| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
ततः शैलवरः सोपि प्रीत्या दुर्गोपवीतकम् ॥ कारयामास सोत्साहं वेदमन्त्रैश्शिवस्य च ॥ १॥
ततस् शैलवरः सः अपि प्रीत्या दुर्ग-उपवीतकम् ॥ कारयामास स उत्साहम् वेद-मन्त्रैः शिवस्य च ॥ १॥
tatas śailavaraḥ saḥ api prītyā durga-upavītakam .. kārayāmāsa sa utsāham veda-mantraiḥ śivasya ca .. 1..
अथ विष्ण्वादयो देवा मुनयस्सकुतू हलम् ॥ हिमाचलप्रार्थनया विवेशान्तर्गृहं गिरेः॥ २॥
अथ विष्णु-आदयः देवाः मुनयः स कुतू हलम् ॥ हिमाचल-प्रार्थनया विवेश अन्तर्गृहम् गिरेः॥ २॥
atha viṣṇu-ādayaḥ devāḥ munayaḥ sa kutū halam .. himācala-prārthanayā viveśa antargṛham gireḥ.. 2..
श्रुत्याचारं भवाचारं विधाय च यथार्थतः ॥ शिवामलंकृतां चक्रुश्शिवदत्तविभूषणैः ॥ ३ ॥
श्रुति-आचारम् भव-आचारम् विधाय च यथार्थतः ॥ शिवाम् अलंकृताम् चक्रुः शिव-दत्त-विभूषणैः ॥ ३ ॥
śruti-ācāram bhava-ācāram vidhāya ca yathārthataḥ .. śivām alaṃkṛtām cakruḥ śiva-datta-vibhūṣaṇaiḥ .. 3 ..
प्रथमं स्नापयित्वा तां भूषयित्वाथ सर्वशः ॥ नीराजिता सखीभिश्च विप्रपत्नीभिरेव च ॥ ४ ॥
प्रथमम् स्नापयित्वा ताम् भूषयित्वा अथ सर्वशस् ॥ नीराजिता सखीभिः च विप्र-पत्नीभिः एव च ॥ ४ ॥
prathamam snāpayitvā tām bhūṣayitvā atha sarvaśas .. nīrājitā sakhībhiḥ ca vipra-patnībhiḥ eva ca .. 4 ..
अहताम्बरयुग्मेन शोभिता वरवर्णिनी ॥ विरराज महाशैलदुहिता शङ्करप्रिया ॥ ५॥
अहत-अम्बर-युग्मेन शोभिता वरवर्णिनी ॥ विरराज महाशैल-दुहिता शङ्करप्रिया ॥ ५॥
ahata-ambara-yugmena śobhitā varavarṇinī .. virarāja mahāśaila-duhitā śaṅkarapriyā .. 5..
कंचुकी परमा दिव्या नानारत्नान्विताद्भुता ॥ विधृता च तया देव्या विलसन्त्याधिकं मुने ॥ ६॥
कंचुकी परमा दिव्या नाना रत्न-अन्विता अद्भुता ॥ विधृता च तया देव्या विलसन्त्या अधिकम् मुने ॥ ६॥
kaṃcukī paramā divyā nānā ratna-anvitā adbhutā .. vidhṛtā ca tayā devyā vilasantyā adhikam mune .. 6..
सा बभार तथा हारं दिव्यरत्नसमन्वितम् ॥ वलयानि महार्हाणि शुद्धचामीकराणि च ॥ ७ ॥
सा बभार तथा हारम् दिव्य-रत्न-समन्वितम् ॥ वलयानि महार्हाणि शुद्ध-चामीकराणि च ॥ ७ ॥
sā babhāra tathā hāram divya-ratna-samanvitam .. valayāni mahārhāṇi śuddha-cāmīkarāṇi ca .. 7 ..
स्थिता तत्रैव सुभगा ध्यायन्ती मनसा शिवम् ॥ शुशुभेति महाशैलकन्यका त्रिजगत्प्रसूः ॥ ८॥
स्थिता तत्र एव सुभगा ध्यायन्ती मनसा शिवम् ॥ शुशुभ इति महाशैल-कन्यका त्रिजगत्प्रसूः ॥ ८॥
sthitā tatra eva subhagā dhyāyantī manasā śivam .. śuśubha iti mahāśaila-kanyakā trijagatprasūḥ .. 8..
तदोत्सवो महानासीदुभयत्र मुदा वहः ॥ दानं बभूव विविधं ब्राह्मणेभ्यो विवर्णितम् ॥ ९॥
तदा उत्सवः महान् आसीत् उभयत्र मुदा वहः ॥ दानम् बभूव विविधम् ब्राह्मणेभ्यः विवर्णितम् ॥ ९॥
tadā utsavaḥ mahān āsīt ubhayatra mudā vahaḥ .. dānam babhūva vividham brāhmaṇebhyaḥ vivarṇitam .. 9..
अन्येषां द्रव्यदानं च बभूव विविधम्महत् ॥ गीतवाद्यविनोदश्च तत्रोत्सवपुरस्सरम् ॥ 2.3.47.१० ॥
अन्येषाम् द्रव्य-दानम् च बभूव विविधम् महत् ॥ गीत-वाद्य-विनोदः च तत्र उत्सव-पुरस्सरम् ॥ २।३।४७।१० ॥
anyeṣām dravya-dānam ca babhūva vividham mahat .. gīta-vādya-vinodaḥ ca tatra utsava-purassaram .. 2.3.47.10 ..
अथ विष्णुरहं धाता शक्राद्या अमरास्तथा ॥ मुनयश्च महाप्रीत्या निखिलास्सोत्सवा मुदा ॥ ११ ॥
अथ विष्णुः अहम् धाता शक्र-आद्याः अमराः तथा ॥ मुनयः च महा-प्रीत्या निखिलाः स उत्सवाः मुदा ॥ ११ ॥
atha viṣṇuḥ aham dhātā śakra-ādyāḥ amarāḥ tathā .. munayaḥ ca mahā-prītyā nikhilāḥ sa utsavāḥ mudā .. 11 ..
सुप्रणम्य शिवां भक्त्या स्मृत्वा शिवपदाम्बुजम् ॥ सम्प्राप्य हिमगिर्य्याज्ञां स्वं स्वं स्थाने समाश्रिताः ॥ १२॥
सु प्रणम्य शिवाम् भक्त्या स्मृत्वा शिव-पद-अम्बुजम् ॥ सम्प्राप्य हिमगिरि-आज्ञाम् स्वम् स्वम् स्थाने समाश्रिताः ॥ १२॥
su praṇamya śivām bhaktyā smṛtvā śiva-pada-ambujam .. samprāpya himagiri-ājñām svam svam sthāne samāśritāḥ .. 12..
एतस्मिन्नन्तरे तत्र ज्योतिःशास्त्र विशारदः ॥ हिमवन्तं गिरीन्द्रं तं गर्गो वाक्यमभाषत ॥ १३॥
एतस्मिन् अन्तरे तत्र ज्योतिःशास्त्र-विशारदः ॥ हिमवन्तम् गिरि-इन्द्रम् तम् गर्गः वाक्यम् अभाषत ॥ १३॥
etasmin antare tatra jyotiḥśāstra-viśāradaḥ .. himavantam giri-indram tam gargaḥ vākyam abhāṣata .. 13..
।। गर्ग उवाच ।।
हिमाचल धराधीश स्वामिन् कालीपतिः प्रभो ॥ पाणिग्रहार्थं शंभुं चानय त्वं निजमंदिरम् ॥ १४॥
हिमाचल धरा-अधीश स्वामिन् कालीपतिः प्रभो ॥ पाणिग्रह-अर्थम् शंभुम् च आनय त्वम् निज-मंदिरम् ॥ १४॥
himācala dharā-adhīśa svāmin kālīpatiḥ prabho .. pāṇigraha-artham śaṃbhum ca ānaya tvam nija-maṃdiram .. 14..
।। ब्रह्मोवाच ।।
अथ तं समयं ज्ञात्वा कन्यादानोचितं गिरिः ॥ निवेदितं च गर्गेण मुसुदेऽतीव चेतसि ॥ १५॥
अथ तम् समयम् ज्ञात्वा कन्या-दान-उचितम् गिरिः ॥ निवेदितम् च गर्गेण मुसुदे अतीव चेतसि ॥ १५॥
atha tam samayam jñātvā kanyā-dāna-ucitam giriḥ .. niveditam ca gargeṇa musude atīva cetasi .. 15..
महीधरान्द्विजांश्चैव परानपि तदा गिरिः ॥ प्रेषयामास सुप्रीत्या शिवानयनकाम्यया ॥ १६ ॥
महीधरान् द्विजान् च एव परान् अपि तदा गिरिः ॥ प्रेषयामास सु प्रीत्या शिवा-नयन-काम्यया ॥ १६ ॥
mahīdharān dvijān ca eva parān api tadā giriḥ .. preṣayāmāsa su prītyā śivā-nayana-kāmyayā .. 16 ..
ते पर्वता द्विजाश्चैव सर्वमंगलपाणयः ॥ संजग्मुस्सोत्सवाः प्रीत्या यत्र देवो महेश्वरः ॥ १७॥
ते पर्वताः द्विजाः च एव सर्व-मंगल-पाणयः ॥ संजग्मुः स उत्सवाः प्रीत्या यत्र देवः महेश्वरः ॥ १७॥
te parvatāḥ dvijāḥ ca eva sarva-maṃgala-pāṇayaḥ .. saṃjagmuḥ sa utsavāḥ prītyā yatra devaḥ maheśvaraḥ .. 17..
तदा वादित्रघोषेण ब्रह्मघोषेण भूयसा ॥ महोत्साहोऽभवत्तत्र गीतनृत्यान्वितेन हि ॥ १८॥
तदा वादित्र-घोषेण ब्रह्मघोषेण भूयसा ॥ महा-उत्साहः अभवत् तत्र गीत-नृत्य-अन्वितेन हि ॥ १८॥
tadā vāditra-ghoṣeṇa brahmaghoṣeṇa bhūyasā .. mahā-utsāhaḥ abhavat tatra gīta-nṛtya-anvitena hi .. 18..
श्रुत्वा वादित्रनिर्घोषं सर्वे शंकरसेवकाः ॥ उत्थितास्त्वैकपद्येन सदेवर्षिगणा मुदा ॥ १९॥
श्रुत्वा वादित्र-निर्घोषम् सर्वे शंकर-सेवकाः ॥ उत्थिताः तु ऐकपद्येन स देवर्षि-गणाः मुदा ॥ १९॥
śrutvā vāditra-nirghoṣam sarve śaṃkara-sevakāḥ .. utthitāḥ tu aikapadyena sa devarṣi-gaṇāḥ mudā .. 19..
परस्परं समूचुस्ते हर्षनिर्भरमानसाः ॥ अत्रागच्छंति गिरयश्शिवानयनकाम्यया ॥ 2.3.47.२०॥
परस्परम् समूचुः ते हर्ष-निर्भर-मानसाः ॥ अत्र आगच्छन्ति गिरयः शिव-आनयन-काम्यया ॥ २।३।४७।२०॥
parasparam samūcuḥ te harṣa-nirbhara-mānasāḥ .. atra āgacchanti girayaḥ śiva-ānayana-kāmyayā .. 2.3.47.20..
पाणिग्रहणकालो हि नूनं सद्यस्समागतः ॥ महद्भाग्यं हि सर्वेषां संप्राप्तमहि मन्महे ॥ २१॥
पाणिग्रहण-कालः हि नूनम् सद्यस् समागतः ॥ महत् भाग्यम् हि सर्वेषाम् संप्राप्तम् अहि मन्महे ॥ २१॥
pāṇigrahaṇa-kālaḥ hi nūnam sadyas samāgataḥ .. mahat bhāgyam hi sarveṣām saṃprāptam ahi manmahe .. 21..
धन्या वयं विशेषेण विवाहं शिवयोर्ध्रुवम्॥ द्रक्ष्यामः परमप्रीत्या जगतां मंगलालयम् ॥ २२॥
धन्याः वयम् विशेषेण विवाहम् शिवयोः ध्रुवम्॥ द्रक्ष्यामः परम-प्रीत्या जगताम् मंगल-आलयम् ॥ २२॥
dhanyāḥ vayam viśeṣeṇa vivāham śivayoḥ dhruvam.. drakṣyāmaḥ parama-prītyā jagatām maṃgala-ālayam .. 22..
ब्रह्मोवाच ।।
एवं यावदभूत्तेषां संवादस्तत्र चादरात् ॥ तावत्सर्वे समायाताः पर्वतेंद्रस्य मंत्रिणः ॥ २३ ॥
एवम् यावत् अभूत् तेषाम् संवादः तत्र च आदरात् ॥ तावत् सर्वे समायाताः पर्वत-इंद्रस्य मंत्रिणः ॥ २३ ॥
evam yāvat abhūt teṣām saṃvādaḥ tatra ca ādarāt .. tāvat sarve samāyātāḥ parvata-iṃdrasya maṃtriṇaḥ .. 23 ..
ते गत्वा प्रार्थयांचक्रुश्शिव विष्ण्वादिकानपि ॥ कन्यादानोचितः कालो वर्तते गम्यतामिति ॥ २४ ॥
ते गत्वा प्रार्थयांचक्रुः शिव विष्णु-आदिकान् अपि ॥ कन्या-दान-उचितः कालः वर्तते गम्यताम् इति ॥ २४ ॥
te gatvā prārthayāṃcakruḥ śiva viṣṇu-ādikān api .. kanyā-dāna-ucitaḥ kālaḥ vartate gamyatām iti .. 24 ..
ते तच्छ्रुत्वा सुरास्सर्वे मुने विष्ण्वादयोऽखिलाः ॥ मुमुदुश्चेतसातीव जयेत्यूचुर्गिरिं द्रुतम्॥ २५॥
ते तत् श्रुत्वा सुराः सर्वे मुने विष्णु-आदयः अखिलाः ॥ मुमुदुः चेतसा अतीव जय इति ऊचुः गिरिम् द्रुतम्॥ २५॥
te tat śrutvā surāḥ sarve mune viṣṇu-ādayaḥ akhilāḥ .. mumuduḥ cetasā atīva jaya iti ūcuḥ girim drutam.. 25..
शिवोऽपि मुमुदेऽतीव कालीप्रापणलालसः ॥ गुप्तं चकार तच्चिह्नं मनस्येवाद्भुताकृतिः ॥ २६॥
शिवः अपि मुमुदे अतीव काली-प्रापण-लालसः ॥ गुप्तम् चकार तत् चिह्नम् मनसि एव अद्भुत-आकृतिः ॥ २६॥
śivaḥ api mumude atīva kālī-prāpaṇa-lālasaḥ .. guptam cakāra tat cihnam manasi eva adbhuta-ākṛtiḥ .. 26..
अथ स्नानं कृतन्तेन मङ्गलद्रव्यसंयुतम् ॥ शूलिना सुप्रसन्नेन लोकानुग्रहकारिणा॥ २७॥
अथ स्नानम् मङ्गल-द्रव्य-संयुतम् ॥ शूलिना सु प्रसन्नेन लोक-अनुग्रह-कारिणा॥ २७॥
atha snānam maṅgala-dravya-saṃyutam .. śūlinā su prasannena loka-anugraha-kāriṇā.. 27..
स्नातस्सुवाससा युक्तस्सर्वैस्तैः परिवारितः ॥ आरोपितो वृषस्कन्धे लोकपालैस्सुसेवितः ॥ २८॥
स्नातः सु वाससा युक्तः सर्वैः तैः परिवारितः ॥ आरोपितः वृष-स्कन्धे लोकपालैः सु सेवितः ॥ २८॥
snātaḥ su vāsasā yuktaḥ sarvaiḥ taiḥ parivāritaḥ .. āropitaḥ vṛṣa-skandhe lokapālaiḥ su sevitaḥ .. 28..
पुरस्कृत्य प्रभुं सर्वे जग्मुर्हिमगिरेर्गृहम् ॥ वाद्यानि वादयन्तश्च कृतवन्तः कुतूहलम् ॥ २९ ॥
पुरस्कृत्य प्रभुम् सर्वे जग्मुः हिमगिरेः गृहम् ॥ वाद्यानि वादयन्तः च कृतवन्तः कुतूहलम् ॥ २९ ॥
puraskṛtya prabhum sarve jagmuḥ himagireḥ gṛham .. vādyāni vādayantaḥ ca kṛtavantaḥ kutūhalam .. 29 ..
हिमागप्रेषिता विप्रास्तथा ते पर्वतोत्तमाः ॥ शम्भोरग्रचरा ह्यासन्कुतूहलसमन्विताः ॥ 2.3.47.३०॥
हिमाग-प्रेषिताः विप्राः तथा ते पर्वत-उत्तमाः ॥ शम्भोः अग्रचराः हि आसन् कुतूहल-समन्विताः ॥ २।३।४७।३०॥
himāga-preṣitāḥ viprāḥ tathā te parvata-uttamāḥ .. śambhoḥ agracarāḥ hi āsan kutūhala-samanvitāḥ .. 2.3.47.30..
बभौ छत्रेण महता ध्रियमाणो हि मूर्द्धनि॥ चामरैर्वीज्यमानोऽसौ सविता नो महेश्वरः॥ ३१॥
बभौ छत्रेण महता ध्रियमाणः हि मूर्द्धनि॥ चामरैः वीज्यमानः असौ सविता नः महेश्वरः॥ ३१॥
babhau chatreṇa mahatā dhriyamāṇaḥ hi mūrddhani.. cāmaraiḥ vījyamānaḥ asau savitā naḥ maheśvaraḥ.. 31..
अहं विष्णुस्तथा चेन्द्रो लोकपाला स्तथैव च ॥ अग्रगाः स्मातिशोभन्ते श्रिया परमया श्रिताः ॥ ३२॥
अहम् विष्णुः तथा च इन्द्रः लोकपालाः तथा एव च ॥ अग्रगाः स्म अतिशोभन्ते श्रिया परमया श्रिताः ॥ ३२॥
aham viṣṇuḥ tathā ca indraḥ lokapālāḥ tathā eva ca .. agragāḥ sma atiśobhante śriyā paramayā śritāḥ .. 32..
ततश्शङ्खाश्च भेर्य्यश्च पटहानकगोमुखाः ॥ पुनः पुनरवाद्यन्त वादित्राणि महोत्सवे ॥ ३३॥
ततस् शङ्खाः च भेर्य्यः च पटह-आनक-गोमुखाः ॥ पुनर् पुनर् अवाद्यन्त वादित्राणि महा-उत्सवे ॥ ३३॥
tatas śaṅkhāḥ ca bheryyaḥ ca paṭaha-ānaka-gomukhāḥ .. punar punar avādyanta vāditrāṇi mahā-utsave .. 33..
तथैव गायकास्सर्वे जगुः परममङ्गलम्॥ नर्तक्यो ननृतुस्सर्वा नानातालसमन्विताः ॥ ३४॥
तथा एव गायकाः सर्वे जगुः परम-मङ्गलम्॥ नर्तक्यः ननृतुः सर्वाः नाना ताल-समन्विताः ॥ ३४॥
tathā eva gāyakāḥ sarve jaguḥ parama-maṅgalam.. nartakyaḥ nanṛtuḥ sarvāḥ nānā tāla-samanvitāḥ .. 34..
एभिस्समेतो जगदेकबन्धुर्ययौ तदानीं परमेशवर्चसा ॥ सुसेव्यमानस्सकलैस्सुरेश्वरैर्विकीर्यमाणः कुसुमैश्च हर्षितैः ॥ ३५॥
एभिः समेतः जगत्-एक-बन्धुः ययौ तदानीम् परमेश-वर्चसा ॥ सु सेव्यमानः सकलैः सुर-ईश्वरैः विकीर्यमाणः कुसुमैः च हर्षितैः ॥ ३५॥
ebhiḥ sametaḥ jagat-eka-bandhuḥ yayau tadānīm parameśa-varcasā .. su sevyamānaḥ sakalaiḥ sura-īśvaraiḥ vikīryamāṇaḥ kusumaiḥ ca harṣitaiḥ .. 35..
सम्पूजितस्तदा शम्भुः प्रविष्टो यज्ञमण्डपम्॥ संस्तूयमानो बह्वीभिः स्तुतिभिः परमेश्वरः॥ ३६॥
सम्पूजितः तदा शम्भुः प्रविष्टः यज्ञ-मण्डपम्॥ संस्तूयमानः बह्वीभिः स्तुतिभिः परमेश्वरः॥ ३६॥
sampūjitaḥ tadā śambhuḥ praviṣṭaḥ yajña-maṇḍapam.. saṃstūyamānaḥ bahvībhiḥ stutibhiḥ parameśvaraḥ.. 36..
वृषादुत्तारयामासुर्महेशम्पर्वतोत्तमाः॥ निन्युर्गृहान्तरम्प्रीत्या महोत्सवपुरस्सरम् ॥ ३७ ॥
वृषात् उत्तारयामासुः महेशम् पर्वत-उत्तमाः॥ निन्युः गृह-अन्तरम् प्रीत्या महा-उत्सव-पुरस्सरम् ॥ ३७ ॥
vṛṣāt uttārayāmāsuḥ maheśam parvata-uttamāḥ.. ninyuḥ gṛha-antaram prītyā mahā-utsava-purassaram .. 37 ..
हिमालयोऽपि सम्प्राप्तं सदेवगणमीश्वरम् ॥ प्रणम्य विधिवद्भक्त्या नीराजनमथाकरोत् ॥ ३८ ॥
हिमालयः अपि सम्प्राप्तम् स देव-गणम् ईश्वरम् ॥ प्रणम्य विधिवत् भक्त्या नीराजनम् अथा अकरोत् ॥ ३८ ॥
himālayaḥ api samprāptam sa deva-gaṇam īśvaram .. praṇamya vidhivat bhaktyā nīrājanam athā akarot .. 38 ..
सर्वान्सुरान्मुनीनन्यान्प्रणम्य समहोत्सवः ॥ सम्मानमकरोत्तेषां प्रशंसन्स्वविधिम्मुदा ॥ ३९॥
सर्वान् सुरान् मुनीन् अन्यान् प्रणम्य स महा-उत्सवः ॥ सम्मानम् अकरोत् तेषाम् प्रशंसन् स्व-विधिम् मुदा ॥ ३९॥
sarvān surān munīn anyān praṇamya sa mahā-utsavaḥ .. sammānam akarot teṣām praśaṃsan sva-vidhim mudā .. 39..
सोऽगस्साच्युतमीशानं सुपाद्यार्घ्यपुरस्सरम् ॥ सदेवमुख्यवर्गं च निनाय स्वालयान्तरम् ॥ 2.3.47.४० ॥
सः अगस्सा अच्युतम् ईशानम् सु पाद्य-अर्घ्य-पुरस्सरम् ॥ स देव-मुख्य-वर्गम् च निनाय स्व-आलय-अन्तरम् ॥ २।३।४७।४० ॥
saḥ agassā acyutam īśānam su pādya-arghya-purassaram .. sa deva-mukhya-vargam ca nināya sva-ālaya-antaram .. 2.3.47.40 ..
प्राङ्गणे स्थापयामास रत्नसिंहासनेषु तान् ॥ सर्वान्विष्णु च मामीशं विशिष्टांश्च विशेषतः ॥ ४१ ॥
प्राङ्गणे स्थापयामास रत्न-सिंहासनेषु तान् ॥ सर्वान् विष्णु च माम् ईशम् विशिष्टान् च विशेषतः ॥ ४१ ॥
prāṅgaṇe sthāpayāmāsa ratna-siṃhāsaneṣu tān .. sarvān viṣṇu ca mām īśam viśiṣṭān ca viśeṣataḥ .. 41 ..
सखीभिर्मेनया प्रीत्या ब्राह्मणस्त्रीभिरेव च ॥ अन्याभिश्च पुरन्धीभिश्चक्रे नीराजनम्मुदा ॥ ४२॥
सखीभिः मेनया प्रीत्या ब्राह्मण-स्त्रीभिः एव च ॥ अन्याभिः च पुरन्धीभिः चक्रे नीराजनम् मुदा ॥ ४२॥
sakhībhiḥ menayā prītyā brāhmaṇa-strībhiḥ eva ca .. anyābhiḥ ca purandhībhiḥ cakre nīrājanam mudā .. 42..
पुरोधसा कृत्यविदा शंकराय महात्मने ॥ मधुपर्कादिकं यद्यत्कृत्यं तत्तत्कृतं मुदा ॥ ४३॥
पुरोधसा कृत्य-विदा शंकराय महात्मने ॥ मधुपर्क-आदिकम् यत् यत् कृत्यम् तत् तत् कृतम् मुदा ॥ ४३॥
purodhasā kṛtya-vidā śaṃkarāya mahātmane .. madhuparka-ādikam yat yat kṛtyam tat tat kṛtam mudā .. 43..
मया स नोदितस्तत्र पुरोधाः कृतवाँस्तदा ॥ सुमंगलं च यत्कर्म प्रस्तावसदृशम्मुने ॥ ४४ ॥
मया स न उदितः तत्र पुरोधाः कृतवान् तदा ॥ सु मंगलम् च यत् कर्म प्रस्ताव-सदृशम् मुने ॥ ४४ ॥
mayā sa na uditaḥ tatra purodhāḥ kṛtavān tadā .. su maṃgalam ca yat karma prastāva-sadṛśam mune .. 44 ..
अन्तर्वेद्यां महाप्रीत्या सम्प्रविश्य हिमाद्रिणा ॥ यत्र सा पार्वती कन्या सर्वाभरणभूषिता ॥ ४५ ॥
अन्तर्वेद्याम् महा-प्रीत्या सम्प्रविश्य हिमाद्रिणा ॥ यत्र सा पार्वती कन्या सर्व-आभरण-भूषिता ॥ ४५ ॥
antarvedyām mahā-prītyā sampraviśya himādriṇā .. yatra sā pārvatī kanyā sarva-ābharaṇa-bhūṣitā .. 45 ..
वेदिकोपरि तन्वंगी संस्थिता सुविराजिता ॥ तत्र नीतो मद्दादेवो विष्णुना च मया सह ॥ ४६॥
वेदिका-उपरि तन्वंगी संस्थिता सु विराजिता ॥ तत्र नीतः मद्दादेवः विष्णुना च मया सह ॥ ४६॥
vedikā-upari tanvaṃgī saṃsthitā su virājitā .. tatra nītaḥ maddādevaḥ viṣṇunā ca mayā saha .. 46..
लग्नन्निरीक्षमाणास्ते वाचस्पतिपुरोगमाः ॥ कन्यादानोचितन्तत्र बभूवुः परमोत्सवाः ॥ ४७ ॥
वाचस्पति-पुरोगमाः ॥ कन्या-दान-उचितम् तत्र बभूवुः परम-उत्सवाः ॥ ४७ ॥
vācaspati-purogamāḥ .. kanyā-dāna-ucitam tatra babhūvuḥ parama-utsavāḥ .. 47 ..
तत्रोपविष्टो गर्गश्च यत्रास्ति घटिकालयम् ॥ यावच्छेषा घटी तावत्कृतम्प्रणवभाषणम्॥ ४८॥
तत्र उपविष्टः गर्गः च यत्र अस्ति घटिकालयम् ॥ यावत् शेषा घटी तावत् कृतम् प्रणव-भाषणम्॥ ४८॥
tatra upaviṣṭaḥ gargaḥ ca yatra asti ghaṭikālayam .. yāvat śeṣā ghaṭī tāvat kṛtam praṇava-bhāṣaṇam.. 48..
पुण्याहम्प्रवदन्गर्गस्समाध्रेऽञ्जलिम्मुदा॥ पार्व्वत्यक्षतपूर्णं च ववृषे च शिवोपरि ॥ ४९॥
पुण्याहम् प्रवदन् गर्गः समाध्रे अञ्जलिम् मुदा॥ पार्व्वती-अक्षत-पूर्णम् च ववृषे च शिव-उपरि ॥ ४९॥
puṇyāham pravadan gargaḥ samādhre añjalim mudā.. pārvvatī-akṣata-pūrṇam ca vavṛṣe ca śiva-upari .. 49..
तया सम्पूजितो रुद्रो दध्यक्षतकुशाम्बुभिः ॥ परमोदाढ्यया तत्र पार्वत्या रुचिरास्यया ॥ 2.3.47.५०॥
तया सम्पूजितः रुद्रः दधि-अक्षत-कुश-अम्बुभिः ॥ परम-उद-आढ्यया तत्र पार्वत्या रुचिर-आस्यया ॥ २।३।४७।५०॥
tayā sampūjitaḥ rudraḥ dadhi-akṣata-kuśa-ambubhiḥ .. parama-uda-āḍhyayā tatra pārvatyā rucira-āsyayā .. 2.3.47.50..
विलोकयन्ती तं शम्भुं यस्यार्थे परमन्तपः ॥ कृतम्पुरा महाप्रीत्या विरराज शिवाति सा ॥ ५१ ॥
विलोकयन्ती तम् शम्भुम् यस्य अर्थे पर-मन्तपः ॥ कृतम्पुरा महा-प्रीत्या विरराज शिवा अति सा ॥ ५१ ॥
vilokayantī tam śambhum yasya arthe para-mantapaḥ .. kṛtampurā mahā-prītyā virarāja śivā ati sā .. 51 ..
मया मुने तदोक्तस्तु गर्गादिमुनिभिश्च सः ॥ समानर्च शिवां शम्भुर्लौकिकाचारसंरतः॥ ५२॥
मया मुने तदा उक्तः तु गर्ग-आदि-मुनिभिः च सः ॥ समानर्च शिवाम् शम्भुः लौकिक-आचार-संरतः॥ ५२॥
mayā mune tadā uktaḥ tu garga-ādi-munibhiḥ ca saḥ .. samānarca śivām śambhuḥ laukika-ācāra-saṃrataḥ.. 52..
एवं परस्परं तौ वै पार्व्वतीपरमेश्वरौ॥ अर्चयन्तौ तदानीञ्च शुशुभाते जगन्मयौ॥ ५३॥
एवम् परस्परम् तौ वै पार्व्वती-परमेश्वरौ॥ अर्चयन्तौ तदानीम् च शुशुभाते जगत्-मयौ॥ ५३॥
evam parasparam tau vai pārvvatī-parameśvarau.. arcayantau tadānīm ca śuśubhāte jagat-mayau.. 53..
त्रैलोक्यलक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ॥ तदा नीराजितौ लक्ष्म्यादिभिस्स्त्रीभिर्विशेषतः । ५४ ॥
त्रैलोक्य-लक्ष्म्या संवीतौ निरीक्षन्तौ परस्परम् ॥ तदा नीराजितौ लक्ष्मी-आदिभिः स्त्रीभिः विशेषतः । ५४ ॥
trailokya-lakṣmyā saṃvītau nirīkṣantau parasparam .. tadā nīrājitau lakṣmī-ādibhiḥ strībhiḥ viśeṣataḥ . 54 ..
तथा परा वै द्विजयोषितश्च नीराजयामासुरथो पुरस्त्रियः ॥ शिवाञ्च शम्भुञ्च विलोकयन्त्योऽवापुर्म्मुदन्तास्सकला महोत्सवम् ॥ ५५॥
तथा पराः वै द्विज-योषितः च नीराजयामासुः अथो पुर-स्त्रियः ॥ शिवान् च शम्भुन् च विलोकयन्त्यः अवापुः म्मुदन्ताः सकलाः महा-उत्सवम् ॥ ५५॥
tathā parāḥ vai dvija-yoṣitaḥ ca nīrājayāmāsuḥ atho pura-striyaḥ .. śivān ca śambhun ca vilokayantyaḥ avāpuḥ mmudantāḥ sakalāḥ mahā-utsavam .. 55..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिव हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ॥ ४७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिव-हिमगिरिगृहाभ्यन्तरगमनोत्सववर्णनम् नाम सप्तचत्वारिंशः अध्यायः ॥ ४७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śiva-himagirigṛhābhyantaragamanotsavavarṇanam nāma saptacatvāriṃśaḥ adhyāyaḥ .. 47 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In