| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
अथाकर्ण्य गिरीशश्च निजपुर्य्युपकण्ठतः ॥ प्राप्तमीशं सर्वगं वै मुमुदेति हिमालयः ॥ १ ॥
अथा आकर्ण्य गिरीशः च निज-पुरी-उपकण्ठतः ॥ प्राप्तम् ईशम् सर्वगम् वै मुमुदेति हिमालयः ॥ १ ॥
athā ākarṇya girīśaḥ ca nija-purī-upakaṇṭhataḥ .. prāptam īśam sarvagam vai mumudeti himālayaḥ .. 1 ..
अथ सम्भृतसम्भार स्सम्भाषां कर्तुमीश्वरम् ॥ शैलान्प्रस्थापयामास ब्राह्मणानपि सर्वशः ॥ २ ॥ ।
अथ सम्भृत-सम्भारः सम्भाषाम् कर्तुम् ईश्वरम् ॥ शैलान् प्रस्थापयामास ब्राह्मणान् अपि सर्वशस् ॥ २ ॥ ।
atha sambhṛta-sambhāraḥ sambhāṣām kartum īśvaram .. śailān prasthāpayāmāsa brāhmaṇān api sarvaśas .. 2 .. .
स्वयं जगाम सद्भक्त्या प्राणेप्सुन्द्रष्टुऽमीश्वरम् ॥ भक्त्युद्रुतमनाश्शैलः प्रशंसन् स्वविधिम्मुदा ॥ ३॥
स्वयम् जगाम सत्-भक्त्या प्राण-ईप्सुन् द्रष्टु अमीश्वरम् ॥ भक्ति-उद्रुत-मनाः शैलः प्रशंसन् स्व-विधिम् मुदा ॥ ३॥
svayam jagāma sat-bhaktyā prāṇa-īpsun draṣṭu amīśvaram .. bhakti-udruta-manāḥ śailaḥ praśaṃsan sva-vidhim mudā .. 3..
देवसेनां तदा दृष्ट्वा हिमवान्वि स्मयं गतः ॥ जगाम सम्मुखस्तत्र धन्योऽहमिति चिन्तयन् ॥ ४॥
देवसेनाम् तदा दृष्ट्वा हिमवान् वि स्मयम् गतः ॥ जगाम सम्मुखः तत्र धन्यः अहम् इति चिन्तयन् ॥ ४॥
devasenām tadā dṛṣṭvā himavān vi smayam gataḥ .. jagāma sammukhaḥ tatra dhanyaḥ aham iti cintayan .. 4..
देवा हि तद्बलं दृष्ट्वा विस्मयम्परमं गताः ॥ आनन्दम्परमम्प्रापुर्देवाश्च गिरयस्तथा ॥ ५॥
देवाः हि तत् बलम् दृष्ट्वा विस्मयम् परमम् गताः ॥ आनन्दम् परमम् प्रापुः देवाः च गिरयः तथा ॥ ५॥
devāḥ hi tat balam dṛṣṭvā vismayam paramam gatāḥ .. ānandam paramam prāpuḥ devāḥ ca girayaḥ tathā .. 5..
पर्वतानां महासेना देवानां च तथा मुने ॥ मिलित्वा विरराजेव पूर्वपश्चिमसागरौ ॥ ६॥
पर्वतानाम् महा-सेनाः देवानाम् च तथा मुने ॥ मिलित्वा विरराज इव पूर्व-पश्चिम-सागरौ ॥ ६॥
parvatānām mahā-senāḥ devānām ca tathā mune .. militvā virarāja iva pūrva-paścima-sāgarau .. 6..
परस्परं मिलित्वा ते देवाश्च पर्वतास्तथा ॥ कृतकृत्यन्तथात्मानम्मेनिरे परया मुदा ॥ ७॥
परस्परम् मिलित्वा ते देवाः च पर्वताः तथा ॥ कृतकृत्यन् तथा आत्मानम् मेनिरे परया मुदा ॥ ७॥
parasparam militvā te devāḥ ca parvatāḥ tathā .. kṛtakṛtyan tathā ātmānam menire parayā mudā .. 7..
अथेश्वरम्पुरो दृष्ट्वा प्रणनाम हिमालयः ॥ सर्वे प्रणेमुर्गिरयो ब्राह्मणाश्च सदाशिवम् ॥ ८॥
अथ ईश्वरम् पुरस् दृष्ट्वा प्रणनाम हिमालयः ॥ सर्वे प्रणेमुः गिरयः ब्राह्मणाः च सदाशिवम् ॥ ८॥
atha īśvaram puras dṛṣṭvā praṇanāma himālayaḥ .. sarve praṇemuḥ girayaḥ brāhmaṇāḥ ca sadāśivam .. 8..
वृषभस्थम्प्रसन्नास्यन्नानाभरणभूषितम् ॥ दिव्यावयवलावण्यप्रकाशितदिगन्तरम् ॥ ९ ॥
वृषभ-स्थम् प्रसन्न-आस्यन् नाना आभरण-भूषितम् ॥ दिव्य-अवयव-लावण्य-प्रकाशित-दिगन्तरम् ॥ ९ ॥
vṛṣabha-stham prasanna-āsyan nānā ābharaṇa-bhūṣitam .. divya-avayava-lāvaṇya-prakāśita-digantaram .. 9 ..
सुसूक्ष्माहतसत्पट्टवस्त्रशोभितविग्रहम् ॥ सद्रत्नविलसन्मौलिं विहसन्तं शुचिप्रभम् ॥ 2.3.42.१ ० ॥
सु सूक्ष्म-आहत-सत्-पट्टवस्त्र-शोभित-विग्रहम् ॥ सत्-रत्न-विलसत्-मौलिम् विहसन्तम् शुचि-प्रभम् ॥ २।३।४२।१ ० ॥
su sūkṣma-āhata-sat-paṭṭavastra-śobhita-vigraham .. sat-ratna-vilasat-maulim vihasantam śuci-prabham .. 2.3.42.1 0 ..
भूषाभूताहियुक्तांगमद्भुतावयवप्रभम् ॥ दिव्यद्युतिं सुरेशैश्च सेवितं करचामरैः ॥ ११ ॥
भूषा-भूत-अहि-युक्त-अंगम् अद्भुत-अवयव-प्रभम् ॥ दिव्य-द्युतिम् सुर-ईशैः च सेवितम् कर-चामरैः ॥ ११ ॥
bhūṣā-bhūta-ahi-yukta-aṃgam adbhuta-avayava-prabham .. divya-dyutim sura-īśaiḥ ca sevitam kara-cāmaraiḥ .. 11 ..
वामस्थिताच्युतन्दक्षभागस्थितविभुम्प्रभुम् ॥ पृष्ठस्थितहरिं पृष्ठपार्श्वस्थितसुरादिकम् ॥ १२॥ ।
वाम-स्थित-अच्युतन् दक्ष-भाग-स्थित-विभुम् प्रभुम् ॥ पृष्ठ-स्थित-हरिम् पृष्ठ-पार्श्व-स्थित-सुर-आदिकम् ॥ १२॥ ।
vāma-sthita-acyutan dakṣa-bhāga-sthita-vibhum prabhum .. pṛṣṭha-sthita-harim pṛṣṭha-pārśva-sthita-sura-ādikam .. 12.. .
नानाविधिसुराद्यैश्च संस्तुतं लोकशंकरम् ॥ स्वहेत्वात्ततनुम्ब्रह्मसर्वेशं वरदायकम् ॥ १३॥
नाना विधि-सुर-आद्यैः च संस्तुतम् लोक-शंकरम् ॥ स्व-हेतु-आत्त-तनुम् ब्रह्म-सर्व-ईशम् वर-दायकम् ॥ १३॥
nānā vidhi-sura-ādyaiḥ ca saṃstutam loka-śaṃkaram .. sva-hetu-ātta-tanum brahma-sarva-īśam vara-dāyakam .. 13..
सगुणं निर्गुणं चापि भक्ताधीनं कृपाकरम्॥ प्रकृतेः पुरुषस्यापि परं सच्चित्सुखात्मकम् ॥ १४ ॥
स गुणम् निर्गुणम् च अपि भक्त-अधीनम् कृपा-करम्॥ प्रकृतेः पुरुषस्य अपि परम् सत्-चित्-सुख-आत्मकम् ॥ १४ ॥
sa guṇam nirguṇam ca api bhakta-adhīnam kṛpā-karam.. prakṛteḥ puruṣasya api param sat-cit-sukha-ātmakam .. 14 ..
प्रभोर्दक्षिणभागे तु ददर्श हरिमच्युतम् ॥ विनतातनयारूढं नानाभूषणभूषितम् ॥ ॥ १५ ॥
प्रभोः दक्षिण-भागे तु ददर्श हरिम् अच्युतम् ॥ विनता-तनय-आरूढम् नाना भूषण-भूषितम् ॥ ॥ १५ ॥
prabhoḥ dakṣiṇa-bhāge tu dadarśa harim acyutam .. vinatā-tanaya-ārūḍham nānā bhūṣaṇa-bhūṣitam .. .. 15 ..
प्रभोश्च वामभागे तु मुने मां सन्ददर्श ह ॥ चतुर्मुखं महाशोभं स्वपरीवारसंयुतम् ॥ १६ ॥
प्रभोः च वाम-भागे तु मुने माम् सन्ददर्श ह ॥ चतुर्मुखम् महा-शोभम् स्व-परीवार-संयुतम् ॥ १६ ॥
prabhoḥ ca vāma-bhāge tu mune mām sandadarśa ha .. caturmukham mahā-śobham sva-parīvāra-saṃyutam .. 16 ..
एतौ सुरेश्वरौ दृष्ट्वा शिवस्याति प्रियौ सदा ॥ प्रणनाम गिरीशश्च सपरीवार आदरात् ॥ १७॥
एतौ सुर-ईश्वरौ दृष्ट्वा शिवस्य अति प्रियौ सदा ॥ प्रणनाम गिरीशः च स परीवारः आदरात् ॥ १७॥
etau sura-īśvarau dṛṣṭvā śivasya ati priyau sadā .. praṇanāma girīśaḥ ca sa parīvāraḥ ādarāt .. 17..
तथा शिवस्य पृष्ठे च पार्श्वयोस्तु विराजितान् ॥ देवादीन्प्रणनामासौ दृष्ट्वा गिरिवरेश्वरः ॥ १८ ॥
तथा शिवस्य पृष्ठे च पार्श्वयोः तु विराजितान् ॥ देव-आदीन् प्रणनाम असौ दृष्ट्वा गिरि-वर-ईश्वरः ॥ १८ ॥
tathā śivasya pṛṣṭhe ca pārśvayoḥ tu virājitān .. deva-ādīn praṇanāma asau dṛṣṭvā giri-vara-īśvaraḥ .. 18 ..
शिवाज्ञया पुरो भूत्वा जगाम स्वपुरं गिरिः ॥ शेषहर्यात्मभूश्शीघ्रं मुनिभिः निर्जरादिभिः ॥ १९ ॥
शिव-आज्ञया पुरस् भूत्वा जगाम स्व-पुरम् गिरिः ॥ शेष-हरि-आत्म-भूः शीघ्रम् मुनिभिः निर्जर-आदिभिः ॥ १९ ॥
śiva-ājñayā puras bhūtvā jagāma sva-puram giriḥ .. śeṣa-hari-ātma-bhūḥ śīghram munibhiḥ nirjara-ādibhiḥ .. 19 ..
सर्वे मुनिसुराद्याश्च गच्छन्तः प्रभुणा सह ॥ गिरेः पुरं समुदिताः शशंसुर्बहु नारद ॥ 2.3.42.२० ॥
सर्वे मुनि-सुर-आद्याः च गच्छन्तः प्रभुणा सह ॥ गिरेः पुरम् समुदिताः शशंसुः बहु नारद ॥ २।३।४२।२० ॥
sarve muni-sura-ādyāḥ ca gacchantaḥ prabhuṇā saha .. gireḥ puram samuditāḥ śaśaṃsuḥ bahu nārada .. 2.3.42.20 ..
रचिते शिखरे रम्ये संस्थाप्य देवतादिकम् ॥ जगाम हिमवाँस्तत्र यत्रास्ति विधिवेदिका ॥ २१॥
रचिते शिखरे रम्ये संस्थाप्य देवता-आदिकम् ॥ जगाम हिमवान् तत्र यत्र अस्ति विधि-वेदिका ॥ २१॥
racite śikhare ramye saṃsthāpya devatā-ādikam .. jagāma himavān tatra yatra asti vidhi-vedikā .. 21..
कारयित्वा विशेषेण चतुष्कन्तो रणैर्युतम् ॥ स्नानदानादिकं कृत्वा परीक्षामकरोत्तदा ॥ २२॥
कारयित्वा विशेषेण रणैः युतम् ॥ स्नान-दान-आदिकम् कृत्वा परीक्षाम् अकरोत् तदा ॥ २२॥
kārayitvā viśeṣeṇa raṇaiḥ yutam .. snāna-dāna-ādikam kṛtvā parīkṣām akarot tadā .. 22..
स्वपुत्रान्प्रेषयामास शिवस्य निकटे तथा ॥ हिमो विष्ण्वादिसम्पूर्णवर्गयुक्तस्य शैलराट् ॥ २३॥
स्व-पुत्रान् प्रेषयामास शिवस्य निकटे तथा ॥ ॥ २३॥
sva-putrān preṣayāmāsa śivasya nikaṭe tathā .. .. 23..
कर्तुमेच्छद्वराचारं महोत्सवपुरस्सरम् ॥ महाहर्षयुतस्सर्वबन्धुयुग्घिमशैलराट् ॥ २४॥
कर्तुम् एच्छत्-वर-आचारम् महा-उत्सव-पुरस्सरम् ॥ महा-हर्ष-युतः सर्व-बन्धु-युज् हिमशैल-राज् ॥ २४॥
kartum ecchat-vara-ācāram mahā-utsava-purassaram .. mahā-harṣa-yutaḥ sarva-bandhu-yuj himaśaila-rāj .. 24..
अथ ते गिरिपु त्राश्च तत्र गत्वा प्रणम्य तम् ॥ सस्ववर्गं प्रार्थनान्तामूचुश्शैलेश्वरस्य वै ॥ २५ ॥
अथ ते तत्र गत्वा प्रणम्य तम् ॥ स स्व-वर्गम् प्रार्थना-अन्ताम् ऊचुः शैलेश्वरस्य वै ॥ २५ ॥
atha te tatra gatvā praṇamya tam .. sa sva-vargam prārthanā-antām ūcuḥ śaileśvarasya vai .. 25 ..
ततस्ते स्वालयं जग्मुश्शैलपुत्रास्तदाज्ञया ॥ शैलराजाय संचख्युस्ते चायान्तीति हर्षिताः ॥ २६॥
ततस् ते स्व-आलयम् जग्मुः शैलपुत्राः तद्-आज्ञया ॥ शैलराजाय संचख्युः ते च आयान्ति इति हर्षिताः ॥ २६॥
tatas te sva-ālayam jagmuḥ śailaputrāḥ tad-ājñayā .. śailarājāya saṃcakhyuḥ te ca āyānti iti harṣitāḥ .. 26..
अथ देवाः प्रार्थनान्तां गिरेः श्रुत्वातिहर्षिताः ॥ मुने विष्ण्वादयस्सर्वे सेश्वरा मुमुदुर्भृशम् ॥ २७॥
अथ देवाः प्रार्थना-अन्ताम् गिरेः श्रुत्वा अति हर्षिताः ॥ मुने विष्णु-आदयः सर्वे स ईश्वराः मुमुदुः भृशम् ॥ २७॥
atha devāḥ prārthanā-antām gireḥ śrutvā ati harṣitāḥ .. mune viṣṇu-ādayaḥ sarve sa īśvarāḥ mumuduḥ bhṛśam .. 27..
कृत्वा सुवेषं सर्वेपि निर्जरा मुनयो गणाः ॥ गमनं चक्रुरन्येपि प्रभुणा गिरिराड्गृहम् ॥ २८ ॥
कृत्वा सु वेषम् सर्वे अपि निर्जराः मुनयः गणाः ॥ गमनम् चक्रुः अन्ये अपि प्रभुणा गिरिराज्-गृहम् ॥ २८ ॥
kṛtvā su veṣam sarve api nirjarāḥ munayaḥ gaṇāḥ .. gamanam cakruḥ anye api prabhuṇā girirāj-gṛham .. 28 ..
तस्मिन्नवसरे मेना द्रष्टुकामाभवच्छिवम् ॥ प्रभोराह्वाययामास मुने त्वां मुनिसत्तमम् ॥ २९॥
तस्मिन् अवसरे मेना द्रष्टु-कामा अभवत् शिवम् ॥ प्रभोः आह्वाययामास मुने त्वाम् मुनि-सत्तमम् ॥ २९॥
tasmin avasare menā draṣṭu-kāmā abhavat śivam .. prabhoḥ āhvāyayāmāsa mune tvām muni-sattamam .. 29..
अगमस्त्वं मुने तत्र प्रभुणा प्रेरितस्तदा॥ मनसा शिवहृद्धेतुं पूर्णं कर्तुं तमिच्छता ॥ 2.3.42.३० ॥
अगमः त्वम् मुने तत्र प्रभुणा प्रेरितः तदा॥ मनसा शिव-हृद्-हेतुम् पूर्णम् कर्तुम् तम् इच्छता ॥ २।३।४२।३० ॥
agamaḥ tvam mune tatra prabhuṇā preritaḥ tadā.. manasā śiva-hṛd-hetum pūrṇam kartum tam icchatā .. 2.3.42.30 ..
त्वाम्प्रणम्य मुने मेना प्राह विस्मितमानसा ॥ द्रष्टुकामा प्रभो रूपं शंकरस्य मदापहम् ॥ ३१ ॥
त्वाम् प्रणम्य मुने मेना प्राह विस्मित-मानसा ॥ द्रष्टु-कामा प्रभोः रूपम् शंकरस्य मद-अपहम् ॥ ३१ ॥
tvām praṇamya mune menā prāha vismita-mānasā .. draṣṭu-kāmā prabhoḥ rūpam śaṃkarasya mada-apaham .. 31 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायान्तृतीये पार्वतीखण्डे देवगिरिमेलवर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥ ४२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे देवगिरिमेलवर्णनम् नाम द्विचत्वारिंशः अध्यायः ॥ ४२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe devagirimelavarṇanam nāma dvicatvāriṃśaḥ adhyāyaḥ .. 42 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In