā giri-indreṇa pārvatī te hi nā anyathā .. udvāhāya pragaccha tvam gaṇaiḥ devaiḥ ca saṃyutaḥ .. 26..
गच्छ शीघ्रं महादेव हिमाचलगृहं प्रभो ॥ विवाहय यथा रीतिः पार्वतीमात्मजन्मने ॥ २७॥
गच्छ शीघ्रम् महादेव हिमाचल-गृहम् प्रभो ॥ विवाहय यथा रीतिः पार्वतीम् आत्मजन्मने ॥ २७॥
gaccha śīghram mahādeva himācala-gṛham prabho .. vivāhaya yathā rītiḥ pārvatīm ātmajanmane .. 27..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा वचनं तेषां लौकिकाचारतत्परः॥ प्रहृष्टात्मा महेशानः प्रहस्येदमुवाच सः ॥ २८॥
तत् श्रुत्वा वचनम् तेषाम् लौकिक-आचार-तत्परः॥ प्रहृष्ट-आत्मा महेशानः प्रहस्य इदम् उवाच सः ॥ २८॥
tat śrutvā vacanam teṣām laukika-ācāra-tatparaḥ.. prahṛṣṭa-ātmā maheśānaḥ prahasya idam uvāca saḥ .. 28..
महेश उवाच ।।
विवाहो हि महाभागा न दृष्टो न श्रुतो मया ॥ यथा पुरा भवद्भिस्तद्विधिः प्रोच्यो विशेषतः ॥ २९ ॥
विवाहः हि महाभागा न दृष्टः न श्रुतः मया ॥ यथा पुरा भवद्भिः तत् विधिः प्रोच्यः विशेषतः ॥ २९ ॥
vivāhaḥ hi mahābhāgā na dṛṣṭaḥ na śrutaḥ mayā .. yathā purā bhavadbhiḥ tat vidhiḥ procyaḥ viśeṣataḥ .. 29 ..
तदाकर्ण्य महेशस्य लौकिकं वचनं शुभम् ॥ प्रत्यूचुः प्रहसन्तस्ते देवदेवं सदाशिवम् ॥ 2.3.36.३० ॥
तत् आकर्ण्य महेशस्य लौकिकम् वचनम् शुभम् ॥ प्रत्यूचुः प्रहसन्तः ते देवदेवम् सदाशिवम् ॥ २।३।३६।३० ॥
tat ākarṇya maheśasya laukikam vacanam śubham .. pratyūcuḥ prahasantaḥ te devadevam sadāśivam .. 2.3.36.30 ..
ऋषय ऊचुः ।।
विष्णुमाहूय वै शीघ्रं ससमाजं विशेषतः ॥ ब्रह्माणं ससुतं प्रीत्या तथा देवं शतक्रतुम् ॥ ३१ ॥
विष्णुम् आहूय वै शीघ्रम् स समाजम् विशेषतः ॥ ब्रह्माणम् स सुतम् प्रीत्या तथा देवम् शतक्रतुम् ॥ ३१ ॥
viṣṇum āhūya vai śīghram sa samājam viśeṣataḥ .. brahmāṇam sa sutam prītyā tathā devam śatakratum .. 31 ..
तथा ऋषिगणान्सर्वान् यक्षगन्धर्वकिन्नरान् ॥ सिद्धान् विद्याधरांश्चैव तथा चैवाप्सरोगणान् ॥ ३२॥
तथा ऋषि-गणान् सर्वान् यक्ष-गन्धर्व-किन्नरान् ॥ सिद्धान् विद्याधरान् च एव तथा च एव अप्सरः-गणान् ॥ ३२॥
tathā ṛṣi-gaṇān sarvān yakṣa-gandharva-kinnarān .. siddhān vidyādharān ca eva tathā ca eva apsaraḥ-gaṇān .. 32..
एतांश्चान्यान्प्रभो सर्वानानय स्वेह सादरम् ॥ सर्वं संसाधयिष्यन्ति त्वत्कार्य्यं ते न संशयः ॥ ३३॥
एतान् च अन्यान् प्रभो सर्वान् आनय स्व-इह सादरम् ॥ सर्वम् संसाधयिष्यन्ति त्वद्-कार्य्यम् ते न संशयः ॥ ३३॥
etān ca anyān prabho sarvān ānaya sva-iha sādaram .. sarvam saṃsādhayiṣyanti tvad-kāryyam te na saṃśayaḥ .. 33..
ब्रह्मोवाच ।।
इत्युक्त्वा सप्त ऋषयस्तदाज्ञां प्राप्य ते मुदा ॥ स्वधाम प्रययुस्सर्वे शंसन्तः शङ्करीं गतिम् ॥ ३४ ॥
इति उक्त्वा सप्त ऋषयः तद्-आज्ञाम् प्राप्य ते मुदा ॥ स्व-धाम प्रययुः सर्वे शंसन्तः शङ्करीम् गतिम् ॥ ३४ ॥
iti uktvā sapta ṛṣayaḥ tad-ājñām prāpya te mudā .. sva-dhāma prayayuḥ sarve śaṃsantaḥ śaṅkarīm gatim .. 34 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे सप्तऋषिवचनं नाम षट्त्रिंशोऽध्यायः॥ ३६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखंडे सप्तऋषिवचनम् नाम षट्त्रिंशः अध्यायः॥ ३६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṃḍe saptaṛṣivacanam nāma ṣaṭtriṃśaḥ adhyāyaḥ.. 36..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In