| |
|

This overlay will guide you through the buttons:

अथ शैलवरस्तात हिमवान्भाग्यसत्तमः ॥ प्राङ्गणं रचयामास भोजनार्थं विचक्षणः ॥ १॥
अथ शैल-वरः तात हिमवान् भाग्य-सत्तमः ॥ प्राङ्गणम् रचयामास भोजन-अर्थम् विचक्षणः ॥ १॥
atha śaila-varaḥ tāta himavān bhāgya-sattamaḥ .. prāṅgaṇam racayāmāsa bhojana-artham vicakṣaṇaḥ .. 1..
ब्रह्मोवाच ।।
मार्जनं लेपनं सम्यक्कारयामास तस्य सः ॥ स सुगन्धैरलञ्चक्रे नानावस्तुभिरादरात् ॥ २॥
मार्जनम् लेपनम् सम्यक् कारयामास तस्य सः ॥ स सुगन्धैः अलञ्चक्रे नाना वस्तुभिः आदरात् ॥ २॥
mārjanam lepanam samyak kārayāmāsa tasya saḥ .. sa sugandhaiḥ alañcakre nānā vastubhiḥ ādarāt .. 2..
अथ शैलस्सुरान्सर्वानन्यानपि च सेश्वरान् ॥ भोजनायाह्वयामास पुत्रैश्शैलैः परैरपि ॥ ३॥
अथ शैलः सुरान् सर्वान् अन्यान् अपि च स ईश्वरान् ॥ भोजनाय आह्वयामास पुत्रैः शैलैः परैः अपि ॥ ३॥
atha śailaḥ surān sarvān anyān api ca sa īśvarān .. bhojanāya āhvayāmāsa putraiḥ śailaiḥ paraiḥ api .. 3..
शैलाह्वानमथाकर्ण्य स प्रभुस्साच्युतो मुने ॥ सर्वैस्सुरादिभिस्तत्र भोजनाय ययौ मुदा॥ ४॥
शैल-आह्वानम् अथ आकर्ण्य स प्रभुः स अच्युतः मुने ॥ सर्वैः सुर-आदिभिः तत्र भोजनाय ययौ मुदा॥ ४॥
śaila-āhvānam atha ākarṇya sa prabhuḥ sa acyutaḥ mune .. sarvaiḥ sura-ādibhiḥ tatra bhojanāya yayau mudā.. 4..
गिरिः प्रभुं च सर्वांस्तान्सुसत्कृत्य यथाविधि ॥ मुदोपवेशयामास सत्पीठेषु गृहान्तरे ॥ ५॥
गिरिः प्रभुम् च सर्वान् तान् सु सत्कृत्य यथाविधि ॥ मुदा उपवेशयामास सत्-पीठेषु गृह-अन्तरे ॥ ५॥
giriḥ prabhum ca sarvān tān su satkṛtya yathāvidhi .. mudā upaveśayāmāsa sat-pīṭheṣu gṛha-antare .. 5..
नानासुभोज्यवस्तूनि परिविष्य च तत्पुनः ॥ साञ्चलिर्भोजनायाज्ञां चक्रे विज्ञप्तिमानतः॥ ६॥
नाना सु भोज्य-वस्तूनि परिविष्य च तत् पुनर् ॥ स अञ्चलिः भोजनाय आज्ञाम् चक्रे विज्ञप्ति-मानतः॥ ६॥
nānā su bhojya-vastūni pariviṣya ca tat punar .. sa añcaliḥ bhojanāya ājñām cakre vijñapti-mānataḥ.. 6..
अथ सम्मानितास्तत्र देवा विष्णुपुरोगमाः ॥ सदाशिवं पुरस्कृत्य बुभुजुस्सकलाश्च ते ॥ ७॥
अथ सम्मानिताः तत्र देवाः विष्णु-पुरोगमाः ॥ सदाशिवम् पुरस्कृत्य बुभुजुः सकलाः च ते ॥ ७॥
atha sammānitāḥ tatra devāḥ viṣṇu-purogamāḥ .. sadāśivam puraskṛtya bubhujuḥ sakalāḥ ca te .. 7..
तदा सर्वे हि मिलिता ऐकपद्येन सर्वशः ॥ पंक्तिभूताश्च बुभुजु र्विहसन्तः पृथक्पृथक् ॥ ८॥
तदा सर्वे हि मिलिताः ऐकपद्येन सर्वशस् ॥ पंक्ति-भूताः च बुभुजुः र्विहसन्तः पृथक् पृथक् ॥ ८॥
tadā sarve hi militāḥ aikapadyena sarvaśas .. paṃkti-bhūtāḥ ca bubhujuḥ rvihasantaḥ pṛthak pṛthak .. 8..
नन्दिभृंगिवीरभद्रवीरभद्रगणाः पृथक्॥ बुभुजुस्ते महाभागाः कुतूहलसमन्विताः ॥ ९॥
नन्दि-भृंगि-वीर-भद्र-वीरभद्र-गणाः पृथक्॥ बुभुजुः ते महाभागाः कुतूहल-समन्विताः ॥ ९॥
nandi-bhṛṃgi-vīra-bhadra-vīrabhadra-gaṇāḥ pṛthak.. bubhujuḥ te mahābhāgāḥ kutūhala-samanvitāḥ .. 9..
देवास्सेन्द्रा लोकपाला नानाशोभासमन्विताः ॥ बुभुजुस्ते महाभागा नानाहास्यरसैस्सह ॥ 2.3.52.१०॥
देवाः स इन्द्राः लोकपालाः नाना शोभा-समन्विताः ॥ बुभुजुः ते महाभागाः नाना हास्य-रसैः सह ॥ २।३।५२।१०॥
devāḥ sa indrāḥ lokapālāḥ nānā śobhā-samanvitāḥ .. bubhujuḥ te mahābhāgāḥ nānā hāsya-rasaiḥ saha .. 2.3.52.10..
सर्वे च मुनयो विप्रा भृग्वाद्या ऋषयस्तथा॥ बुभुजु प्रीतितस्सर्वे पृथक् पंक्तिगतास्तदा॥ ११॥
सर्वे च मुनयः विप्राः भृगु-आद्याः ऋषयः तथा॥ बुभुजु प्रीतितः सर्वे पृथक् पंक्ति-गताः तदा॥ ११॥
sarve ca munayaḥ viprāḥ bhṛgu-ādyāḥ ṛṣayaḥ tathā.. bubhuju prītitaḥ sarve pṛthak paṃkti-gatāḥ tadā.. 11..
तथा चण्डीगणास्सर्वे बुभुजुः कृतभाजनाः ॥ कुतूहलं प्रकुर्वन्तो नानाहास्यकरा मुदा॥ १२॥
तथा चण्डी-गणाः सर्वे बुभुजुः कृत-भाजनाः ॥ कुतूहलम् प्रकुर्वन्तः नाना हास्य-कराः मुदा॥ १२॥
tathā caṇḍī-gaṇāḥ sarve bubhujuḥ kṛta-bhājanāḥ .. kutūhalam prakurvantaḥ nānā hāsya-karāḥ mudā.. 12..
एवन्ते भुक्तवन्तश्चाचम्य सर्वे मुदान्विताः ॥ विश्रामार्थं गताः प्रीत्या विष्ण्वाद्यास्स्वस्वमाश्रमम् ॥ १३ ॥
भुक्तवन्तः च आचम्य सर्वे मुदा अन्विताः ॥ विश्राम-अर्थम् गताः प्रीत्या विष्णु-आद्याः स्व-स्वम् आश्रमम् ॥ १३ ॥
bhuktavantaḥ ca ācamya sarve mudā anvitāḥ .. viśrāma-artham gatāḥ prītyā viṣṇu-ādyāḥ sva-svam āśramam .. 13 ..
मेनाज्ञया स्त्रियस्साध्व्य श्शिवं सम्प्रार्थ्य भक्तितः ॥ गेहे निवासयामासुर्वासाख्ये परमोत्सवे ॥ १४ ॥
मेना-आज्ञया स्त्रियः साध्व्यः श्शिवम् सम्प्रार्थ्य भक्तितः ॥ गेहे निवासयामासुः वास-आख्ये परम-उत्सवे ॥ १४ ॥
menā-ājñayā striyaḥ sādhvyaḥ śśivam samprārthya bhaktitaḥ .. gehe nivāsayāmāsuḥ vāsa-ākhye parama-utsave .. 14 ..
रत्नसिंहासने शम्भुर्मेनादत्ते मनोहरे ॥ सन्निधाय मुदा युक्तो ददृशे वासमन्दिरम्॥ १५॥
रत्न-सिंहासने शम्भुः मेना-दत्ते मनोहरे ॥ सन्निधाय मुदा युक्तः ददृशे वास-मन्दिरम्॥ १५॥
ratna-siṃhāsane śambhuḥ menā-datte manohare .. sannidhāya mudā yuktaḥ dadṛśe vāsa-mandiram.. 15..
रत्नप्रदीपशतकैर्ज्वलद्भिर्ज्वलितं श्रिया ॥ रत्नपात्रघटाकीर्णं मुक्तामणिविराजितम्॥ १६॥
रत्न-प्रदीप-शतकैः ज्वलद्भिः ज्वलितम् श्रिया ॥ रत्न-पात्र-घट-आकीर्णम् मुक्तामणि-विराजितम्॥ १६॥
ratna-pradīpa-śatakaiḥ jvaladbhiḥ jvalitam śriyā .. ratna-pātra-ghaṭa-ākīrṇam muktāmaṇi-virājitam.. 16..
रत्नदर्प्पणशोभाढ्यं मण्डितं श्वेतचामरैः॥ मुक्तामणिसुमालाभिर्वेष्टितं परमर्द्धिमत्॥ १७॥
रत्न-दर्प्पण-शोभा-आढ्यम् मण्डितम् श्वेत-चामरैः॥ मुक्तामणि-सु मालाभिः वेष्टितम् परम-ऋद्धिमत्॥ १७॥
ratna-darppaṇa-śobhā-āḍhyam maṇḍitam śveta-cāmaraiḥ.. muktāmaṇi-su mālābhiḥ veṣṭitam parama-ṛddhimat.. 17..
अनूपमम्महादिव्यं विचित्रं सुमनोहरम्॥ चित्ताह्लादकरं नानारचनारचितस्थलम् ॥ १८॥
विचित्रम् सु मनोहरम्॥ चित्त-आह्लाद-करम् नाना रचना-रचित-स्थलम् ॥ १८॥
vicitram su manoharam.. citta-āhlāda-karam nānā racanā-racita-sthalam .. 18..
शिवदत्तवरस्यैव प्रभावमतुलम्परम् ॥ दर्शयन्तं समुल्लासि शिवलोकाभिधानकम् ॥ १९॥
शिवदत्त-वरस्य एव प्रभावम् अतुलम् परम् ॥ दर्शयन्तम् समुल्लासि शिव-लोक-अभिधानकम् ॥ १९॥
śivadatta-varasya eva prabhāvam atulam param .. darśayantam samullāsi śiva-loka-abhidhānakam .. 19..
नानासुगन्धसद्द्रव्यैर्वासितं सुप्रकाशकम् ॥ चन्दनागुरुसंयुक्तं पुष्पशय्यासमन्वितम् ॥ 2.3.52.२०॥
नाना सु गन्ध-सत्-द्रव्यैः वासितम् सु प्रकाशकम् ॥ चन्दन-अगुरु-संयुक्तम् पुष्प-शय्या-समन्वितम् ॥ २।३।५२।२०॥
nānā su gandha-sat-dravyaiḥ vāsitam su prakāśakam .. candana-aguru-saṃyuktam puṣpa-śayyā-samanvitam .. 2.3.52.20..
नानाचित्रविचित्राढ्यं निर्मितं विश्वकर्म्मणा ॥ रत्नेन्द्रसाररचितैराचितं हारकैर्वरैः ॥ २१ ॥
नाना चित्र-विचित्र-आढ्यम् निर्मितम् विश्वकर्म्मणा ॥ रत्नेन्द्र-सार-रचितैः आचितम् हारकैः वरैः ॥ २१ ॥
nānā citra-vicitra-āḍhyam nirmitam viśvakarmmaṇā .. ratnendra-sāra-racitaiḥ ācitam hārakaiḥ varaiḥ .. 21 ..
कुत्रचित्सुरनिर्माणं वैकुण्ठं सुमनोहरम् ॥ कुत्रचिच्च ब्रह्मलोकं लोकपालपुरं क्वचित् ॥ २२ ॥
कुत्रचिद् सुर-निर्माणम् वैकुण्ठम् सु मनोहरम् ॥ कुत्रचिद् च ब्रह्म-लोकम् लोकपाल-पुरम् क्वचिद् ॥ २२ ॥
kutracid sura-nirmāṇam vaikuṇṭham su manoharam .. kutracid ca brahma-lokam lokapāla-puram kvacid .. 22 ..
कैलासं कुत्रचिद्रम्यं कुत्रचिच्छक्रमन्दिरम् ॥ कुत्रचिच्छिवलोकं च सर्वोपरि विराजितम् ॥ २३ ॥
कैलासम् कुत्रचिद् रम्यम् कुत्रचिद् शक्र-मन्दिरम् ॥ कुत्रचिद् शिव-लोकम् च सर्व-उपरि विराजितम् ॥ २३ ॥
kailāsam kutracid ramyam kutracid śakra-mandiram .. kutracid śiva-lokam ca sarva-upari virājitam .. 23 ..
एतादृशगृहं सर्वदृष्टाश्चर्य्यं महेश्वरः ॥ प्रशंसन् हिमशैलेशं परितुष्टो बभूव ह ॥ २४ ॥
एतादृश-गृहम् सर्व-दृष्ट-आश्चर्य्यम् महेश्वरः ॥ प्रशंसन् हिमशैल-ईशम् परितुष्टः बभूव ह ॥ २४ ॥
etādṛśa-gṛham sarva-dṛṣṭa-āścaryyam maheśvaraḥ .. praśaṃsan himaśaila-īśam parituṣṭaḥ babhūva ha .. 24 ..
तत्रातिरमणीये च रत्नपर्य्यंक उत्तमे ॥ अशयिष्ट मुदा युक्तो लीलया परमेश्वरः ॥ २५ ॥
तत्र अति रमणीये च रत्न-पर्य्यंके उत्तमे ॥ अशयिष्ट मुदा युक्तः लीलया परमेश्वरः ॥ २५ ॥
tatra ati ramaṇīye ca ratna-paryyaṃke uttame .. aśayiṣṭa mudā yuktaḥ līlayā parameśvaraḥ .. 25 ..
हिमाचलश्च स्वभ्रातॄन्भोजयामास कृत्स्नशः ॥ सर्वानन्यांश्च सुप्रीत्या शेषकृत्यं चकार ह ॥ २६ ॥
हिमाचलः च स्व-भ्रातॄन् भोजयामास कृत्स्नशस् ॥ सर्वान् अन्यान् च सु प्रीत्या शेष-कृत्यम् चकार ह ॥ २६ ॥
himācalaḥ ca sva-bhrātṝn bhojayāmāsa kṛtsnaśas .. sarvān anyān ca su prītyā śeṣa-kṛtyam cakāra ha .. 26 ..
एवं कुर्वति शैलेशे स्वपति प्रेष्ठ ईश्वरे ॥ व्यतीता रजनी सर्वा प्रातःकालो बभूव ह ॥ २७ ॥
एवम् कुर्वति शैलेशे स्वपति प्रेष्ठे ईश्वरे ॥ व्यतीता रजनी सर्वा प्रातःकालः बभूव ह ॥ २७ ॥
evam kurvati śaileśe svapati preṣṭhe īśvare .. vyatītā rajanī sarvā prātaḥkālaḥ babhūva ha .. 27 ..
अथ प्रभातकाले च धृत्युत्साहपरायणाः ॥ नानाप्रकारवाद्यानि वादयाञ्चक्रिरे जनाः ॥ २८ ॥
अथ प्रभात-काले च धृति-उत्साह-परायणाः ॥ नाना प्रकार-वाद्यानि वादयाञ्चक्रिरे जनाः ॥ २८ ॥
atha prabhāta-kāle ca dhṛti-utsāha-parāyaṇāḥ .. nānā prakāra-vādyāni vādayāñcakrire janāḥ .. 28 ..
सर्वे सुरास्समुत्तस्थुर्विष्ण्वाद्यास्सुमुदान्विताः ॥ स्वेष्टं संस्मृत्य देवेशं सज्जिभूतास्ससंभ्रमाः ॥ २९ ॥
सर्वे सुराः समुत्तस्थुः विष्णु-आद्याः सु मुदा अन्विताः ॥ स्व-इष्टम् संस्मृत्य देवेशम् सज्जिभूताः स संभ्रमाः ॥ २९ ॥
sarve surāḥ samuttasthuḥ viṣṇu-ādyāḥ su mudā anvitāḥ .. sva-iṣṭam saṃsmṛtya deveśam sajjibhūtāḥ sa saṃbhramāḥ .. 29 ..
स्ववाहनानि सज्जानि कैलासङ्गन्तुमुत्सुकाः ॥ कृत्वा सम्प्रेषयामासुर्धर्मं शिवसमीपतः ॥ 2.3.52.३० ॥
स्व-वाहनानि सज्जानि कैलासम् गन्तुम् उत्सुकाः ॥ कृत्वा सम्प्रेषयामासुः धर्मम् शिव-समीपतः ॥ २।३।५२।३० ॥
sva-vāhanāni sajjāni kailāsam gantum utsukāḥ .. kṛtvā sampreṣayāmāsuḥ dharmam śiva-samīpataḥ .. 2.3.52.30 ..
वासगेहमथागत्य धर्मो नारायणाज्ञया ॥ उवाच शंकरं योगी योगीशं समयोचितम् ॥ ३१ ॥
वास-गेहम् अथ आगत्य धर्मः नारायण-आज्ञया ॥ उवाच शंकरम् योगी योगि-ईशम् समय-उचितम् ॥ ३१ ॥
vāsa-geham atha āgatya dharmaḥ nārāyaṇa-ājñayā .. uvāca śaṃkaram yogī yogi-īśam samaya-ucitam .. 31 ..
।। धर्म उवाच ।।
उत्तिष्ठोत्तिष्ठ भद्रन्ते भव नः प्रमथाधिप ॥ जनावासं समागच्छ कृतार्थं कुरु तत्र तान् ॥ ३२ ॥
उत्तिष्ठ उत्तिष्ठ भद्र-अन्ते भव नः प्रमथ-अधिप ॥ जन-आवासम् समागच्छ कृतार्थम् कुरु तत्र तान् ॥ ३२ ॥
uttiṣṭha uttiṣṭha bhadra-ante bhava naḥ pramatha-adhipa .. jana-āvāsam samāgaccha kṛtārtham kuru tatra tān .. 32 ..
इति धर्मवचः श्रुत्वा विजहास महेश्वरः ॥ ददर्श कृपया दृष्ट्या तल्पमुज्झाञ्चकार ह ॥ ३३ ॥
इति धर्म-वचः श्रुत्वा विजहास महेश्वरः ॥ ददर्श कृपया दृष्ट्या तल्पम् उज्झाञ्चकार ह ॥ ३३ ॥
iti dharma-vacaḥ śrutvā vijahāsa maheśvaraḥ .. dadarśa kṛpayā dṛṣṭyā talpam ujjhāñcakāra ha .. 33 ..
।। ब्रह्मोवाच ।।
उवाच विहसन् धर्म त्वमग्रे गच्छ तत्र ह॥ अहमप्यागमिष्यामि द्रुतमेव न संशयः ॥ ३४॥
उवाच विहसन् धर्म त्वम् अग्रे गच्छ तत्र ह॥ अहम् अपि आगमिष्यामि द्रुतम् एव न संशयः ॥ ३४॥
uvāca vihasan dharma tvam agre gaccha tatra ha.. aham api āgamiṣyāmi drutam eva na saṃśayaḥ .. 34..
।। ब्रह्मोवाच ।।
इत्युक्तश्शंकरेणाथ जनावासं जगाम सः॥ स्वयङ्गन्तुमना आसीत्तत्र शम्भुरपि प्रभुः॥ ३५।
इति उक्तः शंकरेण अथ जन-आवासम् जगाम सः॥ स्वयम् गन्तु-मनाः आसीत् तत्र शम्भुः अपि प्रभुः॥ ३५।
iti uktaḥ śaṃkareṇa atha jana-āvāsam jagāma saḥ.. svayam gantu-manāḥ āsīt tatra śambhuḥ api prabhuḥ.. 35.
तज्ज्ञात्वा स्त्रीगणस्सोसौ तत्रागच्छन्महोत्सवः ॥ चक्रे मंगलगानं हि पश्यन्शम्भुपदद्वयम् ॥ ३५॥
तत् ज्ञात्वा स्त्री-गणः सः उसौ तत्र अगच्छत् महा-उत्सवः ॥ चक्रे मंगल-गानम् हि पश्यन् शम्भु-पद-द्वयम् ॥ ३५॥
tat jñātvā strī-gaṇaḥ saḥ usau tatra agacchat mahā-utsavaḥ .. cakre maṃgala-gānam hi paśyan śambhu-pada-dvayam .. 35..
अथ शंम्भुर्भवाचारी प्रातःकृत्यं विधाय च ॥ मेनामान्त्र्य कुध्रं च जनावासं जगाम सः ॥ ३७॥
अथ शंम्भुः भव-आचारी प्रातर् कृत्यम् विधाय च ॥ मेनाम् आन्त्र्य कुध्रम् च जन-आवासम् जगाम सः ॥ ३७॥
atha śaṃmbhuḥ bhava-ācārī prātar kṛtyam vidhāya ca .. menām āntrya kudhram ca jana-āvāsam jagāma saḥ .. 37..
महोत्सवस्तदा चासीद्वेदध्वनिरभून्मुने ॥ वाद्यानि वादयामासुर्जनाश्चातुर्विधानि च ॥ ३८॥
महा-उत्सवः तदा च आसीत् वेद-ध्वनिः अभूत् मुने ॥ वाद्यानि वादयामासुः जनाः चातुर्विधानि च ॥ ३८॥
mahā-utsavaḥ tadā ca āsīt veda-dhvaniḥ abhūt mune .. vādyāni vādayāmāsuḥ janāḥ cāturvidhāni ca .. 38..
शम्भुरागत्य स्वस्थानं ववन्दे च मुनींस्तदा ॥ हरिं च मां भवाचारात् वन्दितोऽभूत्सुरादिभिः ॥ ३९॥
शम्भुः आगत्य स्व-स्थानम् ववन्दे च मुनीन् तदा ॥ हरिम् च माम् भव-आचारात् वन्दितः अभूत् सुर-आदिभिः ॥ ३९॥
śambhuḥ āgatya sva-sthānam vavande ca munīn tadā .. harim ca mām bhava-ācārāt vanditaḥ abhūt sura-ādibhiḥ .. 39..
जयशब्दो बभूवाथ नमश्शब्दस्तथैव च ॥ वेदध्वनिश्च शुभदो महाकोलाहलोऽभवत् ॥ 2.3.52.४०॥
जय-शब्दः बभूव अथ नमः-शब्दः तथा एव च ॥ वेद-ध्वनिः च शुभ-दः महा-कोलाहलः अभवत् ॥ २।३।५२।४०॥
jaya-śabdaḥ babhūva atha namaḥ-śabdaḥ tathā eva ca .. veda-dhvaniḥ ca śubha-daḥ mahā-kolāhalaḥ abhavat .. 2.3.52.40..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनं नाम द्विपञ्चाशत्तमोऽध्यायः ॥ ५२ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे वरवर्गभोजनशिवशयनवर्णनम् नाम द्विपञ्चाशत्तमः अध्यायः ॥ ५२ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe varavargabhojanaśivaśayanavarṇanam nāma dvipañcāśattamaḥ adhyāyaḥ .. 52 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In