| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतञ्च तत् ॥ प्रोवाच मेनामामन्त्र्य यात्रामस्याश्च कारय ॥ १ ॥
अथ सा ब्राह्मणी देव्यै शिक्षयित्वा व्रतञ्च च तत् ॥ प्रोवाच मेनाम् आमन्त्र्य यात्राम् अस्याः च कारय ॥ १ ॥
atha sā brāhmaṇī devyai śikṣayitvā vratañca ca tat .. provāca menām āmantrya yātrām asyāḥ ca kāraya .. 1 ..
तथास्त्विति च सम्प्रोच्य प्रेमवश्या बभूव सा ॥ धृतिन्धृत्वाहूय कालीं विश्लेषविरहा कुला ॥ २ ॥
तथा अस्तु इति च सम्प्रोच्य प्रेम-वश्या बभूव सा ॥ धृतिन् धृत्वा आहूय कालीम् विश्लेष-विरहा कुला ॥ २ ॥
tathā astu iti ca samprocya prema-vaśyā babhūva sā .. dhṛtin dhṛtvā āhūya kālīm viśleṣa-virahā kulā .. 2 ..
अत्युच्चै रोदनं चक्रे संश्लिष्य च पुनः पुनः ॥ पार्वत्यपि रुरोदोच्चैरुच्चरन्ती कृपावचः ॥ ३ ॥
अत्युच्चैस् रोदनम् चक्रे संश्लिष्य च पुनर् पुनर् ॥ पार्वती अपि रुरोद उच्चैस् उच्चरन्ती कृपा-वचः ॥ ३ ॥
atyuccais rodanam cakre saṃśliṣya ca punar punar .. pārvatī api ruroda uccais uccarantī kṛpā-vacaḥ .. 3 ..
शैलप्रिया शिवा चापि मूर्च्छामाप शुचार्दिता॥ मूर्च्छाम्प्रापुर्देवपत्न्यः पार्वत्या रोदनेन च ॥ ४ ॥
शैलप्रिया शिवा च अपि मूर्च्छाम् आप शुचा अर्दिता॥ मूर्च्छाम् प्रापुः देव-पत्न्यः पार्वत्याः रोदनेन च ॥ ४ ॥
śailapriyā śivā ca api mūrcchām āpa śucā arditā.. mūrcchām prāpuḥ deva-patnyaḥ pārvatyāḥ rodanena ca .. 4 ..
सर्वाश्च रुरुदुर्नार्य्यस्सर्वमासीदचेतनम् ॥ स्वयं रुरोद योगीशो गच्छन्कोन्य परः प्रभुः ॥ ५ ॥
सर्वाः च रुरुदुः नार्यः सर्वम् आसीत् अचेतनम् ॥ स्वयम् रुरोद योगि-ईशः गच्छन् कः न्य परः प्रभुः ॥ ५ ॥
sarvāḥ ca ruruduḥ nāryaḥ sarvam āsīt acetanam .. svayam ruroda yogi-īśaḥ gacchan kaḥ nya paraḥ prabhuḥ .. 5 ..
एतस्मिन्नन्तरे शीघ्रमाजगाम हिमालयः ॥ ससर्वतनयस्तत्र सचिवैश्च द्विजैः परैः ॥ ६ ॥
एतस्मिन् अन्तरे शीघ्रम् आजगाम हिमालयः ॥ स सर्व-तनयः तत्र सचिवैः च द्विजैः परैः ॥ ६ ॥
etasmin antare śīghram ājagāma himālayaḥ .. sa sarva-tanayaḥ tatra sacivaiḥ ca dvijaiḥ paraiḥ .. 6 ..
स्वयं रुरोद मोहेन वत्सां कृत्वा स्ववक्षसि ॥ क्व यासीत्येवमुच्चार्य शून्यं कृत्वा मुहुर्मुहुः ॥ ७ ॥
स्वयम् रुरोद मोहेन वत्साम् कृत्वा स्व-वक्षसि ॥ क्व यासि इति एवम् उच्चार्य शून्यम् कृत्वा मुहुर् मुहुर् ॥ ७ ॥
svayam ruroda mohena vatsām kṛtvā sva-vakṣasi .. kva yāsi iti evam uccārya śūnyam kṛtvā muhur muhur .. 7 ..
ततः पुरोहितो विप्रैरध्यात्मविद्यया सुखम् ॥ सर्वान्प्रबोधयामास कृपया ज्ञानवत्तरः ॥ ८ ॥
ततस् पुरोहितः विप्रैः अध्यात्म-विद्यया सुखम् ॥ सर्वान् प्रबोधयामास कृपया ज्ञानवत्तरः ॥ ८ ॥
tatas purohitaḥ vipraiḥ adhyātma-vidyayā sukham .. sarvān prabodhayāmāsa kṛpayā jñānavattaraḥ .. 8 ..
ननाम पार्वती भक्त्या मातरम्पितरं गुरुम् ॥ महामाया भवाचाराद्रुरोदोच्चैर्मुहुर्मुहुः ॥ ९ ॥
ननाम पार्वती भक्त्या मातरम् पितरम् गुरुम् ॥ महामाया भव-आचारात् रुरोद उच्चैस् मुहुर् मुहुर् ॥ ९ ॥
nanāma pārvatī bhaktyā mātaram pitaram gurum .. mahāmāyā bhava-ācārāt ruroda uccais muhur muhur .. 9 ..
पार्वत्या रोदनेनैव रुरुदुस्सर्वयोषितः ॥ नितरां जननी मेना यामयो भ्रातरस्तथा ॥ 2.3.55.१० ॥
पार्वत्याः रोदनेन एव रुरुदुः सर्व-योषितः ॥ नितराम् जननी मेना यामयः भ्रातरः तथा ॥ २।३।५५।१० ॥
pārvatyāḥ rodanena eva ruruduḥ sarva-yoṣitaḥ .. nitarām jananī menā yāmayaḥ bhrātaraḥ tathā .. 2.3.55.10 ..
पुनः पुनः शिवामाता यामयोऽन्याश्च योषितः ॥ भ्रातरो जनकः प्रेम्णा रुरुदुर्बद्धसौहृदाः ॥ ११ ॥
पुनर् पुनर् शिवामाता यामयः अन्याः च योषितः ॥ भ्रातरः जनकः प्रेम्णा रुरुदुः बद्ध-सौहृदाः ॥ ११ ॥
punar punar śivāmātā yāmayaḥ anyāḥ ca yoṣitaḥ .. bhrātaraḥ janakaḥ premṇā ruruduḥ baddha-sauhṛdāḥ .. 11 ..
तदा विप्राः समागत्य बोधयामासुरादरात् ॥ लग्नन्निवेदयामासुर्यात्रायास्सुखदम्परम् ॥ १२ ॥
तदा विप्राः समागत्य बोधयामासुः आदरात् ॥ निवेदयामासुः यात्रायाः सुख-दम्परम् ॥ १२ ॥
tadā viprāḥ samāgatya bodhayāmāsuḥ ādarāt .. nivedayāmāsuḥ yātrāyāḥ sukha-damparam .. 12 ..
ततो हिमालयो मेनां धृत्वा धैर्य्यम्विवेकतः ॥ शिबिकामानयामास शिवारोहणहेतवे ॥ १३ ॥
ततस् हिमालयः मेनाम् धृत्वा धैर्यम् विवेकतः ॥ शिबिकाम् आनयामास शिव-आरोहण-हेतवे ॥ १३ ॥
tatas himālayaḥ menām dhṛtvā dhairyam vivekataḥ .. śibikām ānayāmāsa śiva-ārohaṇa-hetave .. 13 ..
शिवामारोहयामासुस्तत्र विप्राङ्गनाश्च ताम् ॥ आशिषम्प्रददुस्सर्वाः पिता माता द्विजास्तथा ॥ १४ ॥
शिवाम् आरोहयामासुः तत्र विप्र-अङ्गनाः च ताम् ॥ आशिषम् प्रददुः सर्वाः पिता माता द्विजाः तथा ॥ १४ ॥
śivām ārohayāmāsuḥ tatra vipra-aṅganāḥ ca tām .. āśiṣam pradaduḥ sarvāḥ pitā mātā dvijāḥ tathā .. 14 ..
महाराज्ञ्युपचाराँश्च ददौ मेना गिरिस्तथा ॥ नानाद्रव्यसमूहं च परेषान्दुर्लभं शुभम् ॥ १५ ॥
महा-राज्ञी-उपचारान् च ददौ मेना गिरिः तथा ॥ नाना द्रव्य-समूहम् च परेषाम् दुर्लभम् शुभम् ॥ १५ ॥
mahā-rājñī-upacārān ca dadau menā giriḥ tathā .. nānā dravya-samūham ca pareṣām durlabham śubham .. 15 ..
शिवा नत्वा गुरून्सर्वाञ् जनकं जननीन्तथा ॥ द्विजान्पुरोहितं यामीस्त्रीस्तथान्या ययौ मुने ॥ १६ ॥
शिवा नत्वा गुरून् सर्वान् जनकम् जननीम् तथा ॥ द्विजान् पुरोहितम् यामीः त्रीः तथा अन्या ययौ मुने ॥ १६ ॥
śivā natvā gurūn sarvān janakam jananīm tathā .. dvijān purohitam yāmīḥ trīḥ tathā anyā yayau mune .. 16 ..
हिमाचलोऽपि ससुतोऽगच्छत्स्नेहवशी बुधः ॥ प्राप्तस्तत्र प्रभुर्यत्र सामरः प्रीतिमावहन् ॥ १७॥
हिमाचलः अपि स सुतः अगच्छत् स्नेह-वशी बुधः ॥ प्राप्तः तत्र प्रभुः यत्र स अमरः प्रीतिम् आवहन् ॥ १७॥
himācalaḥ api sa sutaḥ agacchat sneha-vaśī budhaḥ .. prāptaḥ tatra prabhuḥ yatra sa amaraḥ prītim āvahan .. 17..
प्रीत्याभिरेभिरे सर्वे महोत्सवपुर स्सरम् ॥ प्रभुम्प्रणेमुस्ते भक्त्या प्रशंसन्तोऽविशन्पुरीम् ॥ १८॥
प्रीत्या अभिरेभिरे सर्वे महा-उत्सव-पुर-स्सरम् ॥ प्रभुम् प्रणेमुः ते भक्त्या प्रशंसन्तः अविशन् पुरीम् ॥ १८॥
prītyā abhirebhire sarve mahā-utsava-pura-ssaram .. prabhum praṇemuḥ te bhaktyā praśaṃsantaḥ aviśan purīm .. 18..
जातिस्मरां स्मारयामि नित्यं स्मरसि चेद्वद ॥ लीलया त्वाञ्च देवेशि सदा प्राणप्रिया मम ॥ १९॥
जातिस्मराम् स्मारयामि नित्यम् स्मरसि चेद् वद ॥ लीलया त्वाञ्च च देवेशि सदा प्राण-प्रिया मम ॥ १९॥
jātismarām smārayāmi nityam smarasi ced vada .. līlayā tvāñca ca deveśi sadā prāṇa-priyā mama .. 19..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्य स्वनाथस्याथ पार्वती ॥ शङ्करस्य प्रिया नित्यं सस्मितोवाच सा सती ॥ 2.3.55.२० ॥
इति आकर्ण्य महेशस्य स्व-नाथस्य अथ पार्वती ॥ शङ्करस्य प्रिया नित्यम् स स्मिता उवाच सा सती ॥ २।३।५५।२० ॥
iti ākarṇya maheśasya sva-nāthasya atha pārvatī .. śaṅkarasya priyā nityam sa smitā uvāca sā satī .. 2.3.55.20 ..
पार्वत्युवाच ।।
सर्वं स्मरामि प्राणेश मौनी भूतो भवेति च ॥ प्रस्तावोचितमद्याशु कार्यं कुरु नमोऽस्तु ते ॥ २१ ॥
सर्वम् स्मरामि प्राणेश मौनी भूतः भव इति च ॥ प्रस्ताव-उचितम् अद्य आशु कार्यम् कुरु नमः अस्तु ते ॥ २१ ॥
sarvam smarāmi prāṇeśa maunī bhūtaḥ bhava iti ca .. prastāva-ucitam adya āśu kāryam kuru namaḥ astu te .. 21 ..
ब्रह्मोवाच।।
इत्याकर्ण्य प्रियावाक्यं सुधाधाराशतोपमम् ॥ मुमुदेऽतीव विश्वेशो लौकिकाचारतत्परः॥ २२॥
इति आकर्ण्य प्रिया-वाक्यम् सुधा-धारा-शत-उपमम् ॥ मुमुदे अतीव विश्वेशः लौकिक-आचार-तत्परः॥ २२॥
iti ākarṇya priyā-vākyam sudhā-dhārā-śata-upamam .. mumude atīva viśveśaḥ laukika-ācāra-tatparaḥ.. 22..
शिवः सम्भृतसम्भारो नानावस्तुमनोहरम् ॥ भोजयामास देवश्च नारायणपुरोगमान् ॥ २३॥
शिवः सम्भृत-सम्भारः नाना वस्तु-मनोहरम् ॥ भोजयामास देवः च नारायण-पुरोगमान् ॥ २३॥
śivaḥ sambhṛta-sambhāraḥ nānā vastu-manoharam .. bhojayāmāsa devaḥ ca nārāyaṇa-purogamān .. 23..
तथान्यान्निखिलान्प्रीत्या स्वविवाहसमागतान् ॥ भोजयामास सुरसमन्नम्बहुविधम्प्रभुः ॥ २४॥
तथा अन्यान् निखिलान् प्रीत्या स्व-विवाह-समागतान् ॥ भोजयामास सु रसम् अन्नम् बहुविधम् प्रभुः ॥ २४॥
tathā anyān nikhilān prītyā sva-vivāha-samāgatān .. bhojayāmāsa su rasam annam bahuvidham prabhuḥ .. 24..
ततो भुक्त्वा च ते देवा नानारत्न विभूषिताः ॥ सस्त्रीकास्सगणास्सर्वे प्रणेमुश्चंद्रशेखरम् ॥ २५॥
ततस् भुक्त्वा च ते देवाः नाना रत्न-विभूषिताः ॥ स स्त्रीकाः स गणाः सर्वे प्रणेमुः चंद्रशेखरम् ॥ २५॥
tatas bhuktvā ca te devāḥ nānā ratna-vibhūṣitāḥ .. sa strīkāḥ sa gaṇāḥ sarve praṇemuḥ caṃdraśekharam .. 25..
संस्तुत्य वाग्भिरिष्टाभिः परिक्रम्य मुदान्विताः ॥ प्रशंसन्तो विवाहञ्च स्वधामानि ययुस्ततः ॥ २६॥
संस्तुत्य वाग्भिः इष्टाभिः परिक्रम्य मुदा अन्विताः ॥ प्रशंसन्तः विवाहञ्च च स्व-धामानि ययुः ततस् ॥ २६॥
saṃstutya vāgbhiḥ iṣṭābhiḥ parikramya mudā anvitāḥ .. praśaṃsantaḥ vivāhañca ca sva-dhāmāni yayuḥ tatas .. 26..
नारायणं मुने मां च प्रणनाम शिवस्स्वयम् ॥ लौकिकाचारमाश्रित्य यथा विष्णुश्च कश्यपम् ॥ २७॥
नारायणम् मुने माम् च प्रणनाम शिवः स्वयम् ॥ लौकिक-आचारम् आश्रित्य यथा विष्णुः च कश्यपम् ॥ २७॥
nārāyaṇam mune mām ca praṇanāma śivaḥ svayam .. laukika-ācāram āśritya yathā viṣṇuḥ ca kaśyapam .. 27..
मयाश्लिष्याशिषन्दत्त्वा शिवस्य पुनरग्रतः ॥ मत्वा वै तं परं ब्रह्म चक्रे च स्तुतिरुत्तमा ॥ २८ ॥
मया आश्लिष्य आशिषन् दत्त्वा शिवस्य पुनर् अग्रतस् ॥ मत्वा वै तम् परम् ब्रह्म चक्रे च स्तुतिः उत्तमा ॥ २८ ॥
mayā āśliṣya āśiṣan dattvā śivasya punar agratas .. matvā vai tam param brahma cakre ca stutiḥ uttamā .. 28 ..
तमामन्त्र्य मया विष्णुस्साञ्जलिश्शिवयोर्मुदा ॥ प्रशंसंस्तद्विवाहञ्च जगाम स्वालयम्परम् ॥ २९ ॥
तम् आमन्त्र्य मया विष्णुः स अञ्जलिः शिवयोः मुदा ॥ प्रशंसन् तद्-विवाहञ्च च जगाम स्व-आलयम् परम् ॥ २९ ॥
tam āmantrya mayā viṣṇuḥ sa añjaliḥ śivayoḥ mudā .. praśaṃsan tad-vivāhañca ca jagāma sva-ālayam param .. 29 ..
शिवोऽपि स्वगिरौ तस्थौ पार्वत्या विहरन्मुदा ॥ सर्वे गणास्सुखं प्रापुरतीव स्वभजञ्छिवौ ॥ 2.3.55.३० ॥
शिवः अपि स्व-गिरौ तस्थौ पार्वत्या विहरन् मुदा ॥ सर्वे गणाः सुखम् प्रापुः अतीव स्वभजन् शिवौ ॥ २।३।५५।३० ॥
śivaḥ api sva-girau tasthau pārvatyā viharan mudā .. sarve gaṇāḥ sukham prāpuḥ atīva svabhajan śivau .. 2.3.55.30 ..
इत्येवङ्क थितस्तात शिवोद्वाहस्सुमंगलः ॥ शोकघ्नो हर्षजनक आयुष्यो धनवर्द्धनः ॥ ३१ ॥
इति एवम् क थितः तात शिव-उद्वाहः सु मंगलः ॥ शोक-घ्नः हर्ष-जनकः आयुष्यः धन-वर्द्धनः ॥ ३१ ॥
iti evam ka thitaḥ tāta śiva-udvāhaḥ su maṃgalaḥ .. śoka-ghnaḥ harṣa-janakaḥ āyuṣyaḥ dhana-varddhanaḥ .. 31 ..
य इमं शृणुयान्नित्यं शुचिस्तद्गतमानसः ॥ श्रावयेद्वाथ नियमाच्छिवलोकमवाप्नुयात् ॥ ३२ ॥
यः इमम् शृणुयात् नित्यम् शुचिः तद्-गत-मानसः ॥ श्रावयेत् वा अथ नियमात् शिव-लोकम् अवाप्नुयात् ॥ ३२ ॥
yaḥ imam śṛṇuyāt nityam śuciḥ tad-gata-mānasaḥ .. śrāvayet vā atha niyamāt śiva-lokam avāpnuyāt .. 32 ..
इदमाख्यानमाख्यातमद्भुतं मंगलायनम् ॥ सर्वविघ्नप्रशमनं सर्वव्याधिविनाशनम् ॥ ३३ ॥
इदम् आख्यानम् आख्यातम् अद्भुतम् मंगलायनम् ॥ सर्व-विघ्न-प्रशमनम् सर्व-व्याधि-विनाशनम् ॥ ३३ ॥
idam ākhyānam ākhyātam adbhutam maṃgalāyanam .. sarva-vighna-praśamanam sarva-vyādhi-vināśanam .. 33 ..
यशस्यं स्वर्ग्यमायुष्यं पुत्रपौत्रकरम्परम् ॥ सर्वकामप्रदं चेह भुक्तिदं मुक्तिदं सदा ॥ ३४ ॥
यशस्यम् स्वर्ग्यम् आयुष्यम् पुत्र-पौत्र-करम्परम् ॥ सर्व-काम-प्रदम् च इह भुक्ति-दम् मुक्ति-दम् सदा ॥ ३४ ॥
yaśasyam svargyam āyuṣyam putra-pautra-karamparam .. sarva-kāma-pradam ca iha bhukti-dam mukti-dam sadā .. 34 ..
अपमृत्युप्रशमनं महाशान्तिकरं शुभम् ॥ सर्वदुस्स्वप्नप्रशमनं बुद्धिप्रज्ञादिसाधनम् ॥ ३५॥
करः ॥ सर्व-दुस्स्वप्न-प्रशमनम् बुद्धि-प्रज्ञा-आदि-साधनम् ॥ ३५॥
karaḥ .. sarva-dussvapna-praśamanam buddhi-prajñā-ādi-sādhanam .. 35..
शिवोत्सवेषु सर्वेषु पठितव्यम्प्रयत्नतः ॥ शुभेप्सुभिर्जनैः प्रीत्या शिवसन्तोषकारणम् ॥ ३६॥
शिव-उत्सवेषु सर्वेषु पठितव्यम् प्रयत्नतः ॥ शुभ-ईप्सुभिः जनैः प्रीत्या शिव-सन्तोष-कारणम् ॥ ३६॥
śiva-utsaveṣu sarveṣu paṭhitavyam prayatnataḥ .. śubha-īpsubhiḥ janaiḥ prītyā śiva-santoṣa-kāraṇam .. 36..
पठेत्प्रतिष्ठाकाले तु देवादीनां विशेषतः ॥ शिवस्य सर्वकार्यस्य प्रारम्भे च सुप्रीतितः ॥ ३७॥
पठेत् प्रतिष्ठा-काले तु देव-आदीनाम् विशेषतः ॥ शिवस्य सर्व-कार्यस्य प्रारम्भे च सु प्रीतितः ॥ ३७॥
paṭhet pratiṣṭhā-kāle tu deva-ādīnām viśeṣataḥ .. śivasya sarva-kāryasya prārambhe ca su prītitaḥ .. 37..
शृणुयाद्वा शुचिर्भूत्वा चरितं शिवयोश्शिवम् ॥ सिध्यन्ति सर्वकार्याणि सत्यं सत्यं न संशयः ॥ ३८ ॥
शृणुयात् वा शुचिः भूत्वा चरितम् शिवयोः शिवम् ॥ सिध्यन्ति सर्व-कार्याणि सत्यम् सत्यम् न संशयः ॥ ३८ ॥
śṛṇuyāt vā śuciḥ bhūtvā caritam śivayoḥ śivam .. sidhyanti sarva-kāryāṇi satyam satyam na saṃśayaḥ .. 38 ..
इति श्रीशिवमहापुराणे ब्रह्मनारदसंवादे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनं नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ ५५ ॥
इति श्री-शिव-महापुराणे ब्रह्म-नारद-संवादे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे शिवकैलासगमनवर्णनम् नाम पञ्चपञ्चाशत्तमः अध्यायः ॥ ५५ ॥
iti śrī-śiva-mahāpurāṇe brahma-nārada-saṃvāde dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe śivakailāsagamanavarṇanam nāma pañcapañcāśattamaḥ adhyāyaḥ .. 55 ..
समाप्तोऽयं तृतीयः पार्वतीखण्डः ॥ ३ ॥
समाप्तः अयम् तृतीयः पार्वतीखण्डः ॥ ३ ॥
samāptaḥ ayam tṛtīyaḥ pārvatīkhaṇḍaḥ .. 3 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In