| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथ संस्मरतुर्भक्त्या दम्पती तौ भवाम्बिकाम् ॥ प्रसूतिहेतवे तत्र देवकार्यार्थमादरात् ॥ १॥
अथ संस्मरतुः भक्त्या दम्पती तौ भव-अम्बिकाम् ॥ प्रसूति-हेतवे तत्र देव-कार्य-अर्थम् आदरात् ॥ १॥
atha saṃsmaratuḥ bhaktyā dampatī tau bhava-ambikām .. prasūti-hetave tatra deva-kārya-artham ādarāt .. 1..
ततस्सा चण्डिका योगात्त्यक्तदेहा पुरा पितुः ॥ ईहया भतितुं भूयस्समैच्छद्रिरिदारतः ॥ २ ॥
ततस् सा चण्डिका योगात् त्यक्त-देहा पुरा पितुः ॥ ईहया भतितुम् भूयस् समैच्छत् रिरिदारतः ॥ २ ॥
tatas sā caṇḍikā yogāt tyakta-dehā purā pituḥ .. īhayā bhatitum bhūyas samaicchat riridārataḥ .. 2 ..
सत्यं विधातुं स्ववचः प्रसन्नाखिलकामदा ॥ पूर्णांशाच्छैलचित्ते सा विवेशाथ महेश्वरी ॥ ३॥
सत्यम् विधातुम् स्व-वचः प्रसन्ना अखिल-काम-दा ॥ पूर्ण-अंशात् शैलचित्ते सा विवेश अथ महेश्वरी ॥ ३॥
satyam vidhātum sva-vacaḥ prasannā akhila-kāma-dā .. pūrṇa-aṃśāt śailacitte sā viveśa atha maheśvarī .. 3..
विरराज ततस्सोतिप्रमदोपूर्वसुद्युतिः ॥ हुताशन इवाधृष्यस्तेजोराशिर्महामनाः ॥ ४॥
विरराज ततस् सः ऊति-प्रमदा-उपूर्व-सुद्युतिः ॥ हुताशनः इव अधृष्यः तेजः-राशिः महा-मनाः ॥ ४॥
virarāja tatas saḥ ūti-pramadā-upūrva-sudyutiḥ .. hutāśanaḥ iva adhṛṣyaḥ tejaḥ-rāśiḥ mahā-manāḥ .. 4..
ततो गिरिस्स्वप्रियायां परिपूर्णं शिवांशकम् ॥ समाधिमत्वात्समये समधत्त सुशंकरे ॥ ५ ॥
ततस् गिरिः स्व-प्रियायाम् परिपूर्णम् शिव-अंशकम् ॥ समाधिम् अ त्वात् समये समधत्त सुशंकरे ॥ ५ ॥
tatas giriḥ sva-priyāyām paripūrṇam śiva-aṃśakam .. samādhim a tvāt samaye samadhatta suśaṃkare .. 5 ..
समधत्त गिरेः पत्नी गर्भं देव्याः प्रसादतः ॥ चित्ते स्थितायाः करुणाकरायाः सुखदं गिरेः ॥ ६ ॥
समधत्त गिरेः पत्नी गर्भम् देव्याः प्रसादतः ॥ चित्ते स्थितायाः करुणाकरायाः सुख-दम् गिरेः ॥ ६ ॥
samadhatta gireḥ patnī garbham devyāḥ prasādataḥ .. citte sthitāyāḥ karuṇākarāyāḥ sukha-dam gireḥ .. 6 ..
गिरिप्रिया सर्वजगन्निवासासंश्रयाधिकम् ॥ विरेजे सुतरां मेना तेजोमण्डलगा सदा ॥ ७ ॥
॥ विरेजे सुतराम् मेना तेजः-मण्डल-गा सदा ॥ ७ ॥
.. vireje sutarām menā tejaḥ-maṇḍala-gā sadā .. 7 ..
सुखोदयं स्वभर्तुश्च मेना दौहृदलक्षणम् ॥ दधौ निदानन्देवानामानन्दस्येप्सितं शुभम् ॥ ८ ॥
सुख-उदयम् स्व-भर्तुः च मेना दौहृद-लक्षणम् ॥ निदानन्द-देवानाम् आनन्दस्य ईप्सितम् शुभम् ॥ ८ ॥
sukha-udayam sva-bhartuḥ ca menā dauhṛda-lakṣaṇam .. nidānanda-devānām ānandasya īpsitam śubham .. 8 ..
देह सादादसंपूर्णभूषणा लोध्रसंमुखा ॥ स्वल्पभेन्दुक्षये कालं विचेष्यर्क्षा विभावरी ॥ ९॥
देह सादात् असंपूर्ण-भूषणा लोध्र-संमुखा ॥ सु अल्प-भ-इन्दु-क्षये कालम् विचेष्य ऋक्षा विभावरी ॥ ९॥
deha sādāt asaṃpūrṇa-bhūṣaṇā lodhra-saṃmukhā .. su alpa-bha-indu-kṣaye kālam viceṣya ṛkṣā vibhāvarī .. 9..
तदाननं मृत्सुरभिनायं तृप्तिं गिरीश्वरः ॥ मुने रहस्युपाघ्राय प्रेमाधिक्यं बभूव तत् ॥ 2.3.6.१०॥
तद्-आननम् मृद्-सुरभिना अयम् तृप्तिम् गिरि-ईश्वरः ॥ मुनेः रहसि उपाघ्राय प्रेम-आधिक्यम् बभूव तत् ॥ २।३।६।१०॥
tad-ānanam mṛd-surabhinā ayam tṛptim giri-īśvaraḥ .. muneḥ rahasi upāghrāya prema-ādhikyam babhūva tat .. 2.3.6.10..
मेना स्पृहावती केषु न मे शंसति वस्तुषु ॥ किंचिदिष्टं ह्रियापृच्छदनुवेलं सखी गिरिः ॥ ११॥
मेना स्पृहावती केषु न मे शंसति वस्तुषु ॥ किंचिद् इष्टम् ह्रिया अपृच्छत् अनुवेलम् सखी गिरिः ॥ ११॥
menā spṛhāvatī keṣu na me śaṃsati vastuṣu .. kiṃcid iṣṭam hriyā apṛcchat anuvelam sakhī giriḥ .. 11..
उपेत्य दौहदं शल्यं यद्वव्रेऽपश्यदाशु तत् ॥ आनीतं नेष्टमस्याद्धा नासाध्यं त्रिदिवैऽपि हि ॥ १२ ॥
उपेत्य दौहदम् शल्यम् यत् वव्रे अपश्यत् आशु तत् ॥ आनीतम् न इष्टम् अस्य अद्धा न असाध्यम् हि ॥ १२ ॥
upetya dauhadam śalyam yat vavre apaśyat āśu tat .. ānītam na iṣṭam asya addhā na asādhyam hi .. 12 ..
प्रचीयमानावयवा निस्तीर्य दोहदव्यथाम् ॥ रेजे मेना बाललता नद्धपत्राधिका यथा ॥ १३ ॥
प्रचीयमान-अवयवाः निस्तीर्य दोहद-व्यथाम् ॥ रेजे मेना बाल-लता नद्ध-पत्र-अधिका यथा ॥ १३ ॥
pracīyamāna-avayavāḥ nistīrya dohada-vyathām .. reje menā bāla-latā naddha-patra-adhikā yathā .. 13 ..
गिरिस्सगर्भां महिषीममंस्त धरणीमिव ॥ निधानगर्भामभ्यन्तर्लीनवह्निं शमीमिव ॥ १४ ॥
गिरिः स गर्भाम् महिषीम् अमंस्त धरणीम् इव ॥ निधान-गर्भाम् अभ्यन्तर् लीन-वह्निम् शमीम् इव ॥ १४ ॥
giriḥ sa garbhām mahiṣīm amaṃsta dharaṇīm iva .. nidhāna-garbhām abhyantar līna-vahnim śamīm iva .. 14 ..
प्रियाप्रीतेश्च मनसः स्वार्जितद्रविणस्य च ॥ समुन्नतैः श्रुतेः प्राज्ञः क्रियाश्चक्रे यथोचिताः॥ १५॥
प्रिय-अप्रीतेः च मनसः स्व-अर्जित-द्रविणस्य च ॥ समुन्नतैः श्रुतेः प्राज्ञः क्रियाः चक्रे यथोचिताः॥ १५॥
priya-aprīteḥ ca manasaḥ sva-arjita-draviṇasya ca .. samunnataiḥ śruteḥ prājñaḥ kriyāḥ cakre yathocitāḥ.. 15..
ददर्श काले मेनां स प्रतीतः प्रसवोन्मुखीम् ॥ अभ्रितां च दिवं गर्भगृहे भिषगधिष्ठिते ॥ १६ ॥
ददर्श काले मेनाम् स प्रतीतः प्रसव-उन्मुखीम् ॥ अभ्रिताम् च दिवम् गर्भगृहे भिषज्-अधिष्ठिते ॥ १६ ॥
dadarśa kāle menām sa pratītaḥ prasava-unmukhīm .. abhritām ca divam garbhagṛhe bhiṣaj-adhiṣṭhite .. 16 ..
दृष्ट्वा प्रियां शुभाङ्गी वै मुमोदातिगिरीश्वरः ॥ गर्भस्थजगदम्बां हि महातेजोवतीन्तदा ॥ १७ ॥
दृष्ट्वा प्रियाम् शुभ-अङ्गी वै मुमोद अतिगिरि-ईश्वरः ॥ गर्भ-स्थ-जगत्-अम्बाम् हि महा-तेजोवतीम् तदा ॥ १७ ॥
dṛṣṭvā priyām śubha-aṅgī vai mumoda atigiri-īśvaraḥ .. garbha-stha-jagat-ambām hi mahā-tejovatīm tadā .. 17 ..
तस्मिन्नवसरे देवा मुने विष्ण्वादयस्तथा ॥ मुनयश्च समागम्य गर्भस्थां तुष्टुवुश्शिवाम् ॥ १८ ॥
तस्मिन् अवसरे देवाः मुने विष्णु-आदयः तथा ॥ मुनयः च समागम्य गर्भ-स्थाम् तुष्टुवुः शिवाम् ॥ १८ ॥
tasmin avasare devāḥ mune viṣṇu-ādayaḥ tathā .. munayaḥ ca samāgamya garbha-sthām tuṣṭuvuḥ śivām .. 18 ..
देवा ऊचुः ।।
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ॥ सत्यव्रते सत्यपरे त्रिसत्ये सत्यरूपिणी ॥ १९ ॥
दुर्गे जय जय प्राज्ञे जगदम्ब महेश्वरि ॥ ॥ १९ ॥
durge jaya jaya prājñe jagadamba maheśvari .. .. 19 ..
सत्यस्थे सत्यसुप्रीते सत्ययोने च सत्यतः ॥ सत्यसत्ये सत्यनेत्रे प्रपन्नाः शरणं च ते ॥ 2.3.6.२० ॥
सत्य-स्थे सत्य-सु प्रीते सत्य-योने च सत्यतः ॥ सत्य-सत्ये सत्य-नेत्रे प्रपन्नाः शरणम् च ते ॥ २।३।६।२० ॥
satya-sthe satya-su prīte satya-yone ca satyataḥ .. satya-satye satya-netre prapannāḥ śaraṇam ca te .. 2.3.6.20 ..
शिवप्रिये महेशानि देवदुःखक्षयंकरि ॥ त्रैलोक्यमाता शर्वाणी व्यापिनी भक्तवत्सला ॥ २१ ॥
शिवप्रिये महेशानि देव-दुःख-क्षयंकरि ॥ ॥ २१ ॥
śivapriye maheśāni deva-duḥkha-kṣayaṃkari .. .. 21 ..
आविर्भूय त्रिलोकेशि देवकार्यं कुरुष्व ह ॥ सनाथाः कृपया ते हि वयं सर्वे महेश्वरि ॥ २२ ॥
आविस् भूय त्रिलोक-ईशि देव-कार्यम् कुरुष्व ह ॥ स नाथाः कृपया ते हि वयम् सर्वे महेश्वरि ॥ २२ ॥
āvis bhūya triloka-īśi deva-kāryam kuruṣva ha .. sa nāthāḥ kṛpayā te hi vayam sarve maheśvari .. 22 ..
त्वत्तः सर्वे च सुखिनो लभन्ते सुखमुत्तमम् ॥ त्वाम्विना न हि किंचिद्वै शोभते त्रिभवेष्वपि ॥ २३ ॥
त्वत्तः सर्वे च सुखिनः लभन्ते सुखम् उत्तमम् ॥ त्वाम् विना न हि किंचिद् वै शोभते त्रि-भवेषु अपि ॥ २३ ॥
tvattaḥ sarve ca sukhinaḥ labhante sukham uttamam .. tvām vinā na hi kiṃcid vai śobhate tri-bhaveṣu api .. 23 ..
ब्रह्मोवाच ।।
इत्थं कृत्वा महेशान्या गर्भस्थाया बहुस्तुतिम् ॥ प्रसन्नमनसो देवास्स्वं स्वं धाम ययुस्तदा ॥ २४ ॥
इत्थम् कृत्वा महेशान्याः गर्भ-स्थायाः बहु-स्तुतिम् ॥ प्रसन्न-मनसः देवाः स्वम् स्वम् धाम ययुः तदा ॥ २४ ॥
ittham kṛtvā maheśānyāḥ garbha-sthāyāḥ bahu-stutim .. prasanna-manasaḥ devāḥ svam svam dhāma yayuḥ tadā .. 24 ..
व्यतीते नवमे मासे दशमे मासि पूर्णतः ॥ गर्भस्थाया गतिन्द्रध्रे कालिका जगदम्बिका ॥ २५ ॥
व्यतीते नवमे मासे दशमे मासि पूर्णतः ॥ गर्भस्थायाः कालिका जगदम्बिका ॥ २५ ॥
vyatīte navame māse daśame māsi pūrṇataḥ .. garbhasthāyāḥ kālikā jagadambikā .. 25 ..
तदा सुसमयश्चासीच्छान्तभग्रहतारकः ॥ नभः प्रसन्नतां यातं प्रकाशस्सर्वदिक्षु हि ॥ २६ ॥
तदा सु समयः च आसीत् शान्त-भ-ग्रह-तारकः ॥ नभः प्रसन्न-ताम् यातम् प्रकाशः सर्व-दिक्षु हि ॥ २६ ॥
tadā su samayaḥ ca āsīt śānta-bha-graha-tārakaḥ .. nabhaḥ prasanna-tām yātam prakāśaḥ sarva-dikṣu hi .. 26 ..
मही मंगलभूयिष्ठा सवनग्रामसागरा ॥ सरस्स्रवन्तीवापीषु पुफुल्लुः पंकजानि वै ॥ २७॥
मही मंगल-भूयिष्ठा स वन-ग्राम-सागरा ॥ सरः-स्रवन्ती-वापीषु पुफुल्लुः पंकजानि वै ॥ २७॥
mahī maṃgala-bhūyiṣṭhā sa vana-grāma-sāgarā .. saraḥ-sravantī-vāpīṣu puphulluḥ paṃkajāni vai .. 27..
ववुश्च विविधा वातास्सुखस्पर्शा मुनीश्वर ॥ मुमुदुस्साधवस्सर्वेऽसतान्दुःखमभूद्द्रुतम् ॥ २८ ॥
ववुः च विविधाः वाताः सुख-स्पर्शाः मुनि-ईश्वर ॥ मुमुदुः साधवः सर्वे असतान् दुःखम् अभूत् द्रुतम् ॥ २८ ॥
vavuḥ ca vividhāḥ vātāḥ sukha-sparśāḥ muni-īśvara .. mumuduḥ sādhavaḥ sarve asatān duḥkham abhūt drutam .. 28 ..
दुन्दुभीन्वादयामासुर्नभस्यागत्य निर्जराः ॥ पुष्पवृष्टिरभूत्तत्र जगुर्गन्धर्वसत्तमाः ॥ २९ ॥
दुन्दुभीन् वादयामासुः नभसि आगत्य निर्जराः ॥ पुष्प-वृष्टिः अभूत् तत्र जगुः गन्धर्व-सत्तमाः ॥ २९ ॥
dundubhīn vādayāmāsuḥ nabhasi āgatya nirjarāḥ .. puṣpa-vṛṣṭiḥ abhūt tatra jaguḥ gandharva-sattamāḥ .. 29 ..
विद्याधरस्त्रियो व्योम्नि ननृतुश्चाप्सरास्तथा ॥ तदोत्सवो महानासीद्देवादीनां नभःस्थले ॥ 2.3.6.३० ॥
विद्याधर-स्त्रियः व्योम्नि ननृतुः च अप्सराः तथा ॥ तदा उत्सवः महान् आसीत् देव-आदीनाम् नभः-स्थले ॥ २।३।६।३० ॥
vidyādhara-striyaḥ vyomni nanṛtuḥ ca apsarāḥ tathā .. tadā utsavaḥ mahān āsīt deva-ādīnām nabhaḥ-sthale .. 2.3.6.30 ..
तस्मिन्नवसरे देवी पूर्वशक्तिश्शिवा सती ॥ आविर्बभूव पुरतो मेनाया निजरूपतः ॥ ३१ ॥
तस्मिन् अवसरे देवी पूर्व-शक्तिः शिवा सती ॥ आविर्बभूव पुरतस् मेनायाः निज-रूपतः ॥ ३१ ॥
tasmin avasare devī pūrva-śaktiḥ śivā satī .. āvirbabhūva puratas menāyāḥ nija-rūpataḥ .. 31 ..
वसंतर्तौ मधौ मासे नवम्यां मृगधिष्ण्यके ॥ अर्द्धरात्रे समुत्पन्ना गंगेव शशिमण्डलात् ॥ ३२ ॥
वसंत-ऋतौ मधौ मासे नवम्याम् मृगधिष्ण्यके ॥ अर्द्धरात्रे समुत्पन्ना गंगा इव शशि-मण्डलात् ॥ ३२ ॥
vasaṃta-ṛtau madhau māse navamyām mṛgadhiṣṇyake .. arddharātre samutpannā gaṃgā iva śaśi-maṇḍalāt .. 32 ..
समये तत्स्वरूपेण मेनका जठराच्छिवा ॥ समुद्भूय समुत्पन्ना सा लक्ष्मीरिव सागरात् ॥ ३३ ॥
समये तद्-स्वरूपेण मेनका जठरात् शिवा ॥ समुद्भूय समुत्पन्ना सा लक्ष्मीः इव सागरात् ॥ ३३ ॥
samaye tad-svarūpeṇa menakā jaṭharāt śivā .. samudbhūya samutpannā sā lakṣmīḥ iva sāgarāt .. 33 ..
ततस्तस्यां तु जातायां प्रसन्नोऽभूत्तदा भवः ॥ अनुकूलो ववौ वायुर्गम्भीरो गंधयुक्शुभः ॥ ३४ ॥
ततस् तस्याम् तु जातायाम् प्रसन्नः अभूत् तदा भवः ॥ अनुकूलः ववौ वायुः गम्भीरः गंध-युज् शुभः ॥ ३४ ॥
tatas tasyām tu jātāyām prasannaḥ abhūt tadā bhavaḥ .. anukūlaḥ vavau vāyuḥ gambhīraḥ gaṃdha-yuj śubhaḥ .. 34 ..
बभूव पुष्पवृष्टिश्च तोयवृष्टि पुरस्सरम् ॥ जज्वलुश्चाग्नयः शान्ता जगर्जुश्च तदा घनाः ॥ ३५॥
बभूव पुष्प-वृष्टिः च तोय-वृष्टि पुरस्सरम् ॥ जज्वलुः च अग्नयः शान्ताः जगर्जुः च तदा घनाः ॥ ३५॥
babhūva puṣpa-vṛṣṭiḥ ca toya-vṛṣṭi purassaram .. jajvaluḥ ca agnayaḥ śāntāḥ jagarjuḥ ca tadā ghanāḥ .. 35..
तस्यां तु जायमानायां सर्वस्वं समपद्यत ॥ हिमवन्नगरे तत्र सर्व दुःखं क्षयं गतम् ॥ ३६॥
तस्याम् तु जायमानायाम् सर्व-स्वम् समपद्यत ॥ हिमवत्-नगरे तत्र दुःखम् क्षयम् गतम् ॥ ३६॥
tasyām tu jāyamānāyām sarva-svam samapadyata .. himavat-nagare tatra duḥkham kṣayam gatam .. 36..
तस्मिन्नवसरे तत्र विष्ण्वाद्यास्सकलास्सुराः ॥ आजग्मुः सुखिनः प्रीत्या ददृशुर्जगदम्बिकाम्॥ ॥ । ३७ ॥
तस्मिन् अवसरे तत्र विष्णु-आद्याः सकलाः सुराः ॥ आजग्मुः सुखिनः प्रीत्या ददृशुः जगत्-अम्बिकाम्॥ ॥ । ३७ ॥
tasmin avasare tatra viṣṇu-ādyāḥ sakalāḥ surāḥ .. ājagmuḥ sukhinaḥ prītyā dadṛśuḥ jagat-ambikām.. .. . 37 ..
तुष्टुवुस्तां शिवामम्बां कालिकां शिवकामिनीम् ॥ दिव्यारूपां महामायां शिवलोकनिवासिनीम् ॥ ३८ ॥ ।
तुष्टुवुः ताम् शिवाम् अम्बाम् कालिकाम् शिव-कामिनीम् ॥ दिव्य-आरूपाम् महामायाम् शिव-लोक-निवासिनीम् ॥ ३८ ॥ ।
tuṣṭuvuḥ tām śivām ambām kālikām śiva-kāminīm .. divya-ārūpām mahāmāyām śiva-loka-nivāsinīm .. 38 .. .
।। देवा ऊचुः ।।
जगदम्ब महादेवि सर्वसिद्धिविधायिनि ॥ देवकार्यकरी त्वं हि सदातस्त्वां नमामहे ॥ ३९॥
जगदम्ब महादेवि सर्व-सिद्धि-विधायिनि ॥ देव-कार्य-करी त्वम् हि सदा अतस् त्वाम् नमामहे ॥ ३९॥
jagadamba mahādevi sarva-siddhi-vidhāyini .. deva-kārya-karī tvam hi sadā atas tvām namāmahe .. 39..
सर्वथा कुरु कल्याणं देवानां भक्तवत्सले ॥ मेनामनोरथः पूर्णः कृतः कुरु हरस्य च ॥ 2.3.6.४० ॥
सर्वथा कुरु कल्याणम् देवानाम् भक्त-वत्सले ॥ मेना-मनोरथः पूर्णः कृतः कुरु हरस्य च ॥ २।३।६।४० ॥
sarvathā kuru kalyāṇam devānām bhakta-vatsale .. menā-manorathaḥ pūrṇaḥ kṛtaḥ kuru harasya ca .. 2.3.6.40 ..
।। ब्रह्मोवाच ।।
इत्थं स्तुत्वा शिवां देवीं विष्ण्वाद्या सुप्रणम्य ताम् ॥ स्वंस्वं धाम ययुः प्रीताश्शंसन्तस्तद्गतिं पराम् ॥ ४१ ॥
इत्थम् स्तुत्वा शिवाम् देवीम् विष्णु-आद्या सु प्रणम्य ताम् ॥ स्वम् स्वम् धाम ययुः प्रीताः शंसन्तः तद्-गतिम् पराम् ॥ ४१ ॥
ittham stutvā śivām devīm viṣṇu-ādyā su praṇamya tām .. svam svam dhāma yayuḥ prītāḥ śaṃsantaḥ tad-gatim parām .. 41 ..
तान्तु दृष्ट्वा तथा जातां नीलोत्पलदलप्रभाम॥ श्यामा सा मेनका देवी मुदमापाति नारद ॥ ४२॥
ताम् तु दृष्ट्वा तथा जाताम् नीलोत्पल-दल-प्रभाम्॥ श्यामा सा मेनका देवी मुदम् आपाति नारद ॥ ४२॥
tām tu dṛṣṭvā tathā jātām nīlotpala-dala-prabhām.. śyāmā sā menakā devī mudam āpāti nārada .. 42..
दिव्यरूपं विलोक्यानु ज्ञानमाप गिरिप्रिया ॥ विज्ञाय परमेशानीं तुष्टावातिप्रहर्षिता॥ ४३॥
दिव्य-रूपम् विलोक्य अनु ज्ञानम् आप गिरिप्रिया ॥ विज्ञाय परमेशानीम् तुष्टाव अति प्रहर्षिता॥ ४३॥
divya-rūpam vilokya anu jñānam āpa giripriyā .. vijñāya parameśānīm tuṣṭāva ati praharṣitā.. 43..
मेनोवाच ।।
जगदम्ब महेशानि कृतातिकरुणा त्वया ॥ आविर्भूता मम पुरो विलसन्ती यदम्बिके ॥ ४४ ॥
जगदम्ब महेशानि कृता अति करुणा त्वया ॥ आविर्भूता मम पुरस् विलसन्ती यत् अम्बिके ॥ ४४ ॥
jagadamba maheśāni kṛtā ati karuṇā tvayā .. āvirbhūtā mama puras vilasantī yat ambike .. 44 ..
त्वमाद्या सर्वशक्तीनां त्रिलोकजननी शिवे ॥ शिवप्रिया सदा देवी सर्वदेवस्तुता परा॥ ४५॥
त्वम् आद्या सर्व-शक्तीनाम् त्रिलोक-जननी शिवे ॥ शिव-प्रिया सदा देवी सर्व-देव-स्तुता परा॥ ४५॥
tvam ādyā sarva-śaktīnām triloka-jananī śive .. śiva-priyā sadā devī sarva-deva-stutā parā.. 45..
कृपां कुरु महेशानि मम ध्यानस्थिता भव ॥ एतद्रूपेण प्रत्यक्षं रूपं धेहि सुतासमम्॥ ४६॥
कृपाम् कुरु महेशानि मम ध्यान-स्थिता भव ॥ एतद्-रूपेण प्रत्यक्षम् रूपम् धेहि सुता-समम्॥ ४६॥
kṛpām kuru maheśāni mama dhyāna-sthitā bhava .. etad-rūpeṇa pratyakṣam rūpam dhehi sutā-samam.. 46..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्तस्या मेनाया भूधरस्त्रियाः॥ प्रत्युवाच शिवा देवी सुप्रसवामअरिप्रियाम्॥ ४७॥
इति आकर्ण्य वचः तस्याः मेनायाः भूधर-स्त्रियाः॥ प्रत्युवाच शिवा देवी सुप्रसवाम् अअरि-प्रियाम्॥ ४७॥
iti ākarṇya vacaḥ tasyāḥ menāyāḥ bhūdhara-striyāḥ.. pratyuvāca śivā devī suprasavām aari-priyām.. 47..
देव्युवाच।।
हे मेने त्वं पुरा मां च सुसेवितवती रता ॥ त्वद्भक्त्या सुप्रसन्नाहं वरन्दातुं गतान्तिकम्॥ ४८॥
हे मेने त्वम् पुरा माम् च सुसेवितवती रता ॥ त्वद्-भक्त्या सु प्रसन्ना अहम् वरन् दातुम् गत-अन्तिकम्॥ ४८॥
he mene tvam purā mām ca susevitavatī ratā .. tvad-bhaktyā su prasannā aham varan dātum gata-antikam.. 48..
वरं ब्रूहीति मद्वाणीं श्रुत्वा ते तद्वरो वृतः ॥ सुता भव महादेवी सा मे देवहितं कुरु ॥ ४९ ॥
वरम् ब्रूहि इति मद्-वाणीम् श्रुत्वा ते तद्-वरः वृतः ॥ सुता भव महादेवी सा मे देव-हितम् कुरु ॥ ४९ ॥
varam brūhi iti mad-vāṇīm śrutvā te tad-varaḥ vṛtaḥ .. sutā bhava mahādevī sā me deva-hitam kuru .. 49 ..
तथा दत्त्वा वरं तेऽहं गता स्वम्पदमादरात् ॥ समयं प्राप्य तनया भवन्ते गिरिकामिनि ॥ 2.3.6.५०॥
तथा दत्त्वा वरम् ते अहम् गता स्वम्पदम् आदरात् ॥ समयम् प्राप्य तनयाः भवन्ते गिरि-कामिनि ॥ २।३।६।५०॥
tathā dattvā varam te aham gatā svampadam ādarāt .. samayam prāpya tanayāḥ bhavante giri-kāmini .. 2.3.6.50..
दिव्यरूपं धृतं मेद्य यत्ते मत्स्मरणं भवेत्॥ अन्यथा मर्त्यभावेन तवाज्ञानं भवेन्मयि ॥ ५१॥
दिव्य-रूपम् धृतम् मेद्य यत् ते मद्-स्मरणम् भवेत्॥ अन्यथा मर्त्य-भावेन तव अज्ञानम् भवेत् मयि ॥ ५१॥
divya-rūpam dhṛtam medya yat te mad-smaraṇam bhavet.. anyathā martya-bhāvena tava ajñānam bhavet mayi .. 51..
युवां मां पुत्रिभावेन दिव्यभावेन वा सकृत् ॥ चिन्तयन्तौ कृतस्नेहौ यातास्स्थो मद्गतिम्पराम् ॥ ५२॥
युवाम् माम् पुत्रि-भावेन दिव्य-भावेन वा सकृत् ॥ चिन्तयन्तौ कृत-स्नेहौ यातास्स्थः मद्-गतिम् पराम् ॥ ५२॥
yuvām mām putri-bhāvena divya-bhāvena vā sakṛt .. cintayantau kṛta-snehau yātāssthaḥ mad-gatim parām .. 52..
देवकार्यं करिष्यामि लीलां कृत्वा द्भुतां क्षितौ ॥ शम्भुपत्नी भविष्यामि तारयिष्यामि सज्जनान्॥ ५३॥
देव-कार्यम् करिष्यामि लीलाम् कृत्वा द्भुताम् क्षितौ ॥ शम्भु-पत्नी भविष्यामि तारयिष्यामि सत्-जनान्॥ ५३॥
deva-kāryam kariṣyāmi līlām kṛtvā dbhutām kṣitau .. śambhu-patnī bhaviṣyāmi tārayiṣyāmi sat-janān.. 53..
ब्रह्मोवाच।।
इत्युक्त्वासीच्छिवा तूष्णीमम्बिका स्वात्त्ममायया॥ पश्यन्त्यां मातरि प्रीत्या सद्योऽऽभूत्तनया तनुः ॥ ५४॥
इति उक्त्वा आसीत् शिवा तूष्णीम् अम्बिका स्व-आत्त्म-मायया॥ पश्यन्त्याम् मातरि प्रीत्या सद्यस् आभूत् तनया तनुः ॥ ५४॥
iti uktvā āsīt śivā tūṣṇīm ambikā sva-āttma-māyayā.. paśyantyām mātari prītyā sadyas ābhūt tanayā tanuḥ .. 54..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनं नाम षष्टोऽध्यायः ॥ ६ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पार्वतीजन्मवर्णनम् नाम षष्टः अध्यायः ॥ ६ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pārvatījanmavarṇanam nāma ṣaṣṭaḥ adhyāyaḥ .. 6 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In