| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच।।
ततश्चाहं मुनिगणैश्शेषकृत्यं शिवाज्ञया ॥ अकार्षं नारद प्रीत्या शिवाशिवविवाहतः ॥ १ ॥
ततस् च अहम् मुनि-गणैः शेष-कृत्यम् शिव-आज्ञया ॥ अकार्षम् नारद प्रीत्या शिव-अशिव-विवाहतः ॥ १ ॥
tatas ca aham muni-gaṇaiḥ śeṣa-kṛtyam śiva-ājñayā .. akārṣam nārada prītyā śiva-aśiva-vivāhataḥ .. 1 ..
तयोश्शिरोऽभिषेकश्च बभूवादरतस्ततः॥ ध्रुवस्यदर्शनं विप्राः कारयामासुरादरात॥ २॥
तयोः शिरः-अभिषेकः च बभूव आदरतः ततस्॥ ध्रुवस्य अदर्शनम् विप्राः कारयामासुः आदरात्॥ २॥
tayoḥ śiraḥ-abhiṣekaḥ ca babhūva ādarataḥ tatas.. dhruvasya adarśanam viprāḥ kārayāmāsuḥ ādarāt.. 2..
हृदयालम्भनं कर्म बभूव तदनन्तरम् ॥ स्वस्तिपाठश्च विप्रेन्द्र महोत्सवपुरस्सरः ॥ ३ ॥
हृदय-आलम्भनम् कर्म बभूव तद्-अनन्तरम् ॥ स्वस्ति-पाठः च विप्र-इन्द्र महा-उत्सव-पुरस्सरः ॥ ३ ॥
hṛdaya-ālambhanam karma babhūva tad-anantaram .. svasti-pāṭhaḥ ca vipra-indra mahā-utsava-purassaraḥ .. 3 ..
शिवाशिरसि सिन्दूरं ददौ शम्भुर्द्विजाज्ञया ॥ तदानीं गिरिजाभिख्याद्भुतावर्ण्या बभूव ह ॥ ४॥
शिवा-शिरसि सिन्दूरम् ददौ शम्भुः द्विज-आज्ञया ॥ तदानीम् गिरिजा-अभिख्या अद्भुत-अवर्ण्या बभूव ह ॥ ४॥
śivā-śirasi sindūram dadau śambhuḥ dvija-ājñayā .. tadānīm girijā-abhikhyā adbhuta-avarṇyā babhūva ha .. 4..
ततो विप्राज्ञया तौ द्वावेकासनसमास्थितौ ॥ लेभाते परमां शोभां भक्तचित्त मुदावहाम् ॥ ५॥
ततस् विप्र-आज्ञया तौ द्वौ एक-आसन-समास्थितौ ॥ लेभाते परमाम् शोभाम् भक्त-चित्त मुदा आवहाम् ॥ ५॥
tatas vipra-ājñayā tau dvau eka-āsana-samāsthitau .. lebhāte paramām śobhām bhakta-citta mudā āvahām .. 5..
ततः स्वस्थानमागत्य संस्रवप्राशनं मुदा ॥ चक्रतुस्तौ निदेशान्मेऽद्भुतलीलाकरौ मुने ॥ ६॥
ततस् स्व-स्थानम् आगत्य संस्रव-प्राशनम् मुदा ॥ चक्रतुः तौ निदेशात् मे अद्भुत-लीला-करौ मुने ॥ ६॥
tatas sva-sthānam āgatya saṃsrava-prāśanam mudā .. cakratuḥ tau nideśāt me adbhuta-līlā-karau mune .. 6..
इत्थं निवृत्ते विधिवद्याज्ञे वैवाहिके शिवः ॥ ब्रह्मणे पूर्णपात्रं मे ददौ लोककृते प्रभुः ॥ ७ ॥
इत्थम् निवृत्ते विधिवत् याज्ञे वैवाहिके शिवः ॥ ब्रह्मणे पूर्णपात्रम् मे ददौ लोक-कृते प्रभुः ॥ ७ ॥
ittham nivṛtte vidhivat yājñe vaivāhike śivaḥ .. brahmaṇe pūrṇapātram me dadau loka-kṛte prabhuḥ .. 7 ..
गोदानं विधिवच्छम्भुराचार्याय ददौ ततः ॥ महादानानि च प्रीत्या यानि मङ्गलदानि वै ॥ ८ ॥
गो-दानम् विधिवत् शम्भुः आचार्याय ददौ ततस् ॥ महा-दानानि च प्रीत्या यानि मङ्गल-दानि वै ॥ ८ ॥
go-dānam vidhivat śambhuḥ ācāryāya dadau tatas .. mahā-dānāni ca prītyā yāni maṅgala-dāni vai .. 8 ..
ततश्शतसुवर्णं च विप्रेभ्यस्स ददौ पृथक्॥ बहुभ्यो रत्नकोटीश्च नानाद्रव्याण्यनेकशः॥ ९॥
ततस् शत-सुवर्णम् च विप्रेभ्यः स ददौ पृथक्॥ बहुभ्यः रत्न-कोटीः च नाना द्रव्याणि अनेकशस्॥ ९॥
tatas śata-suvarṇam ca viprebhyaḥ sa dadau pṛthak.. bahubhyaḥ ratna-koṭīḥ ca nānā dravyāṇi anekaśas.. 9..
तदानीममरास्सर्वे परे जीवाश्चराचराः॥ मुमुदुश्चेतसातीव जयध्वनिः॥ 2.3.50.१०॥
तदानीम् अमराः सर्वे परे जीवाः चर-अचराः॥ मुमुदुः चेतसा अतीव जय-ध्वनिः॥ २।३।५०।१०॥
tadānīm amarāḥ sarve pare jīvāḥ cara-acarāḥ.. mumuduḥ cetasā atīva jaya-dhvaniḥ.. 2.3.50.10..
मङ्गलध्वनिगानश्च बभूव बहु सर्वतः ॥ वाद्यध्वनिरभूद्रम्यो सर्वानन्दप्रवर्द्धनः ॥ ११ ॥
मङ्गल-ध्वनि-गानः च बभूव बहु सर्वतस् ॥ वाद्य-ध्वनिः अभूत् रम्यः सर्व-आनन्द-प्रवर्द्धनः ॥ ११ ॥
maṅgala-dhvani-gānaḥ ca babhūva bahu sarvatas .. vādya-dhvaniḥ abhūt ramyaḥ sarva-ānanda-pravarddhanaḥ .. 11 ..
हरिर्मयाथ देवाश्च मुनयश्चापरेऽखिलाः ॥ गिरिमामन्त्र्य सुप्रीत्या स्वस्थानम्प्रययुर्द्रुतम् ॥ १२ ॥
हरिः मया अथ देवाः च मुनयः च अपरे अखिलाः ॥ गिरिम् आमन्त्र्य सु प्रीत्या स्व-स्थानम् प्रययुः द्रुतम् ॥ १२ ॥
hariḥ mayā atha devāḥ ca munayaḥ ca apare akhilāḥ .. girim āmantrya su prītyā sva-sthānam prayayuḥ drutam .. 12 ..
तदानीं शैलनगरे स्त्रियश्च मुदिता वरम् ॥ शिवाशिवौ समानीय ययुः कुह वरालयम् ॥ १३ ॥
तदानीम् शैलनगरे स्त्रियः च मुदिताः वरम् ॥ शिव-अशिवौ समानीय ययुः कुह वर-आलयम् ॥ १३ ॥
tadānīm śailanagare striyaḥ ca muditāḥ varam .. śiva-aśivau samānīya yayuḥ kuha vara-ālayam .. 13 ..
लौकिकाचारमाजह्रुस्ताः स्त्रियस्तत्र चादृताः ॥ महोत्साहो बभूवाथ सर्वतः प्रमुदावहः ॥ १४॥
लौकिक-आचारम् आजह्रुः ताः स्त्रियः तत्र च आदृताः ॥ महा-उत्साहः बभूव अथ सर्वतस् प्रमुदा-आवहः ॥ १४॥
laukika-ācāram ājahruḥ tāḥ striyaḥ tatra ca ādṛtāḥ .. mahā-utsāhaḥ babhūva atha sarvatas pramudā-āvahaḥ .. 14..
अथ तास्तौ समानीय दम्पती जनशंकरौ॥ वासालयम्महादिव्यं भवाचारं व्यधुर्मुदा ॥ १५॥
अथ ताः तौ समानीय दम्पती जन-शंकरौ॥ वास-आलयम् महा-दिव्यम् भव-आचारम् व्यधुः मुदा ॥ १५॥
atha tāḥ tau samānīya dampatī jana-śaṃkarau.. vāsa-ālayam mahā-divyam bhava-ācāram vyadhuḥ mudā .. 15..
अथो समीपमागत्य शैलेन्द्रनगरस्त्रियः ॥ निर्वृत्य मङ्गलं कर्म प्रापयन्दम्पती गृहम् ॥ १६॥
अथो समीपम् आगत्य शैलेन्द्र-नगर-स्त्रियः ॥ निर्वृत्य मङ्गलम् कर्म प्रापयन् दम्पती गृहम् ॥ १६॥
atho samīpam āgatya śailendra-nagara-striyaḥ .. nirvṛtya maṅgalam karma prāpayan dampatī gṛham .. 16..
कृत्वा जयध्वनिं चक्रुर्ग्रन्थिनिर्मोचनादिकम् ॥ सस्मितास्सकटाक्षाश्च पुलकाञ्चितविग्रहाः ॥ १७ ॥
कृत्वा जय-ध्वनिम् चक्रुः ग्रन्थि-निर्मोचन-आदिकम् ॥ स स्मिताः स कटाक्षाः च पुलक-आञ्चित-विग्रहाः ॥ १७ ॥
kṛtvā jaya-dhvanim cakruḥ granthi-nirmocana-ādikam .. sa smitāḥ sa kaṭākṣāḥ ca pulaka-āñcita-vigrahāḥ .. 17 ..
वासगेहं सम्प्रविश्य मुमुहुः कामिनीवराः ॥ प्रसंशन्त्यस्स्वभाग्यानि पश्यन्तः परमेश्वरम् ॥ १८॥
वास-गेहम् सम्प्रविश्य मुमुहुः कामिनी-वराः ॥ प्रसंशन्त्यः स्व-भाग्यानि पश्यन्तः परमेश्वरम् ॥ १८॥
vāsa-geham sampraviśya mumuhuḥ kāminī-varāḥ .. prasaṃśantyaḥ sva-bhāgyāni paśyantaḥ parameśvaram .. 18..
महासुरूपवेषश्च सर्व लावण्यसंयुतम् ॥ नवीनयौवनस्थञ्च कामिनीचित्तमोहनम् ॥ १९॥
महा-सुरूप-वेषः च लावण्य-संयुतम् ॥ नवीन-यौवन-स्थञ्च च कामिनी-चित्त-मोहनम् ॥ १९॥
mahā-surūpa-veṣaḥ ca lāvaṇya-saṃyutam .. navīna-yauvana-sthañca ca kāminī-citta-mohanam .. 19..
ईषद्धास्यप्रसन्नास्यं सकटाक्षं सुसुन्दरम् ॥ सुसूक्ष्मवासो बिभ्राणं नानारत्न विभूषितम् ॥ 2.3.50.२० ॥
ईषत् हास्य-प्रसन्न-आस्यम् स कटाक्षम् सु सुन्दरम् ॥ सु सूक्ष्म-वासः बिभ्राणम् नाना रत्न-विभूषितम् ॥ २।३।५०।२० ॥
īṣat hāsya-prasanna-āsyam sa kaṭākṣam su sundaram .. su sūkṣma-vāsaḥ bibhrāṇam nānā ratna-vibhūṣitam .. 2.3.50.20 ..
तदानीन्दिव्यनार्यश्च षोडशारं समाययुः ॥ तौ दम्पती च संद्रष्टुं महादरपुरस्सरम् ॥ २१ ॥
तदानीन् दिव्य-नार्यः च षोडशारम् समाययुः ॥ तौ दम्पती च संद्रष्टुम् महा-आदर-पुरस्सरम् ॥ २१ ॥
tadānīn divya-nāryaḥ ca ṣoḍaśāram samāyayuḥ .. tau dampatī ca saṃdraṣṭum mahā-ādara-purassaram .. 21 ..
सरस्वती च लक्ष्मीश्च सावित्री जाह्नवी तथा ॥ अदितिश्च शची चैव लोपामुद्राप्यरुन्धती ॥ २२ ॥
सरस्वती च लक्ष्मीः च सावित्री जाह्नवी तथा ॥ अदितिः च शची च एव लोपामुद्रा अपि अरुन्धती ॥ २२ ॥
sarasvatī ca lakṣmīḥ ca sāvitrī jāhnavī tathā .. aditiḥ ca śacī ca eva lopāmudrā api arundhatī .. 22 ..
अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ॥ शतरूपा च संज्ञा च रतिरेतास्सुरस्त्रियः ॥ २३ ॥
अहल्या तुलसी स्वाहा रोहिणी च वसुन्धरा ॥ शतरूपा च संज्ञा च ॥ २३ ॥
ahalyā tulasī svāhā rohiṇī ca vasundharā .. śatarūpā ca saṃjñā ca .. 23 ..
देवकन्या नागकन्या मुनिकन्या मनोहराः ॥ तत्र या याः स्थितास्तासां सङ्ख्यां कर्तुं च कः क्षमः ॥ २४ ॥
देव-कन्याः नाग-कन्याः मुनि-कन्याः मनोहराः ॥ तत्र याः याः स्थिताः तासाम् सङ्ख्याम् कर्तुम् च कः क्षमः ॥ २४ ॥
deva-kanyāḥ nāga-kanyāḥ muni-kanyāḥ manoharāḥ .. tatra yāḥ yāḥ sthitāḥ tāsām saṅkhyām kartum ca kaḥ kṣamaḥ .. 24 ..
ताभी रत्नासने दत्ते तत्रोवास शिवो मुदा ॥ तमूचुः क्रमतो देव्यस्सुहास मधुरं वचः ॥ २५ ॥
ताभिः रत्न-आसने दत्ते तत्र उवास शिवः मुदा ॥ तम् ऊचुः क्रमतस् देव्यः सुहास मधुरम् वचः ॥ २५ ॥
tābhiḥ ratna-āsane datte tatra uvāsa śivaḥ mudā .. tam ūcuḥ kramatas devyaḥ suhāsa madhuram vacaḥ .. 25 ..
सरस्वत्युवाच ।।
प्राप्ता सती महादेवाधुना प्राणाधिका मुदा ॥ दृष्ट्वा प्रियास्यञ्चन्द्राभं सन्तापन्त्यज कामुक ॥ २६ ॥
प्राप्ता सती महादेव अधुना प्राण-अधिका मुदा ॥ दृष्ट्वा प्रियास्यन् चन्द्र-आभम् कामुक ॥ २६ ॥
prāptā satī mahādeva adhunā prāṇa-adhikā mudā .. dṛṣṭvā priyāsyan candra-ābham kāmuka .. 26 ..
कालं गमय कालेश सतीसंश्लेषपूर्वकम् ॥ विश्लेषस्ते न भविता सर्वकालं ममाश्रिता ॥ २७ ॥
कालम् गमय काल-ईश सती-संश्लेष-पूर्वकम् ॥ विश्लेषः ते न भविता सर्वकालम् मम आश्रिता ॥ २७ ॥
kālam gamaya kāla-īśa satī-saṃśleṣa-pūrvakam .. viśleṣaḥ te na bhavitā sarvakālam mama āśritā .. 27 ..
लक्ष्मीरुवाच ।।
लज्जां विहाय देवेश सतीं कृत्वा स्ववक्षसि ॥ तिष्ठ ताम्प्रति का लज्जा प्राणा यान्ति यया विना ॥ २८ ॥
लज्जाम् विहाय देवेश सतीम् कृत्वा स्व-वक्षसि ॥ तिष्ठ ताम् प्रति का लज्जा प्राणाः यान्ति यया विना ॥ २८ ॥
lajjām vihāya deveśa satīm kṛtvā sva-vakṣasi .. tiṣṭha tām prati kā lajjā prāṇāḥ yānti yayā vinā .. 28 ..
सावित्र्युवाच ।।
भोजयित्वा सती शम्भो शीघ्रं त्वं भुंक्ष्व मा खिद ॥ तदाचम्य सकर्पूरन्तांबूलं देहि सादरम् ॥ २९ ॥
भोजयित्वा सती शम्भो शीघ्रम् त्वम् भुंक्ष्व मा खिद ॥ तत् आचम्य देहि सादरम् ॥ २९ ॥
bhojayitvā satī śambho śīghram tvam bhuṃkṣva mā khida .. tat ācamya dehi sādaram .. 29 ..
जाह्नव्युवाच ।।
स्वर्णकांतिकरां धृत्वा केशान्मार्जय योषितः ॥ कामिन्यास्स्वामिसौभाग्यसुखं नातः परं भवेत् ॥ 2.3.50.३० ॥
स्वर्ण-कांति-कराम् धृत्वा केशान् मार्जय योषितः ॥ कामिन्याः स्वामि-सौभाग्य-सुखम् न अतस् परम् भवेत् ॥ २।३।५०।३० ॥
svarṇa-kāṃti-karām dhṛtvā keśān mārjaya yoṣitaḥ .. kāminyāḥ svāmi-saubhāgya-sukham na atas param bhavet .. 2.3.50.30 ..
अदितिरुवाच ।।
भोजनान्ते शिवः शम्भुं मुखं शुद्ध्यर्थमादरात् ॥ जलं देहि महाप्रीत्या दम्पतिप्रेम दुर्लभम् ॥ ३१॥
भोजन-अन्ते शिवः शम्भुम् मुखम् शुद्धि-अर्थम् आदरात् ॥ जलम् देहि महा-प्रीत्या दम्पति-प्रेम दुर्लभम् ॥ ३१॥
bhojana-ante śivaḥ śambhum mukham śuddhi-artham ādarāt .. jalam dehi mahā-prītyā dampati-prema durlabham .. 31..
शच्युवाच ।।
कृत्वा विलापं यद्धेतोः शिवां कृत्वा च वक्षसि ॥ यो बभ्रामानिशं मोहात् का लज्जा ते प्रियाम्प्रति ॥ ३२॥
कृत्वा विलापम् यद्धेतोः शिवाम् कृत्वा च वक्षसि ॥ यः बभ्राम अनिशम् मोहात् का लज्जा ते प्रियाम् प्रति ॥ ३२॥
kṛtvā vilāpam yaddhetoḥ śivām kṛtvā ca vakṣasi .. yaḥ babhrāma aniśam mohāt kā lajjā te priyām prati .. 32..
लोपामुद्रोवाच ।।
व्यवहारोऽस्ति च स्त्रीणां भुक्त्वा वासगृहे शिव ॥ दत्त्वा शिवायै ताम्बूलं शयनं कर्तुमर्हसि ॥ ३३॥
व्यवहारः अस्ति च स्त्रीणाम् भुक्त्वा वासगृहे शिव ॥ दत्त्वा शिवायै ताम्बूलम् शयनम् कर्तुम् अर्हसि ॥ ३३॥
vyavahāraḥ asti ca strīṇām bhuktvā vāsagṛhe śiva .. dattvā śivāyai tāmbūlam śayanam kartum arhasi .. 33..
अरुन्धत्युवाच ।।
मया दत्तां सतीमेनां तुभ्यन्दातुमनीप्सिताम्॥ विविधं बोधयित्वेमां सुरतिं कर्तुमर्हसि ॥ ३४॥
मया दत्ताम् सतीम् एनाम् तुभ्यन् दातुम् अनीप्सिताम्॥ विविधम् बोधयित्वा इमाम् सुरतिम् कर्तुम् अर्हसि ॥ ३४॥
mayā dattām satīm enām tubhyan dātum anīpsitām.. vividham bodhayitvā imām suratim kartum arhasi .. 34..
अहल्योवाच ।।
वृद्धावस्थाम्परित्यज्य ह्यतीव तरुणो भव॥ येन मेनानुमन्येत त्वां सुतार्पितमानसा॥ ३५॥
वृद्ध-अवस्थाम् परित्यज्य हि अतीव तरुणः भव॥ येन मेना अनुमन्येत त्वाम् सुत-अर्पित-मानसा॥ ३५॥
vṛddha-avasthām parityajya hi atīva taruṇaḥ bhava.. yena menā anumanyeta tvām suta-arpita-mānasā.. 35..
तुलस्युवाच ।।
सती त्वया परित्यक्ता कामो दग्धः पुरा कृतः ॥ कथन्तदा वसिष्ठश्च प्रभो प्रस्थापितोऽधुना ॥ ३६॥
सती त्वया परित्यक्ता कामः दग्धः पुरा कृतः ॥ कथम् तदा वसिष्ठः च प्रभो प्रस्थापितः अधुना ॥ ३६॥
satī tvayā parityaktā kāmaḥ dagdhaḥ purā kṛtaḥ .. katham tadā vasiṣṭhaḥ ca prabho prasthāpitaḥ adhunā .. 36..
स्वाहोवाच ।।
स्थिरो भव महादेव स्त्रीणां वचसि साम्प्रतम् ॥ विवाहे व्यवहारोऽस्ति पुरन्ध्रीणां प्रगल्भता ॥ ३७॥
स्थिरः भव महादेव स्त्रीणाम् वचसि साम्प्रतम् ॥ विवाहे व्यवहारः अस्ति पुरन्ध्रीणाम् प्रगल्भ-ता ॥ ३७॥
sthiraḥ bhava mahādeva strīṇām vacasi sāmpratam .. vivāhe vyavahāraḥ asti purandhrīṇām pragalbha-tā .. 37..
रोहिण्युवाच ।।
कामम्पूरय पार्वत्याः कामशास्त्रविशारद ॥ कुरु पारं स्वयं कामी कामिनीकामसागरम् ॥ ३८ ॥
कामम् पूरय पार्वत्याः कामशास्त्र-विशारद ॥ कुरु पारम् स्वयम् कामी कामिनी-काम-सागरम् ॥ ३८ ॥
kāmam pūraya pārvatyāḥ kāmaśāstra-viśārada .. kuru pāram svayam kāmī kāminī-kāma-sāgaram .. 38 ..
।। वसुन्धरोवाच ।।
जानासि भावं भावज्ञ कामार्तानां च योषिताम्॥ न च स्वं स्वामिनं शम्भो ईश्वरं पाति सन्ततम्।३९
जानासि भावम् भाव-ज्ञ काम-आर्तानाम् च योषिताम्॥ न च स्वम् स्वामिनम् शम्भो ईश्वरम् पाति सन्ततम्।३९
jānāsi bhāvam bhāva-jña kāma-ārtānām ca yoṣitām.. na ca svam svāminam śambho īśvaram pāti santatam.39
शतरूपोवाच ।।
भोगं दिव्यं विना भुक्त्वा न हि तुष्येत्क्षुधातुरः ॥ येन तुष्टिर्भवेच्छंभो तत्कर्तुमुचितं स्त्रियाः ॥ 2.3.50.४०॥
भोगम् दिव्यम् विना भुक्त्वा न हि तुष्येत् क्षुधा-आतुरः ॥ येन तुष्टिः भवेत् शंभो तत् कर्तुम् उचितम् स्त्रियाः ॥ २।३।५०।४०॥
bhogam divyam vinā bhuktvā na hi tuṣyet kṣudhā-āturaḥ .. yena tuṣṭiḥ bhavet śaṃbho tat kartum ucitam striyāḥ .. 2.3.50.40..
।। संज्ञोवाच ।।
तूर्णं प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ॥ रत्नप्रदीपन्ताम्बूलं तल्पं निर्माय निर्जने ॥ ४१ ॥
तूर्णम् प्रस्थापय प्रीत्या पार्वत्या सह शङ्करम् ॥ रत्न-प्रदीपन् ताम्बूलम् तल्पम् निर्माय निर्जने ॥ ४१ ॥
tūrṇam prasthāpaya prītyā pārvatyā saha śaṅkaram .. ratna-pradīpan tāmbūlam talpam nirmāya nirjane .. 41 ..
।। ब्रह्मोवाच ।।
स्त्रीणान्तद्वचनं श्रुत्वा ता उवाच शिवः स्वयम् ॥ निर्विकारश्च भगवान्योगीन्द्राणां गुरोर्गुरुः ॥ ४२॥
स्त्रीणाम् तत् वचनम् श्रुत्वा ताः उवाच शिवः स्वयम् ॥ निर्विकारः च भगवान् योगि-इन्द्राणाम् गुरोः गुरुः ॥ ४२॥
strīṇām tat vacanam śrutvā tāḥ uvāca śivaḥ svayam .. nirvikāraḥ ca bhagavān yogi-indrāṇām guroḥ guruḥ .. 42..
शंकर उवाच ।।
देव्यो न ब्रूत वचनमेवंभूतं ममान्तिकम् ॥ जगतां मातरः साध्व्यः पुत्रे चपलता कथम् ॥ ४३॥
देव्यः न ब्रूत वचनम् एवंभूतम् मम अन्तिकम् ॥ जगताम् मातरः साध्व्यः पुत्रे चपल-ता कथम् ॥ ४३॥
devyaḥ na brūta vacanam evaṃbhūtam mama antikam .. jagatām mātaraḥ sādhvyaḥ putre capala-tā katham .. 43..
ब्रह्मोवाच ।।
शङ्करस्य वचः श्रुत्वा लज्जितास्सुरयोषितः ॥ बभूवुः सम्भ्रमात्तूष्णीं चित्रपुत्तलिका यथा ॥ ४४॥
शङ्करस्य वचः श्रुत्वा लज्जिताः सुर-योषितः ॥ बभूवुः सम्भ्रमात् तूष्णीम् चित्र-पुत्तलिकाः यथा ॥ ४४॥
śaṅkarasya vacaḥ śrutvā lajjitāḥ sura-yoṣitaḥ .. babhūvuḥ sambhramāt tūṣṇīm citra-puttalikāḥ yathā .. 44..
भुक्त्वा मिष्टान्नमाचम्य महेशो हृष्टमानसः ॥ सकर्पूरं च तांबूलं बुभुजे भार्य या सह ॥ ४५॥
भुक्त्वा मिष्टान्नम् आचम्य महेशः हृष्ट-मानसः ॥ स कर्पूरम् च तांबूलम् बुभुजे या सह ॥ ४५॥
bhuktvā miṣṭānnam ācamya maheśaḥ hṛṣṭa-mānasaḥ .. sa karpūram ca tāṃbūlam bubhuje yā saha .. 45..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीय पार्वतीखण्डे परिहासवर्णनंनाम पञ्चाशत्तमोऽध्यायः ॥ ५०॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीय-पार्वतीखण्डे परिहासवर्णनम् नाम पञ्चाशत्तमः अध्यायः ॥ ५०॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīya-pārvatīkhaṇḍe parihāsavarṇanam nāma pañcāśattamaḥ adhyāyaḥ .. 50..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In