| |
|

This overlay will guide you through the buttons:

।।ब्रह्मोवाच ।।
एतस्मिन्नंतरे तत्र गर्गाचार्य्यप्रणोदितः ॥ हिमवान्मेनया सार्द्धं कन्या दातुं प्रचक्रमे ॥ १ ॥
एतस्मिन् अन्तरे तत्र गर्ग-आचार्य्य-प्रणोदितः ॥ हिमवान् मेनया सार्द्धम् कन्याः दातुम् प्रचक्रमे ॥ १ ॥
etasmin antare tatra garga-ācāryya-praṇoditaḥ .. himavān menayā sārddham kanyāḥ dātum pracakrame .. 1 ..
हैमं कलशमादाय मेना चार्द्धांगमाश्रिता ॥ हिमाद्रेश्च महाभागा वस्त्राभरणभूषिता ॥ २॥
हैमम् कलशम् आदाय मेना च अर्द्ध-अंगम् आश्रिता ॥ हिमाद्रेः च महाभागा वस्त्र-आभरण-भूषिता ॥ २॥
haimam kalaśam ādāya menā ca arddha-aṃgam āśritā .. himādreḥ ca mahābhāgā vastra-ābharaṇa-bhūṣitā .. 2..
पाद्यादिभिस्ततः शैलः प्रहृष्टः स्वपुरोहितः ॥ तं वंरं वरयामास वस्त्रचंदनभूषणैः ॥ ३॥
पाद्य-आदिभिः ततस् शैलः प्रहृष्टः स्व-पुरोहितः ॥ तम् वंरम् वरयामास वस्त्र-चंदन-भूषणैः ॥ ३॥
pādya-ādibhiḥ tatas śailaḥ prahṛṣṭaḥ sva-purohitaḥ .. tam vaṃram varayāmāsa vastra-caṃdana-bhūṣaṇaiḥ .. 3..
ततो हिमाद्रिणा प्रोक्ता द्विजास्तिथ्यादिकीर्तने॥ प्रयोगो भण्यतां तावदस्मिन्समय आगते ॥ ४॥
ततस् हिमाद्रिणा प्रोक्ताः द्विजाः तिथि-आदि-कीर्तने॥ प्रयोगः भण्यताम् तावत् अस्मिन् समये आगते ॥ ४॥
tatas himādriṇā proktāḥ dvijāḥ tithi-ādi-kīrtane.. prayogaḥ bhaṇyatām tāvat asmin samaye āgate .. 4..
तथेति चोक्त्वा ते सर्वे कालज्ञा द्विजसत्तमाः ॥ तिथ्यादिकीर्तनं चक्रुः प्रीत्या परमनिर्वृताः ॥ ५॥
तथा इति च उक्त्वा ते सर्वे काल-ज्ञाः द्विजसत्तमाः ॥ तिथि-आदि-कीर्तनम् चक्रुः प्रीत्या परम-निर्वृताः ॥ ५॥
tathā iti ca uktvā te sarve kāla-jñāḥ dvijasattamāḥ .. tithi-ādi-kīrtanam cakruḥ prītyā parama-nirvṛtāḥ .. 5..
ततो हिमाचलः प्रीत्या शम्भुना प्रेरितो हृदा ॥ सूती कृतः परेशेन विहसञ्शम्भुमब्रवीत् ॥ ६॥
ततस् हिमाचलः प्रीत्या शम्भुना प्रेरितः हृदा ॥ सूती कृतः परेशेन विहसन् शम्भुम् अब्रवीत् ॥ ६॥
tatas himācalaḥ prītyā śambhunā preritaḥ hṛdā .. sūtī kṛtaḥ pareśena vihasan śambhum abravīt .. 6..
स्वगोत्रं कथ्यतां शम्भो प्रवरश्च कुलं तथा॥ नाम वेदं तथा शाखां मा कार्षीत्समयात्ययम् ॥ ७॥
स्व-गोत्रम् कथ्यताम् शम्भो प्रवरः च कुलम् तथा॥ नाम वेदम् तथा शाखाम् मा कार्षीत् समया-अत्ययम् ॥ ७॥
sva-gotram kathyatām śambho pravaraḥ ca kulam tathā.. nāma vedam tathā śākhām mā kārṣīt samayā-atyayam .. 7..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य हिमाद्रेश्शङ्करस्तदा ॥ सुमुखाविमुखः सद्योऽप्यशोच्यः शोच्यतां गतः॥ ८॥
इति आकर्ण्य वचः तस्य हिमाद्रेः शङ्करः तदा ॥ सुमुख-अविमुखः सद्यस् अपि अशोच्यः शोच्य-ताम् गतः॥ ८॥
iti ākarṇya vacaḥ tasya himādreḥ śaṅkaraḥ tadā .. sumukha-avimukhaḥ sadyas api aśocyaḥ śocya-tām gataḥ.. 8..
एवंविधस्सुरवरैर्मुनिभिस्तदानीं गन्धर्वयक्षगणसिद्धगणैस्तथैव॥ दृष्टो निरुत्तरमुखो भगवान्महेशोऽकार्षीस्तु हास्यमथ तत्र स नारदत्वम्॥ ९॥
एवंविधः सुर-वरैः मुनिभिः तदानीम् गन्धर्व-यक्ष-गण-सिद्ध-गणैः तथा एव॥ दृष्टः निरुत्तर-मुखः भगवान् महेशः अकार्षीः तु हास्यम् अथ तत्र स नारद-त्वम्॥ ९॥
evaṃvidhaḥ sura-varaiḥ munibhiḥ tadānīm gandharva-yakṣa-gaṇa-siddha-gaṇaiḥ tathā eva.. dṛṣṭaḥ niruttara-mukhaḥ bhagavān maheśaḥ akārṣīḥ tu hāsyam atha tatra sa nārada-tvam.. 9..
वीणामवादयस्त्वं हि ब्रह्मविज्ञोऽथ नारद॥ शिवेन प्रेरितस्तत्र मनसा शम्भुमानसः॥ 2.3.48.१०॥
वीणाम् अवादयः त्वम् हि ब्रह्म-विज्ञः अथ नारद॥ शिवेन प्रेरितः तत्र मनसा शम्भु-मानसः॥ २।३।४८।१०॥
vīṇām avādayaḥ tvam hi brahma-vijñaḥ atha nārada.. śivena preritaḥ tatra manasā śambhu-mānasaḥ.. 2.3.48.10..
तदा निवारितो धीमान्पर्वतेन्द्रेण वै हठात् ॥ विष्णुना च मया देवैर्मुनिभिश्चाखिलैस्तथा॥ ११॥
तदा निवारितः धीमान् पर्वत-इन्द्रेण वै हठात् ॥ विष्णुना च मया देवैः मुनिभिः च अखिलैः तथा॥ ११॥
tadā nivāritaḥ dhīmān parvata-indreṇa vai haṭhāt .. viṣṇunā ca mayā devaiḥ munibhiḥ ca akhilaiḥ tathā.. 11..
न निवृत्तोऽभवस्त्वं हि स यदा शङ्करेच्छया ॥ इति प्रोक्तोऽद्रिणा तर्हि वीणां मा वादयाधुना ॥ १२॥
न निवृत्तः अभवः त्वम् हि स यदा शङ्कर-इच्छया ॥ इति प्रोक्तः अद्रिणा तर्हि वीणाम् मा वादय अधुना ॥ १२॥
na nivṛttaḥ abhavaḥ tvam hi sa yadā śaṅkara-icchayā .. iti proktaḥ adriṇā tarhi vīṇām mā vādaya adhunā .. 12..
सुनिषिद्धो हठात्तेन देवर्षे त्वं यदा बुध ॥ प्रत्यवोचो गिरीशं तं सुसंस्मृत्य महेश्वरम् ॥ १३॥
सु निषिद्धः हठात् तेन देव-ऋषे त्वम् यदा बुध ॥ प्रत्यवोचः गिरीशम् तम् सु संस्मृत्य महेश्वरम् ॥ १३॥
su niṣiddhaḥ haṭhāt tena deva-ṛṣe tvam yadā budha .. pratyavocaḥ girīśam tam su saṃsmṛtya maheśvaram .. 13..
नारद उवाच ।।
त्वं हि मूढत्वमापन्नो न जानासि च किञ्चन ॥ वाच्ये महेशविषयेऽतीवासि त्वं बहिर्मुखः ॥ १४॥
त्वम् हि मूढ-त्वम् आपन्नः न जानासि च किञ्चन ॥ वाच्ये महेश-विषये अतीव असि त्वम् बहिर्मुखः ॥ १४॥
tvam hi mūḍha-tvam āpannaḥ na jānāsi ca kiñcana .. vācye maheśa-viṣaye atīva asi tvam bahirmukhaḥ .. 14..
त्वया पृष्ठो हरस्साक्षात्स्वगोत्रकथनं प्रति ॥ समयेऽस्मिँस्तदत्यन्तमुपहासकरं वचः ॥ १५॥
त्वया पृष्ठः हरः साक्षात् स्व-गोत्र-कथनम् प्रति ॥ समये अस्मिन् तत् अत्यन्तम् उपहास-करम् वचः ॥ १५॥
tvayā pṛṣṭhaḥ haraḥ sākṣāt sva-gotra-kathanam prati .. samaye asmin tat atyantam upahāsa-karam vacaḥ .. 15..
अस्य गोत्रं कुलं नाम नैव जानन्ति पर्वत ॥ विष्णुब्रह्मादयोऽपीह परेषां का कथा स्मृता ॥ १६॥
अस्य गोत्रम् कुलम् नाम न एव जानन्ति पर्वत ॥ विष्णु-ब्रह्म-आदयः अपि इह परेषाम् का कथा स्मृता ॥ १६॥
asya gotram kulam nāma na eva jānanti parvata .. viṣṇu-brahma-ādayaḥ api iha pareṣām kā kathā smṛtā .. 16..
यस्यैकदिवसे शैल ब्रह्मकोटिर्लयं गता ॥ स एव शङ्करस्तेद्य दृष्टः कालीतपोबलात ॥ १७ ॥
यस्य एक-दिवसे शैल ब्रह्मकोटिः लयम् गता ॥ सः एव दृष्टः ॥ १७ ॥
yasya eka-divase śaila brahmakoṭiḥ layam gatā .. saḥ eva dṛṣṭaḥ .. 17 ..
अरूपोऽयं परब्रह्म निर्गुणः प्रकृतेः परः ॥ निराकारो निर्विकारो मायाधीशः परात्परः ॥ १८॥
अरूपः अयम् पर-ब्रह्म निर्गुणः प्रकृतेः परः ॥ ॥ १८॥
arūpaḥ ayam para-brahma nirguṇaḥ prakṛteḥ paraḥ .. .. 18..
अगोत्रकुलनामा हि स्वतन्त्रो भक्तवत्सलः ॥ तदिच्छया हि सगुणस्सुतनुर्बहुनामभृत् ॥ १९ ॥
अ गोत्र-कुल-नामा हि स्वतन्त्रः भक्त-वत्सलः ॥ तद्-इच्छया हि सगुणः सु तनुः बहु-नाम-भृत् ॥ १९ ॥
a gotra-kula-nāmā hi svatantraḥ bhakta-vatsalaḥ .. tad-icchayā hi saguṇaḥ su tanuḥ bahu-nāma-bhṛt .. 19 ..
सुगोत्री गोत्रहीनश्च कुलहीनः कुलीनकः ॥ पार्वतीतपसा सोऽद्य जामाता ते न संशयः ॥ 2.3.48.२०॥
सु गोत्री गोत्र-हीनः च कुल-हीनः कुलीनकः ॥ पार्वती-तपसा सः अद्य जामाता ते न संशयः ॥ २।३।४८।२०॥
su gotrī gotra-hīnaḥ ca kula-hīnaḥ kulīnakaḥ .. pārvatī-tapasā saḥ adya jāmātā te na saṃśayaḥ .. 2.3.48.20..
लीलाविहारिणा तेन मोहितं च चराचरम् ॥ नो जानाति शिवं कोऽपि प्राज्ञोऽपि गिरिसत्तम ॥ २१॥
लीला-विहारिणा तेन मोहितम् च चराचरम् ॥ नो जानाति शिवम् कः अपि प्राज्ञः अपि गिरि-सत्तम ॥ २१॥
līlā-vihāriṇā tena mohitam ca carācaram .. no jānāti śivam kaḥ api prājñaḥ api giri-sattama .. 21..
लिंगाकृतेर्महेशस्य केन दृष्टं न मस्तकम्॥ विष्णुर्गत्वा हि पातालं तदेनं नापविस्मितः ॥ २२॥
लिंग-आकृतेः महेशस्य केन दृष्टम् न मस्तकम्॥ विष्णुः गत्वा हि पातालम् तत् एनम् न अपविस्मितः ॥ २२॥
liṃga-ākṛteḥ maheśasya kena dṛṣṭam na mastakam.. viṣṇuḥ gatvā hi pātālam tat enam na apavismitaḥ .. 22..
किंबहूक्त्या नगश्रेष्ठ शिवमाया दुरत्यया॥ तदधीनास्त्रयो लोका हरिब्रह्मादयोपि च ॥ २३॥
किंबहु-उक्त्या नग-श्रेष्ठ शिव-माया दुरत्यया॥ तद्-अधीनाः त्रयः लोकाः हरि-ब्रह्म-आदयः अपि च ॥ २३॥
kiṃbahu-uktyā naga-śreṣṭha śiva-māyā duratyayā.. tad-adhīnāḥ trayaḥ lokāḥ hari-brahma-ādayaḥ api ca .. 23..
तस्मात्त्वया शिवा तात सुविचार्य प्रयत्नतः ॥ न कर्तव्यो विमर्शोऽत्र त्वेवंविधवरे मनाक् ॥ २४॥
तस्मात् त्वया शिवा तात सु विचार्य प्रयत्नतः ॥ न कर्तव्यः विमर्शः अत्र तु एवंविध-वरे मनाक् ॥ २४॥
tasmāt tvayā śivā tāta su vicārya prayatnataḥ .. na kartavyaḥ vimarśaḥ atra tu evaṃvidha-vare manāk .. 24..
ब्रह्मोवाच।।
इत्युक्त्वा त्वं मुने ज्ञानी शिवेच्छाकार्यकारकः ॥ प्रत्यवोचः पुनस्तं वै शैलेद्रं हर्षयन्गिरा ॥ २५॥
इति उक्त्वा त्वम् मुने ज्ञानी शिव-इच्छा-कार्य-कारकः ॥ प्रत्यवोचः पुनर् तम् वै शैलेद्रम् हर्षयन् गिरा ॥ २५॥
iti uktvā tvam mune jñānī śiva-icchā-kārya-kārakaḥ .. pratyavocaḥ punar tam vai śailedram harṣayan girā .. 25..
नारद उवाच ।।
शृणु तात महाशैल शिवाजनक मद्वचः ॥ तच्छ्रुत्वा तनयां देवीं देहि त्वं शंकराय हि ॥ २६ ॥
शृणु तात महाशैल शिवाजनक मद्-वचः ॥ तत् श्रुत्वा तनयाम् देवीम् देहि त्वम् शंकराय हि ॥ २६ ॥
śṛṇu tāta mahāśaila śivājanaka mad-vacaḥ .. tat śrutvā tanayām devīm dehi tvam śaṃkarāya hi .. 26 ..
सगुणस्य महेशस्य लीलया रूप धारिणः ॥ गोत्रं कुलं विजानीहि नादमेव हि केवलम् ॥ २७॥
सगुणस्य महेशस्य लीलया रूप-धारिणः ॥ गोत्रम् कुलम् विजानीहि नादम् एव हि केवलम् ॥ २७॥
saguṇasya maheśasya līlayā rūpa-dhāriṇaḥ .. gotram kulam vijānīhi nādam eva hi kevalam .. 27..
शिवो नादमयः सत्त्यं नादश्शिवमयस्तथा ॥ उभयोरन्तरं नास्ति नादस्य च शिवस्य च ॥ २८॥
शिवः नाद-मयः सत्त्यम् नादः शिव-मयः तथा ॥ उभयोः अन्तरम् ना अस्ति नादस्य च शिवस्य च ॥ २८॥
śivaḥ nāda-mayaḥ sattyam nādaḥ śiva-mayaḥ tathā .. ubhayoḥ antaram nā asti nādasya ca śivasya ca .. 28..
सृष्टौ प्रथमजत्वाद्धि लीलासगुणरूपिणः ॥ शिवान्नादस्य शैलेन्द्र सर्वोत्कृष्टस्ततस्स हि ॥ २९ ॥
सृष्टौ प्रथम-ज-त्वात् हि लीला-स गुण-रूपिणः ॥ शिवात् नादस्य शैल-इन्द्र सर्व-उत्कृष्टः ततस् स हि ॥ २९ ॥
sṛṣṭau prathama-ja-tvāt hi līlā-sa guṇa-rūpiṇaḥ .. śivāt nādasya śaila-indra sarva-utkṛṣṭaḥ tatas sa hi .. 29 ..
अतो हि वादिता वीणा प्रेरितेन मयाद्य वै ॥ सर्वेश्वरेण मनसा शङ्करेण हिमालय ॥ 2.3.48.३०॥
अतस् हि वादिता वीणा प्रेरितेन मया अद्य वै ॥ सर्वेश्वरेण मनसा शङ्करेण हिमालय ॥ २।३।४८।३०॥
atas hi vāditā vīṇā preritena mayā adya vai .. sarveśvareṇa manasā śaṅkareṇa himālaya .. 2.3.48.30..
ब्रह्मोवाच ।।
एतच्छ्रुत्वा तव मुने वचस्तत्तु गिरिश्वरः ॥ हिमाद्रिस्तोषमापन्नो गतविस्मयमानसः ॥ ३१॥
एतत् श्रुत्वा तव मुने वचः तत् तु गिरिश्वरः ॥ हिमाद्रिः तोषम् आपन्नः गत-विस्मय-मानसः ॥ ३१॥
etat śrutvā tava mune vacaḥ tat tu giriśvaraḥ .. himādriḥ toṣam āpannaḥ gata-vismaya-mānasaḥ .. 31..
अथ विष्णुप्रभृतयस्सुराश्च मुनयस्तथा ॥ साधुसाध्विति ते सर्वे प्रोचुर्विगतविस्मयाः ॥ ३२॥
अथ विष्णु-प्रभृतयः सुराः च मुनयः तथा ॥ साधु-साधु इति ते सर्वे प्रोचुः विगत-विस्मयाः ॥ ३२॥
atha viṣṇu-prabhṛtayaḥ surāḥ ca munayaḥ tathā .. sādhu-sādhu iti te sarve procuḥ vigata-vismayāḥ .. 32..
महेश्वरस्य गांभीर्यं ज्ञात्वा सर्वे विचक्षणाः ॥ सविस्मया महामोदान्विताः प्रोचुः परस्परम्॥ ३३॥
महेश्वरस्य गांभीर्यम् ज्ञात्वा सर्वे विचक्षणाः ॥ स विस्मयाः महा-आमोद-अन्विताः प्रोचुः परस्परम्॥ ३३॥
maheśvarasya gāṃbhīryam jñātvā sarve vicakṣaṇāḥ .. sa vismayāḥ mahā-āmoda-anvitāḥ procuḥ parasparam.. 33..
यस्याज्ञया जगदिदं च विशालमेव जातं परात्परतरो निजबोधरूपः ॥ शर्वः स्वतन्त्रगतिकृत्परभावगम्यस्सोऽसौ त्रिलोकपतिरद्य च नस्सुदृष्टः ॥ ३४॥
यस्य आज्ञया जगत् इदम् च विशालम् एव जातम् परात्परतरः निज-बोध-रूपः ॥ शर्वः स्वतन्त्र-गति-कृत् पर-भाव-गम्यः सः असौ त्रिलोक-पतिः अद्य च नः सु दृष्टः ॥ ३४॥
yasya ājñayā jagat idam ca viśālam eva jātam parātparataraḥ nija-bodha-rūpaḥ .. śarvaḥ svatantra-gati-kṛt para-bhāva-gamyaḥ saḥ asau triloka-patiḥ adya ca naḥ su dṛṣṭaḥ .. 34..
अथ ते पर्वतश्रेष्ठा मेर्वाद्या जातसंभ्रमाः॥ ऊचुस्ते चैकपद्येन हिमवन्तं नगेश्वरम् ॥ ३५॥
अथ ते पर्वत-श्रेष्ठाः मेरु-आद्याः जात-संभ्रमाः॥ ऊचुः ते च ऐकपद्येन हिमवन्तम् नग-ईश्वरम् ॥ ३५॥
atha te parvata-śreṣṭhāḥ meru-ādyāḥ jāta-saṃbhramāḥ.. ūcuḥ te ca aikapadyena himavantam naga-īśvaram .. 35..
पर्वता ऊचुः ।।
कन्यादाने स्थीयतां चाद्य शैलनाथोक्त्या किं कार्यनाशस्तवेव ॥ सत्यं ब्रूमो नात्र कार्यो विमर्शस्तस्मात्कन्या दीयतामीश्वराय ॥ ३६॥
कन्या-दाने स्थीयताम् च अद्य शैलनाथ-उक्त्या किम् कार्य-नाशः तव इव ॥ सत्यम् ब्रूमः न अत्र कार्यः विमर्शः तस्मात् कन्या दीयताम् ईश्वराय ॥ ३६॥
kanyā-dāne sthīyatām ca adya śailanātha-uktyā kim kārya-nāśaḥ tava iva .. satyam brūmaḥ na atra kāryaḥ vimarśaḥ tasmāt kanyā dīyatām īśvarāya .. 36..
ब्रह्मो वाच ।।
तच्छुत्वा वचनं तेषां सुहृदां स हिमालयः ॥ स्वकन्यादानमकरोच्छिवाय विधिनोदितः ॥ ३७ ॥
तत् शुत्वा वचनम् तेषाम् सुहृदाम् स हिमालयः ॥ स्व-कन्या-दानम् अकरोत् शिवाय विधिना दितः ॥ ३७ ॥
tat śutvā vacanam teṣām suhṛdām sa himālayaḥ .. sva-kanyā-dānam akarot śivāya vidhinā ditaḥ .. 37 ..
इमां कन्यां तुभ्यमहं ददामि परमेश्वर ॥ भार्यार्थे परिगृह्णीष्व प्रसीद सकलेश्वर ॥ ३८ ॥
इमाम् कन्याम् तुभ्यम् अहम् ददामि परमेश्वर ॥ भार्या-अर्थे परिगृह्णीष्व प्रसीद सकल-ईश्वर ॥ ३८ ॥
imām kanyām tubhyam aham dadāmi parameśvara .. bhāryā-arthe parigṛhṇīṣva prasīda sakala-īśvara .. 38 ..
तस्मै रुद्राय महते मंत्रेणानेन दत्तवान् ॥ हिमाचलो निजां कन्यां पार्वतीं त्रिजगत्प्रसूम् ॥ ३९॥
तस्मै रुद्राय महते मंत्रेण अनेन दत्तवान् ॥ हिमाचलः निजाम् कन्याम् पार्वतीम् त्रिजगत्-प्रसूम् ॥ ३९॥
tasmai rudrāya mahate maṃtreṇa anena dattavān .. himācalaḥ nijām kanyām pārvatīm trijagat-prasūm .. 39..
इत्थं शिवाकरं शैलं शिवहस्तेनिधाय च ॥ मुमोदातीव मनसि तीर्णकाममहार्णवः ॥ 2.3.48.४०॥
इत्थम् शिव-आकरम् शैलम् शिव-हस्ते निधाय च ॥ मुमोद अतीव मनसि तीर्ण-काम-महा-अर्णवः ॥ २।३।४८।४०॥
ittham śiva-ākaram śailam śiva-haste nidhāya ca .. mumoda atīva manasi tīrṇa-kāma-mahā-arṇavaḥ .. 2.3.48.40..
वेदमंत्रेण गिरिशो गिरिजाकरपङ्कजम् ॥ जग्राह स्वकरेणाशु प्रसन्नः परमेश्वरः ॥ ४१॥
वेद-मंत्रेण गिरिशः गिरिजा-कर-पङ्कजम् ॥ जग्राह स्व-करेण आशु प्रसन्नः परमेश्वरः ॥ ४१॥
veda-maṃtreṇa giriśaḥ girijā-kara-paṅkajam .. jagrāha sva-kareṇa āśu prasannaḥ parameśvaraḥ .. 41..
क्षितिं संस्पृश्य कामस्य कोदादिति मनुं मुने॥ पपाठ शङ्करः प्रीत्या दर्शयँल्लौकिकीं गतिम् ॥ ४२॥
क्षितिम् संस्पृश्य कामस्य मनुम् मुने॥ पपाठ शङ्करः प्रीत्या दर्शयन् लौकिकीम् गतिम् ॥ ४२॥
kṣitim saṃspṛśya kāmasya manum mune.. papāṭha śaṅkaraḥ prītyā darśayan laukikīm gatim .. 42..
महोत्सवो महानासीत्सर्वत्र प्रमुदावहः ॥ बभूव जयसंरावो दिवि भूम्यन्तरिक्षके ॥ ४३॥
महा-उत्सवः महान् आसीत् सर्वत्र प्रमुदा आवहः ॥ बभूव जय-संरावः दिवि भूमि-अन्तरिक्षके ॥ ४३॥
mahā-utsavaḥ mahān āsīt sarvatra pramudā āvahaḥ .. babhūva jaya-saṃrāvaḥ divi bhūmi-antarikṣake .. 43..
साधुशब्दं नमः शब्दं चक्रुस्सर्वेऽति हर्षिताः॥ गंधर्वास्सुजगुः प्रीत्या ननृतुश्चाप्सरोगणाः ॥ ४४॥
साधु-शब्दम् नमः शब्दम् चक्रुः सर्वे अति हर्षिताः॥ गंधर्वाः सु जगुः प्रीत्या ननृतुः च अप्सरः-गणाः ॥ ४४॥
sādhu-śabdam namaḥ śabdam cakruḥ sarve ati harṣitāḥ.. gaṃdharvāḥ su jaguḥ prītyā nanṛtuḥ ca apsaraḥ-gaṇāḥ .. 44..
हिमाचलस्य पौरा हि मुमुदु श्चाति चेतसि ॥ मंगलं महदासीद्वै महोत्सवपुरस्सरम् ॥ ४५॥
हिमाचलस्य पौराः हि मुमुदुः श्च अति चेतसि ॥ मंगलम् महत् आसीत् वै महा-उत्सव-पुरस्सरम् ॥ ४५॥
himācalasya paurāḥ hi mumuduḥ śca ati cetasi .. maṃgalam mahat āsīt vai mahā-utsava-purassaram .. 45..
अहं विष्णुश्च शक्रश्च निर्जरा मुनयोऽखिलाः ॥ हर्षिता ह्यभवंश्चाति प्रफुल्लवदनाम्बुजाः ॥ ४६ ॥
अहम् विष्णुः च शक्रः च निर्जराः मुनयः अखिलाः ॥ हर्षिताः हि अभवन् च अति प्रफुल्ल-वदन-अम्बुजाः ॥ ४६ ॥
aham viṣṇuḥ ca śakraḥ ca nirjarāḥ munayaḥ akhilāḥ .. harṣitāḥ hi abhavan ca ati praphulla-vadana-ambujāḥ .. 46 ..
अथ शैलवरस्सोदात्सुप्रसन्नो हिमाचलः ॥ शिवाय कन्यादानस्य साङ्गतां सुयथोचिताम् ॥ ४७ ॥
अथ शैल-वरः सः उदात् सु प्रसन्नः हिमाचलः ॥ शिवाय कन्या-दानस्य साङ्ग-ताम् सु यथोचिताम् ॥ ४७ ॥
atha śaila-varaḥ saḥ udāt su prasannaḥ himācalaḥ .. śivāya kanyā-dānasya sāṅga-tām su yathocitām .. 47 ..
ततो वन्धुजनास्तस्य शिवां सम्पूज्य भक्तितः ॥ ददुश्शिवाय सद्द्रव्यं नानाविधिविधानतः ॥ ४८ ॥
ततस् वन्धु-जनाः तस्य शिवाम् सम्पूज्य भक्तितः ॥ ददुः शिवाय सत्-द्रव्यम् नाना विधि-विधानतः ॥ ४८ ॥
tatas vandhu-janāḥ tasya śivām sampūjya bhaktitaḥ .. daduḥ śivāya sat-dravyam nānā vidhi-vidhānataḥ .. 48 ..
हिमालयस्तुष्टमनाः पार्वतीशि वप्रीतये ॥ नानाविधानि द्रव्याणि ददौ तत्र मुनीश्वर ॥ ४९॥
हिमालयः तुष्ट-मनाः पार्वति ईशे व-प्रीतये ॥ नानाविधानि द्रव्याणि ददौ तत्र मुनि-ईश्वर ॥ ४९॥
himālayaḥ tuṣṭa-manāḥ pārvati īśe va-prītaye .. nānāvidhāni dravyāṇi dadau tatra muni-īśvara .. 49..
कौतुकानि ददौ तस्मै रत्नानि विविधानि च ॥ चारुरत्नविकाराणि पात्राणि विविधानि च ॥ 2.3.48.५० ॥
कौतुकानि ददौ तस्मै रत्नानि विविधानि च ॥ चारु-रत्न-विकाराणि पात्राणि विविधानि च ॥ २।३।४८।५० ॥
kautukāni dadau tasmai ratnāni vividhāni ca .. cāru-ratna-vikārāṇi pātrāṇi vividhāni ca .. 2.3.48.50 ..
गवां लक्षं हयानां च सज्जितानां शतं तथा ॥ दासीनामनुरक्तानां लक्षं सद्द्रव्यभूषितम् ॥ ५१॥
गवाम् लक्षम् हयानाम् च सज्जितानाम् शतम् तथा ॥ दासीनाम् अनुरक्तानाम् लक्षम् सत्-द्रव्य-भूषितम् ॥ ५१॥
gavām lakṣam hayānām ca sajjitānām śatam tathā .. dāsīnām anuraktānām lakṣam sat-dravya-bhūṣitam .. 51..
नागानां शतलक्षं हि रथानां च तथा मुने ॥ सुवर्णजटितानां च रत्नसारविनिर्मितम् ॥ ५२ ॥
नागानाम् शत-लक्षम् हि रथानाम् च तथा मुने ॥ सुवर्ण-जटितानाम् च रत्न-सार-विनिर्मितम् ॥ ५२ ॥
nāgānām śata-lakṣam hi rathānām ca tathā mune .. suvarṇa-jaṭitānām ca ratna-sāra-vinirmitam .. 52 ..
इत्थं हिमालयो दत्त्वा स्वसुतां गिरिजां शिवाम् ॥ शिवाय परमेशाय विधिनाऽऽप कृतार्थताम् ॥ ५३ ॥
इत्थम् हिमालयः दत्त्वा स्व-सुताम् गिरिजाम् शिवाम् ॥ शिवाय परमेशाय विधिना आप कृतार्थ-ताम् ॥ ५३ ॥
ittham himālayaḥ dattvā sva-sutām girijām śivām .. śivāya parameśāya vidhinā āpa kṛtārtha-tām .. 53 ..
अथ शैलवरो माध्यंदिनोक्तस्तोत्रतो मुदा ॥ तुष्टाव परमेशानं सद्गिरा सुकृताञ्जलिः ॥ ५४ ॥
अथ शैल-वरः माध्यंदिन-उक्त-स्तोत्रतः मुदा ॥ तुष्टाव परमेशानम् सत्-गिरा सु कृताञ्जलिः ॥ ५४ ॥
atha śaila-varaḥ mādhyaṃdina-ukta-stotrataḥ mudā .. tuṣṭāva parameśānam sat-girā su kṛtāñjaliḥ .. 54 ..
ततो वेदविदा तेनाज्ञप्ता मुनिगणास्तदा ॥ शिरोऽभिषेकं चक्रुस्ते शिवायाः परमोत्सवाः ॥ ५५ ॥
ततस् वेद-विदा तेन आज्ञप्ताः मुनि-गणाः तदा ॥ शिरः-अभिषेकम् चक्रुः ते शिवायाः परम-उत्सवाः ॥ ५५ ॥
tatas veda-vidā tena ājñaptāḥ muni-gaṇāḥ tadā .. śiraḥ-abhiṣekam cakruḥ te śivāyāḥ parama-utsavāḥ .. 55 ..
देवाभिधानमुच्चार्य्य पर्य्यक्षणविधिं व्यधुः ॥ महोत्सवस्तदा चासीन्महानन्दकरो मुने ॥ ५६ ॥
देव-अभिधानम् उच्चार्य्य पर्य्यक्षण-विधिम् व्यधुः ॥ महा-उत्सवः तदा च आसीत् महा-आनन्द-करः मुने ॥ ५६ ॥
deva-abhidhānam uccāryya paryyakṣaṇa-vidhim vyadhuḥ .. mahā-utsavaḥ tadā ca āsīt mahā-ānanda-karaḥ mune .. 56 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कन्यादानवर्णनं नामाष्टचत्वारिंशोऽध्यायः ॥ ४८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे कन्यादानवर्णनम् नाम अष्टचत्वारिंशः अध्यायः ॥ ४८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe kanyādānavarṇanam nāma aṣṭacatvāriṃśaḥ adhyāyaḥ .. 48 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In