| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
अन्तर्हितायान्देव्यां तु दुर्गायां स्वगृहेषु च ॥ गतेष्वमरवृन्देषु किमभूत्तदनन्तरम्॥ १॥
तु दुर्गायाम् स्व-गृहेषु च ॥ गतेषु अमर-वृन्देषु किम् अभूत् तद्-अनन्तरम्॥ १॥
tu durgāyām sva-gṛheṣu ca .. gateṣu amara-vṛndeṣu kim abhūt tad-anantaram.. 1..
कथं मेनागिरीशौ च तेपाते परमन्तपः ॥ कथं सुताऽभवत्तस्य मेनायान्तात तद्वद ॥ २ ॥
कथम् मेना-गिरीशौ च तेपाते पर-मन्तपः ॥ कथम् सुता अभवत् तस्य मेनायाः अन्तात तत् वद ॥ २ ॥
katham menā-girīśau ca tepāte para-mantapaḥ .. katham sutā abhavat tasya menāyāḥ antāta tat vada .. 2 ..
ब्रह्मोवाच ।।
विप्रवर्य सुतश्रेष्ठ शृणु तच्चरितं महत् ॥ प्रणम्य शंकरं भक्त्या वच्मि भक्तिविवर्द्धनम् ॥ ३ ॥
विप्र-वर्य सुत-श्रेष्ठ शृणु तत् चरितम् महत् ॥ प्रणम्य शंकरम् भक्त्या वच्मि भक्ति-विवर्द्धनम् ॥ ३ ॥
vipra-varya suta-śreṣṭha śṛṇu tat caritam mahat .. praṇamya śaṃkaram bhaktyā vacmi bhakti-vivarddhanam .. 3 ..
उपदिश्य गते तात सुरवृन्दे गिरीश्वरः ॥ हर्यादौ मेनका चापि तेपाते परमन्तपः॥ ॥ ४ ॥
उपदिश्य गते तात सुर-वृन्दे गिरीश्वरः ॥ हरि-आदौ मेनका च अपि तेपाते पर-मन्तपः॥ ॥ ४ ॥
upadiśya gate tāta sura-vṛnde girīśvaraḥ .. hari-ādau menakā ca api tepāte para-mantapaḥ.. .. 4 ..
अहर्निशं शिवां शम्भुं चिन्तयन्तौ च दम्पती ॥ सम्यगारेधतुर्नित्यं भक्तियुक्तेन चेतसा ॥ ५ ॥
अहर्निशम् शिवाम् शम्भुम् चिन्तयन्तौ च दम्पती ॥ सम्यक् आरेधतुः नित्यम् भक्ति-युक्तेन चेतसा ॥ ५ ॥
aharniśam śivām śambhum cintayantau ca dampatī .. samyak āredhatuḥ nityam bhakti-yuktena cetasā .. 5 ..
गिरिप्रियातीव मुदानर्च देवीं शिवेन सा ॥ दानन्ददौ द्विजेभ्यश्च सदा तत्तोषहेतवे ॥ ६॥
गिरिप्रिया अतीव मुदा अनर्च देवीम् शिवेन सा ॥ दानन् ददौ द्विजेभ्यः च सदा तद्-तोष-हेतवे ॥ ६॥
giripriyā atīva mudā anarca devīm śivena sā .. dānan dadau dvijebhyaḥ ca sadā tad-toṣa-hetave .. 6..
चैत्रमासं समारभ्य सप्तविंशतिवत्सरान् ॥ शिवां सम्पूजयामासापत्त्यार्थिन्यन्वहं रता ॥ ७ ॥
चैत्र-मासम् समारभ्य सप्तविंशति-वत्सरान् ॥ शिवाम् सम्पूजयामास आपत्त्या अर्थिनी अन्वहम् रता ॥ ७ ॥
caitra-māsam samārabhya saptaviṃśati-vatsarān .. śivām sampūjayāmāsa āpattyā arthinī anvaham ratā .. 7 ..
अष्टम्यामुपवासन्तु कृत्वादान्नवमीतिथौ ॥ मोदकैर्बलिपिष्टैश्च पायसैर्गन्धपुष्पकैः ॥ ८ ॥
अष्टम्याम् उपवासम् तु कृत्वा अदात् नवमी-तिथौ ॥ मोदकैः बलि-पिष्टैः च पायसैः गन्ध-पुष्पकैः ॥ ८ ॥
aṣṭamyām upavāsam tu kṛtvā adāt navamī-tithau .. modakaiḥ bali-piṣṭaiḥ ca pāyasaiḥ gandha-puṣpakaiḥ .. 8 ..
गङ्गायामौषधिप्रस्थे कृत्वा मूर्तिं महीमयीम् ॥ उमायाः पूजयामास नानावस्तुसमर्पणैः ॥ ९॥
गङ्गायाम् औषधिप्रस्थे कृत्वा मूर्तिम् मही-मयीम् ॥ उमायाः पूजयामास नाना वस्तु-समर्पणैः ॥ ९॥
gaṅgāyām auṣadhiprasthe kṛtvā mūrtim mahī-mayīm .. umāyāḥ pūjayāmāsa nānā vastu-samarpaṇaiḥ .. 9..
कदाचित्सा निराहारा कदाचित्सा धृतव्रता ॥ कदाचित्पवनाहारा कदाचिज्जलभुग्ह्यभूत् ॥ 2.3.5.१० ॥
कदाचिद् सा निराहारा कदाचिद् सा धृत-व्रता ॥ कदाचिद् पवन-आहारा कदाचिद् जलभुज् हि अभूत् ॥ २।३।५।१० ॥
kadācid sā nirāhārā kadācid sā dhṛta-vratā .. kadācid pavana-āhārā kadācid jalabhuj hi abhūt .. 2.3.5.10 ..
शिवाविन्यस्तचेतस्का सप्तविंशतिवत्सरान् ॥ निनाय मेनका प्रीत्या परं सा मृष्टवर्चसा ॥ ११ ॥
शिवा-विन्यस्त-चेतस्का सप्तविंशति-वत्सरान् ॥ निनाय मेनका प्रीत्या परम् सा मृष्ट-वर्चसा ॥ ११ ॥
śivā-vinyasta-cetaskā saptaviṃśati-vatsarān .. nināya menakā prītyā param sā mṛṣṭa-varcasā .. 11 ..
सप्तविंशतिवर्षान्ते जगन्माता जगन्मयी ॥ सुप्रीताभवदत्यर्थमुमा शंकरकामिनी ॥ १२ ॥
सप्त-विंशति-वर्ष-अन्ते जगन्माता जगत्-मयी ॥ सु प्रीता अभवत् अत्यर्थम् उमा शंकर-कामिनी ॥ १२ ॥
sapta-viṃśati-varṣa-ante jaganmātā jagat-mayī .. su prītā abhavat atyartham umā śaṃkara-kāminī .. 12 ..
अनुग्रहाय मेनायाः पुरतः परमेश्वरी ॥ आविर्बभूव सा देवी सन्तुष्टा तत्सुभक्तितः ॥ १३॥
अनुग्रहाय मेनायाः पुरतस् परमेश्वरी ॥ आविर्बभूव सा देवी सन्तुष्टा तद्-सु भक्तितः ॥ १३॥
anugrahāya menāyāḥ puratas parameśvarī .. āvirbabhūva sā devī santuṣṭā tad-su bhaktitaḥ .. 13..
दिव्यावयवसंयुक्ता तेजोमण्डलमध्यगा॥ उवाच विहसन्ती सा मेनां प्रत्यक्षतां गता ॥ १४ ॥
दिव्य-अवयव-संयुक्ता तेजः-मण्डल-मध्य-गा॥ उवाच विहसन्ती सा मेनाम् प्रत्यक्षताम् गता ॥ १४ ॥
divya-avayava-saṃyuktā tejaḥ-maṇḍala-madhya-gā.. uvāca vihasantī sā menām pratyakṣatām gatā .. 14 ..
देव्युवाच ॥ वरं ब्रूहि महासाध्वि यत्ते मनसि वर्तते ॥ सुप्रसन्ना च तपसा तवाहं गिरिकामिनि ॥ १५ ॥
देवी उवाच ॥ वरम् ब्रूहि महा-साध्वि यत् ते मनसि वर्तते ॥ सु प्रसन्ना च तपसा तव अहम् गिरि-कामिनि ॥ १५ ॥
devī uvāca .. varam brūhi mahā-sādhvi yat te manasi vartate .. su prasannā ca tapasā tava aham giri-kāmini .. 15 ..
यत्प्रार्थितं त्वया मेने तपोव्रतसमाधिना ॥ दास्ये तेऽहं च तत्सर्वं वाञ्छितं यद्यदा भवेत् ॥ १६॥
यत् प्रार्थितम् त्वया मेने तपः-व्रत-समाधिना ॥ दास्ये ते अहम् च तत् सर्वम् वाञ्छितम् यत् यदा भवेत् ॥ १६॥
yat prārthitam tvayā mene tapaḥ-vrata-samādhinā .. dāsye te aham ca tat sarvam vāñchitam yat yadā bhavet .. 16..
ततस्सा मेनका देवीं प्रत्यक्षां कालिकान्तदा ॥ दृष्ट्वा च प्रणनामाथ वचनं चेदमब्रवीत् ॥ १७॥
ततस् सा मेनका देवीम् प्रत्यक्षाम् कालिका-अन्तदा ॥ दृष्ट्वा च प्रणनाम अथ वचनम् च इदम् अब्रवीत् ॥ १७॥
tatas sā menakā devīm pratyakṣām kālikā-antadā .. dṛṣṭvā ca praṇanāma atha vacanam ca idam abravīt .. 17..
मेनोवाच ।।
देवि प्रत्यक्षतो रूपन्दृष्टन्तव मयाऽधुना ॥ त्वामहं स्तोतुमिच्छामि प्रसन्ना भव कालिके ॥ १८ ॥
देवि प्रत्यक्षतः रूपन् दृष्टन् तव मया अधुना ॥ त्वाम् अहम् स्तोतुम् इच्छामि प्रसन्ना भव कालिके ॥ १८ ॥
devi pratyakṣataḥ rūpan dṛṣṭan tava mayā adhunā .. tvām aham stotum icchāmi prasannā bhava kālike .. 18 ..
ब्रह्मोवाच ।।
अथ सा मेनयेत्युक्ता कालिका सर्वमोहिनी ॥ बाहुभ्यां सुप्रसन्नात्मा मेनकां परिषस्वजे ॥ १९ ॥
अथ सा मेनया इति उक्ता कालिका सर्व-मोहिनी ॥ बाहुभ्याम् सु प्रसन्न-आत्मा मेनकाम् परिषस्वजे ॥ १९ ॥
atha sā menayā iti uktā kālikā sarva-mohinī .. bāhubhyām su prasanna-ātmā menakām pariṣasvaje .. 19 ..
ततः प्राप्तमहाज्ञाना मेनका कालिकां शिवम् ॥ तुष्टाव वाग्भि रिष्टाभिर्भक्त्या प्रत्यक्षतां गताम् ॥ 2.3.5.२० ॥
ततस् प्राप्त-महा-ज्ञाना मेनका कालिकाम् शिवम् ॥ तुष्टाव वाग्भिः रिष्टाभिः भक्त्या प्रत्यक्षताम् गताम् ॥ २।३।५।२० ॥
tatas prāpta-mahā-jñānā menakā kālikām śivam .. tuṣṭāva vāgbhiḥ riṣṭābhiḥ bhaktyā pratyakṣatām gatām .. 2.3.5.20 ..
मेनोवाच ।।
महामायां जगद्धात्रीं चण्डिकां लोकधारिणीम् ॥ प्रणमामि महादेवीं सर्वकामार्थदायिनीम् ॥ २१ ॥
महामायाम् जगद्धात्रीम् चण्डिकाम् लोक-धारिणीम् ॥ प्रणमामि महादेवीम् सर्व-काम-अर्थ-दायिनीम् ॥ २१ ॥
mahāmāyām jagaddhātrīm caṇḍikām loka-dhāriṇīm .. praṇamāmi mahādevīm sarva-kāma-artha-dāyinīm .. 21 ..
नित्यानन्दकरीं मायां योगनिद्रां जगत्प्रसूम् ॥ प्रणमामि सदासिद्धां शुभसारसमालिनीम् ॥ २२॥
॥ प्रणमामि सदा सिद्धाम् शुभ-सारस-मालिनीम् ॥ २२॥
.. praṇamāmi sadā siddhām śubha-sārasa-mālinīm .. 22..
मातामहीं सदानन्दां भक्तशोकविनाशिनीम् ॥ आकल्पं वनितानां च प्राणिनां बुद्धिरूपिणीम् ॥ २३ ॥
मातामहीम् सदानन्दाम् भक्त-शोक-विनाशिनीम् ॥ आकल्पम् वनितानाम् च प्राणिनाम् बुद्धि-रूपिणीम् ॥ २३ ॥
mātāmahīm sadānandām bhakta-śoka-vināśinīm .. ākalpam vanitānām ca prāṇinām buddhi-rūpiṇīm .. 23 ..
सा त्वं बंधच्छेदहेतुर्यतीनां कस्ते गेयो मादृशीभिः प्रभावः ॥ हिंसाया वाथर्ववेदस्य सा त्वं नित्यं कामं त्वं ममेष्टं विधेहि ॥ २४ ॥
सा त्वम् बंध-छेद-हेतुः यतीनाम् कः ते गेयः मादृशीभिः प्रभावः ॥ हिंसायाः वा अथर्ववेदस्य सा त्वम् नित्यम् कामम् त्वम् मम इष्टम् विधेहि ॥ २४ ॥
sā tvam baṃdha-cheda-hetuḥ yatīnām kaḥ te geyaḥ mādṛśībhiḥ prabhāvaḥ .. hiṃsāyāḥ vā atharvavedasya sā tvam nityam kāmam tvam mama iṣṭam vidhehi .. 24 ..
नित्यानित्यैर्भावहीनैः परास्तैस्तत्तन्मात्रैर्योज्यते भूतवर्गः ॥ तेषां शक्तिस्त्वं सदा नित्यरूपा काले योषा योगयुक्ता समर्था॥ २५॥
नित्य-अनित्यैः भाव-हीनैः पराः तैः तद्-तन्मात्रैः योज्यते भूत-वर्गः ॥ तेषाम् शक्तिः त्वम् सदा नित्य-रूपा काले योषा योग-युक्ता समर्था॥ २५॥
nitya-anityaiḥ bhāva-hīnaiḥ parāḥ taiḥ tad-tanmātraiḥ yojyate bhūta-vargaḥ .. teṣām śaktiḥ tvam sadā nitya-rūpā kāle yoṣā yoga-yuktā samarthā.. 25..
योनिर्धरित्री जगतां त्वमेव त्वमेव नित्या प्रकृतिः परस्तात् ॥ यथा वशं क्रियते ब्रह्मरूपं सा त्वं नित्या मे प्रसीदाद्य मातः॥ २६॥
योनिः धरित्री जगताम् त्वम् एव त्वम् एव नित्या प्रकृतिः परस्तात् ॥ यथा वशम् क्रियते ब्रह्म-रूपम् सा त्वम् नित्या मे प्रसीद अद्य मातर्॥ २६॥
yoniḥ dharitrī jagatām tvam eva tvam eva nityā prakṛtiḥ parastāt .. yathā vaśam kriyate brahma-rūpam sā tvam nityā me prasīda adya mātar.. 26..
त्वं जातवेदोगतशक्तिरुग्रा त्वं दाहिका सूर्यकरस्य शक्तिः ॥ आह्लादिका त्वं बहुचन्द्रिका या तान्त्वामहं स्तौमि नमामि चण्डीम् ॥ २७ ॥
त्वम् जातवेदः गत-शक्तिः उग्रा त्वम् दाहिका सूर्य-करस्य शक्तिः ॥ आह्लादिका त्वम् बहु-चन्द्रिका या ताम् त्वाम् अहम् स्तौमि नमामि चण्डीम् ॥ २७ ॥
tvam jātavedaḥ gata-śaktiḥ ugrā tvam dāhikā sūrya-karasya śaktiḥ .. āhlādikā tvam bahu-candrikā yā tām tvām aham staumi namāmi caṇḍīm .. 27 ..
योषाणां सत्प्रिया च त्वं नित्या त्वं चोर्ध्वरेतसाम् ॥ वांछा त्वं सर्वजगतां धाया च त्वं यथा हरेः ॥ २८॥
योषाणाम् सत्-प्रिया च त्वम् नित्या त्वम् च ऊर्ध्वरेतसाम् ॥ वांछा त्वम् सर्व-जगताम् धाया च त्वम् यथा हरेः ॥ २८॥
yoṣāṇām sat-priyā ca tvam nityā tvam ca ūrdhvaretasām .. vāṃchā tvam sarva-jagatām dhāyā ca tvam yathā hareḥ .. 28..
या चेष्टरूपाणि विधाय देवी सृष्टिस्थितानाशमयी च कर्त्री ॥ ब्रह्माच्युतस्थाणुशरीरहेतुस्सा त्वं प्रसीदाद्य पुनर्नमस्ते ॥ २९ ॥
या च इष्ट-रूपाणि विधाय देवी सृष्टि-स्थित-आनाश-मयी च कर्त्री ॥ ब्रह्म-अच्युत-स्थाणु-शरीर-हेतुः सा त्वम् प्रसीद अद्य पुनर् नमः ते ॥ २९ ॥
yā ca iṣṭa-rūpāṇi vidhāya devī sṛṣṭi-sthita-ānāśa-mayī ca kartrī .. brahma-acyuta-sthāṇu-śarīra-hetuḥ sā tvam prasīda adya punar namaḥ te .. 29 ..
ब्रह्मोवाच ।।
तत इत्थं स्तुता दुर्गा कालिका पुनरेव हि ॥ उवाच मेनकां देवीं वांछितं वरयेत्युत ॥ 2.3.5.३०॥
ततस् इत्थम् स्तुता दुर्गा कालिका पुनर् एव हि ॥ उवाच मेनकाम् देवीम् वांछितम् वरय इति उत ॥ २।३।५।३०॥
tatas ittham stutā durgā kālikā punar eva hi .. uvāca menakām devīm vāṃchitam varaya iti uta .. 2.3.5.30..
।। उमोवाच ।।
प्राणप्रिया मम त्वं हि हिमाचलविलासिनी ॥ यदिच्छसि ध्रुवन्दास्ये नादेयं विद्यते मम ॥ ३१ ॥
प्राण-प्रिया मम त्वम् हि हिमाचल-विलासिनी ॥ यत् इच्छसि ध्रुवन् दास्ये न आदेयम् विद्यते मम ॥ ३१ ॥
prāṇa-priyā mama tvam hi himācala-vilāsinī .. yat icchasi dhruvan dāsye na ādeyam vidyate mama .. 31 ..
इति श्रुत्वा महेशान्याः पीयूषसदृशं वचः ॥ उवाच परितुष्टा सा मेनका गिरिकामिनी ॥ ३२ ॥
इति श्रुत्वा महेशान्याः पीयूष-सदृशम् वचः ॥ उवाच परितुष्टा सा मेनका गिरि-कामिनी ॥ ३२ ॥
iti śrutvā maheśānyāḥ pīyūṣa-sadṛśam vacaḥ .. uvāca parituṣṭā sā menakā giri-kāminī .. 32 ..
मेनोवाच ।।
शिवे जयजय प्राज्ञे महेश्वरि भवाम्बिके ॥ वरयोग्यास्महं चेत्ते वृणे भूयो वरं वरम् ॥ ३३ ॥
शिवे जय जय प्राज्ञे महेश्वरि भव अम्बिके ॥ वर-योग्याः अस्महम् चेद् ते वृणे भूयस् वरम् वरम् ॥ ३३ ॥
śive jaya jaya prājñe maheśvari bhava ambike .. vara-yogyāḥ asmaham ced te vṛṇe bhūyas varam varam .. 33 ..
प्रथमं शतपुत्रा मे भवन्तु जगदम्बिके ॥ बह्वायुषो वीर्यवन्त ऋद्धिसिद्धिसमन्विताः ॥ ३४ ॥
प्रथमम् शत-पुत्राः मे भवन्तु जगदम्बिके ॥ बहु-आयुषः वीर्यवन्तः ऋद्धि-सिद्धि-समन्विताः ॥ ३४ ॥
prathamam śata-putrāḥ me bhavantu jagadambike .. bahu-āyuṣaḥ vīryavantaḥ ṛddhi-siddhi-samanvitāḥ .. 34 ..
पश्चात्तथैका तनया स्वरूपगुणशालिनी ॥ कुलद्वयानंदकरी भुवनत्रयपूजिता ॥ ३५॥
पश्चात् तथा एका तनया स्व-रूप-गुण-शालिनी ॥ करः ॥ ३५॥
paścāt tathā ekā tanayā sva-rūpa-guṇa-śālinī .. karaḥ .. 35..
सुता भव मम शिवे देवकार्यार्थमेव हि ॥ रुद्रपत्नी भव तथा लीलां कुरु भवाम्बिके ॥ ३६ ॥
सुता भव मम शिवे देव-कार्य-अर्थम् एव हि ॥ रुद्र-पत्नी भव तथा लीलाम् कुरु भव अम्बिके ॥ ३६ ॥
sutā bhava mama śive deva-kārya-artham eva hi .. rudra-patnī bhava tathā līlām kuru bhava ambike .. 36 ..
।। ब्रह्मोवाच ।।
तच्छ्रुत्वा मेनकोक्तं हि प्राह देवी प्रसन्नधीः ॥ स्मितपूर्वं वचस्तस्याः पूरयन्ती मनोरथम् ॥ ३७॥
तत् श्रुत्वा मेनका-उक्तम् हि प्राह देवी प्रसन्न-धीः ॥ स्मित-पूर्वम् वचः तस्याः पूरयन्ती मनोरथम् ॥ ३७॥
tat śrutvā menakā-uktam hi prāha devī prasanna-dhīḥ .. smita-pūrvam vacaḥ tasyāḥ pūrayantī manoratham .. 37..
।। देव्युवाच ।।
शतपुत्रास्सं भवन्तु भवत्या वीर्यसंयुताः ॥ तत्रैको बलवान्मुख्यः प्रधमं संभविष्यति ॥ ॥ ३८॥
शत-पुत्राः सम् भवन्तु भवत्याः वीर्य-संयुताः ॥ तत्र एकः बलवान् मुख्यः प्रधमम् संभविष्यति ॥ ॥ ३८॥
śata-putrāḥ sam bhavantu bhavatyāḥ vīrya-saṃyutāḥ .. tatra ekaḥ balavān mukhyaḥ pradhamam saṃbhaviṣyati .. .. 38..
सुताहं संभविष्यामि सन्तुष्टा तव भक्तितः ॥ देव कार्यं करिष्यामि सेविता निखिलैस्सुरैः ॥ ३९॥
सुता अहम् संभविष्यामि सन्तुष्टा तव भक्तितः ॥ देव कार्यम् करिष्यामि सेविता निखिलैः सुरैः ॥ ३९॥
sutā aham saṃbhaviṣyāmi santuṣṭā tava bhaktitaḥ .. deva kāryam kariṣyāmi sevitā nikhilaiḥ suraiḥ .. 39..
ब्रह्मोवाच ।।
एवमुक्त्वा जगद्धात्री कालिका परमेश्वरी ॥ पश्यन्त्या मेनकायास्तु तत्रैवान्तर्दधे शिवा ॥ 2.3.5.४० ॥
एवम् उक्त्वा जगद्धात्री कालिका परमेश्वरी ॥ पश्यन्त्याः मेनकायाः तु तत्र एव अन्तर्दधे शिवा ॥ २।३।५।४० ॥
evam uktvā jagaddhātrī kālikā parameśvarī .. paśyantyāḥ menakāyāḥ tu tatra eva antardadhe śivā .. 2.3.5.40 ..
मेनकापि वरं लब्ध्वा महेशान्या अभी प्सितम् ॥ मुदं प्रापामितां तात तपःक्लेशोप्यनश्यत ॥ ४१ ॥
मेनका अपि वरम् लब्ध्वा महेशान्याः अभी ईप्सितम् ॥ मुदम् प्राप अमिताम् तात तपः-क्लेशः उपि अनश्यत ॥ ४१ ॥
menakā api varam labdhvā maheśānyāḥ abhī īpsitam .. mudam prāpa amitām tāta tapaḥ-kleśaḥ upi anaśyata .. 41 ..
दिशि तस्यां नमस्कृत्य सुप्रहृष्टमनास्सती ॥ जयशब्दं प्रोच्चरंती स्वस्थानम्प्रविवेश ह ॥ ४२॥
दिशि तस्याम् नमस्कृत्य सु प्रहृष्ट-मनाः सती ॥ जय-शब्दम् प्रोच्चरन्ती स्व-स्थानम् प्रविवेश ह ॥ ४२॥
diśi tasyām namaskṛtya su prahṛṣṭa-manāḥ satī .. jaya-śabdam proccarantī sva-sthānam praviveśa ha .. 42..
अथ तस्मै स्वपतये शशंस सुवरं च तम् ॥ स्वचिह्नबुद्धमिव वै सुवाचा पुनरुक्तया ॥ ४३ ॥
अथ तस्मै स्व-पतये शशंस सु वरम् च तम् ॥ स्व-चिह्न-बुद्धम् इव वै सु वाचा पुनर् उक्तया ॥ ४३ ॥
atha tasmai sva-pataye śaśaṃsa su varam ca tam .. sva-cihna-buddham iva vai su vācā punar uktayā .. 43 ..
श्रुत्वा शैलपतिर्हृष्टोऽभवन्मेनावचो हि तत् ॥ प्रशशंस प्रियां प्रीत्या शिवाभक्तिरतां च ताम् ॥ ४४ ॥
श्रुत्वा शैलपतिः हृष्टः अभवत् मेना-वचः हि तत् ॥ प्रशशंस प्रियाम् प्रीत्या शिवा-भक्ति-रताम् च ताम् ॥ ४४ ॥
śrutvā śailapatiḥ hṛṣṭaḥ abhavat menā-vacaḥ hi tat .. praśaśaṃsa priyām prītyā śivā-bhakti-ratām ca tām .. 44 ..
कालक्रमेणाऽथ तयोः प्रवृत्ते सुरते मुने ॥ गर्भो बभूव मेनाया ववृधे प्रत्यहं च सः ॥ ४५ ॥
काल-क्रमेण अ अथ तयोः प्रवृत्ते सुरते मुने ॥ गर्भः बभूव मेनायाः ववृधे प्रत्यहम् च सः ॥ ४५ ॥
kāla-krameṇa a atha tayoḥ pravṛtte surate mune .. garbhaḥ babhūva menāyāḥ vavṛdhe pratyaham ca saḥ .. 45 ..
असूत सा नागवधूपभोग्यं सुतमुत्तमम् ॥ समुद्रबद्धसत्सख्यं मैनाकाभिधमद्भुतम् ॥ ४६ ॥
असूत सा नाग-वधू-उपभोग्यम् सुतम् उत्तमम् ॥ समुद्र-बद्ध-सत्-सख्यम् मैनाक-अभिधम् अद्भुतम् ॥ ४६ ॥
asūta sā nāga-vadhū-upabhogyam sutam uttamam .. samudra-baddha-sat-sakhyam maināka-abhidham adbhutam .. 46 ..
वृत्रशत्रावपि क्रुद्धे वेदनाशं सपक्षकम् ॥ पविक्षतानां देवर्षे पक्षच्छिदि वराङ्गकम् ॥ ४७ ॥
वृत्रशत्रौ अपि क्रुद्धे वेद-नाशम् स पक्षकम् ॥ पवि-क्षतानाम् देवर्षे पक्ष-छिदि वर-अङ्गकम् ॥ ४७ ॥
vṛtraśatrau api kruddhe veda-nāśam sa pakṣakam .. pavi-kṣatānām devarṣe pakṣa-chidi vara-aṅgakam .. 47 ..
प्रवरं शतपुत्राणां महाबलपराक्रमम् ॥ स्वोद्भवानां महीध्राणां पर्वतेन्द्रैकधिष्ठितम् ॥ ४८॥
प्रवरम् शत-पुत्राणाम् महा-बल-पराक्रमम् ॥ स्व-उद्भवानाम् महीध्राणाम् पर्वत-इन्द्र-एक-धिष्ठितम् ॥ ४८॥
pravaram śata-putrāṇām mahā-bala-parākramam .. sva-udbhavānām mahīdhrāṇām parvata-indra-eka-dhiṣṭhitam .. 48..
आसीन्महोत्सवस्तत्र हिमाचलपुरेऽद्भुतः ॥ दम्पत्योः प्रमुदाधिक्यं बभूव क्लेशसंक्षयः ॥ ४९॥
आसीत् महा-उत्सवः तत्र हिमाचल-पुरे अद्भुतः ॥ दम्पत्योः प्रमुदा आधिक्यम् बभूव क्लेश-संक्षयः ॥ ४९॥
āsīt mahā-utsavaḥ tatra himācala-pure adbhutaḥ .. dampatyoḥ pramudā ādhikyam babhūva kleśa-saṃkṣayaḥ .. 49..
दानन्ददौ द्विजातिभ्योऽन्येभ्यश्च प्रददौ धनम् ॥ शिवाशिवपदद्वन्द्वे स्नेहोऽभूदधिकस्तयोः ॥ 2.3.5.५०॥
दानम् ददौ द्विजातिभ्यः अन्येभ्यः च प्रददौ धनम् ॥ शिव-अशिव-पद-द्वन्द्वे स्नेहः अभूत् अधिकः तयोः ॥ २।३।५।५०॥
dānam dadau dvijātibhyaḥ anyebhyaḥ ca pradadau dhanam .. śiva-aśiva-pada-dvandve snehaḥ abhūt adhikaḥ tayoḥ .. 2.3.5.50..
इति श्रीशिवमहापुराणे द्वितीयायां रु० सं० तृतीये पार्वतीखंडे मेनावरलाभवर्णनो नाम पंचमोऽध्यायः ॥ ५ ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् तृतीये पार्वतीखण्डे मेनावरलाभवर्णनः नाम पंचमः अध्यायः ॥ ५ ॥
iti śrī-śivamahāpurāṇe dvitīyāyām tṛtīye pārvatīkhaṇḍe menāvaralābhavarṇanaḥ nāma paṃcamaḥ adhyāyaḥ .. 5 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In