| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एकदा तु शिवज्ञानी शिवलीलाविदांवरः ॥ हिमाचलगृहं प्रीत्यागमस्त्वं शिवप्रेरितः ॥ १ ॥
एकदा तु शिव-ज्ञानी शिव-लीला-विदाम् वरः ॥ हिमाचल-गृहम् प्रीत्या आगमः त्वम् शिव-प्रेरितः ॥ १ ॥
ekadā tu śiva-jñānī śiva-līlā-vidām varaḥ .. himācala-gṛham prītyā āgamaḥ tvam śiva-preritaḥ .. 1 ..
दृष्ट्वा मुने गिरीशस्त्वां नत्वानर्च स नारद ॥ आहूय च स्वतनयां त्वदङ्घ्र्योस्तामपातयत् ॥ २ ॥
दृष्ट्वा मुने गिरीशः त्वाम् नत्वा अनर्च स नारद ॥ आहूय च स्व-तनयाम् त्वद्-अङ्घ्र्योः ताम् अपातयत् ॥ २ ॥
dṛṣṭvā mune girīśaḥ tvām natvā anarca sa nārada .. āhūya ca sva-tanayām tvad-aṅghryoḥ tām apātayat .. 2 ..
पुनर्नत्वा मुनीश त्वामुवाच हिमभूधरः ॥ साञ्जलिः स्वविधिं मत्वा बहुसन्नतमस्तकः॥ ३॥
पुनर् नत्वा मुनि-ईश त्वाम् उवाच हिम-भूधरः ॥ स अञ्जलिः स्व-विधिम् मत्वा बहु-सन्नत-मस्तकः॥ ३॥
punar natvā muni-īśa tvām uvāca hima-bhūdharaḥ .. sa añjaliḥ sva-vidhim matvā bahu-sannata-mastakaḥ.. 3..
हिमालय उवाच ।।
हे मुने नारद ज्ञानिन्ब्रह्मपुत्रवर प्रभो ॥ सर्वज्ञस्त्वं सकरुणः परोपकरणे रतः ॥ ४ ॥
हे मुने नारद ज्ञानिन् ब्रह्म-पुत्र-वर प्रभो ॥ सर्व-ज्ञः त्वम् स करुणः पर-उपकरणे रतः ॥ ४ ॥
he mune nārada jñānin brahma-putra-vara prabho .. sarva-jñaḥ tvam sa karuṇaḥ para-upakaraṇe rataḥ .. 4 ..
मत्सुताजातकं ब्रूहि गुणदोषसमुद्भवम् ॥ कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥ ५ ॥
मद्-सुता-जातकम् ब्रूहि गुण-दोष-समुद्भवम् ॥ कस्य प्रिया भाग्यवती भविष्यति सुता मम ॥ ५ ॥
mad-sutā-jātakam brūhi guṇa-doṣa-samudbhavam .. kasya priyā bhāgyavatī bhaviṣyati sutā mama .. 5 ..
ब्रह्मोवाच ।।
इत्युक्तो मुनिवर्य त्वं गिरीशेन हिमाद्रिणा ॥ विलोक्य कालिकाहस्तं सर्वांगं च विशेषतः ॥ ६ ॥
इति उक्तः मुनि-वर्य त्वम् गिरीशेन हिमाद्रिणा ॥ विलोक्य कालिका-हस्तम् सर्व-अंगम् च विशेषतः ॥ ६ ॥
iti uktaḥ muni-varya tvam girīśena himādriṇā .. vilokya kālikā-hastam sarva-aṃgam ca viśeṣataḥ .. 6 ..
अवोचस्त्वं गिरिं तात कौतुकी वाग्विशारद्ः ॥ ज्ञानी विदितवृत्तान्तो नारदः प्रीतमानसः ॥ ७ ॥
अवोचः त्वम् गिरिम् तात कौतुकी वाच्-विशारदः ॥ ज्ञानी विदित-वृत्तान्तः नारदः प्रीत-मानसः ॥ ७ ॥
avocaḥ tvam girim tāta kautukī vāc-viśāradaḥ .. jñānī vidita-vṛttāntaḥ nāradaḥ prīta-mānasaḥ .. 7 ..
नारद उवाच ।।
एषा ते तनया मेने सुधांशोरिव वर्द्धिता ॥ आद्या कला शैलराज सर्वलक्षणशालिनी ॥ ८॥
एषा ते तनया मेने सुधांशोः इव वर्द्धिता ॥ आद्या कला शैलराज सर्व-लक्षण-शालिनी ॥ ८॥
eṣā te tanayā mene sudhāṃśoḥ iva varddhitā .. ādyā kalā śailarāja sarva-lakṣaṇa-śālinī .. 8..
स्वपतेस्सुखदात्यन्तं पित्रोः कीर्तिविवर्द्धिनी ॥ महासाध्वी च सर्वासु महानन्दकरी सदा ॥ ९ ॥
स्व-पतेः सुख-दा अत्यन्तम् पित्रोः कीर्ति-विवर्द्धिनी ॥ महासाध्वी च सर्वासु महा-आनन्द-करी सदा ॥ ९ ॥
sva-pateḥ sukha-dā atyantam pitroḥ kīrti-vivarddhinī .. mahāsādhvī ca sarvāsu mahā-ānanda-karī sadā .. 9 ..
सुलक्षणानि सर्वाणि त्वत्सुतायाः करे गिरे ॥ एका विलक्षणा रेखा तत्फलं शृणु तत्त्वतः ॥ 2.3.8.१० ॥
सु लक्षणानि सर्वाणि त्वद्-सुतायाः करे गिरे ॥ एका विलक्षणा रेखा तद्-फलम् शृणु तत्त्वतः ॥ २।३।८।१० ॥
su lakṣaṇāni sarvāṇi tvad-sutāyāḥ kare gire .. ekā vilakṣaṇā rekhā tad-phalam śṛṇu tattvataḥ .. 2.3.8.10 ..
योगी नग्नोऽगुणोऽकामी मातृतातविवर्जितः ॥ अमानोऽशिववेषश्च पतिरस्याः किलेदृशः ॥ ११ ॥ ।
योगी नग्नः अगुणः अकामी ॥ अमानः अशिव-वेषः च पतिः अस्याः किल ईदृशः ॥ ११ ॥ ।
yogī nagnaḥ aguṇaḥ akāmī .. amānaḥ aśiva-veṣaḥ ca patiḥ asyāḥ kila īdṛśaḥ .. 11 .. .
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्ते हि सत्यं मत्त्वा च दम्पती ॥ मेना हिमाचलश्चापि दुःखितौ तौ बभूवतुः ॥ १२ ॥
इति आकर्ण्य वचः ते हि सत्यम् च दम्पती ॥ मेना हिमाचलः च अपि दुःखितौ तौ बभूवतुः ॥ १२ ॥
iti ākarṇya vacaḥ te hi satyam ca dampatī .. menā himācalaḥ ca api duḥkhitau tau babhūvatuḥ .. 12 ..
शिवाकर्ण्यवचस्ते हि तादृशं जगदम्बिका ॥ ।लक्षणैस्तं शिवं मत्त्वा जहर्षाति मुने हृदि ॥ १ ३॥
शिव-आकर्ण्य वचः ते हि तादृशम् जगदम्बिका ॥ ।लक्षणैः तम् शिवम् जहर्ष अति मुने हृदि ॥ १ ३॥
śiva-ākarṇya vacaḥ te hi tādṛśam jagadambikā .. .lakṣaṇaiḥ tam śivam jaharṣa ati mune hṛdi .. 1 3..
न मृषा नारदवचस्त्विति संचिन्त्य सा शिवा ॥ स्नेहं शिवपदद्वन्द्वे चकाराति हृदा तदा ॥ १४॥
न मृषा नारद-वचः तु इति संचिन्त्य सा शिवा ॥ स्नेहम् शिव-पद-द्वन्द्वे चकार अति हृदा तदा ॥ १४॥
na mṛṣā nārada-vacaḥ tu iti saṃcintya sā śivā .. sneham śiva-pada-dvandve cakāra ati hṛdā tadā .. 14..
उवाच दुःखितः शैलस्त्वान्तदा हृदि नारद ॥ कमुपायं मुने कुर्यामतिदुःखमभूदिति ॥ १५॥
उवाच दुःखितः शैलः त्वा अन्तदा हृदि नारद ॥ कम् उपायम् मुने कुर्याम् अति दुःखम् अभूत् इति ॥ १५॥
uvāca duḥkhitaḥ śailaḥ tvā antadā hṛdi nārada .. kam upāyam mune kuryām ati duḥkham abhūt iti .. 15..
तच्छुत्वा त्वं मुने प्रात्थ महाकौतुककारकः ॥ हिमाचलं शुभैर्वाक्यैर्हर्षयन्वाग्विशारदः ॥ १६॥
तत् शुत्वा त्वम् मुने प्रात्थ महा-कौतुक-कारकः ॥ हिमाचलम् शुभैः वाक्यैः हर्षयन् वाच्-विशारदः ॥ १६॥
tat śutvā tvam mune prāttha mahā-kautuka-kārakaḥ .. himācalam śubhaiḥ vākyaiḥ harṣayan vāc-viśāradaḥ .. 16..
नारद उवाच ।।
स्नेहाच्छृणु गिरे वाक्यं मम सत्यं मृषा न हि ॥ कररेखा ब्रह्मलिपिर्न मृषा भवति धुवम् ॥ १७॥
स्नेहात् शृणु गिरे वाक्यम् मम सत्यम् मृषा न हि ॥ कर-रेखा ब्रह्म-लिपिः न मृषा भवति धुवम् ॥ १७॥
snehāt śṛṇu gire vākyam mama satyam mṛṣā na hi .. kara-rekhā brahma-lipiḥ na mṛṣā bhavati dhuvam .. 17..
तादृशोऽस्याः पतिः शैल भविष्यति न संशयः ॥ तत्रोपायं शृणु प्रीत्या यं कृत्वा लप्स्यसे सुखम् ॥ १८॥
तादृशः अस्याः पतिः शैल भविष्यति न संशयः ॥ तत्र उपायम् शृणु प्रीत्या यम् कृत्वा लप्स्यसे सुखम् ॥ १८॥
tādṛśaḥ asyāḥ patiḥ śaila bhaviṣyati na saṃśayaḥ .. tatra upāyam śṛṇu prītyā yam kṛtvā lapsyase sukham .. 18..
तादृशोऽस्ति वरः शम्भुलीलारूपधरः प्रभुः ॥ कुलक्षणानि सर्वाणि तत्र तुल्यानि सद्गुणैः ॥ १९॥
तादृशः अस्ति वरः शम्भु-लीला-रूप-धरः प्रभुः ॥ कु लक्षणानि सर्वाणि तत्र तुल्यानि सत्-गुणैः ॥ १९॥
tādṛśaḥ asti varaḥ śambhu-līlā-rūpa-dharaḥ prabhuḥ .. ku lakṣaṇāni sarvāṇi tatra tulyāni sat-guṇaiḥ .. 19..
प्रभौ दोषो न दुःखाय दुःखदोऽत्यप्रभौ हि सः ॥ रविपावकगंगानां तत्र ज्ञेया निदर्शना ॥ 2.3.8.२० ॥
प्रभौ दोषः न दुःखाय दुःख-दः अति अप्रभौ हि सः ॥ रवि-पावक-गंगानाम् तत्र ज्ञेया निदर्शना ॥ २।३।८।२० ॥
prabhau doṣaḥ na duḥkhāya duḥkha-daḥ ati aprabhau hi saḥ .. ravi-pāvaka-gaṃgānām tatra jñeyā nidarśanā .. 2.3.8.20 ..
तस्माच्छिवाय कन्या स्वां शिवां देहि विवेकतः॥ शिवस्सर्वेश्वरस्सेव्योऽविकारी प्रभुरव्ययः ॥ २१ ॥
तस्मात् शिवाय कन्या स्वाम् शिवाम् देहि विवेकतः॥ शिवः सर्व-ईश्वरः सेव्यः अविकारी प्रभुः अव्ययः ॥ २१ ॥
tasmāt śivāya kanyā svām śivām dehi vivekataḥ.. śivaḥ sarva-īśvaraḥ sevyaḥ avikārī prabhuḥ avyayaḥ .. 21 ..
शीघ्रप्रसादः स शिवस्तां ग्रहीष्यत्यसंशयम् ॥ तपःसाध्यो विशेषेण यदि कुर्याच्छिवा तपः ॥ २२ ॥
शीघ्र-प्रसादः स शिवः ताम् ग्रहीष्यति असंशयम् ॥ तपः-साध्यः विशेषेण यदि कुर्यात् शिवा तपः ॥ २२ ॥
śīghra-prasādaḥ sa śivaḥ tām grahīṣyati asaṃśayam .. tapaḥ-sādhyaḥ viśeṣeṇa yadi kuryāt śivā tapaḥ .. 22 ..
सर्वथा सुसमर्थो हि स शिवस्सकलेश्वरः ॥ कुलिपेरपि विध्वंसी ब्रह्माधीनस्त्वकप्रदः ॥ २३ ॥
सर्वथा सु समर्थः हि स शिवः सकल-ईश्वरः ॥ कुलिपेः अपि विध्वंसी ब्रह्म-अधीनः त्वक-प्रदः ॥ २३ ॥
sarvathā su samarthaḥ hi sa śivaḥ sakala-īśvaraḥ .. kulipeḥ api vidhvaṃsī brahma-adhīnaḥ tvaka-pradaḥ .. 23 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा त्वं पुनस्तात कौतुकी ब्रह्मविन्मुने ॥ शैलराजमवोचो हि हर्षयन्वचनैश्शुभैः ॥ २४॥
इति उक्त्वा त्वम् पुनर् तात कौतुकी ब्रह्म-विद् मुने ॥ शैलराजम् अवोचः हि हर्षयन् वचनैः शुभैः ॥ २४॥
iti uktvā tvam punar tāta kautukī brahma-vid mune .. śailarājam avocaḥ hi harṣayan vacanaiḥ śubhaiḥ .. 24..
भाविनी दयिता शम्भोस्सानुकूला सदा हरे ॥ महासाध्वी सुव्रता च पित्रोस्सुखविवर्द्धिनी ॥ २५ ॥
भाविनी दयिता शम्भोः सा अनुकूला सदा हरे ॥ महा-साध्वी सुव्रता च पित्रोः सुख-विवर्द्धिनी ॥ २५ ॥
bhāvinī dayitā śambhoḥ sā anukūlā sadā hare .. mahā-sādhvī suvratā ca pitroḥ sukha-vivarddhinī .. 25 ..
शम्भोश्चित्तं वशे चैषा करिष्यति तपस्विनी ॥ स चाप्येनामृते योषां न ह्यन्यामुद्वहिष्यति ॥ २६॥
शम्भोः चित्तम् वशे च एषा करिष्यति तपस्विनी ॥ स च अपि एनाम् ऋते योषाम् न हि अन्याम् उद्वहिष्यति ॥ २६॥
śambhoḥ cittam vaśe ca eṣā kariṣyati tapasvinī .. sa ca api enām ṛte yoṣām na hi anyām udvahiṣyati .. 26..
एतयोस्सदृशं प्रेम न कस्याप्येव तादृशम् ॥ भूतं वा भविता वापि नाधुना च प्रवर्तते ॥ २७॥
एतयोः सदृशम् प्रेम न कस्य अपि एव तादृशम् ॥ भूतम् वा भविता वा अपि न अधुना च प्रवर्तते ॥ २७॥
etayoḥ sadṛśam prema na kasya api eva tādṛśam .. bhūtam vā bhavitā vā api na adhunā ca pravartate .. 27..
अनयोस्सुरकार्य्याणि कर्तव्यानि मृतानि च॥ यानि यानि नगश्रेष्ठ जीवितानि पुनः पुनः ॥ २८॥
अनयोः सुर-कार्य्याणि कर्तव्यानि मृतानि च॥ यानि यानि नग-श्रेष्ठ जीवितानि पुनर् पुनर् ॥ २८॥
anayoḥ sura-kāryyāṇi kartavyāni mṛtāni ca.. yāni yāni naga-śreṣṭha jīvitāni punar punar .. 28..
अनया कन्यया तेऽद्रे अर्धनारीश्वरो हरः ॥ भविष्यति तथा हर्षदिनयोर्मिलितम्पुनः ॥ २९॥
अनया कन्यया ते अद्रे अर्धनारीश्वरः हरः ॥ भविष्यति तथा हर्ष-दिनयोः मिलितम् पुनर् ॥ २९॥
anayā kanyayā te adre ardhanārīśvaraḥ haraḥ .. bhaviṣyati tathā harṣa-dinayoḥ militam punar .. 29..
शरीरार्धं हरस्यैषा हरिष्यति सुता तव॥ तपः प्रभावात्संतोष्य महेशं सकलेश्वरम् ॥ 2.3.8.३०॥
शरीर-अर्धम् हरस्य एषा हरिष्यति सुता तव॥ तपः प्रभावात् संतोष्य महेशम् सकल-ईश्वरम् ॥ २।३।८।३०॥
śarīra-ardham harasya eṣā hariṣyati sutā tava.. tapaḥ prabhāvāt saṃtoṣya maheśam sakala-īśvaram .. 2.3.8.30..
स्वर्णगौरी सुवर्णाभा तपसा तोष्य तं हरम् ॥ विद्युद्गौरतमा चेयं तव पुत्री भविष्यति ॥ ३१॥
स्वर्णगौरी सुवर्ण-आभा तपसा तोष्य तम् हरम् ॥ विद्युत्-गौरतमा च इयम् तव पुत्री भविष्यति ॥ ३१॥
svarṇagaurī suvarṇa-ābhā tapasā toṣya tam haram .. vidyut-gauratamā ca iyam tava putrī bhaviṣyati .. 31..
गौरीति नाम्ना कन्या तु ख्यातिमेषा गमिष्यति ॥ सर्वदेवगणैः पूज्या हरिब्रह्मादिभिस्तथा ॥ ३२॥
गौरी इति नाम्ना कन्या तु ख्यातिम् एषा गमिष्यति ॥ सर्व-देव-गणैः पूज्याः हरि-ब्रह्म-आदिभिः तथा ॥ ३२॥
gaurī iti nāmnā kanyā tu khyātim eṣā gamiṣyati .. sarva-deva-gaṇaiḥ pūjyāḥ hari-brahma-ādibhiḥ tathā .. 32..
नान्यस्मै त्वमिमां दातुमिहार्हसि नगोत्तम॥ इदं चोपांशु देवानां न प्रकाश्यं कदाचन ॥ ३३ ॥
न अन्यस्मै त्वम् इमाम् दातुम् इह अर्हसि नग-उत्तम॥ इदम् च उपांशु देवानाम् न प्रकाश्यम् कदाचन ॥ ३३ ॥
na anyasmai tvam imām dātum iha arhasi naga-uttama.. idam ca upāṃśu devānām na prakāśyam kadācana .. 33 ..
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा देवर्षे तव नारद ॥ उवाच हिमवान्वाक्यं मुने त्वाम्वाग्विशारदः ॥ ३४॥
इति तस्य वचः श्रुत्वा देव-ऋषे तव नारद ॥ उवाच हिमवान् वाक्यम् मुने त्वाम् वाच्-विशारदः ॥ ३४॥
iti tasya vacaḥ śrutvā deva-ṛṣe tava nārada .. uvāca himavān vākyam mune tvām vāc-viśāradaḥ .. 34..
हिमालय उवाचा।।
हे मुने नारद प्राज्ञ विज्ञप्तिं कांचिदेव हि॥ करोमि तां शृणु प्रीत्या तस्त्वं प्रमुदमावह ॥ ३५॥
हे मुने नारद प्राज्ञ विज्ञप्तिम् कांचिद् एव हि॥ करोमि ताम् शृणु प्रीत्या तः त्वम् प्रमुदम् आवह ॥ ३५॥
he mune nārada prājña vijñaptim kāṃcid eva hi.. karomi tām śṛṇu prītyā taḥ tvam pramudam āvaha .. 35..
श्रूयते त्यक्तसंगस्स महादेवो यतात्मवान् ॥ तपश्चरति सन्नित्यं देवानामप्यगोचरः॥ ३६॥
श्रूयते त्यक्त-संगः स महादेवः यत-आत्मवान् ॥ तपः चरति सन् नित्यम् देवानाम् अपि अगोचरः॥ ३६॥
śrūyate tyakta-saṃgaḥ sa mahādevaḥ yata-ātmavān .. tapaḥ carati san nityam devānām api agocaraḥ.. 36..
स कथं ध्यान मार्गस्थः परब्रह्मार्पितं मनः॥ भ्रंशयिष्यति देवर्षे तत्र मे संशयो महान्॥ ३७॥
स कथम् ध्यान-मार्ग-स्थः पर-ब्रह्म-अर्पितम् मनः॥ भ्रंशयिष्यति देव-ऋषे तत्र मे संशयः महान्॥ ३७॥
sa katham dhyāna-mārga-sthaḥ para-brahma-arpitam manaḥ.. bhraṃśayiṣyati deva-ṛṣe tatra me saṃśayaḥ mahān.. 37..
अक्षरं परमं ब्रह्म प्रदीपकलिकोपमम्॥ सदाशिवाख्यं स्वं रूपं निर्विकारमजापरम्॥ ३८॥
अक्षरम् परमम् ब्रह्म प्रदीप-कलिका-उपमम्॥ सदाशिव-आख्यम् स्वम् रूपम् निर्विकारम् अजा-परम्॥ ३८॥
akṣaram paramam brahma pradīpa-kalikā-upamam.. sadāśiva-ākhyam svam rūpam nirvikāram ajā-param.. 38..
निर्गुणं सगुणं तच्च निर्विशेषं निरीहकम्॥ अतः पश्यति सर्वत्र न तु बाह्यं निरीक्षते॥ ३९॥
निर्गुणम् स गुणम् तत् च निर्विशेषम् निरीहकम्॥ अतस् पश्यति सर्वत्र न तु बाह्यम् निरीक्षते॥ ३९॥
nirguṇam sa guṇam tat ca nirviśeṣam nirīhakam.. atas paśyati sarvatra na tu bāhyam nirīkṣate.. 39..
इति स श्रूयते नित्यं किंनराणां मुखान्मुने॥ इहागतानां सुप्रीत्या किन्तन्मिथ्या वचो धुवम्॥ 2.3.8.४०॥
इति स श्रूयते नित्यम् किंनराणाम् मुखात् मुने॥ इह आगतानाम् सु प्रीत्या किन्तत् मिथ्या वचः॥ २।३।८।४०॥
iti sa śrūyate nityam kiṃnarāṇām mukhāt mune.. iha āgatānām su prītyā kintat mithyā vacaḥ.. 2.3.8.40..
विशेषतः श्रूयते स साक्षान्नाम्ना तथा हरः ॥ समयं कृतवान्पूर्व्वं तन्मया गदितं शृणु ॥ ४१॥
विशेषतः श्रूयते स साक्षात् नाम्ना तथा हरः ॥ समयम् कृतवान् पूर्व्वम् तत् मया गदितम् शृणु ॥ ४१॥
viśeṣataḥ śrūyate sa sākṣāt nāmnā tathā haraḥ .. samayam kṛtavān pūrvvam tat mayā gaditam śṛṇu .. 41..
न त्वामृतेऽन्यां वरये दाक्षायणि प्रिये सती ॥ भार्यार्थं न ग्रहीष्यामि सत्यमेतद्ब्रवीमि ते ॥ ४२ ॥
न त्वाम् ऋते अन्याम् वरये दाक्षायणि प्रिये सती ॥ भार्या-अर्थम् न ग्रहीष्यामि सत्यम् एतत् ब्रवीमि ते ॥ ४२ ॥
na tvām ṛte anyām varaye dākṣāyaṇi priye satī .. bhāryā-artham na grahīṣyāmi satyam etat bravīmi te .. 42 ..
इति सत्यासमं तेन पुरैव समयः कृतः ॥ तस्यां मृतायां स कथं स्वयमन्यां ग्रहीष्यति ॥ ४३ ।
इति सत्य-असमम् तेन पुरा एव समयः कृतः ॥ तस्याम् मृतायाम् स कथम् स्वयम् अन्याम् ग्रहीष्यति ॥ ४३ ।
iti satya-asamam tena purā eva samayaḥ kṛtaḥ .. tasyām mṛtāyām sa katham svayam anyām grahīṣyati .. 43 .
।। ब्रह्मोवाच ।।
इत्युक्त्वा स गिरिस्तूष्णीमास तस्य पुरस्तव ॥ तदाकर्ण्याथ देवर्षे त्वं प्रावोचस्सुतत्त्वतः ॥ ४४॥
इति उक्त्वा स गिरिः तूष्णीम् आस तस्य पुरस् तव ॥ तत् आकर्ण्य अथ देव-ऋषे त्वम् प्रावोचः सुतत्त्वतः ॥ ४४॥
iti uktvā sa giriḥ tūṣṇīm āsa tasya puras tava .. tat ākarṇya atha deva-ṛṣe tvam prāvocaḥ sutattvataḥ .. 44..
नारद उवाच ।।
न वै कार्या त्वया चिंता गिरिराज महामते ॥ एषा तव सुता काली दक्षजा ह्यभवत्पुरा ॥ ४५ ॥
न वै कार्या त्वया चिंता गिरि-राज महामते ॥ एषा तव सुता काली दक्ष-जा हि अभवत् पुरा ॥ ४५ ॥
na vai kāryā tvayā ciṃtā giri-rāja mahāmate .. eṣā tava sutā kālī dakṣa-jā hi abhavat purā .. 45 ..
सतीनामाभवत्तस्यास्सर्वमंगलदं सदा ॥ सती सा वै दक्षकन्या भूत्वा रुद्रप्रियाभवत ॥ ४६ ॥
सतीनाम् आभवत् तस्याः सर्व-मंगल-दम् सदा ॥ सती सा वै दक्ष-कन्या भूत्वा रुद्र-प्रिया भवत ॥ ४६ ॥
satīnām ābhavat tasyāḥ sarva-maṃgala-dam sadā .. satī sā vai dakṣa-kanyā bhūtvā rudra-priyā bhavata .. 46 ..
पितुर्यज्ञे तथा प्राप्यानादरं शंकरस्य च ॥ तं दृष्ट्वा कोपमाधायात्याक्षीद्देहं च सा सती ॥ ४७॥
पितुः यज्ञे तथा प्राप्य अनादरम् शंकरस्य च ॥ तम् दृष्ट्वा कोपम् आधाय अत्याक्षीत् देहम् च सा सती ॥ ४७॥
pituḥ yajñe tathā prāpya anādaram śaṃkarasya ca .. tam dṛṣṭvā kopam ādhāya atyākṣīt deham ca sā satī .. 47..
पुनस्सैव समुत्पन्ना तव गेहेऽम्बिका शिवा ॥ पार्वती हरपत्नीयं भविष्यति न संशयः ॥ ४८॥
पुनर् सा एव समुत्पन्ना तव गेहे अम्बिका शिवा ॥ पार्वती हर-पत्नी इयम् भविष्यति न संशयः ॥ ४८॥
punar sā eva samutpannā tava gehe ambikā śivā .. pārvatī hara-patnī iyam bhaviṣyati na saṃśayaḥ .. 48..
एतत्सर्वं विस्तरात्त्वं प्रोक्तवान्भूभृते मुने ॥ पूर्वरूपं चरित्रं च पार्वत्याः प्रीतिवर्धनम् ॥ ४९ ॥
एतत् सर्वम् विस्तरात् त्वम् प्रोक्तवान् भूभृते मुने ॥ पूर्वरूपम् चरित्रम् च पार्वत्याः प्रीति-वर्धनम् ॥ ४९ ॥
etat sarvam vistarāt tvam proktavān bhūbhṛte mune .. pūrvarūpam caritram ca pārvatyāḥ prīti-vardhanam .. 49 ..
तं सर्वं पूर्ववृत्तान्यं काल्या मुनिमुखाद्गिरिः ॥ श्रुत्वा सपुत्रदारः स तदा निःसंशयोऽभवत् ॥ 2.3.8.५० ॥
तम् सर्वम् पूर्व-वृत्त-अन्यम् काल्या मुनि-मुखात् गिरिः ॥ श्रुत्वा स पुत्र-दारः स तदा निःसंशयः अभवत् ॥ २।३।८।५० ॥
tam sarvam pūrva-vṛtta-anyam kālyā muni-mukhāt giriḥ .. śrutvā sa putra-dāraḥ sa tadā niḥsaṃśayaḥ abhavat .. 2.3.8.50 ..
ततः काली कथां श्रुत्वा नारदस्य मुखात्तदा ॥ लज्जयाधोमुखी भूत्वा स्मितविस्तारितानना ॥ ५१॥
ततस् काली कथाम् श्रुत्वा नारदस्य मुखात् तदा ॥ लज्जया अधोमुखी भूत्वा स्मित-विस्तारित-आनना ॥ ५१॥
tatas kālī kathām śrutvā nāradasya mukhāt tadā .. lajjayā adhomukhī bhūtvā smita-vistārita-ānanā .. 51..
करेण तां तु संस्पृश्य श्रुत्वा तच्चरितं गिरिः ॥ मूर्ध्नि शश्वत्तथाघ्राय स्वास नान्ते न्यवेशयत् ॥ ५२ ॥
करेण ताम् तु संस्पृश्य श्रुत्वा तद्-चरितम् गिरिः ॥ मूर्ध्नि शश्वत् तथा आघ्राय स्वास न अन्ते न्यवेशयत् ॥ ५२ ॥
kareṇa tām tu saṃspṛśya śrutvā tad-caritam giriḥ .. mūrdhni śaśvat tathā āghrāya svāsa na ante nyaveśayat .. 52 ..
ततस्त्वं तां पुनर्दृष्ट्वाऽवोचस्तत्र स्थितां मुने ॥ हर्षयन् गिरिराजं च मेनकान्तनयैः सह ॥ ५३ ॥ ।
ततस् त्वम् ताम् पुनर् दृष्ट्वा अवोचः तत्र स्थिताम् मुने ॥ हर्षयन् गिरिराजम् च मेनका-अन्तनयैः सह ॥ ५३ ॥ ।
tatas tvam tām punar dṛṣṭvā avocaḥ tatra sthitām mune .. harṣayan girirājam ca menakā-antanayaiḥ saha .. 53 .. .
सिंहासनन्तु किन्त्वस्याश्शैलराज भवेदतः ॥ शम्भोरूरौ सदैतस्या आसनं तु भविष्यति ॥ ५४॥
सिंहासनम् तु किन्तु अस्याः शैलराज भवेत् अतस् ॥ शम्भोः ऊरौ सदा एतस्याः आसनम् तु भविष्यति ॥ ५४॥
siṃhāsanam tu kintu asyāḥ śailarāja bhavet atas .. śambhoḥ ūrau sadā etasyāḥ āsanam tu bhaviṣyati .. 54..
हरोरूर्वासनम्प्राप्य तनया तव सन्ततम् ॥ न यत्र कस्याचिदृष्टिर्मानसं वा गमिष्यति ॥ ५५ ॥
हरोः ऊर्व-आसनम् प्राप्य तनया तव सन्ततम् ॥ न यत्र कस्याचिद् ऋष्टिः मानसम् वा गमिष्यति ॥ ५५ ॥
haroḥ ūrva-āsanam prāpya tanayā tava santatam .. na yatra kasyācid ṛṣṭiḥ mānasam vā gamiṣyati .. 55 ..
।। ब्रह्मोवाच ।।
इति वचनमुदारं नारद त्वं गिरीशं त्रिदिवमगम उक्त्वा तत्क्षणादेवप्रीत्या ॥ गिरिपतिरपि चित्ते चारुसंमोदयुक्तस्स्वगृहमगमदेवं सर्वसंपत्समृद्धम् ॥ ५६ ।
इति वचनम् उदारम् नारद त्वम् गिरीशम् त्रिदिवम् अगमः उक्त्वा तद्-क्षणात् एव प्रीत्या ॥ गिरिपतिः अपि चित्ते चारु-संमोद-युक्तः स्व-गृहम् अगमत् एवम् सर्व-संपद्-समृद्धम् ॥ ५६ ।
iti vacanam udāram nārada tvam girīśam tridivam agamaḥ uktvā tad-kṣaṇāt eva prītyā .. giripatiḥ api citte cāru-saṃmoda-yuktaḥ sva-gṛham agamat evam sarva-saṃpad-samṛddham .. 56 .
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखंडे नारदहिमालयसंवादवर्णनं नामाष्टमोऽध्यायः ॥ ८ ॥
इति श्री-शिव-महा-पुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे नारद-हिमालयसंवादवर्णनम् नाम अष्टमः अध्यायः ॥ ८ ॥
iti śrī-śiva-mahā-purāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe nārada-himālayasaṃvādavarṇanam nāma aṣṭamaḥ adhyāyaḥ .. 8 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In