| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एतस्मिन्नन्तरे त्वं हि विष्णुना प्रेरितो द्रुतम् ॥ अनुकूलयितुं शंभुमयास्तन्निकटे मुने ॥ १॥
एतस्मिन् अन्तरे त्वम् हि विष्णुना प्रेरितः द्रुतम् ॥ अनुकूलयितुम् शंभुम् अयाः तद्-निकटे मुने ॥ १॥
etasmin antare tvam hi viṣṇunā preritaḥ drutam .. anukūlayitum śaṃbhum ayāḥ tad-nikaṭe mune .. 1..
तत्र गत्वा स वै रुद्रो भवता सुप्रबोधितः ॥ स्तोत्रैर्नानाविधैस्स्तुत्वा देवकार्यचिकीर्षया ॥ २॥
तत्र गत्वा स वै रुद्रः भवता सु प्रबोधितः ॥ स्तोत्रैः नानाविधैः स्तुत्वा देव-कार्य-चिकीर्षया ॥ २॥
tatra gatvā sa vai rudraḥ bhavatā su prabodhitaḥ .. stotraiḥ nānāvidhaiḥ stutvā deva-kārya-cikīrṣayā .. 2..
श्रुत्वा त्वद्वचनं प्रीत्या शंभुना धृतमद्भुतम् ॥ स्वरूपमुत्तमन्दिव्यं कृपालुत्वं च दर्शितम् ॥ ३॥
श्रुत्वा त्वद्-वचनम् प्रीत्या शंभुना धृतम् अद्भुतम् ॥ स्व-रूपम् उत्तमन् दिव्यम् कृपालु-त्वम् च दर्शितम् ॥ ३॥
śrutvā tvad-vacanam prītyā śaṃbhunā dhṛtam adbhutam .. sva-rūpam uttaman divyam kṛpālu-tvam ca darśitam .. 3..
तद्दृष्ट्वा सुन्दरं शम्भुं स्वरूपम्मन्मथा धिकम् ॥ अत्यहृष्यो मुने त्वं हि लावण्यपरमायनम् ॥ ४ ॥
तत् दृष्ट्वा सुन्दरम् शम्भुम् स्व-रूपम् मन्मथाः धिकम् ॥ अत्यहृष्यः मुने त्वम् हि लावण्य-परम-अयनम् ॥ ४ ॥
tat dṛṣṭvā sundaram śambhum sva-rūpam manmathāḥ dhikam .. atyahṛṣyaḥ mune tvam hi lāvaṇya-parama-ayanam .. 4 ..
स्तोत्रैर्नानाविधैस्स्तुत्वा परमानन्दसंयुतः ॥ आगच्छस्त्वं मुने तत्र यत्र मेना स्थिताखिलैः ॥ ५ ॥
स्तोत्रैः नानाविधैः स्तुत्वा परम-आनन्द-संयुतः ॥ आगच्छः त्वम् मुने तत्र यत्र मेना स्थिता अखिलैः ॥ ५ ॥
stotraiḥ nānāvidhaiḥ stutvā parama-ānanda-saṃyutaḥ .. āgacchaḥ tvam mune tatra yatra menā sthitā akhilaiḥ .. 5 ..
तत्रागत्य सुप्रसन्नो मुनेऽतिप्रेमसंकुलः ॥ हर्षयंस्तां शैलपत्नी मेनान्त्वं वाक्यमब्रवीः। ॥ ६ ॥
तत्र आगत्य सु प्रसन्नः मुने अति प्रेम-संकुलः ॥ हर्षयन् ताम् शैलपत्नी वाक्यम् अब्रवीः। ॥ ६ ॥
tatra āgatya su prasannaḥ mune ati prema-saṃkulaḥ .. harṣayan tām śailapatnī vākyam abravīḥ. .. 6 ..
नारद उवाच ।।
मेने पश्य विशालाक्षि शिवरूपमनुत्तमम् ॥ कृता शिवेन तेनैव सुकृपा करुणात्मना ॥ ७ ॥
मेने पश्य विशाल-अक्षि शिव-रूपम् अनुत्तमम् ॥ कृता शिवेन तेन एव सु कृपा करुण-आत्मना ॥ ७ ॥
mene paśya viśāla-akṣi śiva-rūpam anuttamam .. kṛtā śivena tena eva su kṛpā karuṇa-ātmanā .. 7 ..
ब्रह्मोवाच ।।
श्रुत्वा सा तद्वचो मेना विस्मिता शैलकामिनी ॥ ददर्श शिवरूपन्तत्परमानन्ददायकम् ॥ ८ ॥
श्रुत्वा सा तत् वचः मेना विस्मिता शैल-कामिनी ॥ ददर्श शिव-रूपन् तत् परमानन्द-दायकम् ॥ ८ ॥
śrutvā sā tat vacaḥ menā vismitā śaila-kāminī .. dadarśa śiva-rūpan tat paramānanda-dāyakam .. 8 ..
कोटिसूर्यप्रतीकाशं सर्वावयवसुन्दरम् ॥ विचित्रवसनं चात्र नानाभूषणभूषितम् ॥ ९ ॥
कोटि-सूर्य-प्रतीकाशम् सर्व-अवयव-सुन्दरम् ॥ विचित्र-वसनम् च अत्र नाना भूषण-भूषितम् ॥ ९ ॥
koṭi-sūrya-pratīkāśam sarva-avayava-sundaram .. vicitra-vasanam ca atra nānā bhūṣaṇa-bhūṣitam .. 9 ..
सुप्रसन्नं सुहासं च सुलावण्यं मनोहरम् ॥ गौराभं द्युतिसंयुक्तं चन्द्ररेखाविभूषितम्। ॥ 2.3.45.१०॥
सु प्रसन्नम् सु हासम् च सु लावण्यम् मनोहरम् ॥ गौर-आभम् द्युति-संयुक्तम् चन्द्र-रेखा-विभूषितम्। ॥ २।३।४५।१०॥
su prasannam su hāsam ca su lāvaṇyam manoharam .. gaura-ābham dyuti-saṃyuktam candra-rekhā-vibhūṣitam. .. 2.3.45.10..
सर्वैर्देवगणैः प्रीत्या विष्ण्वाद्यस्सेवितं तथा॥ सूर्येण च्छत्रितं मूर्ध्नि चन्द्रेण च विशोभितम्॥ ११॥
सर्वैः देव-गणैः प्रीत्या विष्णु-आद्यः सेवितम् तथा॥ सूर्येण छत्रितम् मूर्ध्नि चन्द्रेण च विशोभितम्॥ ११॥
sarvaiḥ deva-gaṇaiḥ prītyā viṣṇu-ādyaḥ sevitam tathā.. sūryeṇa chatritam mūrdhni candreṇa ca viśobhitam.. 11..
सर्वथा रमणीयं च भूषितस्य विभूषणैः ॥ वाहनस्य महाशोभा वर्णितुं नैव शक्यते ॥ १२॥
सर्वथा रमणीयम् च भूषितस्य विभूषणैः ॥ वाहनस्य महा-शोभा वर्णितुम् ना एव शक्यते ॥ १२॥
sarvathā ramaṇīyam ca bhūṣitasya vibhūṣaṇaiḥ .. vāhanasya mahā-śobhā varṇitum nā eva śakyate .. 12..
गंगा च यमुना चैव विधत्तः स्म सुचामरे॥ सिद्धयोऽष्टौ पुरस्तस्य कुर्वन्ति स्म सुनर्त्तनम् ॥ १३॥
गंगा च यमुना च एव विधत्तः स्म सु चामरे॥ सिद्धयः अष्टौ पुरस् तस्य कुर्वन्ति स्म सुनर्त्तनम् ॥ १३॥
gaṃgā ca yamunā ca eva vidhattaḥ sma su cāmare.. siddhayaḥ aṣṭau puras tasya kurvanti sma sunarttanam .. 13..
मया चैव तदा विष्णुरिन्द्राद्या ह्यमरास्तथा ॥ स्वं स्वं वेषं सुसम्भूष्य गिरिशेनाचरन्युताः ॥ १४॥
मया च एव तदा विष्णुः इन्द्र-आद्याः हि अमराः तथा ॥ स्वम् स्वम् वेषम् सु सम्भूष्य गिरिशेन आचरन् युताः ॥ १४॥
mayā ca eva tadā viṣṇuḥ indra-ādyāḥ hi amarāḥ tathā .. svam svam veṣam su sambhūṣya giriśena ācaran yutāḥ .. 14..
तथा जयेति भाषन्तो नानारूपा गणास्तदा ॥ स्वलङ्कृतमहामोदा गिरीशपुरतोऽचरन् ॥ १५ ॥
तथा जय इति भाषन्तः नाना रूपाः गणाः तदा ॥ सु अलङ्कृत-महा-आमोदाः गिरीश-पुरतस् अचरन् ॥ १५ ॥
tathā jaya iti bhāṣantaḥ nānā rūpāḥ gaṇāḥ tadā .. su alaṅkṛta-mahā-āmodāḥ girīśa-puratas acaran .. 15 ..
सिद्धाश्चोपसुरास्सर्वे मुनयश्च महासुखाः ॥ ययुश्शिवेन सुप्रीतास्सकलाश्चापरे तथा॥ १६॥
सिद्धाः च उपसुराः सर्वे मुनयः च महा-सुखाः ॥ ययुः शिवेन सु प्रीताः सकलाः च अपरे तथा॥ १६॥
siddhāḥ ca upasurāḥ sarve munayaḥ ca mahā-sukhāḥ .. yayuḥ śivena su prītāḥ sakalāḥ ca apare tathā.. 16..
एवन्देवादयस्सर्वे कुतूहलसमन्विताः ॥ परंब्रह्म गृणन्तस्ते स्वपत्नीभिरलंकृताः ॥ १७॥
एवम् देव-आदयः सर्वे कुतूहल-समन्विताः ॥ परंब्रह्म ब्रह्म गृणन्तः ते स्व-पत्नीभिः अलंकृताः ॥ १७॥
evam deva-ādayaḥ sarve kutūhala-samanvitāḥ .. paraṃbrahma brahma gṛṇantaḥ te sva-patnībhiḥ alaṃkṛtāḥ .. 17..
विश्वावसुमुखास्तत्र ह्यप्सरोगणसंयुताः ॥ गायन्तोप्यग्रतस्तस्य परमं शाङ्करं यशः ॥ १८ ॥
विश्वावसु-मुखाः तत्र हि अप्सरः-गण-संयुताः ॥ गायन्तः अपि अग्रतस् तस्य परमम् शाङ्करम् यशः ॥ १८ ॥
viśvāvasu-mukhāḥ tatra hi apsaraḥ-gaṇa-saṃyutāḥ .. gāyantaḥ api agratas tasya paramam śāṅkaram yaśaḥ .. 18 ..
इत्थं महोत्सवस्तत्र बभूव मुनिस त्तम ॥ नानाविधो महेशे हि शैलद्वारि च गच्छति ॥ १९ ॥
इत्थम् महा-उत्सवः तत्र बभूव मुनि-स त्तम ॥ नानाविधः महेशे हि शैल-द्वारि च गच्छति ॥ १९ ॥
ittham mahā-utsavaḥ tatra babhūva muni-sa ttama .. nānāvidhaḥ maheśe hi śaila-dvāri ca gacchati .. 19 ..
तस्मिंश्च समये तत्र सुषमा या परात्मनः ॥ वर्णितुं तां विशेषेण कश्शक्नोति मुनीश्वर ॥ 2.3.45.२० ॥
तस्मिन् च समये तत्र सुषमा या परात्मनः ॥ वर्णितुम् ताम् विशेषेण कः शक्नोति मुनि-ईश्वर ॥ २।३।४५।२० ॥
tasmin ca samaye tatra suṣamā yā parātmanaḥ .. varṇitum tām viśeṣeṇa kaḥ śaknoti muni-īśvara .. 2.3.45.20 ..
तथाविधं च तन्दृष्ट्वा मेना चित्रगता इव ॥ क्षणमासीत्ततः प्रीत्या प्रोवाच वचनं मुने ॥ २१ ॥
तथाविधम् च तत् दृष्ट्वा मेना चित्र-गता इव ॥ क्षणम् आसीत् ततस् प्रीत्या प्रोवाच वचनम् मुने ॥ २१ ॥
tathāvidham ca tat dṛṣṭvā menā citra-gatā iva .. kṣaṇam āsīt tatas prītyā provāca vacanam mune .. 21 ..
मेनोवाच ।।
धन्या पुत्री मदीया च यया तप्तं महत्तपः ॥ यत्प्रभावान्महेशान त्वं प्राप्त इह मद्गृहे ॥ २२॥
धन्या पुत्री मदीया च यया तप्तम् महत् तपः ॥ यद्-प्रभावात् महेशान त्वम् प्राप्तः इह मद्-गृहे ॥ २२॥
dhanyā putrī madīyā ca yayā taptam mahat tapaḥ .. yad-prabhāvāt maheśāna tvam prāptaḥ iha mad-gṛhe .. 22..
मया कृता पुरा या वै शिवनिन्दा दुरत्यया ॥ तां क्षमस्व शिवास्वामिन्सुप्रसन्नो भवाधुना ॥ २३ ॥
मया कृता पुरा या वै शिव-निन्दा दुरत्यया ॥ ताम् क्षमस्व शिवास्वामिन् सु प्रसन्नः भव अधुना ॥ २३ ॥
mayā kṛtā purā yā vai śiva-nindā duratyayā .. tām kṣamasva śivāsvāmin su prasannaḥ bhava adhunā .. 23 ..
ब्रह्मोवाच ।।
इत्थं सम्भाष्य सा मेना संस्तूयेन्दुललाटकम् ॥ साञ्जलिः प्रणता शैलप्रिया लज्जापराऽभवत् ॥ २४ ॥
इत्थम् सम्भाष्य सा मेना संस्तूय इन्दु-ललाटकम् ॥ स अञ्जलिः प्रणता शैलप्रिया लज्जा-परा अभवत् ॥ २४ ॥
ittham sambhāṣya sā menā saṃstūya indu-lalāṭakam .. sa añjaliḥ praṇatā śailapriyā lajjā-parā abhavat .. 24 ..
तावत्स्त्रियस्समाजग्मुर्हित्वा कामाननेकशः ॥ बह्व्यस्ताः पुरवासिन्यश्शिवदर्शनलालसाः ॥ २५ ॥
तावत् स्त्रियः समाजग्मुः हित्वा कामान् अनेकशस् ॥ बह्व्यः ताः पुर-वासिन्यः शिव-दर्शन-लालसाः ॥ २५ ॥
tāvat striyaḥ samājagmuḥ hitvā kāmān anekaśas .. bahvyaḥ tāḥ pura-vāsinyaḥ śiva-darśana-lālasāḥ .. 25 ..
मज्जनं कुर्वती काचित्तच्चूर्णसहिता ययौ ॥ द्रष्टुं कुतूहलाढ्या च शङ्करं गिरिजावरम् ॥ २६ ॥
मज्जनम् कुर्वती काचिद् तद्-चूर्ण-सहिता ययौ ॥ द्रष्टुम् कुतूहल-आढ्या च शङ्करम् गिरिजा-वरम् ॥ २६ ॥
majjanam kurvatī kācid tad-cūrṇa-sahitā yayau .. draṣṭum kutūhala-āḍhyā ca śaṅkaram girijā-varam .. 26 ..
काचित्तु स्वामिनस्सेवां सखीयुक्ता विहाय च ॥ सुचामरकरा प्रीत्यागाच्छम्भोर्दर्शनाय वै ॥ २७ ॥
काचिद् तु स्वामिनः सेवाम् सखी-युक्ता विहाय च ॥ सु चामर-करा प्रीत्या अगात् शम्भोः दर्शनाय वै ॥ २७ ॥
kācid tu svāminaḥ sevām sakhī-yuktā vihāya ca .. su cāmara-karā prītyā agāt śambhoḥ darśanāya vai .. 27 ..
काचित्तु बालकं हित्वा पिबन्तं स्तन्यमादरात्॥ अतृप्तं शङ्करन्द्रष्टुं ययौ दर्शनलालसा ॥ २८॥
काचिद् तु बालकम् हित्वा पिबन्तम् स्तन्यम् आदरात्॥ अतृप्तम् शङ्करन् द्रष्टुम् ययौ दर्शन-लालसा ॥ २८॥
kācid tu bālakam hitvā pibantam stanyam ādarāt.. atṛptam śaṅkaran draṣṭum yayau darśana-lālasā .. 28..
रशनां बध्नती काचित्तयैव सहिता ययौ ॥ वसनं विपरीतं वै धृत्वा काचिद्ययौ ततः॥ २९॥
रशनाम् बध्नती काचिद् तया एव सहिता ययौ ॥ वसनम् विपरीतम् वै धृत्वा काचिद् ययौ ततस्॥ २९॥
raśanām badhnatī kācid tayā eva sahitā yayau .. vasanam viparītam vai dhṛtvā kācid yayau tatas.. 29..
भोजनार्थं स्थितं कान्तं हित्वा काचिद्ययौ प्रिया॥ द्रष्टुं शिवावरं प्रीत्या सतृष्णा सकुतूहला॥ 2.3.45.३०॥
भोजन-अर्थम् स्थितम् कान्तम् हित्वा काचिद् ययौ प्रिया॥ द्रष्टुम् शिव-अवरम् प्रीत्या स तृष्णा स कुतूहला॥ २।३।४५।३०॥
bhojana-artham sthitam kāntam hitvā kācid yayau priyā.. draṣṭum śiva-avaram prītyā sa tṛṣṇā sa kutūhalā.. 2.3.45.30..
काचिद्धस्ते शलाकां च धृत्वांजनकरा प्रिया ॥ अञ्जित्वैकाक्षि सन्द्रष्टुं ययौ शैलसुतावरम्॥ ३१॥
काचिद् हस्ते शलाकाम् च धृत्वा अंजन-करा प्रिया ॥ अञ्जित्वा एक-अक्षि सन्द्रष्टुम् ययौ शैलसुत-अवरम्॥ ३१॥
kācid haste śalākām ca dhṛtvā aṃjana-karā priyā .. añjitvā eka-akṣi sandraṣṭum yayau śailasuta-avaram.. 31..
काचित्तु कामिनी पादौ रञ्जयन्ती ह्यलक्तकैः ॥ श्रुत्वा घोषं च तद्धित्वा दर्शनार्थमुपागता ॥ ३२ ॥
काचिद् तु कामिनी पादौ रञ्जयन्ती हि अलक्तकैः ॥ श्रुत्वा घोषम् च तत् हित्वा दर्शन-अर्थम् उपागता ॥ ३२ ॥
kācid tu kāminī pādau rañjayantī hi alaktakaiḥ .. śrutvā ghoṣam ca tat hitvā darśana-artham upāgatā .. 32 ..
इत्यादि विविधं कार्यं हित्वा वासं स्त्रियो ययुः ॥ दृष्ट्वा तु शांकरं रूपं मोहं प्राप्तास्तदाऽभवन् ॥ ३३ ॥
इत्यादि विविधम् कार्यम् हित्वा वासम् स्त्रियः ययुः ॥ दृष्ट्वा तु शांकरम् रूपम् मोहम् प्राप्ताः तदा अभवन् ॥ ३३ ॥
ityādi vividham kāryam hitvā vāsam striyaḥ yayuḥ .. dṛṣṭvā tu śāṃkaram rūpam moham prāptāḥ tadā abhavan .. 33 ..
ततस्ताः प्रेमसंविग्नाश्शिवदर्शनहर्षिताः ॥ निधाय हृदि तन्मूर्तिं वचनं चेदमब्रुवन् ॥ ३४॥
ततस् ताः प्रेम-संविग्नाः शिव-दर्शन-हर्षिताः ॥ निधाय हृदि तद्-मूर्तिम् वचनम् च इदम् अब्रुवन् ॥ ३४॥
tatas tāḥ prema-saṃvignāḥ śiva-darśana-harṣitāḥ .. nidhāya hṛdi tad-mūrtim vacanam ca idam abruvan .. 34..
पुरवासिन्य ऊचुः।।
नेत्राणि सफलान्यासन्हिमवत्पुरवासिनाम् ॥ यो योऽपश्यददो रूपं तस्य वै सार्थकं जनुः ॥ ३५॥
नेत्राणि सफलानि आसन् हिमवत्-पुर-वासिनाम् ॥ यः यः अपश्यत् अदः रूपम् तस्य वै सार्थकम् जनुः ॥ ३५॥
netrāṇi saphalāni āsan himavat-pura-vāsinām .. yaḥ yaḥ apaśyat adaḥ rūpam tasya vai sārthakam januḥ .. 35..
तस्यैव सफलं जन्म तस्यैव सफलाः क्रियाः ॥ येन दृष्टश्शिवस्साक्षात्सर्वपापप्रणाशकः ॥ ३६॥
तस्य एव स फलम् जन्म तस्य एव स फलाः क्रियाः ॥ येन दृष्टः शिवः साक्षात् सर्व-पाप-प्रणाशकः ॥ ३६॥
tasya eva sa phalam janma tasya eva sa phalāḥ kriyāḥ .. yena dṛṣṭaḥ śivaḥ sākṣāt sarva-pāpa-praṇāśakaḥ .. 36..
पार्वत्या साधितं सर्वं शिवार्थं यत्तपः कृतम् ॥ धन्येयं कृतकृत्येयं शिवा प्राप्य शिवम्पतिम् ॥ ३७ ॥
पार्वत्या साधितम् सर्वम् शिव-अर्थम् यत् तपः कृतम् ॥ धन्या इयम् कृतकृत्या इयम् शिवा प्राप्य शिवम्पतिम् ॥ ३७ ॥
pārvatyā sādhitam sarvam śiva-artham yat tapaḥ kṛtam .. dhanyā iyam kṛtakṛtyā iyam śivā prāpya śivampatim .. 37 ..
यदीदं युगलं ब्रह्मा न युंज्याच्छिवयोर्मुदा ॥ तदा च सकलोऽप्यस्य श्रमो निष्फलतामियात् ॥ ३८ ॥
यदि इदम् युगलम् ब्रह्मा न युंज्यात् शिवयोः मुदा ॥ तदा च सकलः अपि अस्य श्रमः निष्फल-ताम् इयात् ॥ ३८ ॥
yadi idam yugalam brahmā na yuṃjyāt śivayoḥ mudā .. tadā ca sakalaḥ api asya śramaḥ niṣphala-tām iyāt .. 38 ..
सम्यक् कृतं तथा चात्र योजितं युग्ममुत्तमम् ॥ सर्वेषां सार्थता जाता सर्वकार्यसमुद्भवा ॥ ३९ ॥
सम्यक् कृतम् तथा च अत्र योजितम् युग्मम् उत्तमम् ॥ सर्वेषाम् सार्थता जाता सर्व-कार्य-समुद्भवा ॥ ३९ ॥
samyak kṛtam tathā ca atra yojitam yugmam uttamam .. sarveṣām sārthatā jātā sarva-kārya-samudbhavā .. 39 ..
विना तु तपसा शम्भोर्दर्शनं दुर्लभन्नृणाम् ॥ दर्शनाच्छंकरस्यैव सर्वे याताः कृतार्थताम् ॥ 2.3.45.४० ॥
विना तु तपसा शम्भोः दर्शनम् दुर्लभन् नृणाम् ॥ दर्शनात् शंकरस्य एव सर्वे याताः कृतार्थ-ताम् ॥ २।३।४५।४० ॥
vinā tu tapasā śambhoḥ darśanam durlabhan nṛṇām .. darśanāt śaṃkarasya eva sarve yātāḥ kṛtārtha-tām .. 2.3.45.40 ..
लक्ष्मीर्नारायणं लेभे यथा वै स्वामिनम्पुरा ॥ तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥ ४१ ॥
लक्ष्मीः नारायणम् लेभे यथा वै स्वामिनम् पुरा ॥ तथा असौ पार्वती देवी हरम् प्राप्य सु भूषिता ॥ ४१ ॥
lakṣmīḥ nārāyaṇam lebhe yathā vai svāminam purā .. tathā asau pārvatī devī haram prāpya su bhūṣitā .. 41 ..
ब्रह्माणं च यथा लेभे स्वामिनं वै सरस्वती ॥ तथासौ पार्वती देवी हरम्प्राप्य सुभूषिता ॥ ४२॥
ब्रह्माणम् च यथा लेभे स्वामिनम् वै सरस्वती ॥ तथा असौ पार्वती देवी हरम् प्राप्य सु भूषिता ॥ ४२॥
brahmāṇam ca yathā lebhe svāminam vai sarasvatī .. tathā asau pārvatī devī haram prāpya su bhūṣitā .. 42..
वयन्धन्याः स्त्रियस्सर्वाः पुरुषास्सकला वराः ॥ ये ये पश्यन्ति सर्वेशं शंकरं गिरिजापतिम् ॥ ४३॥
वयन् धन्याः स्त्रियः सर्वाः पुरुषाः सकलाः वराः ॥ ये ये पश्यन्ति सर्व-ईशम् शंकरम् गिरिजापतिम् ॥ ४३॥
vayan dhanyāḥ striyaḥ sarvāḥ puruṣāḥ sakalāḥ varāḥ .. ye ye paśyanti sarva-īśam śaṃkaram girijāpatim .. 43..
ब्रह्मोवाच ॥ इत्थमुक्त्वा तु वचनं चन्दनैश्चाक्षतैरपि ॥ शिवं समर्चयामासुर्लाजान्ववृषुरादरात्॥ ४४॥
ब्रह्मा उवाच ॥ इत्थम् उक्त्वा तु वचनम् चन्दनैः च अक्षतैः अपि ॥ शिवम् समर्चयामासुः लाजान् ववृषुः आदरात्॥ ४४॥
brahmā uvāca .. ittham uktvā tu vacanam candanaiḥ ca akṣataiḥ api .. śivam samarcayāmāsuḥ lājān vavṛṣuḥ ādarāt.. 44..
तस्थुस्तत्र स्त्रियः सर्वा मेनया सह सोत्सुकाः॥ वर्णयन्त्योऽधिकम्भाग्यम्मेनायाश्च गिरेरपि॥ ४५॥
तस्थुः तत्र स्त्रियः सर्वाः मेनया सह स उत्सुकाः॥ वर्णयन्त्यः अधिकम् भाग्यम् मेनायाः च गिरेः अपि॥ ४५॥
tasthuḥ tatra striyaḥ sarvāḥ menayā saha sa utsukāḥ.. varṇayantyaḥ adhikam bhāgyam menāyāḥ ca gireḥ api.. 45..
कथास्तथाविधाश्शृण्वंस्तद्वामा वर्णिताश्शुभाः ॥ प्रहृष्टोऽभूत्प्रभुः सर्वैर्मुने विष्ण्वादिभिस्तदा ॥ ४६॥
कथाः तथाविधाः शृण्वन् तद्-वामाः वर्णिताः शुभाः ॥ प्रहृष्टः अभूत् प्रभुः सर्वैः मुने विष्णु-आदिभिः तदा ॥ ४६॥
kathāḥ tathāvidhāḥ śṛṇvan tad-vāmāḥ varṇitāḥ śubhāḥ .. prahṛṣṭaḥ abhūt prabhuḥ sarvaiḥ mune viṣṇu-ādibhiḥ tadā .. 46..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूपपुरवास्युत्सववर्णनं नाम पञ्चचत्वारिंशोऽध्यायः ॥ ४५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवसुन्दरस्वरूपपुरवास्युत्सववर्णनम् नाम पञ्चचत्वारिंशः अध्यायः ॥ ४५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivasundarasvarūpapuravāsyutsavavarṇanam nāma pañcacatvāriṃśaḥ adhyāyaḥ .. 45 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In