| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
तात प्राज्ञ वदेदानीं सप्तर्षिषु गतेषु च ॥ किमकार्षीद्धिमगिरिस्तन्मे कृत्वा कृपां प्रभो ॥ १ ॥
तात प्राज्ञ वद इदानीम् सप्तर्षिषु गतेषु च ॥ किम् अकार्षीत् हिमगिरिः तत् मे कृत्वा कृपाम् प्रभो ॥ १ ॥
tāta prājña vada idānīm saptarṣiṣu gateṣu ca .. kim akārṣīt himagiriḥ tat me kṛtvā kṛpām prabho .. 1 ..
गतेषु तेषु मुनिषु सप्तस्वपि मुनीश्वर ॥ सारुन्धतीषु हिमवान् यदकार्षीद्ब्रवीमि ते ॥ २॥
गतेषु तेषु मुनिषु सप्तसु अपि मुनि-ईश्वर ॥ स अरुन्धतीषु हिमवान् यत् अकार्षीत् ब्रवीमि ते ॥ २॥
gateṣu teṣu muniṣu saptasu api muni-īśvara .. sa arundhatīṣu himavān yat akārṣīt bravīmi te .. 2..
तत आमन्त्र्य स्वभ्रातॄन् मेर्वादीन् ससुतप्रियः ॥ महामनास्स मुमुदे हिमवान् पर्वतेश्वरः ॥ ३ ॥
ततस् आमन्त्र्य स्व-भ्रातॄन् मेरु-आदीन् स सुतप्रियः ॥ महा-मनाः स मुमुदे हिमवान् पर्वत-ईश्वरः ॥ ३ ॥
tatas āmantrya sva-bhrātṝn meru-ādīn sa sutapriyaḥ .. mahā-manāḥ sa mumude himavān parvata-īśvaraḥ .. 3 ..
तदाज्ञप्तस्ततः प्रीत्या हिमवान् लग्न पत्रिकाम् ॥ लेखयामास सुप्रीत्या गर्गेण स्वपुरोधसा ॥ ४॥
तद्-आज्ञप्तः ततस् प्रीत्या हिमवान् पत्रिकाम् ॥ लेखयामास सु प्रीत्या गर्गेण स्व-पुरोधसा ॥ ४॥
tad-ājñaptaḥ tatas prītyā himavān patrikām .. lekhayāmāsa su prītyā gargeṇa sva-purodhasā .. 4..
अथ प्रस्थापयामास तां शिवाय स पत्रिकाम्॥ नानाविधास्तु सामग्र्यः स्वजनैर्मुदितात्मभिः ॥ ५ ॥
अथ प्रस्थापयामास ताम् शिवाय स पत्रिकाम्॥ नानाविधाः तु सामग्र्यः स्व-जनैः मुदित-आत्मभिः ॥ ५ ॥
atha prasthāpayāmāsa tām śivāya sa patrikām.. nānāvidhāḥ tu sāmagryaḥ sva-janaiḥ mudita-ātmabhiḥ .. 5 ..
ते जनास्तत्र गत्वा च कैलासे शिवसन्निधिम् ॥ ददुश्शिवाय तत्पत्रं तिलकं सम्विधाय च ॥ ६ ॥
ते जनाः तत्र गत्वा च कैलासे शिव-सन्निधिम् ॥ ददुः शिवाय तत् पत्रम् तिलकम् सम्विधाय च ॥ ६ ॥
te janāḥ tatra gatvā ca kailāse śiva-sannidhim .. daduḥ śivāya tat patram tilakam samvidhāya ca .. 6 ..
सन्मानिता विशेषेण प्रभुणा च यथोचितम् ॥ सर्वे ते प्रीतिमनस आजग्मुश्शैलसन्निधिम् ॥ ७ ॥
सत्-मानिता विशेषेण प्रभुणा च यथोचितम् ॥ सर्वे ते प्रीति-मनसः आजग्मुः शैल-सन्निधिम् ॥ ७ ॥
sat-mānitā viśeṣeṇa prabhuṇā ca yathocitam .. sarve te prīti-manasaḥ ājagmuḥ śaila-sannidhim .. 7 ..
सन्मानितान्विशेषेण महेशेनागताञ्जनान् ॥ दृष्ट्वा सुहर्षिताञ्च्छैलो मुमोदातीव चेतसि ॥ ८ ॥
सन्मानितान् विशेषेण महेशेन आगतान् जनान् ॥ दृष्ट्वा सु हर्षितान् शैलः मुमोद अतीव चेतसि ॥ ८ ॥
sanmānitān viśeṣeṇa maheśena āgatān janān .. dṛṣṭvā su harṣitān śailaḥ mumoda atīva cetasi .. 8 ..
ततो निमन्त्रणं चक्रे स्वबन्धूनां प्रमोदितः ॥ नानादेशस्थितानाञ्च निखिलानां सुखास्पदम् ॥ ९॥
ततस् निमन्त्रणम् चक्रे स्व-बन्धूनाम् प्रमोदितः ॥ नाना देश-स्थितानाम् च निखिलानाम् सुख-आस्पदम् ॥ ९॥
tatas nimantraṇam cakre sva-bandhūnām pramoditaḥ .. nānā deśa-sthitānām ca nikhilānām sukha-āspadam .. 9..
ततस्स कारयामास स्वर्णसंग्रहमादरात् ॥ नानाविधाश्च सामग्रीर्विवाहकरणोचिताः ॥ 2.3.37.१० ॥
ततस् स कारयामास स्वर्ण-संग्रहम् आदरात् ॥ नानाविधाः च सामग्रीः विवाह-करण-उचिताः ॥ २।३।३७।१० ॥
tatas sa kārayāmāsa svarṇa-saṃgraham ādarāt .. nānāvidhāḥ ca sāmagrīḥ vivāha-karaṇa-ucitāḥ .. 2.3.37.10 ..
तण्डुलानां बहूञ्छैलान् पृथुकानां तथैव च ॥ गुडानां शर्कराणाञ्च लवणानां तथैव च ॥ ११॥
तण्डुलानाम् बहून् शैलान् पृथुकानाम् तथा एव च ॥ गुडानाम् शर्कराणाम् च लवणानाम् तथा एव च ॥ ११॥
taṇḍulānām bahūn śailān pṛthukānām tathā eva ca .. guḍānām śarkarāṇām ca lavaṇānām tathā eva ca .. 11..
क्षीराणां च घृतानाञ्च दध्नां वापीश्चकार सः॥ यवादिधान्यपिष्टानां लड्डुकानां तथैव च ॥ १२ ॥
क्षीराणाम् च घृतानाम् च दध्नाम् वापीः चकार सः॥ यव-आदि-धान्य-पिष्टानाम् लड्डुकानाम् तथा एव च ॥ १२ ॥
kṣīrāṇām ca ghṛtānām ca dadhnām vāpīḥ cakāra saḥ.. yava-ādi-dhānya-piṣṭānām laḍḍukānām tathā eva ca .. 12 ..
शष्कुलीनां स्वस्तिकानां शर्कराणां तथैव च ॥ अमृतेक्षुरसानां च तत्र वापीश्चकार सः ॥ १३॥
शष्कुलीनाम् स्वस्तिकानाम् शर्कराणाम् तथा एव च ॥ अमृत-इक्षु-रसानाम् च तत्र वापीः चकार सः ॥ १३॥
śaṣkulīnām svastikānām śarkarāṇām tathā eva ca .. amṛta-ikṣu-rasānām ca tatra vāpīḥ cakāra saḥ .. 13..
बह्वीर्हैयंगवानाञ्च ह्यासवानां तथैव च ॥ नाना पक्वान्नसंघांश्च महास्वादुरसाँस्तथा ॥ १४ ॥
बह्वीः हैयंगवानाम् च हि आसवानाम् तथा एव च ॥ नाना पक्व-अन्न-संघान् च महा-स्वादु-रसान् तथा ॥ १४ ॥
bahvīḥ haiyaṃgavānām ca hi āsavānām tathā eva ca .. nānā pakva-anna-saṃghān ca mahā-svādu-rasān tathā .. 14 ..
नाना व्यञ्जनवस्तूनि गणदेवहितानि च ॥ अमूल्यनानावस्त्राणि वह्निशौचानि यानि च ॥ १९॥
नाना व्यञ्जन-वस्तूनि गण-देव-हितानि च ॥ अमूल्य-नाना वस्त्राणि वह्नि-शौचानि यानि च ॥ १९॥
nānā vyañjana-vastūni gaṇa-deva-hitāni ca .. amūlya-nānā vastrāṇi vahni-śaucāni yāni ca .. 19..
मणिरत्नप्रकाराणि सुवर्णरजतानि च ॥ द्रव्याण्येतानि चान्यानि संगृह्य विधिपूर्वकम् ॥ १६ ॥
मणि-रत्न-प्रकाराणि सुवर्ण-रजतानि च ॥ द्रव्याणि एतानि च अन्यानि संगृह्य विधि-पूर्वकम् ॥ १६ ॥
maṇi-ratna-prakārāṇi suvarṇa-rajatāni ca .. dravyāṇi etāni ca anyāni saṃgṛhya vidhi-pūrvakam .. 16 ..
मंगलं कर्तुमारेभे गिरिर्मंगलकृद्दिने ॥ संस्कारं कारयामासुः पार्वत्याः पर्वतस्त्रियः ॥ १७ ॥
मंगलम् कर्तुम् आरेभे गिरिः मंगल-कृत् दिने ॥ संस्कारम् कारयामासुः पार्वत्याः पर्वत-स्त्रियः ॥ १७ ॥
maṃgalam kartum ārebhe giriḥ maṃgala-kṛt dine .. saṃskāram kārayāmāsuḥ pārvatyāḥ parvata-striyaḥ .. 17 ..
ता मंगलं मुदा चक्रुर्भूषिता भूषणैः स्वयम् ॥ पुरद्विजस्त्रियो दृष्ट्वा लोकाचारं प्रचक्रिरे ॥ १८ ॥
ताः मंगलम् मुदा चक्रुः भूषिताः भूषणैः स्वयम् ॥ पुर-द्विज-स्त्रियः दृष्ट्वा लोक-आचारम् प्रचक्रिरे ॥ १८ ॥
tāḥ maṃgalam mudā cakruḥ bhūṣitāḥ bhūṣaṇaiḥ svayam .. pura-dvija-striyaḥ dṛṣṭvā loka-ācāram pracakrire .. 18 ..
सोत्सवं विविधं तत्र सुमंगलपुरस्सरम् ॥ हिमालयोऽपि हृष्टात्मा कृत्वाचारं सुमंगलम् ॥ १९ ॥
स उत्सवम् विविधम् तत्र सु मंगल-पुरस्सरम् ॥ हिमालयः अपि हृष्ट-आत्मा कृत्वा आचारम् सु मंगलम् ॥ १९ ॥
sa utsavam vividham tatra su maṃgala-purassaram .. himālayaḥ api hṛṣṭa-ātmā kṛtvā ācāram su maṃgalam .. 19 ..
सर्वभावेन सुप्रीतो बन्धुवर्गागमोत्सुकः ॥ एतस्मिन्नन्तरे तस्य बान्धवाश्च निमन्त्रिताः ॥ 2.3.37.२० ॥
सर्व-भावेन सु प्रीतः बन्धु-वर्ग-आगम-उत्सुकः ॥ एतस्मिन् अन्तरे तस्य बान्धवाः च निमन्त्रिताः ॥ २।३।३७।२० ॥
sarva-bhāvena su prītaḥ bandhu-varga-āgama-utsukaḥ .. etasmin antare tasya bāndhavāḥ ca nimantritāḥ .. 2.3.37.20 ..
आजग्मुस्सस्त्रियो हृष्टास्ससुतास्सपरिच्छदाः ॥ तदैव शृणु देवर्षे गिर्य्यागमनमादृतः ॥ २१॥
आजग्मुः स स्त्रियः हृष्टाः स सुताः स परिच्छदाः ॥ तदा एव शृणु देव-ऋषे गिर्य्य-आगमनम् आदृतः ॥ २१॥
ājagmuḥ sa striyaḥ hṛṣṭāḥ sa sutāḥ sa paricchadāḥ .. tadā eva śṛṇu deva-ṛṣe giryya-āgamanam ādṛtaḥ .. 21..
वर्णयामि समासेन शिवप्रीतिविवृद्धये ॥ देवालय गिरिर्यो हि दिव्यरूपधरो महान् ॥ २२ ॥
वर्णयामि समासेन शिव-प्रीति-विवृद्धये ॥ देवालय गिरिः यः हि दिव्य-रूप-धरः महान् ॥ २२ ॥
varṇayāmi samāsena śiva-prīti-vivṛddhaye .. devālaya giriḥ yaḥ hi divya-rūpa-dharaḥ mahān .. 22 ..
नानारत्नपरिभ्राजत्समाजस्सपरिच्छदः ॥ नानामणिमहारत्नसारमादाय यत्नतः ॥ २३ ॥
नाना रत्न-परिभ्राजत्-समाजः स परिच्छदः ॥ नाना मणि-महा-रत्न-सारम् आदाय यत्नतः ॥ २३ ॥
nānā ratna-paribhrājat-samājaḥ sa paricchadaḥ .. nānā maṇi-mahā-ratna-sāram ādāya yatnataḥ .. 23 ..
सुवेषालंकृतः श्रीमान् जगाम स हिमालयम् ॥ मन्दरस्सर्वशोभाढ्यस्सनारीतनयो गिरिः ॥ २४ ॥
सु वेष-अलंकृतः श्रीमान् जगाम स हिमालयम् ॥ मन्दरः सर्व-शोभा-आढ्यः स नारी-तनयः गिरिः ॥ २४ ॥
su veṣa-alaṃkṛtaḥ śrīmān jagāma sa himālayam .. mandaraḥ sarva-śobhā-āḍhyaḥ sa nārī-tanayaḥ giriḥ .. 24 ..
सूपायनानि संगृह्य जगाम विविधानि च ॥ अस्ताचलोपि दिव्यात्मा सोपायन उदारधीः ॥ २५॥
सु उपायनानि संगृह्य जगाम विविधानि च ॥ दिव्य-आत्मा स उपायनः उदार-धीः ॥ २५॥
su upāyanāni saṃgṛhya jagāma vividhāni ca .. divya-ātmā sa upāyanaḥ udāra-dhīḥ .. 25..
बहुशोभासमायुक्त आजगाम मुदान्वितः ॥ उदयाचल आदाय सद्रत्नानि मणीनपि॥ २६॥ ।
बहु-शोभा-समायुक्तः आजगाम मुदा अन्वितः ॥ उदयाचले आदाय सत्-रत्नानि मणीन् अपि॥ २६॥ ।
bahu-śobhā-samāyuktaḥ ājagāma mudā anvitaḥ .. udayācale ādāya sat-ratnāni maṇīn api.. 26.. .
अत्युत्कृष्टपरीवार आजगाम महासुखी ॥ मलयो गिरिराजो हि सपरीवार आदृतः ॥ २७॥
अति उत्कृष्ट-परीवारः आजगाम महा-सुखी ॥ मलयः गिरि-राजः हि स परीवारः आदृतः ॥ २७॥
ati utkṛṣṭa-parīvāraḥ ājagāma mahā-sukhī .. malayaḥ giri-rājaḥ hi sa parīvāraḥ ādṛtaḥ .. 27..
सुदिव्यरचनायुक्त आययौ बहुसद्बलः ॥ सद्यो दर्दुरनामा च मुदितस्सकलत्रकः ॥ २८॥
सु दिव्य-रचना-युक्तः आययौ बहु-सत्-बलः ॥ सद्यस् दर्दुर-नामा च मुदितः स कलत्रकः ॥ २८॥
su divya-racanā-yuktaḥ āyayau bahu-sat-balaḥ .. sadyas dardura-nāmā ca muditaḥ sa kalatrakaḥ .. 28..
बहुशोभान्वितस्तातः ययौ हिमगिरेर्गृहम्॥ निषदोपि प्रहृष्टात्मा सपरिच्छद आययौ ॥ २९॥
बहु-शोभा-अन्वितः तातः ययौ हिमगिरेः गृहम्॥ निषदः उपि प्रहृष्ट-आत्मा स परिच्छदः आययौ ॥ २९॥
bahu-śobhā-anvitaḥ tātaḥ yayau himagireḥ gṛham.. niṣadaḥ upi prahṛṣṭa-ātmā sa paricchadaḥ āyayau .. 29..
ससुतस्त्रीगणः प्रीत्या ययौ हिमगिरेर्गृहम् ॥ आजगाम महाभाग्यो भूधरो गन्धमादनः ॥ 2.3.37.३० ॥
स सुत-स्त्री-गणः प्रीत्या ययौ हिमगिरेः गृहम् ॥ आजगाम महाभाग्यः भूधरः गन्धमादनः ॥ २।३।३७।३० ॥
sa suta-strī-gaṇaḥ prītyā yayau himagireḥ gṛham .. ājagāma mahābhāgyaḥ bhūdharaḥ gandhamādanaḥ .. 2.3.37.30 ..
करवीरस्तथैवापि महाविभव संयुतः ॥ महेन्द्रः पर्वतश्रेष्ठ आजगाम हिमालयम् ॥ ३ १ ॥
करवीरः तथा एव अपि महा-विभव संयुतः ॥ महेन्द्रः पर्वत-श्रेष्ठः आजगाम हिमालयम् ॥ ३ १ ॥
karavīraḥ tathā eva api mahā-vibhava saṃyutaḥ .. mahendraḥ parvata-śreṣṭhaḥ ājagāma himālayam .. 3 1 ..
सगणस्ससुतस्त्रीको बहुशोभासमन्वितः ॥ पारियात्रो हि हृष्टात्मा मणि रत्नाकरस्सयुत् ॥ ३२॥
स गणः स सुत-स्त्रीकः बहु-शोभा-समन्वितः ॥ पारियात्रः हि हृष्ट-आत्मा मणि रत्न-आकरः सयुत् ॥ ३२॥
sa gaṇaḥ sa suta-strīkaḥ bahu-śobhā-samanvitaḥ .. pāriyātraḥ hi hṛṣṭa-ātmā maṇi ratna-ākaraḥ sayut .. 32..
सगणस्सपरीवार आययौ हिमभूधरम् ॥ क्रौञ्चः पर्वतराजो हि महाबलपरिच्छदः ॥ आजगाम गिरिश्रेष्ठस्स मुपायन आदृतः ॥ ३३॥
स गणः स परीवारः आययौ हिम-भूधरम् ॥ क्रौञ्चः पर्वत-राजः हि महा-बल-परिच्छदः ॥ आजगाम गिरि-श्रेष्ठः स मुपायनः आदृतः ॥ ३३॥
sa gaṇaḥ sa parīvāraḥ āyayau hima-bhūdharam .. krauñcaḥ parvata-rājaḥ hi mahā-bala-paricchadaḥ .. ājagāma giri-śreṣṭhaḥ sa mupāyanaḥ ādṛtaḥ .. 33..
पुरुषोत्तमशैलोपि सपरिच्छद आदृतः ॥ महोपायनमादायाजगाम हिमभूधरम् ॥ ३४॥
पुरुषोत्तम-शैल-उपि स परिच्छदः आदृतः ॥ महा-उपायनम् आदाय आजगाम हिम-भूधरम् ॥ ३४॥
puruṣottama-śaila-upi sa paricchadaḥ ādṛtaḥ .. mahā-upāyanam ādāya ājagāma hima-bhūdharam .. 34..
नीलः सलीलस्स सुतस्सस्त्रीको द्रव्यसंयुतः ॥ आजगाम हिमागस्य गृहमानन्दसंयुतः ॥ ३५॥
नीलः स लीलः स सुतः स स्त्रीकः द्रव्य-संयुतः ॥ आजगाम हिमागस्य गृहम् आनन्द-संयुतः ॥ ३५॥
nīlaḥ sa līlaḥ sa sutaḥ sa strīkaḥ dravya-saṃyutaḥ .. ājagāma himāgasya gṛham ānanda-saṃyutaḥ .. 35..
त्रिकूटश्चित्रकूटोपि वेंकटः श्रीगिरिस्तथा ॥ गोकामुखी नारदश्च हिमगेहमुपागमत् ॥ ३६ ॥
त्रिकूटः चित्रकूटः अपि वेंकटः श्रीगिरिः तथा ॥ गोकामुखी नारदः च हिमगेहम् उपागमत् ॥ ३६ ॥
trikūṭaḥ citrakūṭaḥ api veṃkaṭaḥ śrīgiriḥ tathā .. gokāmukhī nāradaḥ ca himageham upāgamat .. 36 ..
विन्ध्यश्च पर्वतश्रेष्ठो नानासम्पत्समन्वितः ॥ आजगाम प्रहृष्टात्मा सदारतनयश्शुभः ॥ ३७॥
विन्ध्यः च पर्वत-श्रेष्ठः नाना सम्पद्-समन्वितः ॥ आजगाम प्रहृष्ट-आत्मा स दार-तनयः शुभः ॥ ३७॥
vindhyaḥ ca parvata-śreṣṭhaḥ nānā sampad-samanvitaḥ .. ājagāma prahṛṣṭa-ātmā sa dāra-tanayaḥ śubhaḥ .. 37..
कालंजरो महाशैलो बहुहर्षसमन्वितः ॥ बहुभस्सगणः प्रीत्याजगामहिमभूधरम् ॥ ३८॥
कालंजरः महा-शैलः बहु-हर्ष-समन्वितः ॥ बहु-भस्स-गणः प्रीत्या आजगाम अहिम-भूधरम् ॥ ३८॥
kālaṃjaraḥ mahā-śailaḥ bahu-harṣa-samanvitaḥ .. bahu-bhassa-gaṇaḥ prītyā ājagāma ahima-bhūdharam .. 38..
कैलासस्तु महाशैलो महाहर्षसमन्वितः॥ आजगाम कृपां कृत्वा सर्वोपरि लसत्प्रभुः ॥ ३९॥
कैलासः तु महा-शैलः महा-हर्ष-समन्वितः॥ आजगाम कृपाम् कृत्वा सर्व-उपरि लसत्-प्रभुः ॥ ३९॥
kailāsaḥ tu mahā-śailaḥ mahā-harṣa-samanvitaḥ.. ājagāma kṛpām kṛtvā sarva-upari lasat-prabhuḥ .. 39..
अन्येपि भूभृतो ये हि द्वीपेष्वन्येष्वपि द्विज ॥ इहापि येऽचलास्सर्वे आययुस्ते हिमालयम् ॥ 2.3.37.४० ॥
अन्ये अपि भूभृतः ये हि द्वीपेषु अन्येषु अपि द्विज ॥ इह अपि ये अचलाः सर्वे आययुः ते हिमालयम् ॥ २।३।३७।४० ॥
anye api bhūbhṛtaḥ ye hi dvīpeṣu anyeṣu api dvija .. iha api ye acalāḥ sarve āyayuḥ te himālayam .. 2.3.37.40 ..
निमन्त्रिता नगास्तत्र तेन पूर्वं मुदा मुने ॥ आययुर्निखिलाः प्रीत्या विवाहश्शिवयोरिति ॥ ४१॥
निमन्त्रिताः नगाः तत्र तेन पूर्वम् मुदा मुने ॥ आययुः निखिलाः प्रीत्या विवाहः शिवयोः इति ॥ ४१॥
nimantritāḥ nagāḥ tatra tena pūrvam mudā mune .. āyayuḥ nikhilāḥ prītyā vivāhaḥ śivayoḥ iti .. 41..
तदा सर्वे समायाताश्शोणभद्रादयः खलु॥ बहुशोभा महाप्रीत्या विवाहश्शिवयोरिति॥ ४२॥
तदा सर्वे समायाताः शोणभद्र-आदयः खलु॥ बहु-शोभा महा-प्रीत्या विवाहः शिवयोः इति॥ ४२॥
tadā sarve samāyātāḥ śoṇabhadra-ādayaḥ khalu.. bahu-śobhā mahā-prītyā vivāhaḥ śivayoḥ iti.. 42..
नद्यस्सर्वास्समायाता नानालंकारसंयुताः ॥ दिव्य रूपधराः प्रीत्या विवाहश्शिवयोरिति ॥ ४३॥
नद्यः सर्वाः समायाताः नाना अलंकार-संयुताः ॥ रूप-धराः प्रीत्या विवाहः शिवयोः इति ॥ ४३॥
nadyaḥ sarvāḥ samāyātāḥ nānā alaṃkāra-saṃyutāḥ .. rūpa-dharāḥ prītyā vivāhaḥ śivayoḥ iti .. 43..
गोदावरी च यमुना ब्रह्मस्त्रीर्वेणिका तथा ॥ आययौ हिमशैलम्वै विवाहश्शिवयोरिति ॥ ४४॥
गोदावरी च यमुना ब्रह्म-स्त्रीः वेणिका तथा ॥ आययौ हिमशैलम् वै विवाहः शिवयोः इति ॥ ४४॥
godāvarī ca yamunā brahma-strīḥ veṇikā tathā .. āyayau himaśailam vai vivāhaḥ śivayoḥ iti .. 44..
गंगा तु सुमहाप्रीत्या नानालंकारसंयुता ॥ दिव्यरूपा ययौ प्रीत्या विवाहश्शिवयोरिति ॥ ४५॥
गंगा तु सु महा-प्रीत्या नाना अलंकार-संयुता ॥ दिव्य-रूपा ययौ प्रीत्या विवाहः शिवयोः इति ॥ ४५॥
gaṃgā tu su mahā-prītyā nānā alaṃkāra-saṃyutā .. divya-rūpā yayau prītyā vivāhaḥ śivayoḥ iti .. 45..
नर्मदा तु महामोदा रुद्रकन्या सरिद्वरा ॥ महाप्रीत्या जगामाशु विवाहश्शिवयोरिति ॥ ४६॥
नर्मदा तु महामोदा रुद्रकन्या सरित्-वरा ॥ महा-प्रीत्या जगाम आशु विवाहः शिवयोः इति ॥ ४६॥
narmadā tu mahāmodā rudrakanyā sarit-varā .. mahā-prītyā jagāma āśu vivāhaḥ śivayoḥ iti .. 46..
आगतैस्तैस्ततः सर्वैस्सर्वतो हिमभूधरम्॥ संकुलासीत्पुरी दिव्या सर्वशोभासमन्विता ॥ ४७॥
आगतैः तैः ततस् सर्वैः सर्वतस् हिम-भूधरम्॥ संकुला आसीत् पुरी दिव्या सर्व-शोभा-समन्विता ॥ ४७॥
āgataiḥ taiḥ tatas sarvaiḥ sarvatas hima-bhūdharam.. saṃkulā āsīt purī divyā sarva-śobhā-samanvitā .. 47..
महोत्सवा लसत्केतुध्वजातोरणकाधिका ॥ वितानविनिवृत्तार्का तथा नानालसत्प्रभा ॥ ४८ ॥
महा-उत्सवा लसत्-केतु-ध्वजा तोरणक-अधिका ॥ वितान-विनिवृत्त-अर्का तथा नाना अलसत्-प्रभा ॥ ४८ ॥
mahā-utsavā lasat-ketu-dhvajā toraṇaka-adhikā .. vitāna-vinivṛtta-arkā tathā nānā alasat-prabhā .. 48 ..
हिमालयोपि सुप्रीत्यादरेण विविधेन च ॥ तेषां चकार सन्मानं तासां चैव यथायथम् ॥ ४९॥
हिमालयः अपि सु प्रीति-आदरेण विविधेन च ॥ तेषाम् चकार सन्मानम् तासाम् च एव यथायथम् ॥ ४९॥
himālayaḥ api su prīti-ādareṇa vividhena ca .. teṣām cakāra sanmānam tāsām ca eva yathāyatham .. 49..
सर्वान्निवासयामास सुस्थानेषु पृथक् पृथक् ॥ सामग्रीभिरनेकाभिस्तोषयामास कृत्स्नशः ॥ 2.3.37.५०॥
सर्वान् निवासयामास सु स्थानेषु पृथक् पृथक् ॥ सामग्रीभिः अनेकाभिः तोषयामास कृत्स्नशस् ॥ २।३।३७।५०॥
sarvān nivāsayāmāsa su sthāneṣu pṛthak pṛthak .. sāmagrībhiḥ anekābhiḥ toṣayāmāsa kṛtsnaśas .. 2.3.37.50..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पावतीखण्डे लग्नपत्रसंप्रेषणसामग्रीसंग्रहशैलागमनवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥ ३७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पावतीखण्डे लग्नपत्रसंप्रेषणसामग्रीसंग्रहशैलागमनवर्णनम् नाम सप्तत्रिंशः अध्यायः ॥ ३७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pāvatīkhaṇḍe lagnapatrasaṃpreṣaṇasāmagrīsaṃgrahaśailāgamanavarṇanam nāma saptatriṃśaḥ adhyāyaḥ .. 37 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In