| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
तस्मिन्नवसरे ज्ञात्वानुकूलं समयं रतिः ॥ सुप्रसन्ना च तम्प्राह शङ्करं दीनवत्सलम् ॥ १ ॥
तस्मिन् अवसरे ज्ञात्वा अनुकूलम् समयम् रतिः ॥ सु प्रसन्ना च तम् प्राह शङ्करम् दीन-वत्सलम् ॥ १ ॥
tasmin avasare jñātvā anukūlam samayam ratiḥ .. su prasannā ca tam prāha śaṅkaram dīna-vatsalam .. 1 ..
रतिरुवाच ।।
गृहीत्वा पार्वतीं प्राप्तं सौभाग्यमतिदुर्लभम् ॥ किमर्थं प्राणनाथो मे निस्स्वार्थं भस्मसात्कृतः ॥ २ ॥
गृहीत्वा पार्वतीम् प्राप्तम् सौभाग्यम् अति दुर्लभम् ॥ किमर्थम् प्राणनाथः मे निस्स्वार्थम् भस्मसात्कृतः ॥ २ ॥
gṛhītvā pārvatīm prāptam saubhāgyam ati durlabham .. kimartham prāṇanāthaḥ me nissvārtham bhasmasātkṛtaḥ .. 2 ..
जीवयात्रा पतिं मे हि कामव्या पारमात्मनि ॥ कुरु दूरं च सन्तापं समविश्लेषहेतुकम् ॥ ३॥
जीवयात्रा पतिम् मे हि कामव्या पारमात्मनि ॥ कुरु दूरम् च सन्तापम् सम-विश्लेष-हेतुकम् ॥ ३॥
jīvayātrā patim me hi kāmavyā pāramātmani .. kuru dūram ca santāpam sama-viśleṣa-hetukam .. 3..
विवाहोत्सव एतस्मिन् सुखिनो निखिला जनाः ॥ अहमेका महेशान दुःखिनी स्वपतिम्विना ॥ ४॥
विवाह-उत्सवे एतस्मिन् सुखिनः निखिलाः जनाः ॥ अहम् एका महेशान दुःखिनी स्व-पतिम् विना ॥ ४॥
vivāha-utsave etasmin sukhinaḥ nikhilāḥ janāḥ .. aham ekā maheśāna duḥkhinī sva-patim vinā .. 4..
सनाथां कुरु मान्देव प्रसन्नो भव शङ्कर ॥ स्वोक्तं सत्यम्विधेहि त्वं दीनबन्धो पर प्रभो ॥ ५ ॥
स नाथाम् कुरु मान्देव प्रसन्नः भव शङ्कर ॥ स्व-उक्तम् सत्यम् विधेहि त्वम् दीन-बन्धो पर प्रभो ॥ ५ ॥
sa nāthām kuru māndeva prasannaḥ bhava śaṅkara .. sva-uktam satyam vidhehi tvam dīna-bandho para prabho .. 5 ..
त्वाम्विना कस्समर्थोत्र त्रैलोक्ये सचराचरे ॥ नाशने मम दुःखस्य ज्ञात्वेति करुणां कुरु ॥ ६॥
त्वाम् विना कः समर्थः उत्र त्रैलोक्ये स चराचरे ॥ न अशने मम दुःखस्य ज्ञात्वा इति करुणाम् कुरु ॥ ६॥
tvām vinā kaḥ samarthaḥ utra trailokye sa carācare .. na aśane mama duḥkhasya jñātvā iti karuṇām kuru .. 6..
सोत्सवे स्वविवाहेऽस्मिन्सर्वानन्द प्रदायिनी ॥ सोत्सवामपि मां नाथ कुरु दीनकृपाकर ॥ ७ ॥
स उत्सवे स्व-विवाहे अस्मिन् सर्व-आनन्द-प्रदायिनी ॥ स उत्सवाम् अपि माम् नाथ कुरु दीन-कृपा-कर ॥ ७ ॥
sa utsave sva-vivāhe asmin sarva-ānanda-pradāyinī .. sa utsavām api mām nātha kuru dīna-kṛpā-kara .. 7 ..
जीविते मम नाथे हि पार्वत्या प्रियया सह ॥ सुविहारः प्रपूर्णश्च भविष्यति न संशयः ॥ ८ ॥
जीविते मम नाथे हि पार्वत्या प्रियया सह ॥ सु विहारः प्रपूर्णः च भविष्यति न संशयः ॥ ८ ॥
jīvite mama nāthe hi pārvatyā priyayā saha .. su vihāraḥ prapūrṇaḥ ca bhaviṣyati na saṃśayaḥ .. 8 ..
सर्वं कर्तुं समर्थोसि यतस्त्वं परमेश्वरः ॥ किम्बहूक्त्यात्र सर्वेश जीवयाशु पतिं मम ॥ ९ ॥
सर्वम् कर्तुम् समर्थः असि यतस् त्वम् परमेश्वरः ॥ किम् बहु-उक्त्या अत्र सर्व-ईश जीवय आशु पतिम् मम ॥ ९ ॥
sarvam kartum samarthaḥ asi yatas tvam parameśvaraḥ .. kim bahu-uktyā atra sarva-īśa jīvaya āśu patim mama .. 9 ..
।। ब्रह्मोवाच ।।
तदित्युक्त्वा कामभस्म ददौ सग्रन्धिबन्धनम् ॥ रुरोद पुरतश्शम्भोर्नाथ नाथेत्युदीर्य्य च ॥ 2.3.51.१० ॥
तत् इति उक्त्वा काम-भस्म ददौ स ग्रन्धि-बन्धनम् ॥ रुरोद पुरतस् शम्भोः नाथ नाथ इति उदीर्य्य च ॥ २।३।५१।१० ॥
tat iti uktvā kāma-bhasma dadau sa grandhi-bandhanam .. ruroda puratas śambhoḥ nātha nātha iti udīryya ca .. 2.3.51.10 ..
रतिरोदनमाकर्ण्य सरस्वत्यादयः स्त्रियः ॥ रुरुदुस्सकला देव्यः प्रोचुर्दीनतरं वचः ॥ ११॥
रति-रोदनम् आकर्ण्य सरस्वती-आदयः स्त्रियः ॥ रुरुदुः सकलाः देव्यः प्रोचुः दीनतरम् वचः ॥ ११॥
rati-rodanam ākarṇya sarasvatī-ādayaḥ striyaḥ .. ruruduḥ sakalāḥ devyaḥ procuḥ dīnataram vacaḥ .. 11..
।। देव्य ऊचुः ।।
भक्तवत्सलनामा त्वं दीनबन्धुर्दयानिधिः ॥ काम जीवय सोत्साहां रति कुरु नमोऽस्तु ते ॥ १२॥
भक्त-वत्सल-नामा त्वम् दीन-बन्धुः दया-निधिः ॥ काम जीवय स उत्साहाम् रति कुरु नमः अस्तु ते ॥ १२॥
bhakta-vatsala-nāmā tvam dīna-bandhuḥ dayā-nidhiḥ .. kāma jīvaya sa utsāhām rati kuru namaḥ astu te .. 12..
ब्रह्मोवाच ।।
इति तद्वचनं श्रुत्वा प्रसन्नोऽभून्महेश्वरः॥ कृपादृष्टिं चकाराशु करुणासागरः प्रभुः ॥ १३ ॥
इति तत् वचनम् श्रुत्वा प्रसन्नः अभूत् महेश्वरः॥ कृपा-दृष्टिम् चकार आशु करुणा-सागरः प्रभुः ॥ १३ ॥
iti tat vacanam śrutvā prasannaḥ abhūt maheśvaraḥ.. kṛpā-dṛṣṭim cakāra āśu karuṇā-sāgaraḥ prabhuḥ .. 13 ..
सुधादृष्ट्या शूलभृतो भस्मतो निर्गतः स्मरः ॥ तद्रूपवेषचिह्नात्मा सुन्दरोद्भुतमूर्तिमान् ॥ १४॥
सुधा-दृष्ट्या शूलभृतः भस्मतः निर्गतः स्मरः ॥ तद्-रूप-वेष-चिह्न-आत्मा सुन्दर-उद्भुत-मूर्तिमान् ॥ १४॥
sudhā-dṛṣṭyā śūlabhṛtaḥ bhasmataḥ nirgataḥ smaraḥ .. tad-rūpa-veṣa-cihna-ātmā sundara-udbhuta-mūrtimān .. 14..
तद्रूपश्च तदाकारसंस्मितं सधनुश्शरम् ॥ दृष्ट्वा पतिं रतिस्तं च प्रणनाम महेश्वरम् ॥ १५॥
तद्-रूपः च तद्-आकार-संस्मितम् स धनुः-शरम् ॥ दृष्ट्वा पतिम् रतिः तम् च प्रणनाम महेश्वरम् ॥ १५॥
tad-rūpaḥ ca tad-ākāra-saṃsmitam sa dhanuḥ-śaram .. dṛṣṭvā patim ratiḥ tam ca praṇanāma maheśvaram .. 15..
कृतार्थाभूच्छिवं देवं तुष्टाव च कृताञ्जलिः ॥ प्राणनाथप्रदं पत्या जीवितेन पुनःपुनः ॥ १६॥
कृतार्था अभूत् शिवम् देवम् तुष्टाव च कृताञ्जलिः ॥ प्राणनाथ-प्रदम् पत्या जीवितेन पुनर् पुनर् ॥ १६॥
kṛtārthā abhūt śivam devam tuṣṭāva ca kṛtāñjaliḥ .. prāṇanātha-pradam patyā jīvitena punar punar .. 16..
कामस्य स्तुतिमाकर्ण्य सनारीकस्य शङ्करः ॥ प्रसन्नोऽभवदत्यंतमुवाच करुणार्द्रधीः ॥ १७ ॥
कामस्य स्तुतिम् आकर्ण्य स नारीकस्य शङ्करः ॥ प्रसन्नः अभवत् अत्यंतम् उवाच करुणा-आर्द्र-धीः ॥ १७ ॥
kāmasya stutim ākarṇya sa nārīkasya śaṅkaraḥ .. prasannaḥ abhavat atyaṃtam uvāca karuṇā-ārdra-dhīḥ .. 17 ..
शङ्कर उवाच ।।
प्रसन्नोहं तव स्तुत्या सनारीकस्य चित्तज ॥ स्वयंभव वरम्बूहि वाञ्छितं तद्ददामि ते ॥ १८ ॥
प्रसन्ना उहम् तव स्तुत्या स नारीकस्य चित्त-ज ॥ स्वयंभव वरम् बूहि वाञ्छितम् तत् ददामि ते ॥ १८ ॥
prasannā uham tava stutyā sa nārīkasya citta-ja .. svayaṃbhava varam būhi vāñchitam tat dadāmi te .. 18 ..
ब्रह्मोवाच ।।
इति शम्भुवचः श्रुत्वा महानदन्स्स्मरस्ततः ॥ उवाच साञ्जलिर्नम्रो गद्गदाक्षरया गिरा ॥ १९ ॥
इति शम्भु-वचः श्रुत्वा महा-नदन् स्मरः ततस् ॥ उवाच स अञ्जलिः नम्रः गद्गद-अक्षरया गिरा ॥ १९ ॥
iti śambhu-vacaḥ śrutvā mahā-nadan smaraḥ tatas .. uvāca sa añjaliḥ namraḥ gadgada-akṣarayā girā .. 19 ..
।। काम उवाच ।।
देवदेव महादेव करुणासागर प्रभो ॥ यदि प्रसन्नस्सर्वेशः ममानन्दकरो भव ॥ 2.3.51.२० ॥
देवदेव महादेव करुणा-सागर प्रभो ॥ यदि प्रसन्नः सर्व-ईशः मम आनन्द-करः भव ॥ २।३।५१।२० ॥
devadeva mahādeva karuṇā-sāgara prabho .. yadi prasannaḥ sarva-īśaḥ mama ānanda-karaḥ bhava .. 2.3.51.20 ..
क्षमस्व मेऽपराधं हि यत्कृतश्च पुरा प्रभो ॥ स्वजनेषु पराम्प्रीतिं भक्तिन्देहि स्वपादयोः ॥ २१ ॥
क्षमस्व मे अपराधम् हि यद्-कृतः च पुरा प्रभो ॥ स्व-जनेषु पराम् प्रीतिम् भक्तिन् देहि स्व-पादयोः ॥ २१ ॥
kṣamasva me aparādham hi yad-kṛtaḥ ca purā prabho .. sva-janeṣu parām prītim bhaktin dehi sva-pādayoḥ .. 21 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य स्मरवचः प्रसन्नः परमेश्वरःॐ मित्युक्त्वाऽब्रवीत्तं वै विहसन्करुणानिधिः ॥ २२ ॥
ityākarṇya smaravacaḥ prasannaḥ parameśvaraḥॐ mityuktvā'bravīttaṃ vai vihasankaruṇānidhiḥ || 22 ||
ityākarṇya smaravacaḥ prasannaḥ parameśvaraḥoṃ mityuktvā'bravīttaṃ vai vihasankaruṇānidhiḥ || 22 ||
ईश्वर उवाच ।।
हे कामाहं प्रसन्नोऽस्मि भयन्त्यज महामते ॥ गच्छ विष्णुसमीपञ्च बहिस्थाने स्थितो भव ॥ २३ ॥
हे काम अहम् प्रसन्नः अस्मि भयन्त्यज महामते ॥ गच्छ विष्णु-समीपम् च बहि स्थाने स्थितः भव ॥ २३ ॥
he kāma aham prasannaḥ asmi bhayantyaja mahāmate .. gaccha viṣṇu-samīpam ca bahi sthāne sthitaḥ bhava .. 23 ..
ब्रह्मोवाच ।। ।।
तच्छ्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन्विभुम् ॥ बहिर्गत्वा हरिन्देवान्प्रणम्य समुपास्त सः ॥ २४ ॥
तत् श्रुत्वा शिरसा नत्वा परिक्रम्य स्तुवन् विभुम् ॥ बहिस् गत्वा हरिन् देवान् प्रणम्य समुपास्त सः ॥ २४ ॥
tat śrutvā śirasā natvā parikramya stuvan vibhum .. bahis gatvā harin devān praṇamya samupāsta saḥ .. 24 ..
कामं सम्भाष्य देवाश्च ददुस्तस्मै शुभाशिषम् ॥ विष्ण्वादयः प्रसन्नास्ते प्रोचुः स्मृत्वा शिवं हृदि ॥ २५ ॥
कामम् सम्भाष्य देवाः च ददुः तस्मै शुभ-आशिषम् ॥ विष्णु-आदयः प्रसन्नाः ते प्रोचुः स्मृत्वा शिवम् हृदि ॥ २५ ॥
kāmam sambhāṣya devāḥ ca daduḥ tasmai śubha-āśiṣam .. viṣṇu-ādayaḥ prasannāḥ te procuḥ smṛtvā śivam hṛdi .. 25 ..
देवा ऊचुः ।।
धन्यस्त्वं स्मर सन्दग्धः शिवेनानुग्रहीकृतः ॥ जीवयामास सत्त्वांशकृपादृष्ट्या खिलेश्वरः ॥ २६ ॥
धन्यः त्वम् स्मर सन्दग्धः शिवेन अनुग्रहीकृतः ॥ जीवयामास सत्त्व-अंश-कृपा-दृष्ट्या खिलेश्वरः ॥ २६ ॥
dhanyaḥ tvam smara sandagdhaḥ śivena anugrahīkṛtaḥ .. jīvayāmāsa sattva-aṃśa-kṛpā-dṛṣṭyā khileśvaraḥ .. 26 ..
सुखदुःखदो न चान्योऽस्ति यतस्स्वकृतभृक् पुमान् ॥ काले रक्षा विवाहश्च निषेकः केन वार्यते ॥ २७ ।
सुख-दुःख-दः न च अन्यः अस्ति यतस् स्व-कृत-भृत् पुमान् ॥ काले रक्षा विवाहः च निषेकः केन वार्यते ॥ २७ ।
sukha-duḥkha-daḥ na ca anyaḥ asti yatas sva-kṛta-bhṛt pumān .. kāle rakṣā vivāhaḥ ca niṣekaḥ kena vāryate .. 27 .
ब्रह्मोवाच ।।
इत्युक्त्वा ते च सम्मान्य तं सुखेनामरास्तदा ॥ सन्तस्थुस्तत्र विष्ण्वाद्यास्सर्वे लब्धमनोरथाः ॥ २८ ॥
इति उक्त्वा ते च सम्मान्य तम् सुखेन अमराः तदा ॥ सन्तस्थुः तत्र विष्णु-आद्याः सर्वे लब्ध-मनोरथाः ॥ २८ ॥
iti uktvā te ca sammānya tam sukhena amarāḥ tadā .. santasthuḥ tatra viṣṇu-ādyāḥ sarve labdha-manorathāḥ .. 28 ..
सोपि प्रमुदितस्तत्र समुवास शिवाज्ञया ॥ जयशब्दो नमश्शब्दस्साधुशब्दो बभूव ह ॥ २९॥
सः उपि प्रमुदितः तत्र समुवास शिव-आज्ञया ॥ जय-शब्दः नमः-शब्दः साधु-शब्दः बभूव ह ॥ २९॥
saḥ upi pramuditaḥ tatra samuvāsa śiva-ājñayā .. jaya-śabdaḥ namaḥ-śabdaḥ sādhu-śabdaḥ babhūva ha .. 29..
ततश्शम्भुर्वासगेहे वामे संस्थाप्य पार्वतीम् ॥ मिष्टान्नं भोजयामास तं च सा च मुदान्विता ॥ 2.3.51.३० ॥
ततस् शम्भुः वासगेहे वामे संस्थाप्य पार्वतीम् ॥ मिष्टान्नम् भोजयामास तम् च सा च मुदा अन्विता ॥ २।३।५१।३० ॥
tatas śambhuḥ vāsagehe vāme saṃsthāpya pārvatīm .. miṣṭānnam bhojayāmāsa tam ca sā ca mudā anvitā .. 2.3.51.30 ..
अथ शम्भुर्भवाचारी तत्र कृत्यम्विधाय तत् ॥ मेनामामंत्र्य शैलं च जनवासं जगाम सः ॥ ३१॥
अथ शम्भुः भव-आचारी तत्र कृत्यम् विधाय तत् ॥ मेनाम् आमंत्र्य शैलम् च जन-वासम् जगाम सः ॥ ३१॥
atha śambhuḥ bhava-ācārī tatra kṛtyam vidhāya tat .. menām āmaṃtrya śailam ca jana-vāsam jagāma saḥ .. 31..
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ॥ वाद्यानि वादयामासुर्जनाश्चतुर्विधानि च ॥ ३२ ॥
महा-उत्सवः तदा च आसीत् वेद-ध्वनिः अभूत् मुने ॥ वाद्यानि वादयामासुः जनाः चतुर्विधानि च ॥ ३२ ॥
mahā-utsavaḥ tadā ca āsīt veda-dhvaniḥ abhūt mune .. vādyāni vādayāmāsuḥ janāḥ caturvidhāni ca .. 32 ..
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ॥ हरिं च मां भवाचाराद्वन्दितोऽभूत्सुरादिभिः ॥ ३३ ॥
शम्भुः आगत्य स्व-स्थानम् ववन्दे च मुनीन् तदा ॥ हरिम् च माम् भव-आचारात् वन्दितः अभूत् सुर-आदिभिः ॥ ३३ ॥
śambhuḥ āgatya sva-sthānam vavande ca munīn tadā .. harim ca mām bhava-ācārāt vanditaḥ abhūt sura-ādibhiḥ .. 33 ..
जयशब्दो बभूवाथ नम श्शब्दस्तथैव च ॥ वेदध्वनिश्च शुभदः सर्वविघ्नविदारणः ॥ ३४ ॥
जय-शब्दः बभूव अथ नमः शब्दः तथा एव च ॥ वेद-ध्वनिः च शुभ-दः सर्व-विघ्न-विदारणः ॥ ३४ ॥
jaya-śabdaḥ babhūva atha namaḥ śabdaḥ tathā eva ca .. veda-dhvaniḥ ca śubha-daḥ sarva-vighna-vidāraṇaḥ .. 34 ..
अथ विष्णुरहं शक्रस्सर्वे देवाश्च सर्षयः ॥ सिद्धा उपसुरा नागास्तुष्टुवुस्ते पृथक्पृथक् ॥ ३५ ॥
अथ विष्णुः अहम् शक्रः सर्वे देवाः च स ऋषयः ॥ सिद्धाः उपसुराः नागाः तुष्टुवुः ते पृथक् पृथक् ॥ ३५ ॥
atha viṣṇuḥ aham śakraḥ sarve devāḥ ca sa ṛṣayaḥ .. siddhāḥ upasurāḥ nāgāḥ tuṣṭuvuḥ te pṛthak pṛthak .. 35 ..
देवा ऊचुः ।।
जय शम्भोऽखिलाधार जय नाम महेश्वर ॥ जय रुद्र महादेव जय विश्व म्भर प्रभो ॥ ३६ ॥
जय शम्भो अखिल-आधार जय नाम महेश्वर ॥ जय रुद्र महादेव जय विश्व-म्भर प्रभो ॥ ३६ ॥
jaya śambho akhila-ādhāra jaya nāma maheśvara .. jaya rudra mahādeva jaya viśva-mbhara prabho .. 36 ..
जय कालीपते स्वामिञ्जयानन्दप्रवर्धक ॥ जय त्र्यम्बक सर्वेश जय मायापते विभो ॥ ३७ ॥
जय काली-पते स्वामिन् जय आनन्द-प्रवर्धक ॥ जय त्र्यम्बक सर्व-ईश जय मायापते विभो ॥ ३७ ॥
jaya kālī-pate svāmin jaya ānanda-pravardhaka .. jaya tryambaka sarva-īśa jaya māyāpate vibho .. 37 ..
जय निर्गुण निष्काम कारणातीत सर्वग ॥ जय लीलाखिलाधार धृतरूप नमोऽस्तु ते॥ ३८॥
जय निर्गुण निष्काम कारण-अतीत सर्वग ॥ जय लीला-अखिल-आधार धृत-रूप नमः अस्तु ते॥ ३८॥
jaya nirguṇa niṣkāma kāraṇa-atīta sarvaga .. jaya līlā-akhila-ādhāra dhṛta-rūpa namaḥ astu te.. 38..
जय स्वभक्तसत्कामप्रदेश करुणाकर॥ जय सानन्दसद्रूप जय मायागुणाकृते ॥ ३९॥
जय स्व-भक्त-सत्-काम-प्रदेश करुणाकर॥ जय स आनन्द-सत्-रूप जय माया-गुण-आकृते ॥ ३९॥
jaya sva-bhakta-sat-kāma-pradeśa karuṇākara.. jaya sa ānanda-sat-rūpa jaya māyā-guṇa-ākṛte .. 39..
जयोग्र मृड सर्वात्मन् दीनबन्धो दयानिधे ॥ जयाविकार मायेश वाङ्मनोतीतविग्रह ॥ 2.3.51.४०॥
जय उग्र मृड सर्वात्मन् दीन-बन्धो दया-निधे ॥ जय अविकार माया-ईश वाच्-मनः-उतीत-विग्रह ॥ २।३।५१।४०॥
jaya ugra mṛḍa sarvātman dīna-bandho dayā-nidhe .. jaya avikāra māyā-īśa vāc-manaḥ-utīta-vigraha .. 2.3.51.40..
ब्रह्मोवाच ।।
इति स्तुत्वा महेशानं गिरिजानायकम्प्रभुम् ॥ सिषेविरे परप्रीत्या विष्ण्वाद्यास्ते यथोचितम् ॥ ४१ ॥
इति स्तुत्वा महेशानम् गिरिजानायकम्प्रभुम् ॥ सिषेविरे पर-प्रीत्या विष्णु-आद्याः ते यथोचितम् ॥ ४१ ॥
iti stutvā maheśānam girijānāyakamprabhum .. siṣevire para-prītyā viṣṇu-ādyāḥ te yathocitam .. 41 ..
अथ शम्भुर्महेशानो लीलात्ततनुरीश्वरः ॥ ददौ मानवरन्तेषां सर्वेषान्तत्र नारद॥ ४२॥
अथ शम्भुः महेशानः लीला-आत्त-तनुः ईश्वरः ॥ ददौ मानवरम् तेषाम् सर्वेषाम् तत्र नारद॥ ४२॥
atha śambhuḥ maheśānaḥ līlā-ātta-tanuḥ īśvaraḥ .. dadau mānavaram teṣām sarveṣām tatra nārada.. 42..
विष्ण्वाद्यास्तेऽखिलास्तात प्राप्याज्ञाम्परमेशितुः॥ अतिहृष्टाः प्रसन्नास्याः स्वस्थानञ्जग्मुरादृताः ॥ ४३ ॥
विष्णु-आद्याः ते अखिलाः तात प्राप्य आज्ञाम् परमेशितुः॥ अति हृष्टाः प्रसन्न-आस्याः स्व-स्थानन् जग्मुः आदृताः ॥ ४३ ॥
viṣṇu-ādyāḥ te akhilāḥ tāta prāpya ājñām parameśituḥ.. ati hṛṣṭāḥ prasanna-āsyāḥ sva-sthānan jagmuḥ ādṛtāḥ .. 43 ..
इति श्रीशिवमहापुराणे ब्रह्मनारदसम्वादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे कामसंजीवनवर्णनं नामैकपञ्चाशत्तमोऽध्यायः॥ ५१॥
इति श्री-शिव-महापुराणे ब्रह्म-नारद-सम्वादे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे कामसंजीवनवर्णनम् नाम एकपञ्चाशत्तमः अध्यायः॥ ५१॥
iti śrī-śiva-mahāpurāṇe brahma-nārada-samvāde dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe kāmasaṃjīvanavarṇanam nāma ekapañcāśattamaḥ adhyāyaḥ.. 51..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In