| |
|

This overlay will guide you through the buttons:

ततो मेना पुरस्सा वै सुता भूत्वा महाद्युतिः ॥ चकार रोदनं तत्र लौकिकीं गतिमाश्रिता ॥ १ ॥
ततस् मेना पुरस्सा वै सुता भूत्वा महा-द्युतिः ॥ चकार रोदनम् तत्र लौकिकीम् गतिम् आश्रिता ॥ १ ॥
tatas menā purassā vai sutā bhūtvā mahā-dyutiḥ .. cakāra rodanam tatra laukikīm gatim āśritā .. 1 ..
अरिष्टशय्यां परितस्सद्विसारिसुतेजसा ॥ निशीथदीपा विहतत्विष आसन्नरं मुने ॥ २ ॥
अरिष्ट-शय्याम् परितस् सत्-विसारि-सु तेजसा ॥ निशीथ-दीपाः विहत-त्विषः आसन् नरम् मुने ॥ २ ॥
ariṣṭa-śayyām paritas sat-visāri-su tejasā .. niśītha-dīpāḥ vihata-tviṣaḥ āsan naram mune .. 2 ..
श्रुत्वा तद्रोदनं रम्यं गृहस्थास्सर्वयोषितः ॥ जहृषुस्सम्भ्रमात्तत्रागताः प्रीतिपुरस्सराः ॥ ३॥
श्रुत्वा तत् रोदनम् रम्यम् गृहस्थाः सर्व-योषितः ॥ जहृषुः सम्भ्रमात् तत्र आगताः प्रीति-पुरस्सराः ॥ ३॥
śrutvā tat rodanam ramyam gṛhasthāḥ sarva-yoṣitaḥ .. jahṛṣuḥ sambhramāt tatra āgatāḥ prīti-purassarāḥ .. 3..
तच्छुद्धान्तचरः शीघ्रं शशंस भूभृते तदा ॥ पार्वतीजन्म सुखदं देवकार्यकरं शुभम् ॥ ४ ॥
तत् शुद्धान्त-चरः शीघ्रम् शशंस भूभृते तदा ॥ पार्वती-जन्म सुख-दम् देव-कार्य-करम् शुभम् ॥ ४ ॥
tat śuddhānta-caraḥ śīghram śaśaṃsa bhūbhṛte tadā .. pārvatī-janma sukha-dam deva-kārya-karam śubham .. 4 ..
तच्छुद्धान्तचरायाशु पुत्रीजन्म सुशंसते ॥ सितातपत्रं नादेयमासीत्तस्य महीभृतः ॥ ५ ॥
तत् शुद्धान्त-चराय आशु पुत्री-जन्म सु शंसते ॥ सित-आतपत्रम् नादेयम् आसीत् तस्य महीभृतः ॥ ५ ॥
tat śuddhānta-carāya āśu putrī-janma su śaṃsate .. sita-ātapatram nādeyam āsīt tasya mahībhṛtaḥ .. 5 ..
गतस्तत्र गिरिः प्रीत्या सपुरोहितसद्विजः ॥ ददर्श तनयां तान्तु शोभमानां सुभाससा ॥ ६ ॥
गतः तत्र गिरिः प्रीत्या स पुरोहित-स द्विजः ॥ ददर्श तनयाम् ताम् तु शोभमानाम् सु भाससा ॥ ६ ॥
gataḥ tatra giriḥ prītyā sa purohita-sa dvijaḥ .. dadarśa tanayām tām tu śobhamānām su bhāsasā .. 6 ..
नीलोत्पलदल श्यामां सुद्युतिं सुमनोरमाम् ॥ दृष्ट्वा च तादृशीं कन्यां मुमोदाति गिरीश्वरः ॥ ७ ॥
श्यामाम् सु द्युतिम् सु मनोरमाम् ॥ दृष्ट्वा च तादृशीम् कन्याम् मुमोद अति गिरीश्वरः ॥ ७ ॥
śyāmām su dyutim su manoramām .. dṛṣṭvā ca tādṛśīm kanyām mumoda ati girīśvaraḥ .. 7 ..
सर्वे च मुमुदुस्तत्र पौराश्च पुरुषाः स्त्रियः ॥ तदोत्सवो महानासीन्नेदुर्वाद्यानि भूरिशः ॥ ८ ॥
सर्वे च मुमुदुः तत्र पौराः च पुरुषाः स्त्रियः ॥ तदा उत्सवः महान् आसीत् नेदुः वाद्यानि भूरिशस् ॥ ८ ॥
sarve ca mumuduḥ tatra paurāḥ ca puruṣāḥ striyaḥ .. tadā utsavaḥ mahān āsīt neduḥ vādyāni bhūriśas .. 8 ..
बभूव मंगलं गानं ननृतुर्वारयोषितः ॥ दानं ददौ द्विजातिभ्यो जातकर्मविधाय च॥ ९॥
बभूव मंगलम् गानम् ननृतुः वार-योषितः ॥ दानम् ददौ द्विजातिभ्यः जातकर्म-विधाय च॥ ९॥
babhūva maṃgalam gānam nanṛtuḥ vāra-yoṣitaḥ .. dānam dadau dvijātibhyaḥ jātakarma-vidhāya ca.. 9..
अथ द्वारं समागत्य चकार सुमहोत्सवम्॥ हिमाचलः प्रसन्नात्मा भिक्षुभ्यो द्रविणन्ददौ॥ 2.3.7.१०॥
अथ द्वारम् समागत्य चकार सु महा-उत्सवम्॥ हिमाचलः प्रसन्न-आत्मा भिक्षुभ्यः द्रविणन् ददौ॥ २।३।७।१०॥
atha dvāram samāgatya cakāra su mahā-utsavam.. himācalaḥ prasanna-ātmā bhikṣubhyaḥ draviṇan dadau.. 2.3.7.10..
अथो मुहूर्त्ते सुमते हिमवान्मुनिभिः सह॥ नामाऽकरोत्सुतायास्तु कालीत्यादि सुखप्रदम्॥ ११॥
अथो मुहूर्त्ते सुमते हिमवान् मुनिभिः सह॥ नाम अकरोत् सुतायाः तु काली इत्यादि सुख-प्रदम्॥ ११॥
atho muhūrtte sumate himavān munibhiḥ saha.. nāma akarot sutāyāḥ tu kālī ityādi sukha-pradam.. 11..
दानं ददौ तदा प्रीत्या द्विजेभ्यो बहु सादरम् ॥ उत्सवं कारयामास विविधं गानपूर्व्वकम् ॥ १२ ॥
दानम् ददौ तदा प्रीत्या द्विजेभ्यः बहु सादरम् ॥ उत्सवम् कारयामास विविधम् गान-पूर्व्वकम् ॥ १२ ॥
dānam dadau tadā prītyā dvijebhyaḥ bahu sādaram .. utsavam kārayāmāsa vividham gāna-pūrvvakam .. 12 ..
इत्थं कृत्वोत्सवं भूरि कालीं पश्यन्मुहुर्मुहुः ॥ लेभे मुदं सपत्नीको बहुपुत्रोऽपि भूधरः ॥ १३ ॥
इत्थम् कृत्वा उत्सवम् भूरि कालीम् पश्यन् मुहुर् मुहुर् ॥ लेभे मुदम् स पत्नीकः बहु-पुत्रः अपि भूधरः ॥ १३ ॥
ittham kṛtvā utsavam bhūri kālīm paśyan muhur muhur .. lebhe mudam sa patnīkaḥ bahu-putraḥ api bhūdharaḥ .. 13 ..
तत्र सा ववृधे देवी गिरिराजगृहे शिवा ॥ गंगेव वर्षासमये शरदीवाथ चन्द्रिका ॥ १४ ॥
तत्र सा ववृधे देवी गिरि-राज-गृहे शिवा ॥ गंगा इव वर्षा-समये शरदि इव अथ चन्द्रिका ॥ १४ ॥
tatra sā vavṛdhe devī giri-rāja-gṛhe śivā .. gaṃgā iva varṣā-samaye śaradi iva atha candrikā .. 14 ..
एवं सा कालिका देवी चार्वङ्गी चारुदर्शना॥ दध्रे चानुदिनं रम्यां चन्द्रबिम्बकलामिव ॥ १५॥
एवम् सा कालिका देवी चारु-अङ्गी चारु-दर्शना॥ दध्रे च अनुदिनम् रम्याम् चन्द्र-बिम्ब-कलाम् इव ॥ १५॥
evam sā kālikā devī cāru-aṅgī cāru-darśanā.. dadhre ca anudinam ramyām candra-bimba-kalām iva .. 15..
कुलोचितेन नाम्ना तां पार्वतीत्याजुहावहा।बन्धुप्रियां बन्धुजनः सौशील्यगुणसंयुताम् ॥ १६ ॥
कुल-उचितेन नाम्ना ताम् पार्वती इति आजुहावहा अहा।बन्धु-प्रियाम् बन्धु-जनः सौशील्य-गुण-संयुताम् ॥ १६ ॥
kula-ucitena nāmnā tām pārvatī iti ājuhāvahā ahā.bandhu-priyām bandhu-janaḥ sauśīlya-guṇa-saṃyutām .. 16 ..
उमेति मात्रा तपसे निषिद्धा कालिका च सा ॥ पश्चादुमाख्यां सुमुखी जगाम भुवने मुने ॥ १७ ॥
उमा इति मात्रा तपसे निषिद्धा कालिका च सा ॥ पश्चात् उमा-आख्याम् सु मुखी जगाम भुवने मुने ॥ १७ ॥
umā iti mātrā tapase niṣiddhā kālikā ca sā .. paścāt umā-ākhyām su mukhī jagāma bhuvane mune .. 17 ..
दृष्टिः पुत्रवतोऽप्यद्रेस्तस्मिंस्तृप्तिं जगाम न ॥ अपत्ये पार्वतीत्याख्ये सर्वसौभाग्य संयुते ॥ १८ ॥
दृष्टिः पुत्रवतः अपि अद्रेः तस्मिन् तृप्तिम् जगाम न ॥ अपत्ये पार्वती-इत्याख्ये सर्व-सौभाग्य-संयुते ॥ १८ ॥
dṛṣṭiḥ putravataḥ api adreḥ tasmin tṛptim jagāma na .. apatye pārvatī-ityākhye sarva-saubhāgya-saṃyute .. 18 ..
मधोरनन्तपुष्पस्य चूते हि भ्रमरावलिः ॥ विशेषसंगा भवति सहकारे मुनीश्वर ॥ १९ ॥
मधोः अनन्त-पुष्पस्य चूते हि भ्रमर-आवलिः ॥ भवति सहकारे मुनि-ईश्वर ॥ १९ ॥
madhoḥ ananta-puṣpasya cūte hi bhramara-āvaliḥ .. bhavati sahakāre muni-īśvara .. 19 ..
पूतो विभूषितश्चापि स बभूव तया गिरिः ॥ संस्कारवत्येव गिरा मनीषीव हिमालयः ॥ 2.3.7.२०॥
पूतः विभूषितः च अपि स बभूव तया गिरिः ॥ संस्कारवत्या इव गिरा मनीषी इव हिमालयः ॥ २।३।७।२०॥
pūtaḥ vibhūṣitaḥ ca api sa babhūva tayā giriḥ .. saṃskāravatyā iva girā manīṣī iva himālayaḥ .. 2.3.7.20..
प्रभामहत्या शिखयेव दीपो भुवनस्य च ॥ त्रिमार्गयेव सन्मार्गस्तद्वद्गिरिजया गिरिः ॥ २१ ॥
प्रभा-महत्या शिखया इव दीपः भुवनस्य च ॥ त्रि-मार्गया इव सत्-मार्गः तद्वत् गिरिजया गिरिः ॥ २१ ॥
prabhā-mahatyā śikhayā iva dīpaḥ bhuvanasya ca .. tri-mārgayā iva sat-mārgaḥ tadvat girijayā giriḥ .. 21 ..
कन्दुकैः कृत्रिमैः पुत्रैस्सखीमध्यगता च सा ॥ गंगासैकतवेदीभिर्बाल्ये रेमे मुहुर्मुहुः ॥ २२ ॥
कन्दुकैः कृत्रिमैः पुत्रैः सखी-मध्य-गता च सा ॥ गंगा-सैकत-वेदीभिः बाल्ये रेमे मुहुर् मुहुर् ॥ २२ ॥
kandukaiḥ kṛtrimaiḥ putraiḥ sakhī-madhya-gatā ca sā .. gaṃgā-saikata-vedībhiḥ bālye reme muhur muhur .. 22 ..
अथ देवी शिवा सा चोपदेशसमये मुने ॥ पपाठ विद्यात्सुप्रीत्या यतचित्ता च सद्गुरोः ॥ २३॥
अथ देवी शिवा सा च उपदेश-समये मुने ॥ पपाठ विद्यात् सु प्रीत्या यत-चित्ता च सत्-गुरोः ॥ २३॥
atha devī śivā sā ca upadeśa-samaye mune .. papāṭha vidyāt su prītyā yata-cittā ca sat-guroḥ .. 23..
प्राक्तना जन्मविद्यास्तां शरदीव प्रपेदिरे ॥ हंसालिस्स्वर्णदी नक्तमात्मभासो महौषधिम् ॥ २४ ॥
प्राक्तनाः जन्म-विद्याः ताम् शरदि इव प्रपेदिरे ॥ हंसालिः स्वर्णदी नक्तम् आत्म-भासः महौषधिम् ॥ २४ ॥
prāktanāḥ janma-vidyāḥ tām śaradi iva prapedire .. haṃsāliḥ svarṇadī naktam ātma-bhāsaḥ mahauṣadhim .. 24 ..
इत्थं सुवर्णिता लीला शिवायाः काचिदेव हि ॥ अन्यलीलाम्प्रवक्ष्येऽहं शृणु त्वं प्रेमतो मुने ॥ २५॥
इत्थम् सु वर्णिता लीला शिवायाः काचिद् एव हि ॥ अन्य-लीलाम् प्रवक्ष्ये अहम् शृणु त्वम् प्रेमतः मुने ॥ २५॥
ittham su varṇitā līlā śivāyāḥ kācid eva hi .. anya-līlām pravakṣye aham śṛṇu tvam premataḥ mune .. 25..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनंनाम सप्तमो ऽध्यायः ॥ ७ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे पार्वतीबाल्यलीलावर्णनम् नाम सप्तमः अध्यायः ॥ ७ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe pārvatībālyalīlāvarṇanam nāma saptamaḥ adhyāyaḥ .. 7 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In