| |
|

This overlay will guide you through the buttons:

मेनोवाच ।।
निरीक्षिष्यामि प्रथमं मुने तं गिरिजापतिम् ॥ कीदृशं शिवरूपं हि यदर्थे तप उत्तमम्॥ १॥
निरीक्षिष्यामि प्रथमम् मुने तम् गिरिजापतिम् ॥ कीदृशम् शिव-रूपम् हि यद्-अर्थे तपः उत्तमम्॥ १॥
nirīkṣiṣyāmi prathamam mune tam girijāpatim .. kīdṛśam śiva-rūpam hi yad-arthe tapaḥ uttamam.. 1..
ब्रह्मोवाच ।।
इत्यज्ञानपरा सा च दर्शनार्थं शिवस्य च ॥ त्वया मुने समं सद्यश्चन्द्रशालां समागता ॥ २ ॥
इति अज्ञान-परा सा च दर्शन-अर्थम् शिवस्य च ॥ त्वया मुने समम् सद्यस् चन्द्रशालाम् समागता ॥ २ ॥
iti ajñāna-parā sā ca darśana-artham śivasya ca .. tvayā mune samam sadyas candraśālām samāgatā .. 2 ..
शिवोऽपि च तदा तस्यां ज्ञात्वाहंकारमात्मनः ॥ प्राह विष्णुं च मान्तात लीलाकृत्वाद्भुताम्प्रभुः ॥ ३ ॥
शिवः अपि च तदा तस्याम् ज्ञात्वा अहंकारम् आत्मनः ॥ प्राह विष्णुम् च मा अन्तात लीला-कृत्वा अद्भुताम् प्रभुः ॥ ३ ॥
śivaḥ api ca tadā tasyām jñātvā ahaṃkāram ātmanaḥ .. prāha viṣṇum ca mā antāta līlā-kṛtvā adbhutām prabhuḥ .. 3 ..
शिव उवाच ।।
मदाज्ञया युवान्तातौ सदेवौ च पृथक्पृथक् ॥ गच्छतं हि गिरिद्वारं वयं पश्चाद्व्रजेमहि ॥ ४ ॥
मद्-आज्ञया स देवौ च पृथक् पृथक् ॥ गच्छतम् हि गिरि-द्वारम् वयम् पश्चात् व्रजेमहि ॥ ४ ॥
mad-ājñayā sa devau ca pṛthak pṛthak .. gacchatam hi giri-dvāram vayam paścāt vrajemahi .. 4 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य हरिस्सर्वानाहूयोवाच तन्मयाः ॥ सुरास्सर्वे तथैवाशु गमनं चक्रुरुत्सुकाः ॥ ५ ॥
इति आकर्ण्य हरिः सर्वान् आहूय उवाच तद्-मयाः ॥ सुराः सर्वे तथा एव आशु गमनम् चक्रुः उत्सुकाः ॥ ५ ॥
iti ākarṇya hariḥ sarvān āhūya uvāca tad-mayāḥ .. surāḥ sarve tathā eva āśu gamanam cakruḥ utsukāḥ .. 5 ..
स्थितां शिरोगृहे मेनां मुने विश्वेश्वर त्वया ॥ तथैव दर्शयामास हृद्विभ्रंशो यथा भवेत् ॥ ६॥
स्थिताम् शिरोगृहे मेनाम् मुने विश्वेश्वर त्वया ॥ तथा एव दर्शयामास हृद्-विभ्रंशः यथा भवेत् ॥ ६॥
sthitām śirogṛhe menām mune viśveśvara tvayā .. tathā eva darśayāmāsa hṛd-vibhraṃśaḥ yathā bhavet .. 6..
एतस्मिन्समये मेना सेनां च परमां शुभाम् ॥ निरीक्षन्ती मुने दृष्ट्वा सामान्यं हर्षिताऽभवत् ॥ ७ ॥
एतस्मिन् समये मेना सेनाम् च परमाम् शुभाम् ॥ निरीक्षन्ती मुने दृष्ट्वा सामान्यम् हर्षिता अभवत् ॥ ७ ॥
etasmin samaye menā senām ca paramām śubhām .. nirīkṣantī mune dṛṣṭvā sāmānyam harṣitā abhavat .. 7 ..
प्रथमं चैव गन्धर्वास्सुन्दरास्सुभगास्तदा ॥ आयाताश्शुभवस्त्राढ्या नानालंकारभूषिताः ॥ ८॥
प्रथमम् च एव गन्धर्वाः सुन्दराः सुभगाः तदा ॥ आयाताः शुभ-वस्त्र-आढ्याः नाना अलंकार-भूषिताः ॥ ८॥
prathamam ca eva gandharvāḥ sundarāḥ subhagāḥ tadā .. āyātāḥ śubha-vastra-āḍhyāḥ nānā alaṃkāra-bhūṣitāḥ .. 8..
नानावाहनसंयुक्ता नानावाद्यपरा यणा ॥ पताकाभिर्विचित्राभिरप्सरोगणसंयुताः ॥ ९॥
नाना वाहन-संयुक्ताः नाना वाद्य-पराः ॥ पताकाभिः विचित्राभिः अप्सरः-गण-संयुताः ॥ ९॥
nānā vāhana-saṃyuktāḥ nānā vādya-parāḥ .. patākābhiḥ vicitrābhiḥ apsaraḥ-gaṇa-saṃyutāḥ .. 9..
अथ दृष्ट्वा वसुं तत्र तत्पतिं परमप्रभुम् ॥ मेना प्रहर्षिता ह्यासीच्छिवोयमिति चाब्रवीत् ॥ 2.3.43.१०॥
अथ दृष्ट्वा वसुम् तत्र तद्-पतिम् परम-प्रभुम् ॥ मेना प्रहर्षिता हि आसीत् शिवः यम् इति च अब्रवीत् ॥ २।३।४३।१०॥
atha dṛṣṭvā vasum tatra tad-patim parama-prabhum .. menā praharṣitā hi āsīt śivaḥ yam iti ca abravīt .. 2.3.43.10..
शिवस्य गणका एते न शिवोयं शिवापतिः ॥ इत्येवं त्वं ततस्तां वै अवोच ऋषिसत्तम ॥ ११॥
शिवस्य गणकाः एते न शिवा इयम् शिवा-पतिः ॥ इति एवम् त्वम् ततस् ताम् वै अवोचः ऋषि-सत्तम ॥ ११॥
śivasya gaṇakāḥ ete na śivā iyam śivā-patiḥ .. iti evam tvam tatas tām vai avocaḥ ṛṣi-sattama .. 11..
एवं श्रुत्वा तदा मेना विचारे तत्पराऽभवत् ॥ इतश्चाभ्यधिको यो वै स च कीदृग्भविष्यति ॥ १२॥
एवम् श्रुत्वा तदा मेना विचारे तत्परा अभवत् ॥ इतस् च अभ्यधिकः यः वै स च कीदृश् भविष्यति ॥ १२॥
evam śrutvā tadā menā vicāre tatparā abhavat .. itas ca abhyadhikaḥ yaḥ vai sa ca kīdṛś bhaviṣyati .. 12..
एतस्मिन्नन्तरे यक्षा मणिग्रीवादयश्च ये ॥ तेषां सेना तया दृष्टा शोभादिद्विगुणीकृता ॥ १३॥
एतस्मिन् अन्तरे यक्षाः मणिग्रीव-आदयः च ये ॥ तेषाम् सेना तया दृष्टा शोभा-आदि-द्वि-गुणीकृता ॥ १३॥
etasmin antare yakṣāḥ maṇigrīva-ādayaḥ ca ye .. teṣām senā tayā dṛṣṭā śobhā-ādi-dvi-guṇīkṛtā .. 13..
तत्पतिं च मणिग्रीवं दृष्ट्वा शोभान्वितं हि सा ॥ अयं रुद्रश्शिवास्वामी मेना प्राहेति हर्षिता ॥ १४॥
तद्-पतिम् च मणिग्रीवम् दृष्ट्वा शोभा-अन्वितम् हि सा ॥ अयम् रुद्रः शिवास्वामी मेना प्राह इति हर्षिता ॥ १४॥
tad-patim ca maṇigrīvam dṛṣṭvā śobhā-anvitam hi sā .. ayam rudraḥ śivāsvāmī menā prāha iti harṣitā .. 14..
नायं रुद्रश्शिवास्वामी सेवकोयं शिवस्य वै ॥ इत्यवोचोगपत्न्यै त्वं तावद्वह्निस्स आगतः ॥ १५॥
न अयम् रुद्रः शिव-अस्वामी सेवकः उयम् शिवस्य वै ॥ इति अवोचः उग-पत्न्यै त्वम् तावत् वह्निः सः आगतः ॥ १५॥
na ayam rudraḥ śiva-asvāmī sevakaḥ uyam śivasya vai .. iti avocaḥ uga-patnyai tvam tāvat vahniḥ saḥ āgataḥ .. 15..
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥ रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ १६ ॥
ततस् अपि द्विगुणाम् शोभाम् दृष्ट्वा तस्य च सा ब्रवीत् ॥ रुद्रः अयम् गिरिजा-स्वामी तदा न इति त्वम् अब्रवीः ॥ १६ ॥
tatas api dviguṇām śobhām dṛṣṭvā tasya ca sā bravīt .. rudraḥ ayam girijā-svāmī tadā na iti tvam abravīḥ .. 16 ..
तावद्यमस्समायातस्ततोऽपि द्विगुणप्रभः॥ तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ १७ ॥
तावत् यमः समायातः ततस् अपि द्विगुण-प्रभः॥ तम् दृष्ट्वा प्राह सा मेना रुद्रः अयम् इति हर्षिता ॥ १७ ॥
tāvat yamaḥ samāyātaḥ tatas api dviguṇa-prabhaḥ.. tam dṛṣṭvā prāha sā menā rudraḥ ayam iti harṣitā .. 17 ..
नेति त्वमब्रवीस्तां वै तावन्निर्ऋतिरागतः ॥ बिभ्राणो द्विगुणां शोभां शुभः पुण्यजनप्रभुः ॥ १८ ॥
न इति त्वम् अब्रवीः ताम् वै तावत् निरृतिः आगतः ॥ बिभ्राणः द्विगुणाम् शोभाम् शुभः पुण्यजन-प्रभुः ॥ १८ ॥
na iti tvam abravīḥ tām vai tāvat nirṛtiḥ āgataḥ .. bibhrāṇaḥ dviguṇām śobhām śubhaḥ puṇyajana-prabhuḥ .. 18 ..
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ नेति त्वमब्रवीस्तां वै तावद्वरुण आगतः ॥ १९॥ ।
तम् दृष्ट्वा प्राह सा मेना रुद्रः अयम् इति हर्षिता ॥ न इति त्वम् अब्रवीः ताम् वै तावत् वरुणः आगतः ॥ १९॥ ।
tam dṛṣṭvā prāha sā menā rudraḥ ayam iti harṣitā .. na iti tvam abravīḥ tām vai tāvat varuṇaḥ āgataḥ .. 19.. .
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥ रुद्रोऽयं गिरिजास्वामी तद्वा नेति त्वमब्रवीः॥ 2.3.43.२० ॥
ततस् अपि द्विगुणाम् शोभाम् दृष्ट्वा तस्य च सा ब्रवीत् ॥ रुद्रः अयम् गिरिजा-स्वामी तत् वा न इति त्वम् अब्रवीः॥ २।३।४३।२० ॥
tatas api dviguṇām śobhām dṛṣṭvā tasya ca sā bravīt .. rudraḥ ayam girijā-svāmī tat vā na iti tvam abravīḥ.. 2.3.43.20 ..
तावद्वायुस्समायातस्ततोऽपि द्विगुणप्रभः ॥ तं दृष्ट्वा प्राह सा मेना रुद्रोयमिति हर्षिता ॥ २१ ॥
तावत् वायुः समायातः ततस् अपि द्विगुण-प्रभः ॥ तम् दृष्ट्वा प्राह सा मेना रुद्रः इयम् इति हर्षिता ॥ २१ ॥
tāvat vāyuḥ samāyātaḥ tatas api dviguṇa-prabhaḥ .. tam dṛṣṭvā prāha sā menā rudraḥ iyam iti harṣitā .. 21 ..
नेति त्वमब्रवीस्तां वै तावद्धनद आगतः ॥ ततोऽपि द्विगुणां शोभां बिभ्राणो गुह्यकाधिपः ॥ २२॥
न इति त्वम् अब्रवीः ताम् वै तावत् धनदः आगतः ॥ ततस् अपि द्विगुणाम् शोभाम् बिभ्राणः गुह्यक-अधिपः ॥ २२॥
na iti tvam abravīḥ tām vai tāvat dhanadaḥ āgataḥ .. tatas api dviguṇām śobhām bibhrāṇaḥ guhyaka-adhipaḥ .. 22..
तं दृष्ट्वा प्राह सा मेना रुद्रोऽयमिति हर्षिता ॥ नेति त्वमब्रवीस्तां वै तावदीशान आगतः॥ २३॥
तम् दृष्ट्वा प्राह सा मेना रुद्रः अयम् इति हर्षिता ॥ न इति त्वम् अब्रवीः ताम् वै तावत् ईशानः आगतः॥ २३॥
tam dṛṣṭvā prāha sā menā rudraḥ ayam iti harṣitā .. na iti tvam abravīḥ tām vai tāvat īśānaḥ āgataḥ.. 23..
ततोऽपि द्विगुणां शोभां दृष्ट्वा तस्य च साब्रवीत् ॥ रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः॥ २४॥
ततस् अपि द्विगुणाम् शोभाम् दृष्ट्वा तस्य च सा ब्रवीत् ॥ रुद्रः अयम् गिरिजा-स्वामी तदा न इति त्वम् अब्रवीः॥ २४॥
tatas api dviguṇām śobhām dṛṣṭvā tasya ca sā bravīt .. rudraḥ ayam girijā-svāmī tadā na iti tvam abravīḥ.. 24..
तावदिन्द्रस्समायातस्ततोऽपि द्विगुणप्रभः ॥ सर्वामरवरो नानादिव्यभस्त्रिदिवेश्वरः ॥ २५ ॥
तावत् इन्द्रः समायातः ततस् अपि द्विगुण-प्रभः ॥ ॥ २५ ॥
tāvat indraḥ samāyātaḥ tatas api dviguṇa-prabhaḥ .. .. 25 ..
तं दृष्ट्वा शंकरस्सोऽयमिति सा प्राह मेनका ॥ शक्रस्सुरपतिश्चायं नेति त्वं तदाब्रवीः ॥ २६॥
तम् दृष्ट्वा शंकरः सः अयम् इति सा प्राह मेनका ॥ शक्रः सुरपतिः च अयम् न इति त्वम् तदा ब्रवीः ॥ २६॥
tam dṛṣṭvā śaṃkaraḥ saḥ ayam iti sā prāha menakā .. śakraḥ surapatiḥ ca ayam na iti tvam tadā bravīḥ .. 26..
तावच्चन्द्रस्समायातश्शोभा तद्द्विगुणा दधत ॥ दृष्ट्वा तं प्राह रुद्रोऽयं तां तु नेति त्वमब्रवीः ॥ २७ ॥
तावत् चन्द्रः समायातः शोभा तद्-द्विगुणाः दधत ॥ दृष्ट्वा तम् प्राह रुद्रः अयम् ताम् तु न इति त्वम् अब्रवीः ॥ २७ ॥
tāvat candraḥ samāyātaḥ śobhā tad-dviguṇāḥ dadhata .. dṛṣṭvā tam prāha rudraḥ ayam tām tu na iti tvam abravīḥ .. 27 ..
तावत्सूर्यस्समायातश्शोभा तद्द्विगुणा दधत् ॥ दृष्ट्वा तं प्राह सा सोयन्तांतु नेति त्वमब्रवीः ॥ २८॥
तावत् सूर्यः समायातः शोभा तद्-द्विगुणाः दधत् ॥ दृष्ट्वा तम् प्राह सा न इति त्वम् अब्रवीः ॥ २८॥
tāvat sūryaḥ samāyātaḥ śobhā tad-dviguṇāḥ dadhat .. dṛṣṭvā tam prāha sā na iti tvam abravīḥ .. 28..
तावत्समागतास्तत्र भृग्वाद्याश्च मुनीश्वराः ॥ तेजसो राशयस्सर्वे स्वशिष्यगणसंयुताः ॥ २९॥
तावत् समागताः तत्र भृगु-आद्याः च मुनि-ईश्वराः ॥ तेजसः राशयः सर्वे स्व-शिष्य-गण-संयुताः ॥ २९॥
tāvat samāgatāḥ tatra bhṛgu-ādyāḥ ca muni-īśvarāḥ .. tejasaḥ rāśayaḥ sarve sva-śiṣya-gaṇa-saṃyutāḥ .. 29..
तन्मध्ये चैव वागीशं दृष्ट्वा सा प्राह मेनका ॥ रुद्रोऽयं गिरिजास्वामी तदा नेति त्वमब्रवीः ॥ 2.3.43.३० ॥
तद्-मध्ये च एव वागीशम् दृष्ट्वा सा प्राह मेनका ॥ रुद्रः अयम् गिरिजा-स्वामी तदा न इति त्वम् अब्रवीः ॥ २।३।४३।३० ॥
tad-madhye ca eva vāgīśam dṛṣṭvā sā prāha menakā .. rudraḥ ayam girijā-svāmī tadā na iti tvam abravīḥ .. 2.3.43.30 ..
तावद्ब्रह्मा समायातस्तेजसां गशिरुत्तमः ॥ सर्षिवर्य्यसुतस्साक्षाद्धर्मपुंज इव स्तुतः ॥ ३ १ ॥
तावत् ब्रह्मा समायातः तेजसाम् गशिः उत्तमः ॥ स ऋषि-वर्य्य-सुतः साक्षात् धर्मपुंजः इव स्तुतः ॥ ३ १ ॥
tāvat brahmā samāyātaḥ tejasām gaśiḥ uttamaḥ .. sa ṛṣi-varyya-sutaḥ sākṣāt dharmapuṃjaḥ iva stutaḥ .. 3 1 ..
दृष्ट्वा सा तं तदा मेना महाहर्षवती मुने ॥ सोऽयं शिवापतिः प्राह तां तु नेति त्वमब्रवीः ॥ ३२॥
दृष्ट्वा सा तम् तदा मेना महा-हर्षवती मुने ॥ सः अयम् शिवापतिः प्राह ताम् तु न इति त्वम् अब्रवीः ॥ ३२॥
dṛṣṭvā sā tam tadā menā mahā-harṣavatī mune .. saḥ ayam śivāpatiḥ prāha tām tu na iti tvam abravīḥ .. 32..
एतस्मिन्नन्तरे तत्र विष्णुर्देवस्समागतः॥ सर्वशोभान्वितः श्रीमान्मेघश्यामश्चतुर्भुजः ॥ ३३॥
एतस्मिन् अन्तरे तत्र विष्णुः देवः समागतः॥ सर्व-शोभा-अन्वितः श्रीमान् मेघ-श्यामः चतुर्-भुजः ॥ ३३॥
etasmin antare tatra viṣṇuḥ devaḥ samāgataḥ.. sarva-śobhā-anvitaḥ śrīmān megha-śyāmaḥ catur-bhujaḥ .. 33..
कोटिकन्दर्प्यलावण्यः पीताम्बरधरस्स्वराट्॥ राजीवलोचनश्शान्तः पक्षीन्द्रवरवाहनः॥ ॥ ३४॥
koṭikandarpyalāvaṇyaḥ pītāmbaradharassvarāṭ|| rājīvalocanaśśāntaḥ pakṣīndravaravāhanaḥ|| || 34||
koṭikandarpyalāvaṇyaḥ pītāmbaradharassvarāṭ|| rājīvalocanaśśāntaḥ pakṣīndravaravāhanaḥ|| || 34||
शंखादिलक्षणैर्युक्तो मुकुटादिविभूषितः॥ श्रीवत्सवक्षा लक्ष्मीशो ह्यप्रमेय प्रभान्वितः॥ ३५॥
शंख-आदि-लक्षणैः युक्तः मुकुट-आदि-विभूषितः॥ श्रीवत्स-वक्षाः लक्ष्मीशः हि अप्रमेय प्रभा-अन्वितः॥ ३५॥
śaṃkha-ādi-lakṣaṇaiḥ yuktaḥ mukuṭa-ādi-vibhūṣitaḥ.. śrīvatsa-vakṣāḥ lakṣmīśaḥ hi aprameya prabhā-anvitaḥ.. 35..
तं दृष्ट्वा चकिताक्ष्यासीन्महाहर्षेण साब्रवीत्॥ सोऽयं शिवापतिः साक्षाच्छिवो वै नात्र संशयः ॥ ३६॥
तम् दृष्ट्वा चकित-अक्षी आसीत् महा-हर्षेण सा ब्रवीत्॥ सः अयम् शिवापतिः साक्षात् शिवः वै न अत्र संशयः ॥ ३६॥
tam dṛṣṭvā cakita-akṣī āsīt mahā-harṣeṇa sā bravīt.. saḥ ayam śivāpatiḥ sākṣāt śivaḥ vai na atra saṃśayaḥ .. 36..
अथ त्वं मेनकावाक्यमाकर्ण्योवाच ऊतिकृत्॥ नायं शिवापतिरयं किन्त्वयं केशवो हरिः ॥ ३७॥
अथ त्वम् मेनका-वाक्यम् आकर्ण्य उवाच ऊतिकृत्॥ न अयम् शिवापतिः अयम् किन्तु अयम् केशवः हरिः ॥ ३७॥
atha tvam menakā-vākyam ākarṇya uvāca ūtikṛt.. na ayam śivāpatiḥ ayam kintu ayam keśavaḥ hariḥ .. 37..
शंकरोखिलकार्य्यस्य ह्यधिकारी च तत्प्रियः ॥ अतोऽधिको वरो ज्ञेयस्स शिवः पार्वतीपतिः ॥ ३८॥
शंकर-उखिल-कार्य्यस्य हि अधिकारी च तद्-प्रियः ॥ अतस् अधिकः वरः ज्ञेयः स शिवः पार्वतीपतिः ॥ ३८॥
śaṃkara-ukhila-kāryyasya hi adhikārī ca tad-priyaḥ .. atas adhikaḥ varaḥ jñeyaḥ sa śivaḥ pārvatīpatiḥ .. 38..
तच्छोभां वर्णितुं मेने मया नैव हि शक्यते ॥ स एवाखिलब्रह्माण्डपतिस्सर्वेश्वरः स्वराट् ॥ ३९ ॥
तद्-शोभाम् वर्णितुम् मेने मया ना एव हि शक्यते ॥ सः एव अखिल-ब्रह्माण्ड-पतिः सर्व-ईश्वरः स्वराज् ॥ ३९ ॥
tad-śobhām varṇitum mene mayā nā eva hi śakyate .. saḥ eva akhila-brahmāṇḍa-patiḥ sarva-īśvaraḥ svarāj .. 39 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य मेना मेने च तां शुभाम् ॥ महाधनां भाग्यवती कुलत्रयसुखावहाम् ॥ 2.3.43.४०॥
इति आकर्ण्य वचः तस्य मेना मेने च ताम् शुभाम् ॥ महाधनाम् भाग्यवती कुल-त्रय-सुख-आवहाम् ॥ २।३।४३।४०॥
iti ākarṇya vacaḥ tasya menā mene ca tām śubhām .. mahādhanām bhāgyavatī kula-traya-sukha-āvahām .. 2.3.43.40..
उवाच च प्रसन्नास्या प्रीतियुक्तेन चेतसा ॥ स्वभाग्यमधिकं चापि वर्णयन्ती मुहुर्मुहुः॥ ४१॥
उवाच च प्रसन्न-आस्या प्रीति-युक्तेन चेतसा ॥ स्वभाग्यम् अधिकम् च अपि वर्णयन्ती मुहुर् मुहुर्॥ ४१॥
uvāca ca prasanna-āsyā prīti-yuktena cetasā .. svabhāgyam adhikam ca api varṇayantī muhur muhur.. 41..
धन्याहं सर्वथा जाता पार्वत्या जन्मनाधुना ॥ धन्यो गिरीश्वरोप्यद्य सर्वं धन्यतमं मम ॥ ४२ ॥
धन्या अहम् सर्वथा जाता पार्वत्याः जन्मना अधुना ॥ धन्यः गिरीश्वरः उपि अद्य सर्वम् धन्यतमम् मम ॥ ४२ ॥
dhanyā aham sarvathā jātā pārvatyāḥ janmanā adhunā .. dhanyaḥ girīśvaraḥ upi adya sarvam dhanyatamam mama .. 42 ..
मेनोवाच ।।
येये दृष्ट्वा मया देवा नायकास्सुप्रभान्विताः ॥ एतेषां यः पतिस्सोऽत्र पतिरस्या भविष्यति ॥ ४३ ॥
ये ये दृष्ट्वा मया देवाः नायकाः सु प्रभा-अन्विताः ॥ एतेषाम् यः पतिः सः अत्र पतिः अस्याः भविष्यति ॥ ४३ ॥
ye ye dṛṣṭvā mayā devāḥ nāyakāḥ su prabhā-anvitāḥ .. eteṣām yaḥ patiḥ saḥ atra patiḥ asyāḥ bhaviṣyati .. 43 ..
अस्याः किं वर्ण्यते भाग्यमपि वर्षशतैरपि ॥ वर्णितुं शक्यते नैव तत्प्रभुप्राप्तिदर्शनात ॥ ४४॥
अस्याः किम् वर्ण्यते भाग्यम् अपि वर्ष-शतैः अपि ॥ वर्णितुम् शक्यते ना एव तद्-प्रभु-प्राप्ति-दर्शनात् ॥ ४४॥
asyāḥ kim varṇyate bhāgyam api varṣa-śataiḥ api .. varṇitum śakyate nā eva tad-prabhu-prāpti-darśanāt .. 44..
ब्रह्मोवाच ।।
इत्यवादीच्च सा मेना प्रेमनिर्भरमानसा ॥ तावत्समागतो रुद्रोऽद्भुतोतिकारकः प्रभुः ॥ ४५॥
इति अवादीत् च सा मेना प्रेम-निर्भर-मानसा ॥ तावत् समागतः रुद्रः अद्भुत-ऊति-कारकः प्रभुः ॥ ४५॥
iti avādīt ca sā menā prema-nirbhara-mānasā .. tāvat samāgataḥ rudraḥ adbhuta-ūti-kārakaḥ prabhuḥ .. 45..
अद्भुतात्मागणास्तात मेनागर्वापहारकाः ॥ आत्मानं दर्शयन् मायानिर्लिप्तं निर्विकारकम् ४४६॥
अद्भुत-आत्मा-गणाः तात मेना-गर्व-अपहारकाः ॥ आत्मानम् दर्शयन् माया-निर्लिप्तम् निर्विकारकम्॥
adbhuta-ātmā-gaṇāḥ tāta menā-garva-apahārakāḥ .. ātmānam darśayan māyā-nirliptam nirvikārakam..
तमागतमभिप्रेत्य नारद त्वं मुने तदा ॥ मेनामवोचः सुप्रीत्या दर्शयंस्तं शिवापतिम् ॥ ४७॥
तम् आगतम् अभिप्रेत्य नारद त्वम् मुने तदा ॥ मेनाम् अवोचः सु प्रीत्या दर्शयन् तम् शिवापतिम् ॥ ४७॥
tam āgatam abhipretya nārada tvam mune tadā .. menām avocaḥ su prītyā darśayan tam śivāpatim .. 47..
अयं स शंकरस्साक्षाद्दृश्यतां सुन्दरि त्वया ॥ यदर्थे शिवया तप्तं तपोऽति विपिने महत् ॥ ४८ ॥
अयम् स शंकरः साक्षात् दृश्यताम् सुन्दरि त्वया ॥ यद्-अर्थे शिवया तप्तम् तपः अति विपिने महत् ॥ ४८ ॥
ayam sa śaṃkaraḥ sākṣāt dṛśyatām sundari tvayā .. yad-arthe śivayā taptam tapaḥ ati vipine mahat .. 48 ..
।। नारद उवाच ।।
इत्युक्त्वा हर्षिता मेना तं ददर्श मुदा प्रभुम् ॥ अद्भुताकृतिमीशानमद्भुतानुगमद्भुतम् ॥ ४९ ॥
इति उक्त्वा हर्षिता मेना तम् ददर्श मुदा प्रभुम् ॥ अद्भुत-आकृतिम् ईशानम् अद्भुत-अनुगम् अद्भुतम् ॥ ४९ ॥
iti uktvā harṣitā menā tam dadarśa mudā prabhum .. adbhuta-ākṛtim īśānam adbhuta-anugam adbhutam .. 49 ..
।। ब्रह्मोवाच ।।
तावदेव समायाता रुद्रसेना महाद्भुता ॥ भूतप्रेतादिसंयुक्ता नानागणसमन्विता ॥ 2.3.43.५० ॥
तावत् एव समायाता रुद्र-सेना महा-अद्भुता ॥ भूत-प्रेत-आदि-संयुक्ता नाना गण-समन्विता ॥ २।३।४३।५० ॥
tāvat eva samāyātā rudra-senā mahā-adbhutā .. bhūta-preta-ādi-saṃyuktā nānā gaṇa-samanvitā .. 2.3.43.50 ..
वात्यारूपधराः केचित्पताकामर्मरस्वना ॥ वक्रतुंडास्तत्र केचिद्विरूपाश्चापरे तथा ॥ ५१ ॥
वात्या-रूप-धराः केचिद् पताका-मर्मर-स्वना ॥ वक्रतुंडाः तत्र केचिद् विरूपाः च अपरे तथा ॥ ५१ ॥
vātyā-rūpa-dharāḥ kecid patākā-marmara-svanā .. vakratuṃḍāḥ tatra kecid virūpāḥ ca apare tathā .. 51 ..
करालाः श्मश्रुलाः केचित्केचित्खञ्जा ह्यलोचनाः ॥ दण्डपाशधराः केचित्केचिन्मुद्गरपाणयः ॥ ५२ ॥
करालाः श्मश्रुलाः केचिद् केचिद् खञ्जाः हि अलोचनाः ॥ दण्ड-पाश-धराः केचिद् केचिद् मुद्गर-पाणयः ॥ ५२ ॥
karālāḥ śmaśrulāḥ kecid kecid khañjāḥ hi alocanāḥ .. daṇḍa-pāśa-dharāḥ kecid kecid mudgara-pāṇayaḥ .. 52 ..
विरुद्धवाहनाः केचिच्छृंगनादविवादिनः ॥ डमरोर्वादिनः केचित्केचिद्गोमुखवादिनः ॥ ५३ ॥
विरुद्ध-वाहनाः केचिद् शृंग-नाद-विवादिनः ॥ डमरोः वादिनः केचिद् केचिद् गोमुख-वादिनः ॥ ५३ ॥
viruddha-vāhanāḥ kecid śṛṃga-nāda-vivādinaḥ .. ḍamaroḥ vādinaḥ kecid kecid gomukha-vādinaḥ .. 53 ..
अमुखा विमुखाः केचित्केचिद्बहुमुखा गणाः ॥ अकरा विकराः केचित्केचिद्बहुकरा गणाः ॥ ५४॥
अमुखाः विमुखाः केचिद् केचिद् बहु-मुखाः गणाः ॥ अकराः विकराः केचिद् केचिद् बहु-कराः गणाः ॥ ५४॥
amukhāḥ vimukhāḥ kecid kecid bahu-mukhāḥ gaṇāḥ .. akarāḥ vikarāḥ kecid kecid bahu-karāḥ gaṇāḥ .. 54..
अनेत्रा बहुनेत्राश्च विशिराः कुशिरास्तथा ॥ अकर्णा बहुकर्णाश्च नानावेषधरा गणाः ॥ ५५ ॥
अनेत्राः बहुनेत्राः च विशिराः कुशिराः तथा ॥ अकर्णाः बहु-कर्णाः च नाना वेष-धराः गणाः ॥ ५५ ॥
anetrāḥ bahunetrāḥ ca viśirāḥ kuśirāḥ tathā .. akarṇāḥ bahu-karṇāḥ ca nānā veṣa-dharāḥ gaṇāḥ .. 55 ..
इत्यादिविकृताकारा अनेके प्रबला गणाः ॥ असंख्यातास्तथा तात महावीरा भयंकराः ॥ ५६ ॥
इति आदि-विकृत-आकाराः अनेके प्रबलाः गणाः ॥ असंख्याताः तथा तात महा-वीराः भयंकराः ॥ ५६ ॥
iti ādi-vikṛta-ākārāḥ aneke prabalāḥ gaṇāḥ .. asaṃkhyātāḥ tathā tāta mahā-vīrāḥ bhayaṃkarāḥ .. 56 ..
अंगुल्या दर्शयँस्त्वं तां मुने रुद्रगणाँस्ततः ॥ हरस्य सेवकान्पश्य हरं चापि वरानने ॥ ५७ ॥
अंगुल्या दर्शयन् त्वम् ताम् मुने रुद्र-गणान् ततस् ॥ हरस्य सेवकान् पश्य हरम् च अपि वरानने ॥ ५७ ॥
aṃgulyā darśayan tvam tām mune rudra-gaṇān tatas .. harasya sevakān paśya haram ca api varānane .. 57 ..
असंख्यातान् गणान् दृष्ट्वा भूतप्रेतादिकान् मुने ॥ तत्क्षणादभवत्सा वै मेनका त्राससंकुला ॥ ५८ ॥
असंख्यातान् गणान् दृष्ट्वा भूत-प्रेत-आदिकान् मुने ॥ तद्-क्षणात् अभवत् सा वै मेनका त्रास-संकुला ॥ ५८ ॥
asaṃkhyātān gaṇān dṛṣṭvā bhūta-preta-ādikān mune .. tad-kṣaṇāt abhavat sā vai menakā trāsa-saṃkulā .. 58 ..
तन्मध्ये शंकरं चैव निर्गुणं गुणवत्तरम् ॥ वृषभस्थं पञ्चवक्त्रं त्रिनेत्रं भूतिभूषितम् ॥ ५९ ॥
तद्-मध्ये शंकरम् च एव निर्गुणम् गुणवत्तरम् ॥ वृषभ-स्थम् पञ्चवक्त्रम् त्रिनेत्रम् भूतिभूषितम् ॥ ५९ ॥
tad-madhye śaṃkaram ca eva nirguṇam guṇavattaram .. vṛṣabha-stham pañcavaktram trinetram bhūtibhūṣitam .. 59 ..
कपर्दिनं चन्द्रमौलिं दशहस्तं कपालि नम् ॥ व्याघ्रचर्मोत्तरीयञ्च पिनाकवरपाणिनम् ॥ 2.3.43.६० ॥
कपर्दिनम् चन्द्रमौलिम् दश-हस्तम् ॥ व्याघ्र-चर्म-उत्तरीयम् च पिनाक-वर-पाणिनम् ॥ २।३।४३।६० ॥
kapardinam candramaulim daśa-hastam .. vyāghra-carma-uttarīyam ca pināka-vara-pāṇinam .. 2.3.43.60 ..
शूलयुक्तं विरूपाक्षं विकृताकारमाकुलम् ॥ गजचर्म वसानं हि वीक्ष्य त्रेसे शिवाप्रसूः ॥ ६१ ॥
शूल-युक्तम् विरूप-अक्षम् विकृत-आकारम् आकुलम् ॥ गज-चर्म वसानम् हि वीक्ष्य त्रेसे शिवाप्रसूः ॥ ६१ ॥
śūla-yuktam virūpa-akṣam vikṛta-ākāram ākulam .. gaja-carma vasānam hi vīkṣya trese śivāprasūḥ .. 61 ..
चकितां कम्पसंयुक्तां विह्वलां विभ्रमद्धियम् ॥ शिवोऽयमिति चांगुल्या दर्शयँस्तां त्वमब्रवीः ॥ ६२ ॥ ।
चकिताम् कम्प-संयुक्ताम् विह्वलाम् विभ्रमत्-धियम् ॥ शिवः अयम् इति च अंगुल्या दर्शयन् ताम् त्वम् अब्रवीः ॥ ६२ ॥ ।
cakitām kampa-saṃyuktām vihvalām vibhramat-dhiyam .. śivaḥ ayam iti ca aṃgulyā darśayan tām tvam abravīḥ .. 62 .. .
त्वदीयं तद्वचः श्रुत्वा वाताहतलता इव ॥ सा पपात द्रुतम्भूमौ मेना दुःखभरा सती ॥ ६३ ॥
त्वदीयम् तत् वचः श्रुत्वा वात-आहत-लताः इव ॥ सा पपात द्रुतम्भूमौ मेना दुःख-भरा सती ॥ ६३ ॥
tvadīyam tat vacaḥ śrutvā vāta-āhata-latāḥ iva .. sā papāta drutambhūmau menā duḥkha-bharā satī .. 63 ..
किमिदं विकृतं दृष्ट्वा वञ्चिताहं दुराग्रहे ॥ इत्युक्त्वा मूर्च्छिता तत्र मेनका साऽभवत्क्षणात् ॥ ६४ ॥
किम् इदम् विकृतम् दृष्ट्वा वञ्चिता अहम् दुराग्रहे ॥ इति उक्त्वा मूर्च्छिता तत्र मेनका सा अभवत् क्षणात् ॥ ६४ ॥
kim idam vikṛtam dṛṣṭvā vañcitā aham durāgrahe .. iti uktvā mūrcchitā tatra menakā sā abhavat kṣaṇāt .. 64 ..
अथ प्रयत्नैर्विविधैस्सखीभिरुपसेविता ॥ लेभे संज्ञां शनै मेना गिरीश्वरप्रिया तदा ॥ ६५ ॥
अथ प्रयत्नैः विविधैः सखीभिः उपसेविता ॥ लेभे संज्ञाम् शनैस् मेना गिरीश्वर-प्रिया तदा ॥ ६५ ॥
atha prayatnaiḥ vividhaiḥ sakhībhiḥ upasevitā .. lebhe saṃjñām śanais menā girīśvara-priyā tadā .. 65 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥ ४३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवाद्भुतलीलावर्णनम् नाम त्रिचत्वारिंशः अध्यायः ॥ ४३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivādbhutalīlāvarṇanam nāma tricatvāriṃśaḥ adhyāyaḥ .. 43 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In