| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच।।
ततस्सम्मन्त्र्य च मिथः प्राप्याज्ञां शांकरीं हरिः ॥ मुने त्वाम्प्रेषयामास प्रथमं कुधरालयम् ॥ १ ॥
ततस् सम्मन्त्र्य च मिथस् प्राप्य आज्ञाम् शांकरीम् हरिः ॥ मुने त्वाम् प्रेषयामास प्रथमम् कुधर-आलयम् ॥ १ ॥
tatas sammantrya ca mithas prāpya ājñām śāṃkarīm hariḥ .. mune tvām preṣayāmāsa prathamam kudhara-ālayam .. 1 ..
अथ प्रणम्य सर्वेशं गतस्त्वं नारदाग्रतः ॥ हरिणा नोदितः प्रीत्या हिमाचलगृहम्प्रति ॥ २ ॥
अथ प्रणम्य सर्व-ईशम् गतः त्वम् नारद-अग्रतस् ॥ हरिणा नोदितः प्रीत्या हिमाचल-गृहम् प्रति ॥ २ ॥
atha praṇamya sarva-īśam gataḥ tvam nārada-agratas .. hariṇā noditaḥ prītyā himācala-gṛham prati .. 2 ..
त्वं मुनेऽपश्य आत्मानं गत्वा तद्व्रीडयान्वितम् ॥ कृत्रिमं रचितं तत्र विस्मितो विश्वकर्मणा ॥ ३ ॥
त्वम् मुने अपश्यः आत्मानम् गत्वा तद्-व्रीडया अन्वितम् ॥ कृत्रिमम् रचितम् तत्र विस्मितः विश्वकर्मणा ॥ ३ ॥
tvam mune apaśyaḥ ātmānam gatvā tad-vrīḍayā anvitam .. kṛtrimam racitam tatra vismitaḥ viśvakarmaṇā .. 3 ..
श्रान्तस्त्वमात्मना तेन कृत्रिमेण महामुने ॥ अवलोकपरस्सोऽभूच्चरितं विश्वकर्मणः ॥ ४॥
श्रान्तः त्वम् आत्मना तेन कृत्रिमेण महा-मुने ॥ अवलोक-परः सः अभूत् चरितम् विश्वकर्मणः ॥ ४॥
śrāntaḥ tvam ātmanā tena kṛtrimeṇa mahā-mune .. avaloka-paraḥ saḥ abhūt caritam viśvakarmaṇaḥ .. 4..
प्रविष्टो मण्डपस्तस्य हिमाद्रे रत्नचित्रितम् ॥ सुवर्णकलशैर्जुष्टं रम्भादिबहुशोभितम् ॥ ५ ॥
प्रविष्टः मण्डपः तस्य हिमाद्रे रत्न-चित्रितम् ॥ सुवर्ण-कलशैः जुष्टम् रम्भा-आदि-बहु-शोभितम् ॥ ५ ॥
praviṣṭaḥ maṇḍapaḥ tasya himādre ratna-citritam .. suvarṇa-kalaśaiḥ juṣṭam rambhā-ādi-bahu-śobhitam .. 5 ..
सहस्रस्तम्भसंयुक्तं विचित्रम्परमाद्भुतम् ॥ वेदिकां च तथा दृष्ट्वा विस्मयं त्वं मुने ह्ययाः ॥ ६ ॥
सहस्र-स्तम्भ-संयुक्तम् विचित्रम् परम-अद्भुतम् ॥ वेदिकाम् च तथा दृष्ट्वा विस्मयम् त्वम् मुने हि अयाः ॥ ६ ॥
sahasra-stambha-saṃyuktam vicitram parama-adbhutam .. vedikām ca tathā dṛṣṭvā vismayam tvam mune hi ayāḥ .. 6 ..
तदावोचश्च स मुने नारद त्वं नगेश्वरम् ॥ विस्मितोऽतीव मनसि नष्टज्ञानो विमूढधीः ॥ ७ ॥
तदा अवोचः च स मुने नारद त्वम् नगेश्वरम् ॥ विस्मितः अतीव मनसि नष्ट-ज्ञानः विमूढ-धीः ॥ ७ ॥
tadā avocaḥ ca sa mune nārada tvam nageśvaram .. vismitaḥ atīva manasi naṣṭa-jñānaḥ vimūḍha-dhīḥ .. 7 ..
आगतास्ते किमधुना देवा विष्णुपुरोगमाः ॥ तथा महर्षयस्सर्वे सिद्धा उपसुरास्तथा ॥ ८॥
आगताः ते किम् अधुना देवाः विष्णु-पुरोगमाः ॥ तथा महा-ऋषयः सर्वे सिद्धाः उपसुराः तथा ॥ ८॥
āgatāḥ te kim adhunā devāḥ viṣṇu-purogamāḥ .. tathā mahā-ṛṣayaḥ sarve siddhāḥ upasurāḥ tathā .. 8..
महादेवो वृषारूढो गणैश्च परिवारितः ॥ आगतः किं विवाहार्थं वद तथ्यं नगेश्वर ॥ ९ ॥
महादेवः वृष-आरूढः गणैः च परिवारितः ॥ आगतः किम् विवाह-अर्थम् वद तथ्यम् नग-ईश्वर ॥ ९ ॥
mahādevaḥ vṛṣa-ārūḍhaḥ gaṇaiḥ ca parivāritaḥ .. āgataḥ kim vivāha-artham vada tathyam naga-īśvara .. 9 ..
ब्रह्मोवाच ।।
इत्येवं वचनं श्रुत्वा तव विस्मित चेतसः ॥ उवाच त्वां मुने तथ्यं वाक्यं स हिमवान् गिरिः ॥ 2.3.41.१० ॥
इति एवम् वचनम् श्रुत्वा तव विस्मित चेतसः ॥ उवाच त्वाम् मुने तथ्यम् वाक्यम् स हिमवान् गिरिः ॥ २।३।४१।१० ॥
iti evam vacanam śrutvā tava vismita cetasaḥ .. uvāca tvām mune tathyam vākyam sa himavān giriḥ .. 2.3.41.10 ..
हिमवानुवाच ।।
हे नारद महाप्राज्ञागतो नैवाधुना शिवः ॥ विवाहार्थं च पार्वत्यास्सगणस्सवरातकः ॥ ११ ॥
हे नारद महा-प्राज्ञ-आगतः ना एव अधुना शिवः ॥ विवाह-अर्थम् च पार्वत्याः स गणः स वरातकः ॥ ११ ॥
he nārada mahā-prājña-āgataḥ nā eva adhunā śivaḥ .. vivāha-artham ca pārvatyāḥ sa gaṇaḥ sa varātakaḥ .. 11 ..
विश्वकर्मकृतं चित्रं विद्धि नारद सद्धिया ॥ विस्मयन्त्यज देवर्षे स्वस्थो भव शिवं स्मर ॥ १२ ॥
विश्वकर्म-कृतम् चित्रम् विद्धि नारद सत्-धिया ॥ विस्मयन्ति अज देव-ऋषे स्वस्थः भव शिवम् स्मर ॥ १२ ॥
viśvakarma-kṛtam citram viddhi nārada sat-dhiyā .. vismayanti aja deva-ṛṣe svasthaḥ bhava śivam smara .. 12 ..
भुक्त्वा विश्रम्य सुप्रीतः कृपां कृत्वा ममोपरि ॥ मैनाकादिधरैस्सार्द्धं गच्छ त्वं शंकरान्तिकम् ॥ १३ ॥
भुक्त्वा विश्रम्य सु प्रीतः कृपाम् कृत्वा मम उपरि ॥ मैनाक-आदि-धरैः सार्द्धम् गच्छ त्वम् शंकर-अन्तिकम् ॥ १३ ॥
bhuktvā viśramya su prītaḥ kṛpām kṛtvā mama upari .. maināka-ādi-dharaiḥ sārddham gaccha tvam śaṃkara-antikam .. 13 ..
एभिस्समेतो गिरिभिर्महामत संप्रार्थ्य शीघ्रं शिवमत्र चानय ॥ देवैस्समेतं च महर्षिसंघैस्सुरासुरैरर्चितपादपल्लवम् ॥ १४ ॥
एभिः समेतः गिरिभिः महामत संप्रार्थ्य शीघ्रम् शिवम् अत्र च आनय ॥ देवैः समेतम् च महा-ऋषि-संघैः सुर-असुरैः अर्चित-पाद-पल्लवम् ॥ १४ ॥
ebhiḥ sametaḥ giribhiḥ mahāmata saṃprārthya śīghram śivam atra ca ānaya .. devaiḥ sametam ca mahā-ṛṣi-saṃghaiḥ sura-asuraiḥ arcita-pāda-pallavam .. 14 ..
ब्रह्मोवाच ।।
तथेति चोक्त्वागम आशु हि त्वं सदैव तैश्शैलसुतादिभिश्च ॥ तत्रत्यकृत्यं सुविधाय भुक्त्वा महामनास्त्वं शिवस न्निधानम् ॥ १५॥
तथा इति च उक्त्वा आगमः आशु हि त्वम् सदा एव तैः शैलसुत-आदिभिः च ॥ तत्रत्य-कृत्यम् सु विधाय भुक्त्वा महामनाः त्वम् शिव-स निधानम् ॥ १५॥
tathā iti ca uktvā āgamaḥ āśu hi tvam sadā eva taiḥ śailasuta-ādibhiḥ ca .. tatratya-kṛtyam su vidhāya bhuktvā mahāmanāḥ tvam śiva-sa nidhānam .. 15..
तत्र दृष्टो महादेवो देवादिपरिवारितः ॥ नमस्कृतस्त्वया दीप्तश्शैलैस्तैर्भक्तितश्च वै ॥ १६॥
तत्र दृष्टः महादेवः देव-आदि-परिवारितः ॥ नमस्कृतः त्वया दीप्तः शैलैः तैः भक्तितः च वै ॥ १६॥
tatra dṛṣṭaḥ mahādevaḥ deva-ādi-parivāritaḥ .. namaskṛtaḥ tvayā dīptaḥ śailaiḥ taiḥ bhaktitaḥ ca vai .. 16..
तदा मया विष्णुना च सर्वे देवास्सवासवाः ॥ पप्रच्छुस्त्वां मुने सर्वे रुद्रस्यानुचरास्तथा ॥ १७ ॥
तदा मया विष्णुना च सर्वे देवाः स वासवाः ॥ पप्रच्छुः त्वाम् मुने सर्वे रुद्रस्य अनुचराः तथा ॥ १७ ॥
tadā mayā viṣṇunā ca sarve devāḥ sa vāsavāḥ .. papracchuḥ tvām mune sarve rudrasya anucarāḥ tathā .. 17 ..
विस्मिताः पर्वतान्दृष्ट्वा सन्देहाकुलमानसाः ॥ मैनाकसह्यमेर्वाद्यान्नानालंकारसंयुतान् ॥ १८ ॥
विस्मिताः पर्वतान् दृष्ट्वा सन्देह-आकुल-मानसाः ॥ मैनाक-सह्य-मेरु-आद्यान् नाना अलंकार-संयुतान् ॥ १८ ॥
vismitāḥ parvatān dṛṣṭvā sandeha-ākula-mānasāḥ .. maināka-sahya-meru-ādyān nānā alaṃkāra-saṃyutān .. 18 ..
देवा ऊचुः ।।
हे नारद महाप्राज्ञ विस्मितस्त्वं हि दृश्यसे ॥ सत्कृतोऽसि हिमागेन किं न वा वद विस्तरात् ॥ १९॥
हे नारद महा-प्राज्ञ विस्मितः त्वम् हि दृश्यसे ॥ सत्कृतः असि हिमागेन किम् न वा वद विस्तरात् ॥ १९॥
he nārada mahā-prājña vismitaḥ tvam hi dṛśyase .. satkṛtaḥ asi himāgena kim na vā vada vistarāt .. 19..
एते कस्मात्समायाताः पर्वता इह सत्तमाः ॥ मैनाकसह्यमेर्वाद्यास्सुप्रतापास्स्वलंकृताः ॥ 2.3.41.२०॥
एते कस्मात् समायाताः पर्वताः इह सत्तमाः ॥ मैनाक-सह्य-मेरु-आद्याः सु प्रतापाः सु अलंकृताः ॥ २।३।४१।२०॥
ete kasmāt samāyātāḥ parvatāḥ iha sattamāḥ .. maināka-sahya-meru-ādyāḥ su pratāpāḥ su alaṃkṛtāḥ .. 2.3.41.20..
कन्यां दास्यति शैलोऽसौ स भवे वा न नारद ॥ हिमालयगृहे तात किं भवत्यद्य तद्वद ॥ २१ ॥
कन्याम् दास्यति शैलः असौ स भवे वा न नारद ॥ हिमालय-गृहे तात किम् भवति अद्य तत् वद ॥ २१ ॥
kanyām dāsyati śailaḥ asau sa bhave vā na nārada .. himālaya-gṛhe tāta kim bhavati adya tat vada .. 21 ..
इति सन्दिग्धमनसामस्माकं च दिवौकसाम्॥ वद् त्वं पृच्छमानानां सन्देहं हर सुव्रत ॥ २२ ॥
इति सन्दिग्ध-मनसाम् अस्माकम् च दिवौकसाम्॥ त्वम् पृच्छमानानाम् सन्देहम् हर सुव्रत ॥ २२ ॥
iti sandigdha-manasām asmākam ca divaukasām.. tvam pṛcchamānānām sandeham hara suvrata .. 22 ..
इत्याकर्ण्य वचस्तेषां विष्ण्वादीनान्दिवौकसाम् ॥ अवोचस्तान्मुने त्वं हि विस्मितस्त्वाष्ट्रमायया ॥ २३ ॥
इति आकर्ण्य वचः तेषाम् विष्णु-आदीनाम् दिवौकसाम् ॥ अवोचः तान् मुने त्वम् हि विस्मितः त्वाष्ट्र-मायया ॥ २३ ॥
iti ākarṇya vacaḥ teṣām viṣṇu-ādīnām divaukasām .. avocaḥ tān mune tvam hi vismitaḥ tvāṣṭra-māyayā .. 23 ..
।। ब्रह्मोवाच ।।
एकान्तमाश्रित्य च मां हि विष्णुमभाषथा वाक्यमिदं मुने त्वम् ॥ शचीपतिं सर्वसुरेश्वरं वै पक्षाच्छिदं पूर्वरिपुन्धराणाम् ॥ २४ ॥
एकान्तम् आश्रित्य च माम् हि विष्णुम् अभाषथाः वाक्यम् इदम् मुने त्वम् ॥ शचीपतिम् सर्व-सुर-ईश्वरम् वै पक्षाच्छिदम् पूर्व-रिपुन्धराणाम् ॥ २४ ॥
ekāntam āśritya ca mām hi viṣṇum abhāṣathāḥ vākyam idam mune tvam .. śacīpatim sarva-sura-īśvaram vai pakṣācchidam pūrva-ripundharāṇām .. 24 ..
नारद उवाच ।।
त्वष्ट्रा कृतन्तद्विकृतं विचित्रं विमोहनं सर्वदिवौकसां हि ॥ येनैव सर्वान्स विमोहितुं सुरान्समिच्छति प्रेमत एव युक्त्या ॥ २५ ॥
त्वष्ट्रा कृतन्तत् तत् विकृतम् विचित्रम् विमोहनम् सर्व-दिवौकसाम् हि ॥ येन एव सर्वान् स विमोहितुम् सुरान् समिच्छति प्रेमतः एव युक्त्या ॥ २५ ॥
tvaṣṭrā kṛtantat tat vikṛtam vicitram vimohanam sarva-divaukasām hi .. yena eva sarvān sa vimohitum surān samicchati premataḥ eva yuktyā .. 25 ..
पुरा कृतन्तस्य विमोहनन्त्वया सुविस्मृतन्तत् सकलं शचीपते ॥ तस्मादसौ त्वां विजिगीषुरेव गृहे धुवन्तस्य गिरेर्महात्मन ॥ २६ ॥
पुरा कृतन् तस्य विमोहनन् त्वया सु विस्मृतन् तत् सकलम् शचीपते ॥ तस्मात् असौ त्वाम् विजिगीषुः एव गृहे धुवन्तस्य गिरेः महात्मन ॥ २६ ॥
purā kṛtan tasya vimohanan tvayā su vismṛtan tat sakalam śacīpate .. tasmāt asau tvām vijigīṣuḥ eva gṛhe dhuvantasya gireḥ mahātmana .. 26 ..
अहं विमोहितस्तेन प्रतिरूपेण भास्वता ॥ तथा विष्णुः कृतस्तेन ब्रह्मा शक्रोऽपि तादृशः ॥ २७ ॥
अहम् विमोहितः तेन प्रतिरूपेण भास्वता ॥ तथा विष्णुः कृतः तेन ब्रह्मा शक्रः अपि तादृशः ॥ २७ ॥
aham vimohitaḥ tena pratirūpeṇa bhāsvatā .. tathā viṣṇuḥ kṛtaḥ tena brahmā śakraḥ api tādṛśaḥ .. 27 ..
किम्बहूक्तेन देवेश सर्वदेवगणाः कृताः ॥ कृत्रिमाश्चित्ररूपेण न किंचिदवशेषितम्॥ २८॥
किम् बहु उक्तेन देवेश सर्व-देव-गणाः कृताः ॥ कृत्रिमाः चित्र-रूपेण न किंचिद् अवशेषितम्॥ २८॥
kim bahu uktena deveśa sarva-deva-gaṇāḥ kṛtāḥ .. kṛtrimāḥ citra-rūpeṇa na kiṃcid avaśeṣitam.. 28..
विमोहनार्थं सर्वेषां देवानां च विशेषतः ॥ कृता माया चित्रमयी परिहासविकारिणी ॥ २९ ॥
विमोहन-अर्थम् सर्वेषाम् देवानाम् च विशेषतः ॥ कृता माया चित्र-मयी परिहास-विकारिणी ॥ २९ ॥
vimohana-artham sarveṣām devānām ca viśeṣataḥ .. kṛtā māyā citra-mayī parihāsa-vikāriṇī .. 29 ..
तच्छुत्वा वचनस्तस्य देवेन्द्रो वाक्यमब्रवीत् ॥ विष्णुम्प्रति तदा शीघ्रं भयाकुलतनुर्हरिम् ॥ 2.3.41.३० ॥
तत् शुत्वा वचनः तस्य देव-इन्द्रः वाक्यम् अब्रवीत् ॥ विष्णुम् प्रति तदा शीघ्रम् भय-आकुल-तनुः हरिम् ॥ २।३।४१।३० ॥
tat śutvā vacanaḥ tasya deva-indraḥ vākyam abravīt .. viṣṇum prati tadā śīghram bhaya-ākula-tanuḥ harim .. 2.3.41.30 ..
।। ब्रह्मोवाच ।।
देवदेव रमानाथ त्वष्टा मां निहनिष्यति॥ पुत्रशोकेन तप्तोऽसौ व्याजेनानेन नान्यथा ॥ ३१॥
देवदेव रमानाथ त्वष्टा माम् निहनिष्यति॥ पुत्र-शोकेन तप्तः असौ व्याजेन अनेन ना अन्यथा ॥ ३१॥
devadeva ramānātha tvaṣṭā mām nihaniṣyati.. putra-śokena taptaḥ asau vyājena anena nā anyathā .. 31..
।। देवेन्द्र उवाच ।।
तस्य तद्वचनं श्रुत्वा देवदेवो जनार्दनः ॥ उवाच प्रहसन् वाक्यं शक्रमाश्वासयंस्तदा ॥ ३२॥
तस्य तत् वचनम् श्रुत्वा देवदेवः जनार्दनः ॥ उवाच प्रहसन् वाक्यम् शक्रम् आश्वासयन् तदा ॥ ३२॥
tasya tat vacanam śrutvā devadevaḥ janārdanaḥ .. uvāca prahasan vākyam śakram āśvāsayan tadā .. 32..
ब्रह्मोवाच ।।
निवातकवचैः पूर्वं मोहितोऽसि शचीपते॥ महाविद्यावलेनैव दानवैः पूर्ववैरिभिः ॥ ३३॥
निवात-कवचैः पूर्वम् मोहितः असि शचीपते॥ महा-विद्या-वलेन एव दानवैः पूर्व-वैरिभिः ॥ ३३॥
nivāta-kavacaiḥ pūrvam mohitaḥ asi śacīpate.. mahā-vidyā-valena eva dānavaiḥ pūrva-vairibhiḥ .. 33..
विष्णुरुवाच।।
पर्वतो हिमवानेष तथान्यऽखिलपर्वताः॥ विपक्षा हि कृतास्सर्वे मम वाक्याच्च वासव ॥ ३४॥
पर्वतः हिमवान् एष तथा अन्य-अखिल-पर्वताः॥ विपक्षाः हि कृताः सर्वे मम वाक्यात् च वासव ॥ ३४॥
parvataḥ himavān eṣa tathā anya-akhila-parvatāḥ.. vipakṣāḥ hi kṛtāḥ sarve mama vākyāt ca vāsava .. 34..
तेनुस्मृत्या तु वै दृष्ट्वा मायया गिरयो ह्यमी ॥ ॥ जेतुमिच्छन्तु ये मूढा न भेतव्यमरावपि॥ ३५॥
तेन नु स्मृत्या तु वै दृष्ट्वा मायया गिरयः हि अमी ॥ ॥ जेतुम् इच्छन्तु ये मूढाः न भेतव्यम् अरौ अपि॥ ३५॥
tena nu smṛtyā tu vai dṛṣṭvā māyayā girayaḥ hi amī .. .. jetum icchantu ye mūḍhāḥ na bhetavyam arau api.. 35..
ईश्वरो नो हि सर्वेषां शंकरो भक्तवत्सलः ॥ सर्वथा कुशलं शक्र करिष्यति न संशयः ॥ ३६ ॥
ईश्वरः नः हि सर्वेषाम् शंकरः भक्त-वत्सलः ॥ सर्वथा कुशलम् शक्र करिष्यति न संशयः ॥ ३६ ॥
īśvaraḥ naḥ hi sarveṣām śaṃkaraḥ bhakta-vatsalaḥ .. sarvathā kuśalam śakra kariṣyati na saṃśayaḥ .. 36 ..
ब्रह्मोवाच ।।
एवं संवदमानन्तं शक्रं विकृतमानसम् ॥ हरिणोक्तश्च गिरिशो लौकिकीं गतिमाश्रितः ॥ ३७॥
एवम् संवदमानन्तम् शक्रम् विकृत-मानसम् ॥ हरिणा उक्तः च गिरिशः लौकिकीम् गतिम् आश्रितः ॥ ३७॥
evam saṃvadamānantam śakram vikṛta-mānasam .. hariṇā uktaḥ ca giriśaḥ laukikīm gatim āśritaḥ .. 37..
हे हरे हे सुरेशान किम्ब्रूथोऽद्य परस्परम् ॥ इत्युक्त्वा तौ महेशानो मुने त्वाम्प्रत्युवाच सः ॥ ३८ ॥
हे हरे हे सुरेशान किम् ब्रूथः अद्य परस्परम् ॥ इति उक्त्वा तौ महेशानः मुने त्वाम् प्रत्युवाच सः ॥ ३८ ॥
he hare he sureśāna kim brūthaḥ adya parasparam .. iti uktvā tau maheśānaḥ mune tvām pratyuvāca saḥ .. 38 ..
ईश्वर उवाच ।।
किंनु वक्ति महाशैलो यथार्थं वद नारद ॥ वृत्तान्तं सकलम्ब्रूहि न गोप्यं कर्तुमर्हसि॥ ३९॥
किम् नु वक्ति महाशैलः यथार्थम् वद नारद ॥ वृत्तान्तम् सकलम् ब्रूहि न गोप्यम् कर्तुम् अर्हसि॥ ३९॥
kim nu vakti mahāśailaḥ yathārtham vada nārada .. vṛttāntam sakalam brūhi na gopyam kartum arhasi.. 39..
ददाति वा नैव ददाति शैलस्सुतां स्वकीयां वद तच्च शीघ्रम् ॥ किन्ते दृष्टं किं कृतन्तत्र गत्वा प्रीत्या सर्वं तद्वदाश्वद्य तात ॥ 2.3.41.४० ॥
ददाति वा ना एव ददाति शैलः सुताम् स्वकीयाम् वद तत् च शीघ्रम् ॥ किम् ते दृष्टम् किम् कृतम् तत्र गत्वा प्रीत्या सर्वम् तद्वत् आशु अद्य तात ॥ २।३।४१।४० ॥
dadāti vā nā eva dadāti śailaḥ sutām svakīyām vada tat ca śīghram .. kim te dṛṣṭam kim kṛtam tatra gatvā prītyā sarvam tadvat āśu adya tāta .. 2.3.41.40 ..
।। ब्रह्मोवाच ।।
हत्युक्तश्शम्भुना तत्र मुने त्वन्देवदर्शनः ॥ सर्वं रहस्यवोचो वै यद्दृष्टन्तत्र मण्डपे ॥ ४१ ॥
हति उक्तः शम्भुना तत्र मुने त्वन् देवदर्शनः ॥ सर्वम् रहसि अवोचः वै यत् दृष्टम् तत्र मण्डपे ॥ ४१ ॥
hati uktaḥ śambhunā tatra mune tvan devadarśanaḥ .. sarvam rahasi avocaḥ vai yat dṛṣṭam tatra maṇḍape .. 41 ..
नारद उवाच।।
देवदेव महादेव शृणु मद्वचनं शुभम् ॥ नास्ति विघ्नभयं नाथ विवाहे किंचिदेव हि ॥ ४२ ॥
देवदेव महादेव शृणु मद्-वचनम् शुभम् ॥ ना अस्ति विघ्न-भयम् नाथ विवाहे किंचिद् एव हि ॥ ४२ ॥
devadeva mahādeva śṛṇu mad-vacanam śubham .. nā asti vighna-bhayam nātha vivāhe kiṃcid eva hi .. 42 ..
अवश्यमेव शैलेशस्तुभ्यं दास्यति कन्यकाम् ॥ त्वामानयितुमायाता इमे शैला न संशयः ॥ ४३ ॥
अवश्यम् एव शैलेशः तुभ्यम् दास्यति कन्यकाम् ॥ त्वाम् आनयितुम् आयाताः इमे शैलाः न संशयः ॥ ४३ ॥
avaśyam eva śaileśaḥ tubhyam dāsyati kanyakām .. tvām ānayitum āyātāḥ ime śailāḥ na saṃśayaḥ .. 43 ..
किन्तु ह्यमरमोहार्थं माया विरचिताद्भुता ॥ कुतूहलार्थं सर्वज्ञ न कश्चिद्विघ्नसम्भवः ॥ ४४ ॥
किन्तु हि अमर-मोह-अर्थम् माया विरचिता अद्भुता ॥ कुतूहल-अर्थम् सर्वज्ञ न कश्चिद् विघ्न-सम्भवः ॥ ४४ ॥
kintu hi amara-moha-artham māyā viracitā adbhutā .. kutūhala-artham sarvajña na kaścid vighna-sambhavaḥ .. 44 ..
विचित्रम्मण्डपं गेहेऽकार्षीत्तस्य तदाज्ञया ॥ विश्वकर्मा महामायी नानाश्चर्यमयं विभो ॥ ४५॥
विचित्रम् मण्डपम् गेहे अकार्षीत् तस्य तद्-आज्ञया ॥ विश्वकर्मा महा-मायी नाना आश्चर्य-मयम् विभो ॥ ४५॥
vicitram maṇḍapam gehe akārṣīt tasya tad-ājñayā .. viśvakarmā mahā-māyī nānā āścarya-mayam vibho .. 45..
सर्वदेवसमाजश्च कृतस्तत्र विमोहनः ॥ तन्दृष्ट्वा विस्मयं प्राप्तोहं तन्मायाविमोहितः ॥ ४६ ॥
सर्व-देव-समाजः च कृतः तत्र विमोहनः ॥ तत् दृष्ट्वा विस्मयम् प्राप्तः उहम् तद्-माया-विमोहितः ॥ ४६ ॥
sarva-deva-samājaḥ ca kṛtaḥ tatra vimohanaḥ .. tat dṛṣṭvā vismayam prāptaḥ uham tad-māyā-vimohitaḥ .. 46 ..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा तद्वचस्तात लोकाचारकरः प्रभुः ॥ हर्षादीन्प्रहसञ्छम्भुरुवाच सकलान्सुरान् ॥ ४७॥
तत् श्रुत्वा तत् वचः तात लोक-आचार-करः प्रभुः ॥ हर्ष-आदीन् प्रहसन् शम्भुः उवाच सकलान् सुरान् ॥ ४७॥
tat śrutvā tat vacaḥ tāta loka-ācāra-karaḥ prabhuḥ .. harṣa-ādīn prahasan śambhuḥ uvāca sakalān surān .. 47..
ईश्वर उवाच ।।
कन्यां दास्यति चेन्मह्यं पर्वतो हि हिमाचलः ॥ मायया मम किं कार्यं वद विष्णो यथातथम् ॥ ४८॥
कन्याम् दास्यति चेद् मह्यम् पर्वतः हि हिमाचलः ॥ मायया मम किम् कार्यम् वद विष्णो यथातथम् ॥ ४८॥
kanyām dāsyati ced mahyam parvataḥ hi himācalaḥ .. māyayā mama kim kāryam vada viṣṇo yathātatham .. 48..
हे ब्रह्मञ्छक्र मुनयस्तुरा ब्रूत यथार्थतः ॥ मायया मम किं कार्यं कन्यां दास्यति चेद्गिरिः ॥ ४९ ॥
हे ब्रह्मन् शक्र मुनयः तुराः ब्रूत यथार्थतः ॥ मायया मम किम् कार्यम् कन्याम् दास्यति चेद् गिरिः ॥ ४९ ॥
he brahman śakra munayaḥ turāḥ brūta yathārthataḥ .. māyayā mama kim kāryam kanyām dāsyati ced giriḥ .. 49 ..
केनाप्युपायेन फलं हि साध्यमित्युच्यते पण्डितैर्न्यायविद्भिः ॥ तस्मात्सर्वैर्गम्यतां शीघ्रमेव कार्यार्थिभिर्विष्णुपुरोगमैश्च ॥ 2.3.41.५० ॥
केन अपि उपायेन फलम् हि साध्यम् इति उच्यते पण्डितैः न्याय-विद्भिः ॥ तस्मात् सर्वैः गम्यताम् शीघ्रम् एव कार्य-अर्थिभिः विष्णु-पुरोगमैः च ॥ २।३।४१।५० ॥
kena api upāyena phalam hi sādhyam iti ucyate paṇḍitaiḥ nyāya-vidbhiḥ .. tasmāt sarvaiḥ gamyatām śīghram eva kārya-arthibhiḥ viṣṇu-purogamaiḥ ca .. 2.3.41.50 ..
ब्रह्मोवाच ।।
एवं संवदमानोऽसौ देवैश्शम्भुरभूत्तदा ॥ कृतः स्मरेणैव वशी वशं वा प्राकृतो नरः॥ ५१॥
एवम् संवदमानः असौ देवैः शम्भुः अभूत् तदा ॥ कृतः स्मरेण एव वशी वशम् वा प्राकृतः नरः॥ ५१॥
evam saṃvadamānaḥ asau devaiḥ śambhuḥ abhūt tadā .. kṛtaḥ smareṇa eva vaśī vaśam vā prākṛtaḥ naraḥ.. 51..
अथ शम्भ्वाज्ञया सर्वे विष्ण्वाद्या निर्जरास्तदा ॥ ऋषयश्च महात्मानो ययुर्मोहभ्रमापहम् ॥ ५२॥
अथ शम्भु-आज्ञया सर्वे विष्णु-आद्याः निर्जराः तदा ॥ ऋषयः च महात्मानः ययुः मोह-भ्रम-अपहम् ॥ ५२॥
atha śambhu-ājñayā sarve viṣṇu-ādyāḥ nirjarāḥ tadā .. ṛṣayaḥ ca mahātmānaḥ yayuḥ moha-bhrama-apaham .. 52..
पुरस्कृत्य मुने त्वां च पर्वतांस्तान्सविस्मयाः ॥ हिमाद्रेश्च तदा जग्मुर्मन्दिरम्परमाद्भुतम् ॥ ५३॥
पुरस्कृत्य मुने त्वाम् च पर्वतान् तान् स विस्मयाः ॥ हिमाद्रेः च तदा जग्मुः मन्दिरम् परम-अद्भुतम् ॥ ५३॥
puraskṛtya mune tvām ca parvatān tān sa vismayāḥ .. himādreḥ ca tadā jagmuḥ mandiram parama-adbhutam .. 53..
अथ विष्ण्वादिसंयुक्तो मुदितैस्स्वबलैर्युतः॥ आजगामोपहैमागपुरं प्रमुदितो हरः ॥ ५४॥ ॥
अथ विष्णु-आदि-संयुक्तः मुदितैः स्व-बलैः युतः॥ आजगाम उपहैमागपुरम् प्रमुदितः हरः ॥ ५४॥ ॥
atha viṣṇu-ādi-saṃyuktaḥ muditaiḥ sva-balaiḥ yutaḥ.. ājagāma upahaimāgapuram pramuditaḥ haraḥ .. 54.. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे मण्डपरचनावर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ४१॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे मण्डपरचनावर्णनम् नाम एकचत्वारिंशः अध्यायः ॥ ४१॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe maṇḍaparacanāvarṇanam nāma ekacatvāriṃśaḥ adhyāyaḥ .. 41..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In