| |
|

This overlay will guide you through the buttons:

नारद उवाच ।। ।।
विधे तात महाप्राज्ञ विष्णुशिष्य नमोऽस्तु ते ॥ अद्भुतेयं कथाश्रावि त्वत्तोऽस्माभिः कृपानिधे ॥ १ ॥
विधे तात महा-प्राज्ञ विष्णु-शिष्य नमः अस्तु ते ॥ अद्भुता इयम् कथा-श्रावि त्वत्तः अस्माभिः कृपा-निधे ॥ १ ॥
vidhe tāta mahā-prājña viṣṇu-śiṣya namaḥ astu te .. adbhutā iyam kathā-śrāvi tvattaḥ asmābhiḥ kṛpā-nidhe .. 1 ..
इदानीं श्रोतुमिच्छामि चरितं शशिमौलिनः ॥ वैवाहिकं सुमाङ्गल्यं सर्वाघौघविनाशनम् ॥ २ ॥
इदानीम् श्रोतुम् इच्छामि चरितम् शशिमौलिनः ॥ वैवाहिकम् सु माङ्गल्यम् सर्व-अघ-ओघ-विनाशनम् ॥ २ ॥
idānīm śrotum icchāmi caritam śaśimaulinaḥ .. vaivāhikam su māṅgalyam sarva-agha-ogha-vināśanam .. 2 ..
किं चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥ तां श्रावय कथान्दिव्यां शङ्करस्सपरात्मनः ॥ ३ ॥
किम् चकार महादेवः प्राप्य मङ्गल-पत्रिकाम् ॥ ताम् श्रावय कथान् दिव्याम् शङ्करः स परात्मनः ॥ ३ ॥
kim cakāra mahādevaḥ prāpya maṅgala-patrikām .. tām śrāvaya kathān divyām śaṅkaraḥ sa parātmanaḥ .. 3 ..
।। ब्रह्मोवाच ।।
शृणु वत्स महाप्राज्ञ शाङ्करम्परमं यशः ॥ यच्चकार महादेवः प्राप्य मङ्गलपत्रिकाम् ॥ ४ ॥
शृणु वत्स महा-प्राज्ञ शाङ्करम् परमम् यशः ॥ यत् चकार महादेवः प्राप्य मङ्गल-पत्रिकाम् ॥ ४ ॥
śṛṇu vatsa mahā-prājña śāṅkaram paramam yaśaḥ .. yat cakāra mahādevaḥ prāpya maṅgala-patrikām .. 4 ..
अथ शम्भुर्गृहीत्वा तां मुदा मंगलपत्रिकाम् ॥ विजहास प्रहृष्टात्मा मानन्तेषां व्यधाद्विभुः ॥ ५॥
अथ शम्भुः गृहीत्वा ताम् मुदा मंगल-पत्रिकाम् ॥ विजहास प्रहृष्ट-आत्मा मानन् तेषाम् व्यधात् विभुः ॥ ५॥
atha śambhuḥ gṛhītvā tām mudā maṃgala-patrikām .. vijahāsa prahṛṣṭa-ātmā mānan teṣām vyadhāt vibhuḥ .. 5..
वाचयित्वा च तां सम्यग्स्वीचकार विधानतः ॥ तज्जनन्यापयामास बहुसम्मान्य चादृतः ॥ ६॥
वाचयित्वा च ताम् सम्यक् स्वीचकार विधानतः ॥ तद्-जन-न्यापयामास बहु-सम्मान्य च आदृतः ॥ ६॥
vācayitvā ca tām samyak svīcakāra vidhānataḥ .. tad-jana-nyāpayāmāsa bahu-sammānya ca ādṛtaḥ .. 6..
उवाच सुनिवर्गांस्तान्कार्य्यं सम्यक् कृतं शुभम् ॥ आगन्तव्यं विवाहे मे विवाहस्स्वीकृतो मया ॥ ७॥
उवाच सु निवर्गान् तान् कार्य्यम् सम्यक् कृतम् शुभम् ॥ आगन्तव्यम् विवाहे मे विवाहः स्वीकृतः मया ॥ ७॥
uvāca su nivargān tān kāryyam samyak kṛtam śubham .. āgantavyam vivāhe me vivāhaḥ svīkṛtaḥ mayā .. 7..
इत्याकर्ण्य वचश्शम्भोः प्रहृष्टास्ते प्रणम्य तम्॥ परिक्रम्य ययुर्धाम शंसन्तः स्वं विधिम्परम् ॥ ८ ॥
इति आकर्ण्य वचः शम्भोः प्रहृष्टाः ते प्रणम्य तम्॥ परिक्रम्य ययुः धाम शंसन्तः स्वम् विधिम् परम् ॥ ८ ॥
iti ākarṇya vacaḥ śambhoḥ prahṛṣṭāḥ te praṇamya tam.. parikramya yayuḥ dhāma śaṃsantaḥ svam vidhim param .. 8 ..
अथ देवेश्वरश्शम्भुस्सामरस्त्वां मुने द्रुतम् ॥ लौकिकाचारमाश्रित्य महालीलाकरः प्रभुः ॥ ९॥
अथ देवेश्वरः शम्भुः स अमरः त्वाम् मुने द्रुतम् ॥ लौकिक-आचारम् आश्रित्य महा-लीला-करः प्रभुः ॥ ९॥
atha deveśvaraḥ śambhuḥ sa amaraḥ tvām mune drutam .. laukika-ācāram āśritya mahā-līlā-karaḥ prabhuḥ .. 9..
त्वमागतः परप्रीत्या प्रशंसंस्त्वं विधिम्परम् ॥ प्रणमंश्च नतस्कन्धो विनीतात्मा कृताञ्जलिः ॥ 2.3.39.१०॥
त्वम् आगतः पर-प्रीत्या प्रशंसन् त्वम् विधिम् परम् ॥ प्रणमन् च नत-स्कन्धः विनीत-आत्मा कृताञ्जलिः ॥ २।३।३९।१०॥
tvam āgataḥ para-prītyā praśaṃsan tvam vidhim param .. praṇaman ca nata-skandhaḥ vinīta-ātmā kṛtāñjaliḥ .. 2.3.39.10..
अस्तौस्सुजयशब्दान्हि समुच्चार्य मुहुर्मुहुः॥ निदेशं प्रार्थयंस्तस्य प्रशंसंस्त्वं विधिम्मुने॥ ११॥
अस्तौः सुजय-शब्दान् हि समुच्चार्य मुहुर् मुहुर्॥ निदेशम् प्रार्थयन् तस्य प्रशंसन् त्वम् विधिम् मुने॥ ११॥
astauḥ sujaya-śabdān hi samuccārya muhur muhur.. nideśam prārthayan tasya praśaṃsan tvam vidhim mune.. 11..
ततश्शंभुः प्रहृष्टात्मा दर्शयँल्लौकिकीं गतिम् ॥ उवाच मुनिवर्य त्वां प्रीणयञ्छुभया गिरा ॥ १२ ॥
ततस् शंभुः प्रहृष्ट-आत्मा दर्शयन् लौकिकीम् गतिम् ॥ उवाच मुनि-वर्य त्वाम् प्रीणयन् शुभया गिरा ॥ १२ ॥
tatas śaṃbhuḥ prahṛṣṭa-ātmā darśayan laukikīm gatim .. uvāca muni-varya tvām prīṇayan śubhayā girā .. 12 ..
शिव उवाच ।।
प्रीत्या शृणु मुनिश्रेष्ठ ह्यस्मत्तोऽद्य वदामि ते ॥ ब्रुवे तत्त्वां प्रियो मे यद्भक्तराजशिरोमणिः ॥ १३॥
प्रीत्या शृणु मुनि-श्रेष्ठ हि अस्मत्तः अद्य वदामि ते ॥ ब्रुवे तत् त्वाम् प्रियः मे यत् भक्त-राज-शिरोमणिः ॥ १३॥
prītyā śṛṇu muni-śreṣṭha hi asmattaḥ adya vadāmi te .. bruve tat tvām priyaḥ me yat bhakta-rāja-śiromaṇiḥ .. 13..
कृतं महत्तपो देव्या पार्वत्या तव शासनात् ॥ तस्यै वरो मया दत्तः पतित्वे तोषितेन वै ॥ १४ ॥
कृतम् महत् तपः देव्या पार्वत्या तव शासनात् ॥ तस्यै वरः मया दत्तः पति-त्वे तोषितेन वै ॥ १४ ॥
kṛtam mahat tapaḥ devyā pārvatyā tava śāsanāt .. tasyai varaḥ mayā dattaḥ pati-tve toṣitena vai .. 14 ..
करिष्येऽहं विवाहं च तस्या वश्यो हि भक्तितः ॥ सप्तर्षिभिस्साधितश्च तल्लग्नं शोधितं च तैः ॥ १५ ॥
करिष्ये अहम् विवाहम् च तस्याः वश्यः हि भक्तितः ॥ सप्तर्षिभिः साधितः च तद्-लग्नम् शोधितम् च तैः ॥ १५ ॥
kariṣye aham vivāham ca tasyāḥ vaśyaḥ hi bhaktitaḥ .. saptarṣibhiḥ sādhitaḥ ca tad-lagnam śodhitam ca taiḥ .. 15 ..
अद्यतस्सप्तमे चाह्नि तद्भविष्यति नारद ॥ महोत्सवं करिष्यामि लौकिकीं गतिमाश्रितः ॥ १६॥
अद्यतस् सप्तमे च अह्नि तत् भविष्यति नारद ॥ महा-उत्सवम् करिष्यामि लौकिकीम् गतिम् आश्रितः ॥ १६॥
adyatas saptame ca ahni tat bhaviṣyati nārada .. mahā-utsavam kariṣyāmi laukikīm gatim āśritaḥ .. 16..
ब्रह्मोवाच।।
इति श्रुत्वा वचस्तस्य शंकरस्य परात्मनः ॥ प्रसन्नधीः प्रभुं नत्वा तात त्वं वाक्यमब्रवीः ॥ १७॥
इति श्रुत्वा वचः तस्य शंकरस्य परात्मनः ॥ प्रसन्न-धीः प्रभुम् नत्वा तात त्वम् वाक्यम् अब्रवीः ॥ १७॥
iti śrutvā vacaḥ tasya śaṃkarasya parātmanaḥ .. prasanna-dhīḥ prabhum natvā tāta tvam vākyam abravīḥ .. 17..
नारद उवाच।।
भवतस्तु व्रतमिदम्भक्तवश्यो भवान्मतः॥ सम्यक् कृतं च भवता पार्वतीमानसेप्सितम् ॥ १८॥
भवतः तु व्रतम् इदम् भक्त-वश्यः भवान् मतः॥ सम्यक् कृतम् च भवता पार्वती-मानस-ईप्सितम् ॥ १८॥
bhavataḥ tu vratam idam bhakta-vaśyaḥ bhavān mataḥ.. samyak kṛtam ca bhavatā pārvatī-mānasa-īpsitam .. 18..
कार्यं मत्सदृशं किञ्चित्कथनीयन्त्वया विभो ॥ मत्वा स्वसेवकं मां हि कृपां कुरु नमोऽस्तु ते ॥ १९॥
कार्यम् मद्-सदृशम् किञ्चिद् कथनीयम् त्वया विभो ॥ मत्वा स्व-सेवकम् माम् हि कृपाम् कुरु नमः अस्तु ते ॥ १९॥
kāryam mad-sadṛśam kiñcid kathanīyam tvayā vibho .. matvā sva-sevakam mām hi kṛpām kuru namaḥ astu te .. 19..
ब्रह्मोवाच ।।
इत्युक्तस्तु त्वया शम्भुश्शंकरो भक्तवत्सलः ॥ प्रत्युवाच प्रसन्नात्मा सादरं त्वां मुनीश्वर ॥ 2.3.39.२०॥
इति उक्तः तु त्वया शम्भुः शंकरः भक्त-वत्सलः ॥ प्रत्युवाच प्रसन्न-आत्मा स आदरम् त्वाम् मुनि-ईश्वर ॥ २।३।३९।२०॥
iti uktaḥ tu tvayā śambhuḥ śaṃkaraḥ bhakta-vatsalaḥ .. pratyuvāca prasanna-ātmā sa ādaram tvām muni-īśvara .. 2.3.39.20..
शिव उवाच ।।
विष्णुप्रभृतिदेवांश्च मुनीन्सिद्धानपि ध्रुवम् ॥ त्वन्निमन्त्रय मद्वाण्या मुनेऽन्यानपि सर्वतः ॥ २१॥
विष्णु-प्रभृति देवान् च मुनीन् सिद्धान् अपि ध्रुवम् ॥ त्वत् निमन्त्रय मद्-वाण्या मुने अन्यान् अपि सर्वतस् ॥ २१॥
viṣṇu-prabhṛti devān ca munīn siddhān api dhruvam .. tvat nimantraya mad-vāṇyā mune anyān api sarvatas .. 21..
सर्व आयान्तु सोत्साहास्सर्वशोभासमन्विताः ॥ सस्त्रीसुतगणाः प्रीत्या मम शासनगौरवात् ॥ २२॥
सर्वे आयान्तु स उत्साहाः सर्व-शोभा-समन्विताः ॥ स स्त्री-सुत-गणाः प्रीत्या मम शासन-गौरवात् ॥ २२॥
sarve āyāntu sa utsāhāḥ sarva-śobhā-samanvitāḥ .. sa strī-suta-gaṇāḥ prītyā mama śāsana-gauravāt .. 22..
नागमिष्यन्ति ये त्वत्र मद्विवाहोत्सवे मुने ॥ ते स्वकीया न मन्तव्या मया देवादयः खलु ॥ २३॥
ना आगमिष्यन्ति ये तु अत्र मद्-विवाह-उत्सवे मुने ॥ ते स्वकीयाः न मन्तव्याः मया देव-आदयः खलु ॥ २३॥
nā āgamiṣyanti ye tu atra mad-vivāha-utsave mune .. te svakīyāḥ na mantavyāḥ mayā deva-ādayaḥ khalu .. 23..
ब्रह्मोवाच ।।
इतीशाज्ञां ततो धृत्वा भवाञ्छङ्करवल्लभः ॥ सर्वान्निमन्त्रयामास तं तं गत्वा द्रुतं मुने ॥ २४॥
इति ईश-आज्ञाम् ततस् धृत्वा भवान् शङ्कर-वल्लभः ॥ सर्वान् निमन्त्रयामास तम् तम् गत्वा द्रुतम् मुने ॥ २४॥
iti īśa-ājñām tatas dhṛtvā bhavān śaṅkara-vallabhaḥ .. sarvān nimantrayāmāsa tam tam gatvā drutam mune .. 24..
शम्भूपकण्ठमागत्य द्रुतं मुनिवरो भवान्॥ तद्दूत्यात्तत्र सन्तस्थौ तदाज्ञाम्प्राप्य नारद॥ २५॥
शम्भु-उपकण्ठम् आगत्य द्रुतम् मुनि-वरः भवान्॥ तद्-दूत्यात् तत्र सन्तस्थौ तद्-आज्ञाम् प्राप्य नारद॥ २५॥
śambhu-upakaṇṭham āgatya drutam muni-varaḥ bhavān.. tad-dūtyāt tatra santasthau tad-ājñām prāpya nārada.. 25..
शिवोऽपि तस्थौ सोत्कण्ठस्तदागमनलालसः ॥ स्वगणैस्सोत्सवैस्सवेंर्नृत्यद्भिस्सर्वतोदिशम् ॥ २६॥
शिवः अपि तस्थौ स उत्कण्ठः तद्-आगमन-लालसः ॥ स्व-गणैः स उत्सवैः सवेंः नृत्यद्भिः सर्वतोदिशम् ॥ २६॥
śivaḥ api tasthau sa utkaṇṭhaḥ tad-āgamana-lālasaḥ .. sva-gaṇaiḥ sa utsavaiḥ saveṃḥ nṛtyadbhiḥ sarvatodiśam .. 26..
एतस्मिन्नेव काले तु रचयित्वा स्ववेषकम्॥ आजगामाच्युतश्शीघ्रं कैलासं सपरिच्छदः॥ २७॥
एतस्मिन् एव काले तु रचयित्वा स्व-वेषकम्॥ आजगाम अच्युतः शीघ्रम् कैलासम् स परिच्छदः॥ २७॥
etasmin eva kāle tu racayitvā sva-veṣakam.. ājagāma acyutaḥ śīghram kailāsam sa paricchadaḥ.. 27..
शिवम्प्रणम्य सद्भक्त्या सदारस्सदलो मुदा॥ तदाज्ञाम्प्राप्य सन्तस्थौ सुस्थाने प्रीतमानसः ॥ २८ ॥
शिवम् प्रणम्य सत्-भक्त्या स दारः स दलः मुदा॥ तद्-आज्ञाम् प्राप्य सन्तस्थौ सुस्थाने प्रीत-मानसः ॥ २८ ॥
śivam praṇamya sat-bhaktyā sa dāraḥ sa dalaḥ mudā.. tad-ājñām prāpya santasthau susthāne prīta-mānasaḥ .. 28 ..
तथाहं स्वगणैराशु कैलासमगमं मुदा ॥ प्रभुम्प्रणम्यातिष्ठं वै सानन्दस्स्वगणान्वितः ॥ २९ ॥
तथा अहम् स्व-गणैः आशु कैलासम् अगमम् मुदा ॥ प्रभुम् प्रणम्य अतिष्ठम् वै स आनन्दः स्व-गण-अन्वितः ॥ २९ ॥
tathā aham sva-gaṇaiḥ āśu kailāsam agamam mudā .. prabhum praṇamya atiṣṭham vai sa ānandaḥ sva-gaṇa-anvitaḥ .. 29 ..
इन्द्रादयो लोकपाला आययुस्सपरिच्छदाः॥ तथैवालंकृतास्सर्वे सोत्सवास्सकलत्रकाः ॥ 2.3.39.३०॥
इन्द्र-आदयः लोकपालाः आययुः स परिच्छदाः॥ तथा एव अलंकृताः सर्वे स उत्सवाः स कलत्रकाः ॥ २।३।३९।३०॥
indra-ādayaḥ lokapālāḥ āyayuḥ sa paricchadāḥ.. tathā eva alaṃkṛtāḥ sarve sa utsavāḥ sa kalatrakāḥ .. 2.3.39.30..
तथैव मुनयो नागास्सिद्धा उपसुरा स्तथा ॥ आययुश्चापरेऽपीह सोत्सवास्सुनिमन्त्रिताः ॥ ३१ ॥
तथा एव मुनयः नागाः सिद्धाः उपसुराः स्तथा ॥ आययुः च अपरे अपि इह स उत्सवाः सु निमन्त्रिताः ॥ ३१ ॥
tathā eva munayaḥ nāgāḥ siddhāḥ upasurāḥ stathā .. āyayuḥ ca apare api iha sa utsavāḥ su nimantritāḥ .. 31 ..
महेश्वरस्तदा तत्रागतानां च पृथक् पृथक् ॥ सर्वेषाममराद्यानां सत्कारं व्यदधान्मुदा ॥ ३२ ॥
महेश्वरः तदा तत्र आगतानाम् च पृथक् पृथक् ॥ सर्वेषाम् अमर-आद्यानाम् सत्कारम् व्यदधात् मुदा ॥ ३२ ॥
maheśvaraḥ tadā tatra āgatānām ca pṛthak pṛthak .. sarveṣām amara-ādyānām satkāram vyadadhāt mudā .. 32 ..
अथोत्सवो महानासीत्कैलासे परमोद्भुतः ॥ नृत्यादिकन्तदा चक्रुर्यथायोग्यं सुरस्त्रियः ॥ ३३ ॥
अथ उत्सवः महान् आसीत् कैलासे परम-उद्भुतः ॥ नृत्य-आदिकम् तदा चक्रुः यथायोग्यम् सुर-स्त्रियः ॥ ३३ ॥
atha utsavaḥ mahān āsīt kailāse parama-udbhutaḥ .. nṛtya-ādikam tadā cakruḥ yathāyogyam sura-striyaḥ .. 33 ..
एतस्मिन्समये देवा विष्ण्वाद्या ये समागताः ॥ यात्रां कारयितुं शम्भोस्तत्रोषुस्तेऽखिला मुने ॥ ३४ ॥
एतस्मिन् समये देवाः विष्णु-आद्याः ये समागताः ॥ यात्राम् कारयितुम् शम्भोः तत्र ऊषुः ते अखिलाः मुने ॥ ३४ ॥
etasmin samaye devāḥ viṣṇu-ādyāḥ ye samāgatāḥ .. yātrām kārayitum śambhoḥ tatra ūṣuḥ te akhilāḥ mune .. 34 ..
शिवाज्ञप्तास्तदा सर्वे मदीयमिति यन्त्रिताः ॥ शिवकार्यमिदं सर्वं चक्रिरे शिवसेवनम् ॥ ३५॥
शिव-आज्ञप्ताः तदा सर्वे मदीयम् इति यन्त्रिताः ॥ शिव-कार्यम् इदम् सर्वम् चक्रिरे शिव-सेवनम् ॥ ३५॥
śiva-ājñaptāḥ tadā sarve madīyam iti yantritāḥ .. śiva-kāryam idam sarvam cakrire śiva-sevanam .. 35..
मातरस्सप्त तास्तत्र शिवभूषाविधिम्परम् ॥ चक्रिरे च मुदा युक्ता यथायोग्यन्तथा पुनः ।३६॥
मातरः सप्त ताः तत्र शिव-भूषा-विधिम् परम् ॥ चक्रिरे च मुदा युक्ताः यथायोग्यम् तथा पुनर् ।३६॥
mātaraḥ sapta tāḥ tatra śiva-bhūṣā-vidhim param .. cakrire ca mudā yuktāḥ yathāyogyam tathā punar .36..
तस्य स्वाभाविको वेषो भूषाविविरभूत्तदा ॥ तस्येच्छया मुनिश्रेष्ठ परमेशस्य सुप्रभो ॥ ३७॥
तस्य स्वाभाविकः वेषः भूषा-विविरभूत् तदा ॥ तस्य इच्छया मुनि-श्रेष्ठ परमेशस्य सु प्रभो ॥ ३७॥
tasya svābhāvikaḥ veṣaḥ bhūṣā-vivirabhūt tadā .. tasya icchayā muni-śreṣṭha parameśasya su prabho .. 37..
चन्द्रश्च मुकुटस्थाने सान्निध्यमकरोत्तदा ॥ लोचनं सुन्दरं ह्यासीत्तृतीयन्तिलकं शुभम् ॥ ३८ ॥
चन्द्रः च मुकुट-स्थाने सान्निध्यम् अकरोत् तदा ॥ लोचनम् सुन्दरम् हि आसीत् तृतीयन् तिलकम् शुभम् ॥ ३८ ॥
candraḥ ca mukuṭa-sthāne sānnidhyam akarot tadā .. locanam sundaram hi āsīt tṛtīyan tilakam śubham .. 38 ..
कर्णाभरणरूपौ च यौ हि सर्पौ प्रकीर्तितौ ॥ कुण्डलेऽभवतान्तस्य नानारत्नान्विते मुने ॥ ३९ ॥
कर्ण-आभरण-रूपौ च यौ हि सर्पौ प्रकीर्तितौ ॥ नाना रत्न-अन्विते मुने ॥ ३९ ॥
karṇa-ābharaṇa-rūpau ca yau hi sarpau prakīrtitau .. nānā ratna-anvite mune .. 39 ..
अन्यांगसंस्थितास्सर्पास्तदंगाभरणानि च ॥ बभूवुरतिरम्याणि नानारत्नमयानि च ॥ 2.3.39.४० ॥
अन्य-अंग-संस्थिताः सर्पाः तद्-अंग-आभरणानि च ॥ बभूवुः अति रम्याणि नाना रत्न-मयानि च ॥ २।३।३९।४० ॥
anya-aṃga-saṃsthitāḥ sarpāḥ tad-aṃga-ābharaṇāni ca .. babhūvuḥ ati ramyāṇi nānā ratna-mayāni ca .. 2.3.39.40 ..
विभूतिरंगरागोऽभूच्चन्दनादिसमुद्भवः ॥ तद्दुकूलमभूद्दिव्यं गजचर्मादि सुन्दरम् ॥ ४१ ॥
विभूतिः अंगरागः अभूत् चन्दन-आदि-समुद्भवः ॥ तत् दुकूलम् अभूत् दिव्यम् गज-चर्म-आदि सुन्दरम् ॥ ४१ ॥
vibhūtiḥ aṃgarāgaḥ abhūt candana-ādi-samudbhavaḥ .. tat dukūlam abhūt divyam gaja-carma-ādi sundaram .. 41 ..
ईदृशं सुन्दरं रूपं जातं वर्णातिदुष्करम् ॥ ईश्वरोऽपि स्वयं साक्षादैश्वर्यं लब्धवान्स्वतः ॥ ४२॥
ईदृशम् सुन्दरम् रूपम् जातम् वर्ण-अति दुष्करम् ॥ ईश्वरः अपि स्वयम् साक्षात् ऐश्वर्यम् लब्धवान् स्वतस् ॥ ४२॥
īdṛśam sundaram rūpam jātam varṇa-ati duṣkaram .. īśvaraḥ api svayam sākṣāt aiśvaryam labdhavān svatas .. 42..
ततश्च सर्वे सुरपक्षदानवा नागाः पतंगाप्सरसो महर्षयः ॥ समेत्य सर्वे शिवसन्निधिं तदा महोत्सवाः प्रोचुरहो मुदान्विताः ॥ ४३ ॥
ततस् च सर्वे सुर-पक्ष-दानवाः नागाः पतंग-अप्सरसः महा-ऋषयः ॥ समेत्य सर्वे शिव-सन्निधिम् तदा महा-उत्सवाः प्रोचुः अहो मुदा अन्विताः ॥ ४३ ॥
tatas ca sarve sura-pakṣa-dānavāḥ nāgāḥ pataṃga-apsarasaḥ mahā-ṛṣayaḥ .. sametya sarve śiva-sannidhim tadā mahā-utsavāḥ procuḥ aho mudā anvitāḥ .. 43 ..
सर्वै ऊचुः ।।
गच्छ गच्छ महादेव विवाहार्थं महेश्वर ॥ गिरिजाया महादेव्याः सहास्माभिः कृपां कुरु ॥ ४४ ॥
गच्छ गच्छ महादेव विवाह-अर्थम् महेश्वर ॥ गिरिजायाः महादेव्याः सह अस्माभिः कृपाम् कुरु ॥ ४४ ॥
gaccha gaccha mahādeva vivāha-artham maheśvara .. girijāyāḥ mahādevyāḥ saha asmābhiḥ kṛpām kuru .. 44 ..
ततो विष्णुरुवाचेदं प्रस्तावसदृशं वचः ॥ प्रणम्य शंकरं भक्त्या विज्ञानप्रीतमानसः ॥ ४५ ॥
ततस् विष्णुः उवाच इदम् प्रस्ताव-सदृशम् वचः ॥ प्रणम्य शंकरम् भक्त्या विज्ञान-प्रीत-मानसः ॥ ४५ ॥
tatas viṣṇuḥ uvāca idam prastāva-sadṛśam vacaḥ .. praṇamya śaṃkaram bhaktyā vijñāna-prīta-mānasaḥ .. 45 ..
।। विष्णुरुवाच ।।
देव देव महादेव शरणागतवत्सल ॥ कार्यकर्त्ता स्वभक्तानां विज्ञप्तिं शृणु मे प्रभो॥ ४६ ॥
देव देव महादेव शरण-आगत-वत्सल ॥ कार्य-कर्त्ता स्व-भक्तानाम् विज्ञप्तिम् शृणु मे प्रभो॥ ४६ ॥
deva deva mahādeva śaraṇa-āgata-vatsala .. kārya-karttā sva-bhaktānām vijñaptim śṛṇu me prabho.. 46 ..
गृह्योक्तविधिना शम्भो स्वविवाहस्य शंकर॥ गिरीशसुतया देव्या कर्म कर्तुमिहार्हसि ॥ ४७॥
गृह्य-उक्त-विधिना शम्भो स्व-विवाहस्य शंकर॥ गिरीश-सुतया देव्या कर्म कर्तुम् इह अर्हसि ॥ ४७॥
gṛhya-ukta-vidhinā śambho sva-vivāhasya śaṃkara.. girīśa-sutayā devyā karma kartum iha arhasi .. 47..
त्वया च क्रियमाणे तु विवाहस्य विधौ हर ॥ स एव हि तथा लोके सर्वस्सुख्यातिमाप्नुयात ॥ ४८ ॥
त्वया च क्रियमाणे तु विवाहस्य विधौ हर ॥ सः एव हि तथा लोके ॥ ४८ ॥
tvayā ca kriyamāṇe tu vivāhasya vidhau hara .. saḥ eva hi tathā loke .. 48 ..
मण्डपस्थापनन्नान्दीमुखन्तत्कुलधर्मतः ॥ कारय प्रीतितो नाथ लोके स्वं ख्यापयन् यशः ॥ ४९ ॥
मण्डप-स्थापनत् नान्दीमुखन् तद्-कुल-धर्मतः ॥ कारय प्रीतितः नाथ लोके स्वम् ख्यापयन् यशः ॥ ४९ ॥
maṇḍapa-sthāpanat nāndīmukhan tad-kula-dharmataḥ .. kāraya prītitaḥ nātha loke svam khyāpayan yaśaḥ .. 49 ..
ब्रह्मोवाच ।।
एवमुक्तस्तदा शम्भुर्विष्णुना परमेश्वरः ॥ लौकिकाचारनिरतो विधिना तच्चकार सः ॥ 2.3.39.५० ॥
एवम् उक्तः तदा शम्भुः विष्णुना परमेश्वरः ॥ लौकिक-आचार-निरतः विधिना तत् चकार सः ॥ २।३।३९।५० ॥
evam uktaḥ tadā śambhuḥ viṣṇunā parameśvaraḥ .. laukika-ācāra-nirataḥ vidhinā tat cakāra saḥ .. 2.3.39.50 ..
अहं ह्यधिकृतस्तेन सर्वमभ्युदयोचितम् ॥ अकुर्वं मुनिभिः प्रीत्या तत्र तत्कर्म चादरात् ॥ ५१ ॥
अहम् हि अधिकृतः तेन सर्वम् अभ्युदय-उचितम् ॥ अकुर्वम् मुनिभिः प्रीत्या तत्र तत् कर्म च आदरात् ॥ ५१ ॥
aham hi adhikṛtaḥ tena sarvam abhyudaya-ucitam .. akurvam munibhiḥ prītyā tatra tat karma ca ādarāt .. 51 ..
कश्यपोऽत्रिर्वशिष्ठश्च गौतमो भागुरिर्गुरुः ॥ कण्वो बृहस्पतिश्शक्तिर्जमदग्निः पराशरः ॥ ५२ ॥
कश्यपः अत्रिः वशिष्ठः च गौतमः भागुरिः गुरुः ॥ कण्वः बृहस्पतिः शक्तिः जमदग्निः पराशरः ॥ ५२ ॥
kaśyapaḥ atriḥ vaśiṣṭhaḥ ca gautamaḥ bhāguriḥ guruḥ .. kaṇvaḥ bṛhaspatiḥ śaktiḥ jamadagniḥ parāśaraḥ .. 52 ..
मार्कण्डेयश्शिलापाकोऽरुणपालोऽकृतश्रमः ॥ अगस्त्यश्च्यवनो गर्गश्शिलादोऽथ महामुने ॥ ५३ ॥
मार्कण्डेयः शिलापाकः अरुणपालः अकृतश्रमः ॥ अगस्त्यः च्यवनः गर्गः शिलादः अथ महा-मुने ॥ ५३ ॥
mārkaṇḍeyaḥ śilāpākaḥ aruṇapālaḥ akṛtaśramaḥ .. agastyaḥ cyavanaḥ gargaḥ śilādaḥ atha mahā-mune .. 53 ..
दधीचिरुपमन्युश्च भरद्वाजोऽकृतव्रणः ॥ पिप्पलादोऽथ कुशिकः कौत्सो व्यासः सशिष्यकः ॥ ५४ ॥
दधीचिः उपमन्युः च भरद्वाजः अकृतव्रणः ॥ पिप्पलादः अथ कुशिकः कौत्सः व्यासः स शिष्यकः ॥ ५४ ॥
dadhīciḥ upamanyuḥ ca bharadvājaḥ akṛtavraṇaḥ .. pippalādaḥ atha kuśikaḥ kautsaḥ vyāsaḥ sa śiṣyakaḥ .. 54 ..
एते चान्ये च बहव आगताश्शिवसन्निधिम् ॥ मया सुनोदितास्तत्र चक्रुस्ते विधिवत्क्रियाम् ॥ ५५ ॥
एते च अन्ये च बहवः आगताः शिव-सन्निधिम् ॥ मया सु नोदिताः तत्र चक्रुः ते विधिवत् क्रियाम् ॥ ५५ ॥
ete ca anye ca bahavaḥ āgatāḥ śiva-sannidhim .. mayā su noditāḥ tatra cakruḥ te vidhivat kriyām .. 55 ..
वेदोक्तविधिना सर्वे वेदवेदांगपारगाः ॥ रक्षां चक्रुर्महेशस्य कृत्वा कौतुकमंगलम् ॥ ५६ ॥
वेद-उक्त-विधिना सर्वे वेद-वेदांग-पारगाः ॥ रक्षाम् चक्रुः महेशस्य कृत्वा कौतुकमंगलम् ॥ ५६ ॥
veda-ukta-vidhinā sarve veda-vedāṃga-pāragāḥ .. rakṣām cakruḥ maheśasya kṛtvā kautukamaṃgalam .. 56 ..
ऋग्यजुस्सामसूक्तैस्तु तथा नानाविधैः परैः ॥ मंगलानि च भूरीणि चक्रुः प्रीत्यर्षयोऽखिलाः ॥ ५७॥
ऋक्-यजुः-साम-सूक्तैः तु तथा नानाविधैः परैः ॥ मंगलानि च भूरीणि चक्रुः प्रीत्या ऋषयः अखिलाः ॥ ५७॥
ṛk-yajuḥ-sāma-sūktaiḥ tu tathā nānāvidhaiḥ paraiḥ .. maṃgalāni ca bhūrīṇi cakruḥ prītyā ṛṣayaḥ akhilāḥ .. 57..
ग्रहाणां पूजनं प्रीत्या चक्रुस्ते शम्भुना मया ॥ मण्डलस्थसुराणां च सर्वेषां विघ्नशान्तये।५८॥
ग्रहाणाम् पूजनम् प्रीत्या चक्रुः ते शम्भुना मया ॥ मण्डल-स्थ-सुराणाम् च सर्वेषाम् विघ्न-शान्तये।५८॥
grahāṇām pūjanam prītyā cakruḥ te śambhunā mayā .. maṇḍala-stha-surāṇām ca sarveṣām vighna-śāntaye.58..
ततश्शिवस्तु सन्तुष्टः कृत्वा सर्वं यथोचितम्॥ लौकिकं वैदिकं कर्म ननाम च मुदा द्विजान् ॥ ५९॥
ततस् शिवः तु सन् तुष्टः कृत्वा सर्वम् यथोचितम्॥ लौकिकम् वैदिकम् कर्म ननाम च मुदा द्विजान् ॥ ५९॥
tatas śivaḥ tu san tuṣṭaḥ kṛtvā sarvam yathocitam.. laukikam vaidikam karma nanāma ca mudā dvijān .. 59..
अथ सर्वेश्वरो विप्रान्देवान्कृत्वा पुरस्सरान् ॥ निस्ससार मुदा तस्मात्कैलासात्पर्वतोत्तमात् ॥ 2.3.39.६०॥
अथ सर्वेश्वरः विप्रान् देवान् कृत्वा पुरस्सरान् ॥ निस्ससार मुदा तस्मात् कैलासात् पर्वत-उत्तमात् ॥ २।३।३९।६०॥
atha sarveśvaraḥ viprān devān kṛtvā purassarān .. nissasāra mudā tasmāt kailāsāt parvata-uttamāt .. 2.3.39.60..
बहिः कैलासकुधराच्छम्भुस्तस्थौ मुदान्वितः ॥ देवैस्सह द्विजैश्चैव नानास्वीकारकः प्रभुः ॥ ६१ ॥
बहिस् कैलास-कुधरात् शम्भुः तस्थौ मुदा अन्वितः ॥ देवैः सह द्विजैः च एव नाना स्वीकारकः प्रभुः ॥ ६१ ॥
bahis kailāsa-kudharāt śambhuḥ tasthau mudā anvitaḥ .. devaiḥ saha dvijaiḥ ca eva nānā svīkārakaḥ prabhuḥ .. 61 ..
तदोत्सवो महानासीत्तत्र देवादिभिः कृतः ॥ सन्तुष्ट्यर्थं महेशस्य गानवाद्यसुनृत्यकः ॥ ६२ ॥
तदा उत्सवः महान् आसीत् तत्र देव-आदिभिः कृतः ॥ सन्तुष्टि-अर्थम् महेशस्य गान-वाद्य-सु नृत्यकः ॥ ६२ ॥
tadā utsavaḥ mahān āsīt tatra deva-ādibhiḥ kṛtaḥ .. santuṣṭi-artham maheśasya gāna-vādya-su nṛtyakaḥ .. 62 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे देवनिमन्त्रण देवागमन शिवयात्रावर्णनं नामैकोनचत्वारिंशोऽध्यायः ॥ ३९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे देवनिमन्त्रण-देवागमन-शिवयात्रावर्णनम् नाम एकोनचत्वारिंशः अध्यायः ॥ ३९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe devanimantraṇa-devāgamana-śivayātrāvarṇanam nāma ekonacatvāriṃśaḥ adhyāyaḥ .. 39 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In