| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
अथ शैलेश्वरः प्रीतो हिमवान्मुनि सत्तम ॥ स्वपुरं रचयामास विचित्रं परमोत्सवम् ॥ १॥
अथ शैलेश्वरः प्रीतः हिमवान् मुनि सत्तम ॥ स्व-पुरम् रचयामास विचित्रम् परम-उत्सवम् ॥ १॥
atha śaileśvaraḥ prītaḥ himavān muni sattama .. sva-puram racayāmāsa vicitram parama-utsavam .. 1..
सिक्तमार्गं संस्कृतं च शोभितं परमर्द्धिभिः ॥ द्वारि द्वारि च रम्भादि मङ्गलं द्रव्यसंयुतम् ॥ २॥
सिक्त-मार्गम् संस्कृतम् च शोभितम् परम-ऋद्धिभिः ॥ द्वारि द्वारि च रम्भा-आदि मङ्गलम् द्रव्य-संयुतम् ॥ २॥
sikta-mārgam saṃskṛtam ca śobhitam parama-ṛddhibhiḥ .. dvāri dvāri ca rambhā-ādi maṅgalam dravya-saṃyutam .. 2..
प्रांगणं रचयामास रम्भास्तंभसमन्वितम् ॥ पट्टसूत्रैस्संनिबद्धरसालपल्लवान्वितम् ॥ ३ ॥
प्रांगणम् रचयामास रम्भा-स्तंभ-समन्वितम् ॥ पट्टसूत्रैः संनिबद्ध-रस-आलपल्लव-अन्वितम् ॥ ३ ॥
prāṃgaṇam racayāmāsa rambhā-staṃbha-samanvitam .. paṭṭasūtraiḥ saṃnibaddha-rasa-ālapallava-anvitam .. 3 ..
मालतीमाल्यसंयुक्तं लसत्तोरणसुप्रभम् ॥ शोभितम्मंगलद्रव्यैश्चतुर्दिक्षु स्थितैश्शुभैः ॥ ४ ॥
मालती-माल्य-संयुक्तम् लसत्-तोरण-सु प्रभम् ॥ शोभितम् मंगल-द्रव्यैः चतुर्-दिक्षु स्थितैः शुभैः ॥ ४ ॥
mālatī-mālya-saṃyuktam lasat-toraṇa-su prabham .. śobhitam maṃgala-dravyaiḥ catur-dikṣu sthitaiḥ śubhaiḥ .. 4 ..
तथैव सर्वं परया मुदान्वितश्चक्रे गिरीन्द्रस्स्वसुतार्थमेव॥ गर्गम्पुरस्कृत्य महाप्रभावं प्रस्तावयोग्यं च सुमंगलं हि ॥ ५॥
तथा एव सर्वम् परया मुदा अन्वितः चक्रे गिरीन्द्रः स्व-सुत-अर्थम् एव॥ गर्गम् पुरस्कृत्य महा-प्रभावम् प्रस्ताव-योग्यम् च सु मंगलम् हि ॥ ५॥
tathā eva sarvam parayā mudā anvitaḥ cakre girīndraḥ sva-suta-artham eva.. gargam puraskṛtya mahā-prabhāvam prastāva-yogyam ca su maṃgalam hi .. 5..
आहूय विश्वकर्माणं कारयामास सादरम् ॥ मण्डपं च सुविस्तीर्णं वेदिकादिमनोहरम् ॥ ६ ॥
आहूय विश्वकर्माणम् कारयामास स आदरम् ॥ मण्डपम् च सु विस्तीर्णम् वेदिका-आदि-मनोहरम् ॥ ६ ॥
āhūya viśvakarmāṇam kārayāmāsa sa ādaram .. maṇḍapam ca su vistīrṇam vedikā-ādi-manoharam .. 6 ..
अयुतेन सुरर्षे तद्योजनानां च विस्तृतम् ॥ अनेकलक्षणोपेतं नानाश्चर्य्यसमन्वितम् ॥ ७ ।
अयुतेन सुर-ऋषे तत् योजनानाम् च विस्तृतम् ॥ अनेक-लक्षण-उपेतम् नाना आश्चर्य्य-समन्वितम् ॥ ७ ।
ayutena sura-ṛṣe tat yojanānām ca vistṛtam .. aneka-lakṣaṇa-upetam nānā āścaryya-samanvitam .. 7 .
स्थावरं जंगमं सर्वं सदृशन्तैर्मनोहरम् ॥ सर्वतोऽद्भुतसर्वत्वं नानावस्तुचमत्कृतम् ॥ ८॥
स्थावरम् जंगमम् सर्वम् सदृशम् तैः मनोहरम् ॥ सर्वतस् अद्भुत-सर्व-त्वम् नाना वस्तु-चमत्कृतम् ॥ ८॥
sthāvaram jaṃgamam sarvam sadṛśam taiḥ manoharam .. sarvatas adbhuta-sarva-tvam nānā vastu-camatkṛtam .. 8..
जंगमं विजितन्तत्र स्थावरेण विशेषतः ॥ जंगमेन च तत्रासीज्जितं स्थावरमेव हि ॥ ९॥
जंगमम् विजितन् तत्र स्थावरेण विशेषतः ॥ जंगमेन च तत्र आसीत् जितम् स्थावरम् एव हि ॥ ९॥
jaṃgamam vijitan tatra sthāvareṇa viśeṣataḥ .. jaṃgamena ca tatra āsīt jitam sthāvaram eva hi .. 9..
पयसा च जिता तत्र स्थलभूमिर्न चान्यथा ॥ जलं किं हि स्थलं किं हि न विदुः केऽपि कोविदाः ॥ 2.3.38.१० ॥
पयसा च जिता तत्र स्थल-भूमिः न च अन्यथा ॥ जलम् किम् हि स्थलम् किम् हि न विदुः के अपि कोविदाः ॥ २।३।३८।१० ॥
payasā ca jitā tatra sthala-bhūmiḥ na ca anyathā .. jalam kim hi sthalam kim hi na viduḥ ke api kovidāḥ .. 2.3.38.10 ..
क्वचित्सिंहाः कृत्रिमाश्च क्वचित्सारसपंक्तयः ॥ क्वचिच्छिखण्डिनस्तत्र कृत्रिमाश्च मनोहराः ॥ ॥ ११ ॥
क्वचिद् सिंहाः कृत्रिमाः च क्वचिद् सारस-पंक्तयः ॥ क्वचिद् शिखण्डिनः तत्र कृत्रिमाः च मनोहराः ॥ ॥ ११ ॥
kvacid siṃhāḥ kṛtrimāḥ ca kvacid sārasa-paṃktayaḥ .. kvacid śikhaṇḍinaḥ tatra kṛtrimāḥ ca manoharāḥ .. .. 11 ..
क्वचित्स्त्रियः कृत्रिमाश्च नृत्यन्त्यः पुरुषैस्सह ॥ मोहयन्त्यो जनान्सर्वान्पश्यन्त्यः कृत्रिमास्तथा॥ १२॥
क्वचिद् स्त्रियः कृत्रिमाः च नृत्यन्त्यः पुरुषैः सह ॥ मोहयन्त्यः जनान् सर्वान् पश्यन्त्यः कृत्रिमाः तथा॥ १२॥
kvacid striyaḥ kṛtrimāḥ ca nṛtyantyaḥ puruṣaiḥ saha .. mohayantyaḥ janān sarvān paśyantyaḥ kṛtrimāḥ tathā.. 12..
तथा तेनैव विधिना द्वारपाला मनोहराः ॥ हस्तैर्धनूंषि चोद्धृत्य स्थावरा जंगमोपमाः ॥ १३॥
तथा तेन एव विधिना द्वारपालाः मनोहराः ॥ हस्तैः धनूंषि च उद्धृत्य स्थावराः जंगम-उपमाः ॥ १३॥
tathā tena eva vidhinā dvārapālāḥ manoharāḥ .. hastaiḥ dhanūṃṣi ca uddhṛtya sthāvarāḥ jaṃgama-upamāḥ .. 13..
द्वारि स्थिता महालक्ष्मीः कृत्रिमा रचिताद्भुता॥ सर्वलक्षणसंयुक्ता गताः साक्षत्पयोर्णवात ॥ १४॥
द्वारि स्थिता महा-लक्ष्मीः कृत्रिमा रचिता अद्भुता॥ सर्व-लक्षण-संयुक्ताः गताः साक्षत् पयः-ऊर्णवात ॥ १४॥
dvāri sthitā mahā-lakṣmīḥ kṛtrimā racitā adbhutā.. sarva-lakṣaṇa-saṃyuktāḥ gatāḥ sākṣat payaḥ-ūrṇavāta .. 14..
गजाश्चालङ्कृता ह्यासन्कृत्रिमा अकृतोपमाः ॥ तथाश्वाः न सादिभिश्चैव गजाश्च गजसादिभिः ॥ १५ ॥
गजाः च अलङ्कृताः हि आसन् कृत्रिमाः अकृत-उपमाः ॥ तथा अश्वाः न सादिभिः च एव गजाः च गज-सादिभिः ॥ १५ ॥
gajāḥ ca alaṅkṛtāḥ hi āsan kṛtrimāḥ akṛta-upamāḥ .. tathā aśvāḥ na sādibhiḥ ca eva gajāḥ ca gaja-sādibhiḥ .. 15 ..
रथा रथिभिराकृष्टा महाश्चर्यसमन्विताः ॥ वाहनानि तथान्यानि पत्तयः कृत्रिमास्तथा ॥ १६ ॥
रथाः रथिभिः आकृष्टाः महा-आश्चर्य-समन्विताः ॥ वाहनानि तथा अन्यानि पत्तयः कृत्रिमाः तथा ॥ १६ ॥
rathāḥ rathibhiḥ ākṛṣṭāḥ mahā-āścarya-samanvitāḥ .. vāhanāni tathā anyāni pattayaḥ kṛtrimāḥ tathā .. 16 ..
एवं विमोहनार्थन्तु कृतं वै विश्वकर्मणा ॥ देवानां च मुनीनां च तेन प्रीतात्मना मुने ॥ १७॥
एवम् विमोहन-अर्थम् तु कृतम् वै विश्वकर्मणा ॥ देवानाम् च मुनीनाम् च तेन प्रीत-आत्मना मुने ॥ १७॥
evam vimohana-artham tu kṛtam vai viśvakarmaṇā .. devānām ca munīnām ca tena prīta-ātmanā mune .. 17..
महाद्वारि स्थितौ नन्दी कृत्रिमश्च कृतो मुने ॥ शुद्धस्फटिकसंकाशो यथा नन्दी तथैव सः ॥ १-॥
महा-द्वारि स्थितौ नन्दी कृत्रिमः च कृतः मुने ॥ शुद्ध-स्फटिक-संकाशः यथा नन्दी तथा एव सः ॥ १॥
mahā-dvāri sthitau nandī kṛtrimaḥ ca kṛtaḥ mune .. śuddha-sphaṭika-saṃkāśaḥ yathā nandī tathā eva saḥ .. 1..
तस्योपरि महादिव्यम्पुष्पकं रत्नभूषितम् ॥ राजितं पल्लवैश्शुभ्रश्चामरैश्च सुशोभितम् ॥ १९॥
तस्य उपरि महा-दिव्यम् पुष्पकम् रत्न-भूषितम् ॥ राजितम् पल्लवैः शुभ्रः चामरैः च सु शोभितम् ॥ १९॥
tasya upari mahā-divyam puṣpakam ratna-bhūṣitam .. rājitam pallavaiḥ śubhraḥ cāmaraiḥ ca su śobhitam .. 19..
वामपार्श्वे गजौ द्वौ च शुद्धकाश्मीरसन्निभौ ॥ चतुर्दन्तो षष्टिवर्षौ भेदमानौ महाप्रभौ ॥ 2.3.38.२०॥
वाम-पार्श्वे गजौ द्वौ च शुद्ध-काश्मीर-सन्निभौ ॥ चतुर्-दन्तौ षष्टि-वर्षौ भेदमानौ महा-प्रभौ ॥ २।३।३८।२०॥
vāma-pārśve gajau dvau ca śuddha-kāśmīra-sannibhau .. catur-dantau ṣaṣṭi-varṣau bhedamānau mahā-prabhau .. 2.3.38.20..
तथैवार्कनिभौ तेन कृतौ चाश्वौ महाप्रभौ ॥ चामरालंकृतौ दिव्यौ दिव्यालङ्कारभूषितौ ॥ २१ ॥
तथा एव अर्क-निभौ तेन कृतौ च अश्वौ महा-प्रभौ ॥ चामर-अलंकृतौ दिव्यौ दिव्य-अलङ्कार-भूषितौ ॥ २१ ॥
tathā eva arka-nibhau tena kṛtau ca aśvau mahā-prabhau .. cāmara-alaṃkṛtau divyau divya-alaṅkāra-bhūṣitau .. 21 ..
दंशिता वररत्नाढ्या लोकपालास्तथैव च ॥ सर्वे देवा यथार्थं वै कृता वै विश्वकर्मणा ॥ २२॥
दंशिताः वर-रत्न-आढ्याः लोकपालाः तथा एव च ॥ सर्वे देवाः यथार्थम् वै कृताः वै विश्वकर्मणा ॥ २२॥
daṃśitāḥ vara-ratna-āḍhyāḥ lokapālāḥ tathā eva ca .. sarve devāḥ yathārtham vai kṛtāḥ vai viśvakarmaṇā .. 22..
तथा हि ऋषयस्सर्वे भृग्वाद्याश्च तपोधनाः ॥ अन्ये ह्युपसुरास्तद्वत्सिद्धाश्चान्येऽपि वै कृताः ॥ २३॥
तथा हि ऋषयः सर्वे भृगु-आद्याः च तपोधनाः ॥ अन्ये हि उपसुराः तद्वत् सिद्धाः च अन्ये अपि वै कृताः ॥ २३॥
tathā hi ṛṣayaḥ sarve bhṛgu-ādyāḥ ca tapodhanāḥ .. anye hi upasurāḥ tadvat siddhāḥ ca anye api vai kṛtāḥ .. 23..
विष्णुश्च पार्षदैस्सर्वैर्गरुडाख्यैस्समन्वितः ॥ कृत्रिमो निर्मितस्तद्वत्परमाश्चर्यरूपवान् ॥ २४ ॥
विष्णुः च पार्षदैः सर्वैः गरुड-आख्यैः समन्वितः ॥ कृत्रिमः निर्मितः तद्वत् परम-आश्चर्य-रूपवान् ॥ २४ ॥
viṣṇuḥ ca pārṣadaiḥ sarvaiḥ garuḍa-ākhyaiḥ samanvitaḥ .. kṛtrimaḥ nirmitaḥ tadvat parama-āścarya-rūpavān .. 24 ..
तथैवाहं सुतैवेदैस्सिद्धैश्च परिवारितः ॥ कृत्रिमो निर्मितस्तद्वत्पठन्सूक्तानि नारद ॥ २५॥
तथा एव अहम् सुत-एव इदैः सिद्धैः च परिवारितः ॥ कृत्रिमः निर्मितः तद्वत् पठन् सूक्तानि नारद ॥ २५॥
tathā eva aham suta-eva idaiḥ siddhaiḥ ca parivāritaḥ .. kṛtrimaḥ nirmitaḥ tadvat paṭhan sūktāni nārada .. 25..
ऐरावतगजारूढश्शक्रस्स्वदलसंयुतः ॥ कृत्रिमो निर्मितस्तद्वत्परिपूर्णेन्दुसंनिभः ॥ २६ ॥
ऐरावत-गज-आरूढः शक्रः स्व-दल-संयुतः ॥ कृत्रिमः निर्मितः तद्वत् परिपूर्ण-इन्दु-संनिभः ॥ २६ ॥
airāvata-gaja-ārūḍhaḥ śakraḥ sva-dala-saṃyutaḥ .. kṛtrimaḥ nirmitaḥ tadvat paripūrṇa-indu-saṃnibhaḥ .. 26 ..
किं बहूक्तेन देवर्षे सर्वो वै विश्वकर्मणा ॥ हिमागप्रेरितेनाशु क्लृप्तस्सुरसमाजकः ॥ २७ ॥
किम् बहु-उक्तेन देव-ऋषे सर्वः वै विश्वकर्मणा ॥ हिमाग-प्रेरितेन आशु क्लृप्तः सुर-समाजकः ॥ २७ ॥
kim bahu-uktena deva-ṛṣe sarvaḥ vai viśvakarmaṇā .. himāga-preritena āśu klṛptaḥ sura-samājakaḥ .. 27 ..
एवंभूतः कृतस्तेन मण्डपो दिव्यरूपवान् ॥ अनेकाश्चर्यसम्भूतो महान्देवविमोहनः ॥ २८ ॥
एवंभूतः कृतः तेन मण्डपः दिव्य-रूपवान् ॥ अनेक-आश्चर्य-सम्भूतः महान् देव-विमोहनः ॥ २८ ॥
evaṃbhūtaḥ kṛtaḥ tena maṇḍapaḥ divya-rūpavān .. aneka-āścarya-sambhūtaḥ mahān deva-vimohanaḥ .. 28 ..
अथाज्ञप्तो गिरीशेन विश्वकर्मा महामतिः ॥ निवासार्थं सुरादीनां तत्तल्लोकाम् हि यत्नतः ॥ २९॥
अथ आज्ञप्तः गिरीशेन विश्वकर्मा महामतिः ॥ निवास-अर्थम् सुर-आदीनाम् हि यत्नतः ॥ २९॥
atha ājñaptaḥ girīśena viśvakarmā mahāmatiḥ .. nivāsa-artham sura-ādīnām hi yatnataḥ .. 29..
तत्रैव च महामञ्चाः सुप्रभाः परमाद्भुताः ॥ रचितास्सुखदा दिव्या स्तेषां वै विश्वकर्मणा ॥ 2.3.38.३०॥
तत्र एव च महा-मञ्चाः सु प्रभाः परम-अद्भुताः ॥ रचिताः सुख-दाः दिव्याः तेषाम् वै विश्वकर्मणा ॥ २।३।३८।३०॥
tatra eva ca mahā-mañcāḥ su prabhāḥ parama-adbhutāḥ .. racitāḥ sukha-dāḥ divyāḥ teṣām vai viśvakarmaṇā .. 2.3.38.30..
तथाप्तसप्तलोकं वै विरेचे क्षणतोऽद्भुतम् ॥ दीप्त्या परमया युक्तं निवासार्थं स्वयम्भुवः ॥ ३१॥
तथा आप्त-सप्त-लोकम् वै विरेचे क्षणतः अद्भुतम् ॥ दीप्त्या परमया युक्तम् निवास-अर्थम् स्वयम्भुवः ॥ ३१॥
tathā āpta-sapta-lokam vai virece kṣaṇataḥ adbhutam .. dīptyā paramayā yuktam nivāsa-artham svayambhuvaḥ .. 31..
तथैव विष्णोस्त्वपरं वैकुण्ठाख्यं महोज्ज्वलम् ॥ विरेचे क्षणतो दिव्यं नानाश्चर्यसमन्वितम् ॥ ३२॥
तथा एव विष्णोः तु अपरम् वैकुण्ठ-आख्यम् महा-उज्ज्वलम् ॥ विरेचे क्षणतस् दिव्यम् नाना आश्चर्य-समन्वितम् ॥ ३२॥
tathā eva viṣṇoḥ tu aparam vaikuṇṭha-ākhyam mahā-ujjvalam .. virece kṣaṇatas divyam nānā āścarya-samanvitam .. 32..
अमरेशगृहन्दिव्यं तथैवाद्भुतमुत्तमम्॥ विरेचे विश्वकर्मासौ सर्वैश्वर्यसमन्वितम् ॥ ३३॥
तथा एव अद्भुतम् उत्तमम्॥ विरेचे विश्वकर्मा असौ सर्व-ऐश्वर्य-समन्वितम् ॥ ३३॥
tathā eva adbhutam uttamam.. virece viśvakarmā asau sarva-aiśvarya-samanvitam .. 33..
गृहाणि लोकपालानां विरेचे सुन्दराणि च ॥ तद्वत्स प्रीतितो दिव्यान्यद्भुतानि महान्ति च ॥ ३४ ॥
गृहाणि लोकपालानाम् विरेचे सुन्दराणि च ॥ तद्वत् स प्रीतितः दिव्यानि अद्भुतानि महान्ति च ॥ ३४ ॥
gṛhāṇi lokapālānām virece sundarāṇi ca .. tadvat sa prītitaḥ divyāni adbhutāni mahānti ca .. 34 ..
अन्येषाममराणां च सर्वेषां क्रमशस्तथा ॥ सदनानि विचित्राणि रचितानि च तेन वै ॥ ३५॥
अन्येषाम् अमराणाम् च सर्वेषाम् क्रमशस् तथा ॥ सदनानि विचित्राणि रचितानि च तेन वै ॥ ३५॥
anyeṣām amarāṇām ca sarveṣām kramaśas tathā .. sadanāni vicitrāṇi racitāni ca tena vai .. 35..
विश्वकर्मा महाबुद्धिः प्राप्तशम्भुमहावरः ॥ विरेचे क्षणतः सर्वं शिवतुष्ट्यर्थमेव च ॥ ३६ ॥
॥ विरेचे क्षणतस् सर्वम् शिव-तुष्टि-अर्थम् एव च ॥ ३६ ॥
.. virece kṣaṇatas sarvam śiva-tuṣṭi-artham eva ca .. 36 ..
तथैव चित्रं परमं महोज्ज्वलं महाप्रभन्देववरैस्सुपूजितम् ॥ गिरीशचिह्नं शिवलोकसंस्थितं सुशोभितं शम्भुगृहं चकार ॥ ३७ ॥
तथा एव चित्रम् परमम् महा-उज्ज्वलम् महा-प्रभन् देव-वरैः सु पूजितम् ॥ गिरीश-चिह्नम् शिव-लोक-संस्थितम् सु शोभितम् शम्भुगृहम् चकार ॥ ३७ ॥
tathā eva citram paramam mahā-ujjvalam mahā-prabhan deva-varaiḥ su pūjitam .. girīśa-cihnam śiva-loka-saṃsthitam su śobhitam śambhugṛham cakāra .. 37 ..
एवम्भूता कृता तेन रचना विश्वकर्मणा ॥ विचित्रा शिवतुष्ट्यर्थं पराश्चर्या महोज्ज्वला ॥ ३८ ॥
एवम्भूता कृता तेन रचना विश्वकर्मणा ॥ विचित्रा शिव-तुष्टि-अर्थम् परा आश्चर्या महा-उज्ज्वला ॥ ३८ ॥
evambhūtā kṛtā tena racanā viśvakarmaṇā .. vicitrā śiva-tuṣṭi-artham parā āścaryā mahā-ujjvalā .. 38 ..
एवं कृत्वाखिलं चेदं व्यवहारं च लौकिकम् ॥ पर्य्यैक्षिष्ट मुदा शम्भ्वागमनं स हिमाचलः ॥ ३९ ॥
एवम् कृत्वा अखिलम् च इदम् व्यवहारम् च लौकिकम् ॥ पर्यैक्षिष्ट मुदा शम्भु-आगमनम् स हिमाचलः ॥ ३९ ॥
evam kṛtvā akhilam ca idam vyavahāram ca laukikam .. paryaikṣiṣṭa mudā śambhu-āgamanam sa himācalaḥ .. 39 ..
इति प्रोक्तमशेषेण वृत्तान्तम्प्रमुदावहम् ॥ हिमालयस्य देवर्षे किम्भूयः श्रोतुमिच्छसि ॥ 2.3.38.४० ॥
इति प्रोक्तम् अशेषेण वृत्तान्तम् प्रमुदा आवहम् ॥ हिमालयस्य देव-ऋषे किम् भूयस् श्रोतुम् इच्छसि ॥ २।३।३८।४० ॥
iti proktam aśeṣeṇa vṛttāntam pramudā āvaham .. himālayasya deva-ṛṣe kim bhūyas śrotum icchasi .. 2.3.38.40 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनं नामाष्टत्रिंशोऽध्यायः ॥ ३८॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे मण्डपादिरचनावर्णनम् नाम अष्टत्रिंशः अध्यायः ॥ ३८॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe maṇḍapādiracanāvarṇanam nāma aṣṭatriṃśaḥ adhyāyaḥ .. 38..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In