| |
|

This overlay will guide you through the buttons:

पतिव्रताधर्मवर्णनम् - ब्रह्मोवाच ।।
अथ सप्तर्षयस्ते च प्रोचुर्हिमगिरीश्वरम् ॥ कारय स्वात्मजा देव्या यात्रामद्योचितां गिरे ॥ १ ॥
अथ सप्तर्षयः ते च प्रोचुः हिमगिरि-ईश्वरम् ॥ कारय स्व-आत्मजाः देव्याः यात्राम् अद्य उचिताम् गिरे ॥ १ ॥
atha saptarṣayaḥ te ca procuḥ himagiri-īśvaram .. kāraya sva-ātmajāḥ devyāḥ yātrām adya ucitām gire .. 1 ..
इति श्रुत्वा गिरीशो हि बुद्ध्वा तद्विरहम्परम् ॥ विषण्णोभून्महाप्रेम्णा कियत्कालं मुनीश्वर ॥ २ ॥
इति श्रुत्वा गिरीशः हि बुद्ध्वा तद्-विरहम् परम् ॥ विषण्णः उभूत् महा-प्रेम्णा कियत्कालम् मुनि-ईश्वर ॥ २ ॥
iti śrutvā girīśaḥ hi buddhvā tad-viraham param .. viṣaṇṇaḥ ubhūt mahā-premṇā kiyatkālam muni-īśvara .. 2 ..
कियत्कालेन सम्प्राप्य चेतनां शैलराट् ततः ॥ तथास्त्विति गिरामुक्त्वा मेनां सन्देशमब्रवीत् ॥ ३ ॥
कियत्कालेन सम्प्राप्य चेतनाम् शैलराज् ततस् ॥ तथा अस्तु इति गिराम् उक्त्वा मेनाम् सन्देशम् अब्रवीत् ॥ ३ ॥
kiyatkālena samprāpya cetanām śailarāj tatas .. tathā astu iti girām uktvā menām sandeśam abravīt .. 3 ..
शैलसन्देशमाकर्ण्य हर्षशोकवशा मुने ॥ मेना संयापयामास कर्त्तुमासीत्समुद्यता॥ ४॥
शैल-सन्देशम् आकर्ण्य हर्ष-शोक-वशाः मुने ॥ मेना संयापयामास कर्त्तुम् आसीत् समुद्यता॥ ४॥
śaila-sandeśam ākarṇya harṣa-śoka-vaśāḥ mune .. menā saṃyāpayāmāsa karttum āsīt samudyatā.. 4..
श्रुतिस्वकुलजाचारं चचार विधिवन्मुने ॥ उत्सवम्विविधन्तत्र सा मेना क्षितिभृत्प्रिया ॥ ५॥
श्रुति-स्व-कुल-ज-आचारम् चचार विधिवत् मुने ॥ उत्सवम् विविधन् तत्र सा मेना क्षितिभृत्-प्रिया ॥ ५॥
śruti-sva-kula-ja-ācāram cacāra vidhivat mune .. utsavam vividhan tatra sā menā kṣitibhṛt-priyā .. 5..
गिरिजाम्भूषयामास नानारत्नांशुकैर्वरैः॥ द्वादशाभरणैश्चैव शृंगारैर्नृपसम्मितैः ॥ ६ ॥
गिरिजाम् भूषयामास नाना रत्न-अंशुकैः वरैः॥ द्वादश-आभरणैः च एव शृंगारैः नृप-सम्मितैः ॥ ६ ॥
girijām bhūṣayāmāsa nānā ratna-aṃśukaiḥ varaiḥ.. dvādaśa-ābharaṇaiḥ ca eva śṛṃgāraiḥ nṛpa-sammitaiḥ .. 6 ..
मेनामनोगम्बुद्ध्वा साध्व्येका द्विजकामिनी ॥ गिरिजां शिक्षयामास पातिव्रत्यव्रतम्परम् ॥ ७ ॥
मेना-मनः गम् बुद्ध्वा साध्वी एका द्विज-कामिनी ॥ गिरिजाम् शिक्षयामास पातिव्रत्य-व्रतम् परम् ॥ ७ ॥
menā-manaḥ gam buddhvā sādhvī ekā dvija-kāminī .. girijām śikṣayāmāsa pātivratya-vratam param .. 7 ..
द्विजपत्न्युवाच ।।
गिरिजे शृणु सुप्रीत्या मद्वचो धर्मवर्द्धनम् ॥ इहामुत्रानन्दकरं शृण्वतां च सुखप्रदम् ॥ ८ ॥
गिरिजे शृणु सु प्रीत्या मद्-वचः धर्म-वर्द्धनम् ॥ इह अमुत्र आनन्द-करम् शृण्वताम् च सुख-प्रदम् ॥ ८ ॥
girije śṛṇu su prītyā mad-vacaḥ dharma-varddhanam .. iha amutra ānanda-karam śṛṇvatām ca sukha-pradam .. 8 ..
धन्या पतिव्रता नारी नान्या पूज्या विशेषतः ॥ पावनी सर्वलोकानां सर्वपापौघनाशिनी ॥ ९ ॥
धन्या पतिव्रता नारी ना अन्या पूज्या विशेषतः ॥ पावनी सर्व-लोकानाम् सर्व-पाप-ओघ-नाशिनी ॥ ९ ॥
dhanyā pativratā nārī nā anyā pūjyā viśeṣataḥ .. pāvanī sarva-lokānām sarva-pāpa-ogha-nāśinī .. 9 ..
सेवते या पतिम्प्रेम्णा परमेश्वरवच्छिवे ॥ इह भुक्त्वाखिलाम्भोगान न्ते पत्या शिवां गतिम् ॥ 2.3.54.१० ॥
सेवते या पतिम् प्रेम्णा परमेश्वर-वत् शिवे ॥ इह भुक्त्वा अखिल-अम्भोगान् अ न्ते पत्या शिवाम् गतिम् ॥ २।३।५४।१० ॥
sevate yā patim premṇā parameśvara-vat śive .. iha bhuktvā akhila-ambhogān a nte patyā śivām gatim .. 2.3.54.10 ..
पतिव्रता च सावित्री लोपामुद्रा ह्यरुन्धती ॥ शाण्डिल्या शतरूपानुसूया लक्ष्मीस्स्वधा सती ॥ ११ ॥
पतिव्रता च सावित्री लोपामुद्रा हि अरुन्धती ॥ शाण्डिल्या शतरूपा अनुसूया लक्ष्मीः स्वधा सती ॥ ११ ॥
pativratā ca sāvitrī lopāmudrā hi arundhatī .. śāṇḍilyā śatarūpā anusūyā lakṣmīḥ svadhā satī .. 11 ..
संज्ञा च सुमतिश्श्रद्धा मेना स्वाहा तथैव च ॥ अन्या बह्व्योऽपि साध्व्यो हि नोक्ता विस्तरजाद्भयात् ॥ १२ ॥
संज्ञा च सुमतिः श्रद्धा मेना स्वाहा तथा एव च ॥ अन्याः बह्व्यः अपि साध्व्यः हि ना उक्ताः विस्तर-जात् भयात् ॥ १२ ॥
saṃjñā ca sumatiḥ śraddhā menā svāhā tathā eva ca .. anyāḥ bahvyaḥ api sādhvyaḥ hi nā uktāḥ vistara-jāt bhayāt .. 12 ..
पातिव्रत्यवृषेणैव ता गतास्सर्वपूज्यताम् ॥ ब्रह्मविष्णुहरैश्चापि मान्या जाता मुनीश्वरैः ॥ १३ ॥
पातिव्रत्य-वृषेण एव ताः गताः सर्व-पूज्य-ताम् ॥ ब्रह्म-विष्णु-हरैः च अपि मान्याः जाताः मुनि-ईश्वरैः ॥ १३ ॥
pātivratya-vṛṣeṇa eva tāḥ gatāḥ sarva-pūjya-tām .. brahma-viṣṇu-haraiḥ ca api mānyāḥ jātāḥ muni-īśvaraiḥ .. 13 ..
सेव्यस्त्वया पतिस्तस्मात्सर्वदा शङ्करः प्रभुः ॥ दीनानुग्रहकर्ता च सर्वसेव्यस्सतां गतिः ॥ १४ ॥
सेव्यः त्वया पतिः तस्मात् सर्वदा शङ्करः प्रभुः ॥ दीन-अनुग्रह-कर्ता च सर्व-सेव्यः सताम् गतिः ॥ १४ ॥
sevyaḥ tvayā patiḥ tasmāt sarvadā śaṅkaraḥ prabhuḥ .. dīna-anugraha-kartā ca sarva-sevyaḥ satām gatiḥ .. 14 ..
महान्पतिव्रताधर्म्मश्श्रुतिस्मृतिषु नोदितः ॥ यथैष वर्ण्यते श्रेष्ठो न तथान्योऽस्ति निश्चितम् ॥ १५ ॥
महान् पतिव्रता-धर्म्मः श्रुति-स्मृतिषु नोदितः ॥ यथा एष वर्ण्यते श्रेष्ठः न तथा अन्यः अस्ति निश्चितम् ॥ १५ ॥
mahān pativratā-dharmmaḥ śruti-smṛtiṣu noditaḥ .. yathā eṣa varṇyate śreṣṭhaḥ na tathā anyaḥ asti niścitam .. 15 ..
भुंज्याद्भुक्ते प्रिये पत्यौ पातिव्रत्यपरायणा ॥ तिष्ठेत्तस्मिंञ्छिवे नारी सर्वथा सति तिष्ठति ॥ १६ ॥
भुंज्यात् भुक्ते प्रिये पत्यौ पातिव्रत्य-परायणा ॥ तिष्ठेत् तस्मिन् शिवे नारी सर्वथा सति तिष्ठति ॥ १६ ॥
bhuṃjyāt bhukte priye patyau pātivratya-parāyaṇā .. tiṣṭhet tasmin śive nārī sarvathā sati tiṣṭhati .. 16 ..
स्वप्यात्स्वपिति सा नित्यं बुध्येत्तु प्रथमं सुधीः ॥ सर्वदा तद्धितं कुर्यादकैतवगतिः प्रिया ॥ १७॥
स्वप्यात् स्वपिति सा नित्यम् बुध्येत् तु प्रथमम् सुधीः ॥ सर्वदा तत् हितम् कुर्यात् अकैतव-गतिः प्रिया ॥ १७॥
svapyāt svapiti sā nityam budhyet tu prathamam sudhīḥ .. sarvadā tat hitam kuryāt akaitava-gatiḥ priyā .. 17..
अनलंकृतमात्मानन्दर्शयेन्न क्वचिच्छिवे ॥ कार्यार्थम्प्रोषिते तस्मिन्भवेन्मण्डनवर्जिता ॥ १८ ॥
अनलंकृतम् आत्मानन् दर्शयेत् न क्वचिद् शिवे ॥ कार्य-अर्थम् प्रोषिते तस्मिन् भवेत् मण्डन-वर्जिता ॥ १८ ॥
analaṃkṛtam ātmānan darśayet na kvacid śive .. kārya-artham proṣite tasmin bhavet maṇḍana-varjitā .. 18 ..
पत्युर्नाम न गृह्णीयात् कदाचन पतिव्रता ॥ आक्रुष्टापि न चाक्रोशेत्प्रसीदेत्ताडितापि च ॥ हन्यतामिति च ब्रूयात्स्वामिन्निति कृपां कुरु ॥ १९ ॥
पत्युः नाम न गृह्णीयात् कदाचन पतिव्रता ॥ आक्रुष्टा अपि न च आक्रोशेत् प्रसीदेत् ताडिता अपि च ॥ हन्यताम् इति च ब्रूयात् स्वामिन् इति कृपाम् कुरु ॥ १९ ॥
patyuḥ nāma na gṛhṇīyāt kadācana pativratā .. ākruṣṭā api na ca ākrośet prasīdet tāḍitā api ca .. hanyatām iti ca brūyāt svāmin iti kṛpām kuru .. 19 ..
आहूता गृह कार्याणि त्यक्त्वा गच्छेत्तदन्तिकम् ॥ सत्वरं साञ्जलिः प्रीत्यां सुप्रणम्य वदेदिति ॥ 2.3.54.२० ॥
आहूता गृह-कार्याणि त्यक्त्वा गच्छेत् तद्-अन्तिकम् ॥ स त्वरम् स अञ्जलिः प्रीत्याम् सु प्रणम्य वदेत् इति ॥ २।३।५४।२० ॥
āhūtā gṛha-kāryāṇi tyaktvā gacchet tad-antikam .. sa tvaram sa añjaliḥ prītyām su praṇamya vadet iti .. 2.3.54.20 ..
किमर्थं व्याहृता नाथ स प्रसादो विधीयताम् ॥ तदादिष्टा चरेत्कर्म सुप्रसन्नेन चेतसा ॥ २१ ॥
किमर्थम् व्याहृता नाथ स प्रसादः विधीयताम् ॥ तद्-आदिष्टा चरेत् कर्म सु प्रसन्नेन चेतसा ॥ २१ ॥
kimartham vyāhṛtā nātha sa prasādaḥ vidhīyatām .. tad-ādiṣṭā caret karma su prasannena cetasā .. 21 ..
चिरन्तिष्ठेन्न च द्वारे गच्छेन्नैव परालये ॥ आदाय तत्त्वं यत्किंचित्कस्मै चिन्नार्पयेत्क्वचित् ॥ २२ ॥
चिरन् तिष्ठेत् न च द्वारे गच्छेत् न एव पर-आलये ॥ आदाय तत्त्वम् यत् किंचिद् कस्मै चित् न अर्पयेत् क्वचिद् ॥ २२ ॥
ciran tiṣṭhet na ca dvāre gacchet na eva para-ālaye .. ādāya tattvam yat kiṃcid kasmai cit na arpayet kvacid .. 22 ..
पूजोपकरणं सर्वमनुक्ता साधयेत्स्वयम् ॥ प्रतीक्षमाणावसरं यथाकालोचितं हितम् ॥ २३ ॥
पूजा-उपकरणम् सर्वम् अनुक्ता साधयेत् स्वयम् ॥ प्रतीक्षमाण-अवसरम् यथा काल-उचितम् हितम् ॥ २३ ॥
pūjā-upakaraṇam sarvam anuktā sādhayet svayam .. pratīkṣamāṇa-avasaram yathā kāla-ucitam hitam .. 23 ..
न गच्छेत्तीर्थयात्रां वै पत्याज्ञां न विना क्वचित् ॥ दूरतो वर्जयेत्सा हि समाजोत्सवदर्शनम् ॥ २४ ॥
न गच्छेत् तीर्थ-यात्राम् वै पति-आज्ञाम् न विना क्वचिद् ॥ दूरतस् वर्जयेत् सा हि समाज-उत्सव-दर्शनम् ॥ २४ ॥
na gacchet tīrtha-yātrām vai pati-ājñām na vinā kvacid .. dūratas varjayet sā hi samāja-utsava-darśanam .. 24 ..
तीर्थार्थिनी तु या नारी पतिपादोदकम्पिबेत् ॥ तस्मिन्सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥ २५ ॥
तीर्थ-अर्थिनी तु या नारी पति-पाद-उदकम् पिबेत् ॥ तस्मिन् सर्वाणि तीर्थानि क्षेत्राणि च न संशयः ॥ २५ ॥
tīrtha-arthinī tu yā nārī pati-pāda-udakam pibet .. tasmin sarvāṇi tīrthāni kṣetrāṇi ca na saṃśayaḥ .. 25 ..
भुंज्यात्सा भर्तुरुच्छिष्टमिष्टमन्नादिकं च यत् ॥ महाप्रसाद इत्युक्त्वा पतिदत्तम्पतिव्रता॥ २६॥
भुंज्यात् सा भर्तुः उच्छिष्टम् इष्टम् अन्न-आदिकम् च यत् ॥ महा-प्रसादः इति उक्त्वा पति-दत्तम् पतिव्रता॥ २६॥
bhuṃjyāt sā bhartuḥ ucchiṣṭam iṣṭam anna-ādikam ca yat .. mahā-prasādaḥ iti uktvā pati-dattam pativratā.. 26..
अविभज्य न चाश्नीयाद्देव पित्रतिथिष्वपि॥ परिचारकवर्गेषु गोषु भिक्षुकुलेषु च ॥ २७।
अ विभज्य न च अश्नीयात् देव पितृ-अतिथिषु अपि॥ परिचारक-वर्गेषु गोषु भिक्षु-कुलेषु च ॥ २७।
a vibhajya na ca aśnīyāt deva pitṛ-atithiṣu api.. paricāraka-vargeṣu goṣu bhikṣu-kuleṣu ca .. 27.
संयतोपस्करा दक्षा हृष्टा व्ययपराङ्मुखी ॥ भवेत्सा सर्वदा देवी पतिव्रतपरायणा॥ २८॥
संयत-उपस्करा दक्षा हृष्टा व्यय-पराङ्मुखी ॥ भवेत् सा सर्वदा देवी पतिव्रत-परायणा॥ २८॥
saṃyata-upaskarā dakṣā hṛṣṭā vyaya-parāṅmukhī .. bhavet sā sarvadā devī pativrata-parāyaṇā.. 28..
कुर्यात्पत्यननुज्ञाता नोपवासव्रतादिकम् ॥ अन्यथा तत्फलं नास्ति परत्र नरकम्व्रजेत् ॥ २९ ॥
कुर्यात् पति-अननुज्ञाता न उपवास-व्रत-आदिकम् ॥ अन्यथा तद्-फलम् ना अस्ति परत्र नरकम् व्रजेत् ॥ २९ ॥
kuryāt pati-ananujñātā na upavāsa-vrata-ādikam .. anyathā tad-phalam nā asti paratra narakam vrajet .. 29 ..
सुखपूर्वं सुखासीनं रममाणं यदृच्छया ॥ आन्तरेष्वपि कार्येषु पतिं नोत्थापयेत्क्वचित् ॥ 2.3.54.३० ॥
सुख-पूर्वम् सुख-आसीनम् रममाणम् यदृच्छया ॥ आन्तरेषु अपि कार्येषु पतिम् न उत्थापयेत् क्वचिद् ॥ २।३।५४।३० ॥
sukha-pūrvam sukha-āsīnam ramamāṇam yadṛcchayā .. āntareṣu api kāryeṣu patim na utthāpayet kvacid .. 2.3.54.30 ..
क्लीबम्वा दुरवस्थम्वा व्याधितं वृद्धमेव च ॥ सुखितं दुःखितं वापि पतिमेकं न लंघयेत् ॥ ३१ ॥
क्लीबम् वा दुरवस्थम् वा व्याधितम् वृद्धम् एव च ॥ सुखितम् दुःखितम् वा अपि पतिम् एकम् न लंघयेत् ॥ ३१ ॥
klībam vā duravastham vā vyādhitam vṛddham eva ca .. sukhitam duḥkhitam vā api patim ekam na laṃghayet .. 31 ..
स्त्रीधर्मिणी त्रिरात्रं च स्वमुखं नैव दर्शयेत् ॥ स्ववाक्यं श्रावयेन्नापि यावत्स्नानान्न शुध्यति ॥ ३२॥
स्त्री-धर्मिणी त्रि-रात्रम् च स्व-मुखम् न एव दर्शयेत् ॥ स्व-वाक्यम् श्रावयेत् ना अपि यावत् स्नानात् न शुध्यति ॥ ३२॥
strī-dharmiṇī tri-rātram ca sva-mukham na eva darśayet .. sva-vākyam śrāvayet nā api yāvat snānāt na śudhyati .. 32..
सुस्नाता भर्तृवदनमीक्षेतान्यस्य न क्वचित् ॥ अथवा मनसि ध्यात्वा पतिम्भानुम्विलोकयेत॥ ३३॥
सु स्नाता भर्तृ-वदनम् ईक्षेत अन्यस्य न क्वचिद् ॥ अथवा मनसि ध्यात्वा पतिम् भानुम् विलोकयेत॥ ३३॥
su snātā bhartṛ-vadanam īkṣeta anyasya na kvacid .. athavā manasi dhyātvā patim bhānum vilokayeta.. 33..
हरिद्राकुङ्कुमं चैव सिन्दूरं कज्जलादिकम्॥ कूर्पासकञ्च ताम्बूलं मांगल्याभरणादिकम् ॥ ३४॥
हरिद्रा-कुङ्कुमम् च एव सिन्दूरम् कज्जल-आदिकम्॥ कूर्पासकम् च ताम्बूलम् मांगल्य-आभरण-आदिकम् ॥ ३४॥
haridrā-kuṅkumam ca eva sindūram kajjala-ādikam.. kūrpāsakam ca tāmbūlam māṃgalya-ābharaṇa-ādikam .. 34..
केशसंस्कारकबरीकरकर्णादिभूषणम् ॥ भर्तुरायुष्यमिच्छन्ती दूरयेन्न पतिव्रता ॥ ३५॥
केश-संस्कार-कबरी-कर-कर्ण-आदि-भूषणम् ॥ भर्तुः आयुष्यम् इच्छन्ती दूरयेत् न पतिव्रता ॥ ३५॥
keśa-saṃskāra-kabarī-kara-karṇa-ādi-bhūṣaṇam .. bhartuḥ āyuṣyam icchantī dūrayet na pativratā .. 35..
न रजक्या न बन्धक्या तथा श्रवणया न च ॥ न च दुर्भगया क्वापि सखित्वं कारयेत्क्वचित्॥ ३६॥
न रजक्या न बन्धक्या तथा श्रवणया न च ॥ न च दुर्भगया क्वापि सखित्वम् कारयेत् क्वचिद्॥ ३६॥
na rajakyā na bandhakyā tathā śravaṇayā na ca .. na ca durbhagayā kvāpi sakhitvam kārayet kvacid.. 36..
पतिविद्वेषिणीं नारीं न सा संभाषयेत्क्वचित् ॥ नैकाकिनी क्वचित्तिष्ठेन्नग्ना स्नायान्न च क्वचित् ॥ ३७॥
पति-विद्वेषिणीम् नारीम् न सा संभाषयेत् क्वचिद् ॥ न एकाकिनी क्वचिद् तिष्ठेत् नग्ना स्नायात् न च क्वचिद् ॥ ३७॥
pati-vidveṣiṇīm nārīm na sā saṃbhāṣayet kvacid .. na ekākinī kvacid tiṣṭhet nagnā snāyāt na ca kvacid .. 37..
नोलूखले न मुसले न वर्द्धन्यां दृषद्यपि ॥ न यंत्रके न देहल्यां सती च प्रवसेत्क्वचित् ॥ ३८ ॥
न उलूखले न मुसले न वर्द्धन्याम् दृषदि अपि ॥ न यंत्रके न देहल्याम् सती च प्रवसेत् क्वचिद् ॥ ३८ ॥
na ulūkhale na musale na varddhanyām dṛṣadi api .. na yaṃtrake na dehalyām satī ca pravaset kvacid .. 38 ..
विना व्यवायसमयं प्रागल्भ्यं नाचरेत्क्वचित् ॥ यत्रयत्र रुचिर्भर्तुस्तत्र प्रेमवती भवेत् ॥ ३९॥
विना व्यवाय-समयम् प्रागल्भ्यम् ना आचरेत् क्वचिद् ॥ यत्र यत्र रुचिः भर्तुः तत्र प्रेमवती भवेत् ॥ ३९॥
vinā vyavāya-samayam prāgalbhyam nā ācaret kvacid .. yatra yatra ruciḥ bhartuḥ tatra premavatī bhavet .. 39..
हृष्टाहृष्टे विषण्णा स्याद्विषण्णास्ये प्रिये प्रिया ॥ पतिव्रता भवेद्देवी सदा पतिहितैषिणी॥ 2.3.54.४०॥
हृष्ट-अ हृष्टे विषण्णा स्यात् विषण्ण-आस्ये प्रिये प्रिया ॥ पतिव्रता भवेत् देवी सदा पति-हित-एषिणी॥ २।३।५४।४०॥
hṛṣṭa-a hṛṣṭe viṣaṇṇā syāt viṣaṇṇa-āsye priye priyā .. pativratā bhavet devī sadā pati-hita-eṣiṇī.. 2.3.54.40..
एकरूपा भवेत्पुण्या संपत्सु च विपत्सु च॥ विकृतिं स्वात्मनः क्वापि न कुर्याद्धैर्य्यधारिणी ॥ ४१॥
एक-रूपा भवेत् पुण्या संपत्सु च विपत्सु च॥ विकृतिम् स्व-आत्मनः क्वापि न कुर्यात् धैर्य-धारिणी ॥ ४१॥
eka-rūpā bhavet puṇyā saṃpatsu ca vipatsu ca.. vikṛtim sva-ātmanaḥ kvāpi na kuryāt dhairya-dhāriṇī .. 41..
सर्पिर्लवणतैलादिक्षयेपि च पतिव्रता॥ पतिं नास्तीति न ब्रूयादायासेषु न योजयेत् ॥ ४२॥
सर्पिः-लवण-तैल-आदि-क्षये अपि च पतिव्रता॥ पतिम् न अस्ति इति न ब्रूयात् आयासेषु न योजयेत् ॥ ४२॥
sarpiḥ-lavaṇa-taila-ādi-kṣaye api ca pativratā.. patim na asti iti na brūyāt āyāseṣu na yojayet .. 42..
विधेर्विष्णोर्हराद्वापि पतिरेकोधिको मतः ॥ पतिव्रताया देवेशि स्वपतिश्शिव एव च ॥ ४३ ॥
विधेः विष्णोः हरात् वा अपि पतिः एकः अधिकः मतः ॥ पतिव्रतायाः देवेशि स्वपतिः शिवः एव च ॥ ४३ ॥
vidheḥ viṣṇoḥ harāt vā api patiḥ ekaḥ adhikaḥ mataḥ .. pativratāyāḥ deveśi svapatiḥ śivaḥ eva ca .. 43 ..
व्रतोपवासनियमम्पतिमुल्लंघ्य या चरेत् ॥ आयुष्यं हरते भर्तुर्मृता निरयमृच्छति ॥ ४४ ॥
व्रत-उपवास-नियमम् पतिम् उल्लंघ्य या चरेत् ॥ आयुष्यम् हरते भर्तुः मृता निरयम् ऋच्छति ॥ ४४ ॥
vrata-upavāsa-niyamam patim ullaṃghya yā caret .. āyuṣyam harate bhartuḥ mṛtā nirayam ṛcchati .. 44 ..
उक्ता प्रत्युत्तरन्दद्याद्या नारी क्रोधतत्परा ॥ सरमा जायते ग्रामे शृगाली निर्जने वने ॥ ४५ ॥
उक्ता ॥ सरमा जायते ग्रामे शृगाली निर्जने वने ॥ ४५ ॥
uktā .. saramā jāyate grāme śṛgālī nirjane vane .. 45 ..
उच्चासनं न सेवेत न व्रजेद्दुष्टसन्निधौ ॥ न च कातरवाक्यानि वदेन्नारी पतिं क्वचित् ॥ ४६ ॥
उच्च-आसनम् न सेवेत न व्रजेत् दुष्ट-सन्निधौ ॥ न च कातर-वाक्यानि वदेत् नारी पतिम् क्वचिद् ॥ ४६ ॥
ucca-āsanam na seveta na vrajet duṣṭa-sannidhau .. na ca kātara-vākyāni vadet nārī patim kvacid .. 46 ..
अपवादं न च ब्रूयात्कलहं दूरतस्त्यजेत् ॥ गुरूणां सन्निधौ क्वापि नोच्चैर्ब्रूयान्न वै हसेत् ॥ ४७ ॥
अपवादम् न च ब्रूयात् कलहम् दूरतस् त्यजेत् ॥ गुरूणाम् सन्निधौ क्वापि न उच्चैस् ब्रूयात् न वै हसेत् ॥ ४७ ॥
apavādam na ca brūyāt kalaham dūratas tyajet .. gurūṇām sannidhau kvāpi na uccais brūyāt na vai haset .. 47 ..
बाह्यादायान्तमालोक्य त्वरितान्नजलाशनैः ॥ ताम्बूलैर्वसनैश्चापि पादसम्वाहनादिभिः ॥ ४८ ॥
बाह्यात् आयान्तम् आलोक्य त्वरित-अन्न-जल-अशनैः ॥ ताम्बूलैः वसनैः च अपि पाद-सम्वाहन-आदिभिः ॥ ४८ ॥
bāhyāt āyāntam ālokya tvarita-anna-jala-aśanaiḥ .. tāmbūlaiḥ vasanaiḥ ca api pāda-samvāhana-ādibhiḥ .. 48 ..
तथैव चाटुवचनैः स्वेदसन्नोदनैः परैः ॥ या प्रियं प्रीणयेत्प्रीता त्रिलोकी प्रीणता तया ॥ ४९ ॥
तथा एव चाटु-वचनैः स्वेद-सन्नोदनैः परैः ॥ या प्रियम् प्रीणयेत् प्रीता त्रिलोकी प्रीणता तया ॥ ४९ ॥
tathā eva cāṭu-vacanaiḥ sveda-sannodanaiḥ paraiḥ .. yā priyam prīṇayet prītā trilokī prīṇatā tayā .. 49 ..
मितन्ददाति जनको मितं भ्राता मितं सुतः ॥ अमितस्य हि दातारं भर्तारम्पूजयेत्सदा ॥ 2.3.54.५० ॥
मितम् ददाति जनकः मितम् भ्राता मितम् सुतः ॥ अमितस्य हि दातारम् भर्तारम् पूजयेत् सदा ॥ २।३।५४।५० ॥
mitam dadāti janakaḥ mitam bhrātā mitam sutaḥ .. amitasya hi dātāram bhartāram pūjayet sadā .. 2.3.54.50 ..
भर्ता देवो गुरुर्भर्ता धर्मतीर्थव्रतानि च ॥ तस्मात्सर्वम्परित्यज्य पतिमेकं समर्चयेत् ॥ ५१ ॥
भर्ता देवः गुरुः भर्ता धर्मतीर्थ-व्रतानि च ॥ तस्मात् सर्वम् परित्यज्य पतिम् एकम् समर्चयेत् ॥ ५१ ॥
bhartā devaḥ guruḥ bhartā dharmatīrtha-vratāni ca .. tasmāt sarvam parityajya patim ekam samarcayet .. 51 ..
या भर्तारम्परित्यज्य रहश्चरति दुर्मतिः ॥ उलूकी जायते क्रूरा वृक्ष कोटरशायिनी ॥ ५२ ॥
या भर्तारम् परित्यज्य रहः चरति दुर्मतिः ॥ उलूकी जायते क्रूरा वृक्ष-कोटरशायिनी ॥ ५२ ॥
yā bhartāram parityajya rahaḥ carati durmatiḥ .. ulūkī jāyate krūrā vṛkṣa-koṭaraśāyinī .. 52 ..
ताडिता ताडितुं चेच्छेत्सा व्याघ्री वृषदंशिका ॥ कटाक्षयति यान्यम्वै केकराक्षी तु सा भवेत् ॥ ५३ ॥
ताडिता ताडितुम् च इच्छेत् सा व्याघ्री वृष-दंशिका ॥ कटाक्षयति या अन्यम् वै केकर-अक्षी तु सा भवेत् ॥ ५३ ॥
tāḍitā tāḍitum ca icchet sā vyāghrī vṛṣa-daṃśikā .. kaṭākṣayati yā anyam vai kekara-akṣī tu sā bhavet .. 53 ..
या भर्तारम्परित्यज्य मिष्टमश्नाति केवलम् ॥ ग्रामे वा सूकरी भूयाद्वल्गुर्वापि स्वविड्भुजा ॥ ५४ ॥
या भर्तारम् परित्यज्य मिष्टम् अश्नाति केवलम् ॥ ग्रामे वा सूकरी भूयात् वल्गुः वा अपि स्व-विड्भुजा ॥ ५४ ॥
yā bhartāram parityajya miṣṭam aśnāti kevalam .. grāme vā sūkarī bhūyāt valguḥ vā api sva-viḍbhujā .. 54 ..
या तुकृत्य प्रियम्ब्रूयान्मूका सा जायते खलु ॥ या सपत्नी सदेर्ष्येत दुर्भगा सा पुनः पुनः ॥ ५५॥
या तु कृत्य प्रियम् ब्रूयात् मूका सा जायते खलु ॥ या सपत्नी सदा ईर्ष्येत दुर्भगा सा पुनर् पुनर् ॥ ५५॥
yā tu kṛtya priyam brūyāt mūkā sā jāyate khalu .. yā sapatnī sadā īrṣyeta durbhagā sā punar punar .. 55..
दृष्टिम्विलुप्य भर्त्तुर्या कश्चिदन्यं समीक्षते ॥ काणा च विमुखी चापि कुरूपापि च जायते ॥ ५६ ॥
दृष्टिम् विलुप्य भर्त्तुः या कश्चिद् अन्यम् समीक्षते ॥ काणा च विमुखी च अपि कुरूपा अपि च जायते ॥ ५६ ॥
dṛṣṭim vilupya bharttuḥ yā kaścid anyam samīkṣate .. kāṇā ca vimukhī ca api kurūpā api ca jāyate .. 56 ..
जीवहीनो यथा देहः क्षणादशुचिताम्व्रजेत् ॥ भर्तृहीना तथा योषित्सुस्नाताप्यशुचिस्सदा ॥ ५७॥
जीव-हीनः यथा देहः क्षणात् अशुचि-ताम् व्रजेत् ॥ भर्तृ-हीना तथा योषित् सु स्नाता अपि अशुचिः सदा ॥ ५७॥
jīva-hīnaḥ yathā dehaḥ kṣaṇāt aśuci-tām vrajet .. bhartṛ-hīnā tathā yoṣit su snātā api aśuciḥ sadā .. 57..
सा धन्या जननी लोके स धन्यो जनकः पिता ॥ धन्यस्स च पतिर्यस्य गृहे देवी पतिव्रता ॥ ५८॥
सा धन्या जननी लोके स धन्यः जनकः पिता ॥ धन्यः स च पतिः यस्य गृहे देवी पतिव्रता ॥ ५८॥
sā dhanyā jananī loke sa dhanyaḥ janakaḥ pitā .. dhanyaḥ sa ca patiḥ yasya gṛhe devī pativratā .. 58..
पितृवंश्याः मातृवंश्याः पतिवंश्यास्त्रयस्त्रयः ॥ पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुंजते ॥ ॥ ५९ ॥
पितृ-वंश्याः मातृ-वंश्याः पति-वंश्याः त्रयः त्रयः ॥ पतिव्रतायाः पुण्येन स्वर्गे सौख्यानि भुंजते ॥ ॥ ५९ ॥
pitṛ-vaṃśyāḥ mātṛ-vaṃśyāḥ pati-vaṃśyāḥ trayaḥ trayaḥ .. pativratāyāḥ puṇyena svarge saukhyāni bhuṃjate .. .. 59 ..
शीलभङ्गेन दुर्वृत्ताः पातयन्ति कुलत्रयम् ॥ पितुर्मातुस्तथा पत्युरिहामुत्रापि दुःखिताः ॥ 2.3.54.६० ॥
शील-भङ्गेन दुर्वृत्ताः पातयन्ति कुल-त्रयम् ॥ पितुः मातुः तथा पत्युः इह अमुत्र अपि दुःखिताः ॥ २।३।५४।६० ॥
śīla-bhaṅgena durvṛttāḥ pātayanti kula-trayam .. pituḥ mātuḥ tathā patyuḥ iha amutra api duḥkhitāḥ .. 2.3.54.60 ..
पतिव्रतायाश्चरणो यत्र यत्र स्पृशेद्भुवम् ॥ तत्र तत्र भवेत्सा हि पापहन्त्री सुपावनी ॥ ६१॥
पतिव्रतायाः चरणः यत्र यत्र स्पृशेत् भुवम् ॥ तत्र तत्र भवेत् सा हि पाप-हन्त्री सु पावनी ॥ ६१॥
pativratāyāḥ caraṇaḥ yatra yatra spṛśet bhuvam .. tatra tatra bhavet sā hi pāpa-hantrī su pāvanī .. 61..
विभुः पतिव्रतास्पर्शं कुरुते भानुमानपि ॥ सोमो गन्धवहश्चापि स्वपावित्र्याय नान्यथा ॥ ६२॥
विभुः पतिव्रता-स्पर्शम् कुरुते भानुमान् अपि ॥ सोमः गन्धवहः च अपि स्व-पावित्र्याय ना अन्यथा ॥ ६२॥
vibhuḥ pativratā-sparśam kurute bhānumān api .. somaḥ gandhavahaḥ ca api sva-pāvitryāya nā anyathā .. 62..
आपः पतिव्रतास्पर्शमभिलष्यन्ति सर्वदा ॥ अद्य जाड्यविनाशो नो जातस्त्वद्यान्यपावनाः॥ ६३॥
आपः पतिव्रता-स्पर्शम् अभिलष्यन्ति सर्वदा ॥ अद्य जाड्य-विनाशः नः जातः तु अद्य अन्य-पावनाः॥ ६३॥
āpaḥ pativratā-sparśam abhilaṣyanti sarvadā .. adya jāḍya-vināśaḥ naḥ jātaḥ tu adya anya-pāvanāḥ.. 63..
भार्या मूलं गृहस्थास्य भार्या मूलं सुखस्य च ॥ भार्या धर्मफलावाप्त्यै भार्या सन्तानवृद्धये॥ ६४॥
भार्या मूलम् गृहस्था अस्य भार्या मूलम् सुखस्य च ॥ भार्या धर्म-फल-अवाप्त्यै भार्या सन्तान-वृद्धये॥ ६४॥
bhāryā mūlam gṛhasthā asya bhāryā mūlam sukhasya ca .. bhāryā dharma-phala-avāptyai bhāryā santāna-vṛddhaye.. 64..
गृहे गृहे न किं नार्य्यो रूपलावण्यगर्विताः ॥ परम्विश्वेशभक्त्यैव लभ्यते स्त्री पतिव्रता ॥ ६५॥
गृहे गृहे न किम् नार्य्यः रूप-लावण्य-गर्विताः ॥ परम् विश्वेश-भक्त्या एव लभ्यते स्त्री पतिव्रता ॥ ६५॥
gṛhe gṛhe na kim nāryyaḥ rūpa-lāvaṇya-garvitāḥ .. param viśveśa-bhaktyā eva labhyate strī pativratā .. 65..
परलोकस्त्वयं लोको जीयते भार्य या द्वयम् ॥ देवपित्रतिथीज्यादि नाभार्यः कर्म चार्हति ॥ ६६॥
पर-लोकः तु अयम् लोकः जीयते भार्य याः द्वयम् ॥ देव-पितृ-अतिथि-इज्या-आदि न अभार्यः कर्म च अर्हति ॥ ६६॥
para-lokaḥ tu ayam lokaḥ jīyate bhārya yāḥ dvayam .. deva-pitṛ-atithi-ijyā-ādi na abhāryaḥ karma ca arhati .. 66..
गृहस्थस्स हि विज्ञेयो यस्य गेहे पतिव्रता ॥ ग्रस्यतेऽन्यान्प्रतिदिनं राक्षस्या जरया यथा ॥ ६७ ॥
गृहस्थः स हि विज्ञेयः यस्य गेहे पतिव्रता ॥ ग्रस्यते अन्यान् प्रतिदिनम् राक्षस्या जरया यथा ॥ ६७ ॥
gṛhasthaḥ sa hi vijñeyaḥ yasya gehe pativratā .. grasyate anyān pratidinam rākṣasyā jarayā yathā .. 67 ..
यथा गंगावगाहेन शरीरं पावनं भवेत् ॥ तथा पतिव्रतां दृष्ट्वा सकलम्पावनं भवेत् ॥ ६८ ॥
यथा गंगा-अवगाहेन शरीरम् पावनम् भवेत् ॥ तथा पतिव्रताम् दृष्ट्वा सकलम्पावनम् भवेत् ॥ ६८ ॥
yathā gaṃgā-avagāhena śarīram pāvanam bhavet .. tathā pativratām dṛṣṭvā sakalampāvanam bhavet .. 68 ..
न गङ्गाया तया भेदो या नारी पतिदेवता ॥ उमाशिवसमौ साक्षात्तस्मात्तौ पूजयेद्बुधः ॥ ६९॥
न गङ्गाया तया भेदः या नारी पति-देवता ॥ उमा-शिव-समौ साक्षात् तस्मात् तौ पूजयेत् बुधः ॥ ६९॥
na gaṅgāyā tayā bhedaḥ yā nārī pati-devatā .. umā-śiva-samau sākṣāt tasmāt tau pūjayet budhaḥ .. 69..
तारः पतिश्श्रुतिर्नारी क्षमा सा स स्वयन्तपः ॥ फलम्पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ॥ 2.3.54.७०॥
तारः पतिः श्रुतिः नारी क्षमा सा स स्वयन्तपः ॥ फलम्पतिः सत्क्रिया सा धन्यौ तौ दम्पती शिवे ॥ २।३।५४।७०॥
tāraḥ patiḥ śrutiḥ nārī kṣamā sā sa svayantapaḥ .. phalampatiḥ satkriyā sā dhanyau tau dampatī śive .. 2.3.54.70..
एवम्पतिव्रताधर्मो वर्णितस्ते गिरीन्द्रजे ॥ तद्भेदाञ् शृणु सुप्रीत्या सावधानतयाऽद्य मे॥ ७१॥
एवम् पति-व्रता-धर्मः वर्णितः ते गिरीन्द्रजे ॥ तद्-भेदान् शृणु सु प्रीत्या सावधान-तया अद्य मे॥ ७१॥
evam pati-vratā-dharmaḥ varṇitaḥ te girīndraje .. tad-bhedān śṛṇu su prītyā sāvadhāna-tayā adya me.. 71..
चतुर्विधास्ताः कथिता नार्यो देवि पतिव्रताः ॥ उत्तमादिविभेदेन स्मरतां पापहारिकाः॥ ७२॥
चतुर्विधाः ताः कथिताः नार्यः देवि पतिव्रताः ॥ उत्तम-आदि-विभेदेन स्मरताम् पाप-हारिकाः॥ ७२॥
caturvidhāḥ tāḥ kathitāḥ nāryaḥ devi pativratāḥ .. uttama-ādi-vibhedena smaratām pāpa-hārikāḥ.. 72..
उत्तमा मध्यमा चैव निकृष्टातिनिकृष्टिका॥ ब्रुवे तासां लक्षणानि सावधानतया शृणु॥ ७३॥
उत्तमा मध्यमा च एव निकृष्टा अति निकृष्टिका॥ ब्रुवे तासाम् लक्षणानि सावधान-तया शृणु॥ ७३॥
uttamā madhyamā ca eva nikṛṣṭā ati nikṛṣṭikā.. bruve tāsām lakṣaṇāni sāvadhāna-tayā śṛṇu.. 73..
स्वप्नेपि यन्मनो नित्यं स्वपतिं पश्यति ध्रुवम् ॥ नान्यम्परपतिं भद्रे उत्तमा सा प्रकीर्तिता॥ ७४॥
स्वप्ने पि यत् मनः नित्यम् स्वपतिम् पश्यति ध्रुवम् ॥ भद्रे उत्तमा सा प्रकीर्तिता॥ ७४॥
svapne pi yat manaḥ nityam svapatim paśyati dhruvam .. bhadre uttamā sā prakīrtitā.. 74..
या पितृभ्रातृसुतवत् परम्पश्यति सद्धिया॥ मध्यमा सा हि कथिता शैलजे वै पतिव्रता॥ ७५॥
या पितृ-भ्रातृ-सुत-वत् परम् पश्यति सत्-धिया॥ मध्यमा सा हि कथिता शैलजे वै पतिव्रता॥ ७५॥
yā pitṛ-bhrātṛ-suta-vat param paśyati sat-dhiyā.. madhyamā sā hi kathitā śailaje vai pativratā.. 75..
बुद्ध्वा स्वधर्मं मनसा व्यभिचारं करोति न ॥ निकृष्टा कथिता सा हि सुचरित्रा च पार्वति ॥ ७६॥
बुद्ध्वा स्वधर्मम् मनसा व्यभिचारम् करोति न ॥ निकृष्टा कथिता सा हि सु चरित्रा च पार्वति ॥ ७६॥
buddhvā svadharmam manasā vyabhicāram karoti na .. nikṛṣṭā kathitā sā hi su caritrā ca pārvati .. 76..
पत्युः कुलस्य च भयाद्व्यभिचारं करोति न ॥ पतिव्रताऽधमा सा हि कथिता पूर्वसूरिभिः ॥ ७७॥
पत्युः कुलस्य च भयात् व्यभिचारम् करोति न ॥ पतिव्रता अधमा सा हि कथिता पूर्व-सूरिभिः ॥ ७७॥
patyuḥ kulasya ca bhayāt vyabhicāram karoti na .. pativratā adhamā sā hi kathitā pūrva-sūribhiḥ .. 77..
चतुर्विधा अपि शिवे पापहन्त्र्यः पतिव्रताः ॥ पावनास्सर्वलोकानामिहामुत्रापि हर्षिताः ॥ ७८ ॥
चतुर्विधाः अपि शिवे पाप-हन्त्र्यः पतिव्रताः ॥ पावनाः सर्व-लोकानाम् इह अमुत्र अपि हर्षिताः ॥ ७८ ॥
caturvidhāḥ api śive pāpa-hantryaḥ pativratāḥ .. pāvanāḥ sarva-lokānām iha amutra api harṣitāḥ .. 78 ..
पातिव्रत्यप्रभावेणात्रिस्त्रिया त्रिसुरार्थनात् ॥ जीवितो विप्र एको हि मृतो वाराहशापतः ॥ ७९ ॥
पातिव्रत्य-प्रभावेण अ त्रि-स्त्रिया त्रि-सुरा-अर्थनात् ॥ जीवितः विप्रः एकः हि मृतः वाराह-शापतः ॥ ७९ ॥
pātivratya-prabhāveṇa a tri-striyā tri-surā-arthanāt .. jīvitaḥ vipraḥ ekaḥ hi mṛtaḥ vārāha-śāpataḥ .. 79 ..
एवं ज्ञात्वा शिवे नित्यं कर्तव्यम्पतिसेवनम् ॥ त्वया शैलात्मज प्रीत्या सर्वकामप्रदं सदा ॥ 2.3.54.८० ॥
एवम् ज्ञात्वा शिवे नित्यम् कर्तव्यम् पति-सेवनम् ॥ त्वया शैलात्मज प्रीत्या सर्व-काम-प्रदम् सदा ॥ २।३।५४।८० ॥
evam jñātvā śive nityam kartavyam pati-sevanam .. tvayā śailātmaja prītyā sarva-kāma-pradam sadā .. 2.3.54.80 ..
जगदम्बा महेशी त्वं शिवस्साक्षात्पतिस्तव ॥ तव स्मरणतो नार्यो भवन्ति हि पतिव्रताः ॥ ८१ ॥
जगदम्बा महेशी त्वम् शिवः साक्षात् पतिः तव ॥ तव स्मरणतः नार्यः भवन्ति हि पतिव्रताः ॥ ८१ ॥
jagadambā maheśī tvam śivaḥ sākṣāt patiḥ tava .. tava smaraṇataḥ nāryaḥ bhavanti hi pativratāḥ .. 81 ..
त्वदग्रे कथनेनानेन किं देवि प्रयोजनम् ॥ तथापि कथितं मेऽद्य जगदाचारतः शिवे ॥ ८२ ॥
त्वद्-अग्रे कथनेन अनेन किम् देवि प्रयोजनम् ॥ तथा अपि कथितम् मे अद्य जगत्-आचारतः शिवे ॥ ८२ ॥
tvad-agre kathanena anena kim devi prayojanam .. tathā api kathitam me adya jagat-ācārataḥ śive .. 82 ..
ब्रह्मोवाच ।।
इत्युक्त्वा विररामासौ द्विजस्त्री सुप्रणम्य ताम् ॥ शिवा मुदमतिप्राप पार्वती शङ्करप्रिया ॥ ८३ ॥
इति उक्त्वा विरराम असौ द्विज-स्त्री सु प्रणम्य ताम् ॥ शिवा मुदम् अतिप्राप पार्वती शङ्कर-प्रिया ॥ ८३ ॥
iti uktvā virarāma asau dvija-strī su praṇamya tām .. śivā mudam atiprāpa pārvatī śaṅkara-priyā .. 83 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पतिव्रताधर्म वर्णनं नाम चतुःपञ्चाशत्तमोऽध्यायः ॥ ५४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पतिव्रताधर्मवर्णनम् नाम चतुःपञ्चाशत्तमः अध्यायः ॥ ५४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pativratādharmavarṇanam nāma catuḥpañcāśattamaḥ adhyāyaḥ .. 54 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In