| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ शंभुः प्रसन्नात्मा सदूतं स्वगणैस्सुरैः ॥ सर्वैरन्यैर्गिरेर्द्धाम जगाम सकुतूहलम् ॥ १ ॥
अथ शंभुः प्रसन्न-आत्मा स दूतम् स्व-गणैः सुरैः ॥ सर्वैः अन्यैः गिरेः द्धाम जगाम स कुतूहलम् ॥ १ ॥
atha śaṃbhuḥ prasanna-ātmā sa dūtam sva-gaṇaiḥ suraiḥ .. sarvaiḥ anyaiḥ gireḥ ddhāma jagāma sa kutūhalam .. 1 ..
मेनापि स्त्रीगणैस्तैश्च हिमाचलवरप्रिया ॥ तत उत्थाय स्वगृहा भ्यंतरं सा जगाम ह ॥ २ ॥
मेना अपि स्त्री-गणैः तैः च हिमाचल-वर-प्रिया ॥ ततस् उत्थाय स्व-गृह-अभ्यंतरम् सा जगाम ह ॥ २ ॥
menā api strī-gaṇaiḥ taiḥ ca himācala-vara-priyā .. tatas utthāya sva-gṛha-abhyaṃtaram sā jagāma ha .. 2 ..
नीराजनार्थं शम्भोश्च दीपपात्रकरा सती ॥ सर्वर्षिस्त्रीगणैस्साकमगच्छद्द्वारमादरात् ॥ ३ ॥
नीराजन-अर्थम् शम्भोः च दीप-पात्र-करा सती ॥ सर्व-ऋषि-स्त्री-गणैः साकम् अगच्छत् द्वारम् आदरात् ॥ ३ ॥
nīrājana-artham śambhoḥ ca dīpa-pātra-karā satī .. sarva-ṛṣi-strī-gaṇaiḥ sākam agacchat dvāram ādarāt .. 3 ..
तत्रागतं महेशानं शंकरं गिरिजावरम् ॥ ददर्श प्रीतितो मेना सेवितं सकलैस्सुरैः ॥ ४॥
तत्र आगतम् महेशानम् शंकरम् गिरिजा-वरम् ॥ ददर्श प्रीतितः मेना सेवितम् सकलैः सुरैः ॥ ४॥
tatra āgatam maheśānam śaṃkaram girijā-varam .. dadarśa prītitaḥ menā sevitam sakalaiḥ suraiḥ .. 4..
चारुचंपकवर्णाभं ह्येकवक्त्रं त्रिलोचनम्॥ ईषद्धास्यप्रसन्नास्यं रत्नस्वर्णादिभूषितम् ॥ ५॥
चारु-चंपक-वर्ण-आभम् हि एक-वक्त्रम् त्रि-लोचनम्॥ ईषत् हास्य-प्रसन्न-आस्यम् रत्न-स्वर्ण-आदि-भूषितम् ॥ ५॥
cāru-caṃpaka-varṇa-ābham hi eka-vaktram tri-locanam.. īṣat hāsya-prasanna-āsyam ratna-svarṇa-ādi-bhūṣitam .. 5..
मालतीमालया युक्तं सद्रत्नमुकुटोज्ज्वलम् ॥ सत्कंठाभरणं चारुवलयांगदभूषितम् ॥ ६॥
मालती-मालया युक्तम् सत्-रत्न-मुकुट-उज्ज्वलम् ॥ चारु-वलय-अंगद-भूषितम् ॥ ६॥
mālatī-mālayā yuktam sat-ratna-mukuṭa-ujjvalam .. cāru-valaya-aṃgada-bhūṣitam .. 6..
वह्निशौचेनातुलेन त्वतिसूक्ष्मेण चारुणा ॥ अमूल्यवस्त्रयुग्मेन विचित्रेणातिराजितम् ॥ ७॥
वह्नि-शौचेन अतुलेन तु अति सूक्ष्मेण चारुणा ॥ अमूल्य-वस्त्र-युग्मेन विचित्रेण अति राजितम् ॥ ७॥
vahni-śaucena atulena tu ati sūkṣmeṇa cāruṇā .. amūlya-vastra-yugmena vicitreṇa ati rājitam .. 7..
चन्दनागरुकस्तूरीचारुकुंकुम भूषितम् ॥ रत्नदर्पणहस्तं च कज्जलोज्ज्वललोचनम् ॥ ८॥
चन्दन-अगरु-कस्तूरी-चारु-कुंकुम-भूषितम् ॥ रत्न-दर्पण-हस्तम् च कज्जल-उज्ज्वल-लोचनम् ॥ ८॥
candana-agaru-kastūrī-cāru-kuṃkuma-bhūṣitam .. ratna-darpaṇa-hastam ca kajjala-ujjvala-locanam .. 8..
सर्वस्वप्रभयाच्छन्नमतीवसुमनोहरम् ॥ अतीव तरुणं रम्यं भूषितांगैश्च भूषितम् ॥ ९॥
सर्व-स्व-प्रभया आच्छन्नम् अतीव सु मनोहरम् ॥ अतीव तरुणम् रम्यम् भूषित-अंगैः च भूषितम् ॥ ९॥
sarva-sva-prabhayā ācchannam atīva su manoharam .. atīva taruṇam ramyam bhūṣita-aṃgaiḥ ca bhūṣitam .. 9..
कामिनीकांतमव्यग्रं कोटिचन्द्राननांबुजम् ॥ कोटिस्मराधिकतनुच्छविं सर्वांगसुंदरम् ॥ 2.3.46.१०॥
कामिनी-कान्तम् अव्यग्रम् कोटि-चन्द्र-आनन-अम्बुजम् ॥ कोटिस्मर-अधिक-तनु-छविम् सर्व-अंग-सुंदरम् ॥ २।३।४६।१०॥
kāminī-kāntam avyagram koṭi-candra-ānana-ambujam .. koṭismara-adhika-tanu-chavim sarva-aṃga-suṃdaram .. 2.3.46.10..
ईदृग्विधं सुदेवं तं स्थितं स्वपुरतः प्रभुम् ॥ दृष्ट्वा जामातरं मेना जहौ शोकम्मुदाऽन्विता ॥ ११ ॥
ईदृग्विधम् सुदेवम् तम् स्थितम् स्व-पुरतस् प्रभुम् ॥ दृष्ट्वा जामातरम् मेना जहौ शोकम् मुदा अन्विता ॥ ११ ॥
īdṛgvidham sudevam tam sthitam sva-puratas prabhum .. dṛṣṭvā jāmātaram menā jahau śokam mudā anvitā .. 11 ..
प्रशशंस स्वभाग्यं सा गिरिजां भूधरं कुलम् ॥ मेने कृतार्थमात्मानं जहर्ष च पुनः पुनः ॥ १२ ॥
प्रशशंस स्वभाग्यम् सा गिरिजाम् भूधरम् कुलम् ॥ मेने कृतार्थम् आत्मानम् जहर्ष च पुनर् पुनर् ॥ १२ ॥
praśaśaṃsa svabhāgyam sā girijām bhūdharam kulam .. mene kṛtārtham ātmānam jaharṣa ca punar punar .. 12 ..
नीराजनं चकारासौ प्रफुल्लवदना सती ॥ अवलोकपरा तत्र मेना जामातरं मुदा ॥ १३ ॥
नीराजनम् चकार असौ प्रफुल्ल-वदना सती ॥ अवलोक-परा तत्र मेना जामातरम् मुदा ॥ १३ ॥
nīrājanam cakāra asau praphulla-vadanā satī .. avaloka-parā tatra menā jāmātaram mudā .. 13 ..
गिरिजोक्तमनुस्मृत्य मेना विस्मयमागता ॥ मनसैव ह्युवाचेदं हर्षफुल्लाननाम्बुजा ॥ १४ ॥
गिरिजा-उक्तम् अनुस्मृत्य मेना विस्मयम् आगता ॥ मनसा एव हि उवाच इदम् हर्ष-फुल्ल-आनन-अम्बुजा ॥ १४ ॥
girijā-uktam anusmṛtya menā vismayam āgatā .. manasā eva hi uvāca idam harṣa-phulla-ānana-ambujā .. 14 ..
यद्वै पुरोक्तं च तया पार्वत्या मम तत्र च ॥ ततोधिकं प्रपश्यामि सौन्दर्य्यं परमेशितुः ॥ १५ ॥
यत् वै पुरा उक्तम् च तया पार्वत्या मम तत्र च ॥ ततस् अधिकम् प्रपश्यामि सौन्दर्य्यम् परमेशितुः ॥ १५ ॥
yat vai purā uktam ca tayā pārvatyā mama tatra ca .. tatas adhikam prapaśyāmi saundaryyam parameśituḥ .. 15 ..
महेशस्य सुलावण्यमनिर्वाच्यं च संप्रति ॥ एवं विस्मयमापन्ना मेना स्वगृहमाययौ ॥ १६॥
महेशस्य सु लावण्यम् अनिर्वाच्यम् च संप्रति ॥ एवम् विस्मयम् आपन्ना मेना स्व-गृहम् आययौ ॥ १६॥
maheśasya su lāvaṇyam anirvācyam ca saṃprati .. evam vismayam āpannā menā sva-gṛham āyayau .. 16..
प्रशशंसुर्युवतयो धन्या धन्या गिरेः सुता ॥ दुर्गा भगवतीत्येवमूचुः काश्चन कन्यकाः॥ १७॥
प्रशशंसुः युवतयः धन्याः धन्या गिरेः सुता ॥ दुर्गा भगवती इति एवम् ऊचुः काश्चन कन्यकाः॥ १७॥
praśaśaṃsuḥ yuvatayaḥ dhanyāḥ dhanyā gireḥ sutā .. durgā bhagavatī iti evam ūcuḥ kāścana kanyakāḥ.. 17..
न दृष्टो वर इत्येवमस्माभिर्द्दानगोचरः ॥ धन्या हि गिरिजा देवीमूचुः काश्चन कन्यकाः ॥ १८॥
न दृष्टः वरः इति एवम् अस्माभिः द्दान-गोचरः ॥ धन्याः हि गिरिजाः देवीम् ऊचुः काश्चन कन्यकाः ॥ १८॥
na dṛṣṭaḥ varaḥ iti evam asmābhiḥ ddāna-gocaraḥ .. dhanyāḥ hi girijāḥ devīm ūcuḥ kāścana kanyakāḥ .. 18..
जगुर्गन्धर्व्वप्रवरा ननृतुश्चाप्सरोगणाः ॥ दृष्ट्वा शंकररूपं च प्रहृष्टास्सर्वदेवताः॥ १९॥
जगुः गन्धर्व-प्रवराः ननृतुः च अप्सरः-गणाः ॥ दृष्ट्वा शंकर-रूपम् च प्रहृष्टाः सर्व-देवताः॥ १९॥
jaguḥ gandharva-pravarāḥ nanṛtuḥ ca apsaraḥ-gaṇāḥ .. dṛṣṭvā śaṃkara-rūpam ca prahṛṣṭāḥ sarva-devatāḥ.. 19..
नानाप्रकारवाद्यानि वादका मधुराक्षरम् ॥ नानाप्रकारशिल्पेन वादयामासुरादरात् ॥ 2.3.46.२०॥
नाना प्रकार-वाद्यानि वादकाः मधुर-अक्षरम् ॥ नाना प्रकार-शिल्पेन वादयामासुः आदरात् ॥ २।३।४६।२०॥
nānā prakāra-vādyāni vādakāḥ madhura-akṣaram .. nānā prakāra-śilpena vādayāmāsuḥ ādarāt .. 2.3.46.20..
हिमाचलोऽपि मुदितो द्वाराचारमथाकरोत् ॥ मेनापि सर्वनारीभिर्महोत्सवपुरस्सरम् ॥ २१॥
हिमाचलः अपि मुदितः द्वार-आचारम् अथ अकरोत् ॥ मेना अपि सर्व-नारीभिः महा-उत्सव-पुरस्सरम् ॥ २१॥
himācalaḥ api muditaḥ dvāra-ācāram atha akarot .. menā api sarva-nārībhiḥ mahā-utsava-purassaram .. 21..
परपुच्छां चकारासौ मुदिता स्वगृहं ययौ ॥ शिवो निवेदितं स्थानं जगाम गणनिर्जरैः ॥ २२॥
पर-पुच्छाम् चकार असौ मुदिता स्व-गृहम् ययौ ॥ शिवः निवेदितम् स्थानम् जगाम गण-निर्जरैः ॥ २२॥
para-pucchām cakāra asau muditā sva-gṛham yayau .. śivaḥ niveditam sthānam jagāma gaṇa-nirjaraiḥ .. 22..
एतस्मिन्नन्तरे दुर्गां शैलान्तःपुरचारिका ॥ बहिर्जग्मुस्समादाय पूजितुं कुलदेवताम् ॥ २३ ॥
एतस्मिन् अन्तरे दुर्गाम् शैल-अन्तःपुर-चारिका ॥ बहिस् जग्मुः समादाय पूजितुम् कुलदेवताम् ॥ २३ ॥
etasmin antare durgām śaila-antaḥpura-cārikā .. bahis jagmuḥ samādāya pūjitum kuladevatām .. 23 ..
तत्र तां ददृशुर्देवा निमेषरहिता मुदा ॥ सुनीलांजनवर्णाभां स्वांगैश्च प्रतिभूषिताम्। ॥ २४॥
तत्र ताम् ददृशुः देवाः निमेष-रहिताः मुदा ॥ सु नील-अंजन-वर्ण-आभाम् स्व-अंगैः च प्रतिभूषिताम्। ॥ २४॥
tatra tām dadṛśuḥ devāḥ nimeṣa-rahitāḥ mudā .. su nīla-aṃjana-varṇa-ābhām sva-aṃgaiḥ ca pratibhūṣitām. .. 24..
त्रिनेत्रादृतनेत्रांतामन्यवारितलोचनाम् ॥ ईषद्धास्यप्रसन्नास्यां सकटाक्षां मनोहराम् ॥ २५ ॥
त्रिनेत्र-आदृत-नेत्रांताम् अन्य-वारित-लोचनाम् ॥ ईषत् हास्य-प्रसन्न-आस्याम् स कटाक्षाम् मनोहराम् ॥ २५ ॥
trinetra-ādṛta-netrāṃtām anya-vārita-locanām .. īṣat hāsya-prasanna-āsyām sa kaṭākṣām manoharām .. 25 ..
सुचारुकबरीभारां चारुपत्रक शोभिताम् ॥ कस्तूरीबिन्दुभिस्सार्द्धं सिन्दूरबिन्दुशोभिताम् ॥ २६॥
सु चारु-कबरी-भाराम् चारु-पत्रक शोभिताम् ॥ कस्तूरी-बिन्दुभिः सार्द्धम् सिन्दूर-बिन्दु-शोभिताम् ॥ २६॥
su cāru-kabarī-bhārām cāru-patraka śobhitām .. kastūrī-bindubhiḥ sārddham sindūra-bindu-śobhitām .. 26..
रत्नेन्द्रसारहारेण वक्षसा सुविराजिताम् ॥ रत्नकेयूरवलयां रत्नकङ्कणमंडिताम् ॥ २७ ॥
रत्न-इन्द्र-सार-हारेण वक्षसा सु विराजिताम् ॥ रत्न-केयूर-वलयाम् रत्न-कङ्कण-मंडिताम् ॥ २७ ॥
ratna-indra-sāra-hāreṇa vakṣasā su virājitām .. ratna-keyūra-valayām ratna-kaṅkaṇa-maṃḍitām .. 27 ..
सद्रत्नकुण्डलाभ्यां च चारुगण्डस्थलोज्ज्वलाम् ॥ मणिरत्नप्रभामुष्टिदन्तराजिविराजिताम् ॥ २८॥
सत्-रत्न-कुण्डलाभ्याम् च चारु-गण्ड-स्थल-उज्ज्वलाम् ॥ मणि-रत्न-प्रभा-मुष्टि-दन्त-राजि-विराजिताम् ॥ २८॥
sat-ratna-kuṇḍalābhyām ca cāru-gaṇḍa-sthala-ujjvalām .. maṇi-ratna-prabhā-muṣṭi-danta-rāji-virājitām .. 28..
मधुबिम्बाधरोष्ठां च रत्नयावकसंयुताम् ॥ रत्नदर्प्पणहस्तां च क्रीडापद्मविभूषिताम् ॥ २९ ॥
मधु-बिम्ब-अधर-उष्ठाम् च रत्न-यावक-संयुताम् ॥ रत्न-दर्प्पण-हस्ताम् च क्रीडा-पद्म-विभूषिताम् ॥ २९ ॥
madhu-bimba-adhara-uṣṭhām ca ratna-yāvaka-saṃyutām .. ratna-darppaṇa-hastām ca krīḍā-padma-vibhūṣitām .. 29 ..
चन्दनागुरुकस्तूरीकुंकुमेनाति च र्चिताम् ॥ क्वणन्मंजीरपादां च रक्तांघ्रितलराजिताम् ॥ 2.3.46.३० ॥
चन्दन-अगुरु-कस्तूरी-कुंकुमेन अति च र्चिताम् ॥ क्वणत्-मंजीर-पादाम् च रक्त-अंघ्रि-तल-राजिताम् ॥ २।३।४६।३० ॥
candana-aguru-kastūrī-kuṃkumena ati ca rcitām .. kvaṇat-maṃjīra-pādām ca rakta-aṃghri-tala-rājitām .. 2.3.46.30 ..
प्रणेमुश्शिरसा देवीं भक्तियुक्ताः समेनकाम् ॥ सर्वे सुरादयो दृष्ट्वा जगदाद्यां जगत्प्रसूम् ॥ ३१ ॥
प्रणेमुः शिरसा देवीम् भक्ति-युक्ताः स मेनकाम् ॥ सर्वे सुर-आदयः दृष्ट्वा जगत्-आद्याम् जगत्प्रसूम् ॥ ३१ ॥
praṇemuḥ śirasā devīm bhakti-yuktāḥ sa menakām .. sarve sura-ādayaḥ dṛṣṭvā jagat-ādyām jagatprasūm .. 31 ..
त्रिनेत्रो नेत्रकोणेन तां ददर्श मुदान्वितः ॥ शिवः सत्याकृतिं दृष्ट्वा विजहौ विरहज्वरम् ॥ ३२ ॥
त्रिनेत्रः नेत्र-कोणेन ताम् ददर्श मुदा अन्वितः ॥ शिवः सत्य-आकृतिम् दृष्ट्वा विजहौ विरह-ज्वरम् ॥ ३२ ॥
trinetraḥ netra-koṇena tām dadarśa mudā anvitaḥ .. śivaḥ satya-ākṛtim dṛṣṭvā vijahau viraha-jvaram .. 32 ..
शिवस्सर्वं विसस्मार शिवासंन्यस्तलोचनः ॥ पुलकांचितसर्वाङ्गो हर्षाद्गौरीविलोचनः ॥ ३३॥
शिवः सर्वम् विसस्मार शिवा-संन्यस्त-लोचनः ॥ पुलक-अंचित-सर्व-अङ्गः हर्षात् गौरी-विलोचनः ॥ ३३॥
śivaḥ sarvam visasmāra śivā-saṃnyasta-locanaḥ .. pulaka-aṃcita-sarva-aṅgaḥ harṣāt gaurī-vilocanaḥ .. 33..
अथ कालीबहिः पुर्य्यां गत्वा पूज्य कुलाम्बिकाम् ॥ विवेश भवनं रम्यं स्वपितुस्सद्विजाङ्गना ॥ ३४॥
अथ काली-बहिस् पुर्य्याम् गत्वा पूज्य कुल-अम्बिकाम् ॥ विवेश भवनम् रम्यम् स्व-पितुः स द्विज-अङ्गना ॥ ३४॥
atha kālī-bahis puryyām gatvā pūjya kula-ambikām .. viveśa bhavanam ramyam sva-pituḥ sa dvija-aṅganā .. 34..
शङ्करोपि सुरैस्सार्द्धं हरिणा ब्राह्मणा तथा ॥ हिमाचलसमुद्दिष्टं स्वस्थानमगमन्मुदा ॥ ३५॥
शङ्करः उपि सुरैः सार्द्धम् हरिणा ब्राह्मणा तथा ॥ हिमाचल-समुद्दिष्टम् स्व-स्थानम् अगमत् मुदा ॥ ३५॥
śaṅkaraḥ upi suraiḥ sārddham hariṇā brāhmaṇā tathā .. himācala-samuddiṣṭam sva-sthānam agamat mudā .. 35..
तत्र सर्वे सुखं तस्थुस्सेवन्तश्शङ्करं यथा ॥ सम्मानिता गिरीशेन नानाविधसुसम्पदा ॥ ३६ ॥
तत्र सर्वे सुखम् तस्थुः सेवन्तः शङ्करम् यथा ॥ सम्मानिताः गिरीशेन नानाविध-सु सम्पदा ॥ ३६ ॥
tatra sarve sukham tasthuḥ sevantaḥ śaṅkaram yathā .. sammānitāḥ girīśena nānāvidha-su sampadā .. 36 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरागमादिवर्णनं नाम षट्चत्शरिंशोऽध्यायः ॥ ४६॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे वरागमादिवर्णनम् नाम षट्चत्शरिंशः अध्यायः ॥ ४६॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe varāgamādivarṇanam nāma ṣaṭcatśariṃśaḥ adhyāyaḥ .. 46..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In