| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ विष्ण्वादयो देवा मुनयश्च तपोधनाः ॥ कृत्वावश्यककर्माणि यात्रां सन्तेनिरे गिरेः ॥ १॥
अथ विष्णु-आदयः देवाः मुनयः च तपोधनाः ॥ कृत्वा आवश्यक-कर्माणि यात्राम् सन्तेनिरे गिरेः ॥ १॥
atha viṣṇu-ādayaḥ devāḥ munayaḥ ca tapodhanāḥ .. kṛtvā āvaśyaka-karmāṇi yātrām santenire gireḥ .. 1..
ततो गिरिवरः स्नात्वा स्वेष्टं सम्पूज्य यत्नतः ॥ पौरबन्धून्समाहूय जनवासं ययौ मुदा ॥ २ ॥
ततस् गिरि-वरः स्नात्वा स्व-इष्टम् सम्पूज्य यत्नतः ॥ पौर-बन्धून् समाहूय जन-वासम् ययौ मुदा ॥ २ ॥
tatas giri-varaḥ snātvā sva-iṣṭam sampūjya yatnataḥ .. paura-bandhūn samāhūya jana-vāsam yayau mudā .. 2 ..
तत्र प्रभुम्प्रपूज्याथ चक्रे सम्प्रार्थनां मुदा ॥ कियद्दिनानि सन्तिष्ठ मद्गेहे सकलैस्सह ॥ ३ ॥
तत्र प्रभुम् प्रपूज्य अथ चक्रे सम्प्रार्थनाम् मुदा ॥ कियत् दिनानि सन्तिष्ठ मद्-गेहे सकलैः सह ॥ ३ ॥
tatra prabhum prapūjya atha cakre samprārthanām mudā .. kiyat dināni santiṣṭha mad-gehe sakalaiḥ saha .. 3 ..
विलोकनेन ते शम्भो कृतार्थोहं न संशयः ॥ धन्यश्च यस्य मद्गेहे आयातोऽसि सुरैस्सह ॥ ४ ॥
विलोकनेन ते शम्भो कृतार्थः हम् न संशयः ॥ धन्यः च यस्य मद्-गेहे आयातः असि सुरैः सह ॥ ४ ॥
vilokanena te śambho kṛtārthaḥ ham na saṃśayaḥ .. dhanyaḥ ca yasya mad-gehe āyātaḥ asi suraiḥ saha .. 4 ..
ब्रह्मोवाच ।।
इत्युक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ॥ प्रभुन्निमन्त्रयामास सह विष्णुसुरादिभिः ॥ ५॥
इति उक्त्वा बहु शैलेशः करौ बद्ध्वा प्रणम्य च ॥ प्रभुः निमन्त्रयामास सह विष्णु-सुर-आदिभिः ॥ ५॥
iti uktvā bahu śaileśaḥ karau baddhvā praṇamya ca .. prabhuḥ nimantrayāmāsa saha viṣṇu-sura-ādibhiḥ .. 5..
अथ ते मनसा गत्वा शिव संयुतमादरात् ॥ प्रत्यूचुर्मुनयो देवा हृष्टा विष्णुसुरादिभिः ॥ ६ ॥
अथ ते मनसा गत्वा शिव संयुतम् आदरात् ॥ प्रत्यूचुः मुनयः देवाः हृष्टाः विष्णु-सुर-आदिभिः ॥ ६ ॥
atha te manasā gatvā śiva saṃyutam ādarāt .. pratyūcuḥ munayaḥ devāḥ hṛṣṭāḥ viṣṇu-sura-ādibhiḥ .. 6 ..
।। देवा ऊचुः ।।
धन्यस्त्वं गिरिशार्दूल तव कीर्तिर्महीयसी ॥ त्वत्समो न त्रिलोकेषु कोपि पुण्यतमो जनः ॥ ७ ॥
धन्यः त्वम् गिरि-शार्दूल तव कीर्तिः महीयसी ॥ त्वद्-समः न त्रि-लोकेषु कः अपि पुण्यतमः जनः ॥ ७ ॥
dhanyaḥ tvam giri-śārdūla tava kīrtiḥ mahīyasī .. tvad-samaḥ na tri-lokeṣu kaḥ api puṇyatamaḥ janaḥ .. 7 ..
यस्य द्वारि महेशानः परब्रह्म सतां गतिः ॥ समागतस्सदासैश्च कृपया भक्तवत्सलः ॥ ८ ॥
यस्य द्वारि महेशानः पर-ब्रह्म सताम् गतिः ॥ समागतः स दासैः च कृपया भक्त-वत्सलः ॥ ८ ॥
yasya dvāri maheśānaḥ para-brahma satām gatiḥ .. samāgataḥ sa dāsaiḥ ca kṛpayā bhakta-vatsalaḥ .. 8 ..
जनावासोतिरम्यश्च सम्मानो विविधः कृतः ॥ भोजनानि त्वपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९ ॥
जन-आवास-ऊति-रम्यः च सम्मानः विविधः कृतः ॥ भोजनानि तु अपूर्वाणि न वर्ण्यानि गिरीश्वर ॥ ९ ॥
jana-āvāsa-ūti-ramyaḥ ca sammānaḥ vividhaḥ kṛtaḥ .. bhojanāni tu apūrvāṇi na varṇyāni girīśvara .. 9 ..
चित्रन्न खलु तत्रास्ति यत्र देवी शिवाम्बिका ॥ परिपूर्णमशेषञ्च यवं धन्या यदागताः ॥ 2.3.53.१० ॥
चित्रन् न खलु तत्र अस्ति यत्र देवी शिवा अम्बिका ॥ परिपूर्णम् अशेषम् च यवम् धन्याः यत् आगताः ॥ २।३।५३।१० ॥
citran na khalu tatra asti yatra devī śivā ambikā .. paripūrṇam aśeṣam ca yavam dhanyāḥ yat āgatāḥ .. 2.3.53.10 ..
।। ब्रह्मोवाच ।।
इत्थम्परस्परन्तत्र प्रशंसाभवदुत्तमा ॥ उत्सवो विविधो जातो वेदसाधुजयध्वनिः ॥ ११ ॥
इत्थम् परस्परन् तत्र प्रशंसा भवत् उत्तमा ॥ उत्सवः विविधः जातः वेद-साधु-जय-ध्वनिः ॥ ११ ॥
ittham parasparan tatra praśaṃsā bhavat uttamā .. utsavaḥ vividhaḥ jātaḥ veda-sādhu-jaya-dhvaniḥ .. 11 ..
अभून्मङ्गलगानञ्च ननर्ताप्सरसांगणः ॥ नुतिञ्चक्रुर्मागधाद्या द्रव्यदानमभूद्बहु ॥ १२ ॥
अभूत् मङ्गल-गानञ्च च ननर्त अप्सरसा अंगणः ॥ नुतिञ्चक्रुः मागध-आद्याः द्रव्य-दानम् अभूत् बहु ॥ १२ ॥
abhūt maṅgala-gānañca ca nanarta apsarasā aṃgaṇaḥ .. nutiñcakruḥ māgadha-ādyāḥ dravya-dānam abhūt bahu .. 12 ..
तत आमन्त्रय देवेशं स्वगेहमगमद्गिरिः ॥ भोजनोत्सवमारेभे नानाविधिविधानतः ॥ १३ ॥
ततस् आमन्त्रय देवेशम् स्व-गेहम् अगमत् गिरिः ॥ भोजन-उत्सवम् आरेभे नाना विधि-विधानतः ॥ १३ ॥
tatas āmantraya deveśam sva-geham agamat giriḥ .. bhojana-utsavam ārebhe nānā vidhi-vidhānataḥ .. 13 ..
भोजनार्थं प्रभुम्प्रीत्यानयामास यथोचितम् ॥ परिवारसमेतं च सकुतूहलमीश्वरम् ॥ १४ ॥
भोजन-अर्थम् प्रभुम् प्रीत्या आनयामास यथोचितम् ॥ परिवार-समेतम् च स कुतूहलम् ईश्वरम् ॥ १४ ॥
bhojana-artham prabhum prītyā ānayāmāsa yathocitam .. parivāra-sametam ca sa kutūhalam īśvaram .. 14 ..
प्रक्षाल्य चरणौ शम्भोर्विष्णोर्मम वरादरात् ॥ सर्वेषाममराणाञ्च मुनीनाञ्च यथार्थतः ॥ १५ ॥
प्रक्षाल्य चरणौ शम्भोः विष्णोः मम वर-आदरात् ॥ सर्वेषाम् अमराणाम् च मुनीनाम् च यथार्थतः ॥ १५ ॥
prakṣālya caraṇau śambhoḥ viṣṇoḥ mama vara-ādarāt .. sarveṣām amarāṇām ca munīnām ca yathārthataḥ .. 15 ..
परेषाञ्च गतानाञ्च गिरीशो मण्डपान्तरे ॥ आसयामास सुप्रीत्या तांस्तान्बन्धुभिरन्वितः ॥ १६॥
परेषाम् च गतानाम् च गिरीशः मण्डप-अन्तरे ॥ आसयामास सु प्रीत्या तान् तान् बन्धुभिः अन्वितः ॥ १६॥
pareṣām ca gatānām ca girīśaḥ maṇḍapa-antare .. āsayāmāsa su prītyā tān tān bandhubhiḥ anvitaḥ .. 16..
सुरसैर्विविधान्नैश्च तर्पयामास तान्गिरिः ॥ बुभुजुर्निखिलास्ते वै शम्भुना विष्णुना मया ॥ १७॥
सुरसैः विविध-अन्नैः च तर्पयामास तान् गिरिः ॥ बुभुजुः निखिलाः ते वै शम्भुना विष्णुना मया ॥ १७॥
surasaiḥ vividha-annaiḥ ca tarpayāmāsa tān giriḥ .. bubhujuḥ nikhilāḥ te vai śambhunā viṣṇunā mayā .. 17..
तदानीम्पुरनार्यश्च गालीदानम्व्यधुर्मुदा ॥ मृदुवाण्या हसन्त्यश्च पश्यन्त्यो यत्नतश्च तान् ॥ १८॥
तदानीम् पुर-नार्यः च गाली-दानम् व्यधुः मुदा ॥ मृदु-वाण्या हसन्त्यः च पश्यन्त्यः यत्नतः च तान् ॥ १८॥
tadānīm pura-nāryaḥ ca gālī-dānam vyadhuḥ mudā .. mṛdu-vāṇyā hasantyaḥ ca paśyantyaḥ yatnataḥ ca tān .. 18..
ते भुक्त्वाचम्य विधिवद्गिरिमामन्त्र्य नारद ॥ स्वस्थानम्प्रययुस्सर्वे मुदितास्तृप्तिमागताः ॥ १९॥
ते भुक्त्वा आचम्य विधिवत् गिरिम् आमन्त्र्य नारद ॥ स्व-स्थानम् प्रययुः सर्वे मुदिताः तृप्तिम् आगताः ॥ १९॥
te bhuktvā ācamya vidhivat girim āmantrya nārada .. sva-sthānam prayayuḥ sarve muditāḥ tṛptim āgatāḥ .. 19..
इत्थन्तृतीये घस्रेऽपि मानितास्तेऽभवन्मुने ॥ गिरीश्वरेण विधिवद्दानमानादरादिभिः ॥ 2.3.53.२०॥
इत्थत् तृतीये घस्रे अपि मानिताः ते अभवन् मुने ॥ गिरीश्वरेण विधिवत् दान-मान-आदर-आदिभिः ॥ २।३।५३।२०॥
itthat tṛtīye ghasre api mānitāḥ te abhavan mune .. girīśvareṇa vidhivat dāna-māna-ādara-ādibhiḥ .. 2.3.53.20..
चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ॥ बभूव विधिवद्येन विना खण्डित एव सः ॥ २१ ॥
चतुर्थे दिवसे प्राप्ते चतुर्थीकर्म शुद्धितः ॥ बभूव विधिवत् येन विना खण्डितः एव सः ॥ २१ ॥
caturthe divase prāpte caturthīkarma śuddhitaḥ .. babhūva vidhivat yena vinā khaṇḍitaḥ eva saḥ .. 21 ..
उत्सवो विविधश्चासीत्साधुवादजयध्वनिः ॥ बहुदानं सुगानञ्च नर्त्तनम्विविधन्तथा ॥ २२ ॥
उत्सवः विविधः च आसीत् साधुवाद-जय-ध्वनिः ॥ बहु-दानम् सु गानञ्च च नर्त्तनम् विविधन् तथा ॥ २२ ॥
utsavaḥ vividhaḥ ca āsīt sādhuvāda-jaya-dhvaniḥ .. bahu-dānam su gānañca ca narttanam vividhan tathā .. 22 ..
पञ्चमे दिवसे प्राप्ते सर्वे देवा मुदान्विताः ॥ विज्ञप्तिञ्चक्रिरे शैलं यात्रार्थमतिप्रेमतः ॥ २३ ॥
पञ्चमे दिवसे प्राप्ते सर्वे देवाः मुदा अन्विताः ॥ विज्ञप्तिञ्चक्रिरे शैलम् यात्रा-अर्थम् अति प्रेमतः ॥ २३ ॥
pañcame divase prāpte sarve devāḥ mudā anvitāḥ .. vijñaptiñcakrire śailam yātrā-artham ati premataḥ .. 23 ..
तदाकर्ण्य गिरीशश्चोवाच देवान् कृताञ्जलिः ॥ कियद्दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु मां सुराः ॥ २४॥
तत् आकर्ण्य गिरीशः च उवाच देवान् कृताञ्जलिः ॥ कियत् दिनानि तिष्ठन्तु कृपाङ्कुर्वन्तु माम् सुराः ॥ २४॥
tat ākarṇya girīśaḥ ca uvāca devān kṛtāñjaliḥ .. kiyat dināni tiṣṭhantu kṛpāṅkurvantu mām surāḥ .. 24..
इत्युक्त्वा स्नेहतस्ताँश्च प्रभुम्विष्णुञ्च माम्परान् ॥ वासयामास दिवसान् बहून्नित्यं समादरात् ॥ २९॥
इति उक्त्वा स्नेहतः तान् च प्रभुम् विष्णुम् च माम् परान् ॥ वासयामास दिवसान् बहून् नित्यम् समादरात् ॥ २९॥
iti uktvā snehataḥ tān ca prabhum viṣṇum ca mām parān .. vāsayāmāsa divasān bahūn nityam samādarāt .. 29..
इत्थम्व्यतीयुर्दिवसा बहवो वसतां च तत् ॥ सप्तर्षीन्प्रेषयामासुर्गिरीशान्ते ततस्सुराः ॥ २६ ॥
इत्थम् व्यतीयुः दिवसाः बहवः वसताम् च तत् ॥ सप्तर्षीन् प्रेषयामासुः गिरीश-अन्ते ततस् सुराः ॥ २६ ॥
ittham vyatīyuḥ divasāḥ bahavaḥ vasatām ca tat .. saptarṣīn preṣayāmāsuḥ girīśa-ante tatas surāḥ .. 26 ..
ते तं सम्बोधयामासुर्मेनाञ्च समयोचितम् ॥ शिवतत्त्वम्परम्प्रोचुः प्रशंसन्विधिवन्मुदा ॥ २७ ॥
ते तम् सम्बोधयामासुः मेनाम् च समय-उचितम् ॥ शिवतत्त्वम् परम् प्रोचुः प्रशंसन् विधिवत् मुदा ॥ २७ ॥
te tam sambodhayāmāsuḥ menām ca samaya-ucitam .. śivatattvam param procuḥ praśaṃsan vidhivat mudā .. 27 ..
अङ्गीकृतं परेशेन तत्तद्बोधनतो मुने ॥ यात्रार्थमगमच्छम्भुश्शैलेशं सामरादिकः ॥ २८ ॥
अङ्गीकृतम् परेशेन तद्-तद्-बोधनतः मुने ॥ यात्रा-अर्थम् अगमत् शम्भुः शैलेशम् स अमर-आदिकः ॥ २८ ॥
aṅgīkṛtam pareśena tad-tad-bodhanataḥ mune .. yātrā-artham agamat śambhuḥ śaileśam sa amara-ādikaḥ .. 28 ..
यात्राङ्कुर्वति देवेशे स्वशैलं सामरे शिवे ॥ उच्चै रुरोद सा मेना तमुवाच कृपानिधिम् ॥ २९ ॥
यात्राम् कुर्वति देवेशे स्व-शैलम् स अमरे शिवे ॥ उच्चैस् रुरोद सा मेना तम् उवाच कृपा-निधिम् ॥ २९ ॥
yātrām kurvati deveśe sva-śailam sa amare śive .. uccais ruroda sā menā tam uvāca kṛpā-nidhim .. 29 ..
मेनोवाच ।।
कृपानिधे कृपाङ्कृत्वा शिवां सम्पालयिष्यसि ॥ सहस्रदोषं पार्वत्या आशुतोषः क्षमिष्यसि ॥ 2.3.53.३० ॥
कृपा-निधे कृपाम् कृत्वा शिवाम् सम्पालयिष्यसि ॥ सहस्र-दोषम् पार्वत्याः आशु-तोषः क्षमिष्यसि ॥ २।३।५३।३० ॥
kṛpā-nidhe kṛpām kṛtvā śivām sampālayiṣyasi .. sahasra-doṣam pārvatyāḥ āśu-toṣaḥ kṣamiṣyasi .. 2.3.53.30 ..
त्वत्पादाम्बुजभक्ता च मद्वत्सा जन्मजन्मनि ॥ स्वप्ने ज्ञाने स्मृतिर्नास्ति महादेवं प्रभुम्बिना ॥ ३१ ॥
त्वद्-पाद-अम्बुज-भक्ता च मद्-वत्सा जन्म-जन्मनि ॥ स्वप्ने ज्ञाने स्मृतिः ना अस्ति महादेवम् प्रभु-म्बिना ॥ ३१ ॥
tvad-pāda-ambuja-bhaktā ca mad-vatsā janma-janmani .. svapne jñāne smṛtiḥ nā asti mahādevam prabhu-mbinā .. 31 ..
त्वद्भक्तिश्रुतिमात्रेण हर्षाश्रुपुलकान्विता ॥ त्वन्निन्दया भवेन्मौना मृत्युंजय मृता इव ॥ ३२॥
त्वद्-भक्ति-श्रुति-मात्रेण हर्ष-अश्रु-पुलक-अन्विता ॥ त्वद्-निन्दया भवेत् मौना मृत्युंजय मृताः इव ॥ ३२॥
tvad-bhakti-śruti-mātreṇa harṣa-aśru-pulaka-anvitā .. tvad-nindayā bhavet maunā mṛtyuṃjaya mṛtāḥ iva .. 32..
ब्रह्मोवाच ।।
इत्युक्त्वा मेनका तस्मै समर्प्य स्वसुतान्तदा ॥ अत्युच्चै रोदनङ्कृत्वा मूर्च्छामाप तयोः पुरः॥ ३३॥
इति उक्त्वा मेनका तस्मै समर्प्य स्व-सुता-अन्तदा ॥ अत्युच्चैस् रोदनम् कृत्वा मूर्च्छाम् आप तयोः पुरस्॥ ३३॥
iti uktvā menakā tasmai samarpya sva-sutā-antadā .. atyuccais rodanam kṛtvā mūrcchām āpa tayoḥ puras.. 33..
अथ मेनाम्बोधयित्वा तामामन्त्र्य गिरिस्तथा॥ चकार यात्रान्देवैश्च महोत्सवपुरस्सरम् ॥ ३४॥
अथ मेनाम् बोधयित्वा ताम् आमन्त्र्य गिरिः तथा॥ चकार यात्रान् देवैः च महा-उत्सव-पुरस्सरम् ॥ ३४॥
atha menām bodhayitvā tām āmantrya giriḥ tathā.. cakāra yātrān devaiḥ ca mahā-utsava-purassaram .. 34..
अथ ते निर्जरास्सर्वे प्रभुणा स्वगणैस्सह ॥ यात्राम्प्रचक्रिरे तूष्णीं गिरिम्प्रति शिवं दधुः ॥ ॥ ३५॥
अथ ते निर्जराः सर्वे प्रभुणा स्व-गणैः सह ॥ यात्राम् प्रचक्रिरे तूष्णीम् गिरिम् प्रति शिवम् ॥ ॥ ३५॥
atha te nirjarāḥ sarve prabhuṇā sva-gaṇaiḥ saha .. yātrām pracakrire tūṣṇīm girim prati śivam .. .. 35..
हिमाचलपुरीबाह्योपवने हर्षितास्सुराः॥ सेश्वरास्सोत्सवास्तस्थुः पर्यैषन्त शिवागमम्॥ ३६॥
हिमाचल-पुरी-बाह्य-उपवने॥ स ईश्वराः स उत्सवाः तस्थुः शिव-आगमम्॥ ३६॥
himācala-purī-bāhya-upavane.. sa īśvarāḥ sa utsavāḥ tasthuḥ śiva-āgamam.. 36..
इत्युक्ता शिवसद्यात्रा देवैस्सह मुनीश्वर॥ आकर्णय शिवयात्रां विरहोत्सवसंयुताम् ॥ ३७ ॥
इति उक्ता शिव-सत्-यात्रा देवैः सह मुनि-ईश्वर॥ आकर्णय शिव-यात्राम् विरह-उत्सव-संयुताम् ॥ ३७ ॥
iti uktā śiva-sat-yātrā devaiḥ saha muni-īśvara.. ākarṇaya śiva-yātrām viraha-utsava-saṃyutām .. 37 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वती खण्डे शिवयात्रावर्णनं नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ ५३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वती-खण्डे शिवयात्रावर्णनम् नाम त्रिपञ्चाशत्तमः अध्यायः ॥ ५३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatī-khaṇḍe śivayātrāvarṇanam nāma tripañcāśattamaḥ adhyāyaḥ .. 53 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In