| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
विधे तात त्वया शैववर प्राज्ञाद्भुता कथा ॥ वर्णिता करुणां कृत्वा प्रीतिर्मे वर्द्धिताधिकम् ॥ १॥
विधे तात त्वया शैव-वर प्राज्ञ-अद्भुता कथा ॥ वर्णिता करुणाम् कृत्वा प्रीतिः मे वर्द्धिता अधिकम् ॥ १॥
vidhe tāta tvayā śaiva-vara prājña-adbhutā kathā .. varṇitā karuṇām kṛtvā prītiḥ me varddhitā adhikam .. 1..
विधे गते स्वकं धाम मयि वै दिव्यदर्शगे ॥ ततः किमभवत्तात कृपया तद्वदाधुना ॥ २ ॥
विधे गते स्वकम् धाम मयि वै दिव्य-दर्श-गे ॥ ततस् किम् अभवत् तात कृपया तत् वद अधुना ॥ २ ॥
vidhe gate svakam dhāma mayi vai divya-darśa-ge .. tatas kim abhavat tāta kṛpayā tat vada adhunā .. 2 ..
।। ब्रह्मोवाच ।।
गते त्वयि मुने स्वर्गे कियत्काले गते सति ॥ मेना प्राप्येकदा शैलनिकटं प्रणनाम सा ॥ ३ ॥
गते त्वयि मुने स्वर्गे कियत्काले गते सति ॥ मेना प्राप्य एकदा शैल-निकटम् प्रणनाम सा ॥ ३ ॥
gate tvayi mune svarge kiyatkāle gate sati .. menā prāpya ekadā śaila-nikaṭam praṇanāma sā .. 3 ..
स्थित्वा सविनयम्प्राह स्वनाथं गिरिकामिनी ॥ तत्र शैलाधिनाथं सा प्राणप्रियसुता सती ॥ ४ ॥
स्थित्वा स विनयम् प्राह स्व-नाथम् गिरिकामिनी ॥ तत्र शैलाधिनाथम् सा प्राण-प्रिय-सुता सती ॥ ४ ॥
sthitvā sa vinayam prāha sva-nātham girikāminī .. tatra śailādhinātham sā prāṇa-priya-sutā satī .. 4 ..
मेनोवाच ।।
मुनिवाक्यं न बुद्धं मे सम्यङ् नारीस्वभावतः ॥ विवाहं कुरु कन्यायास्सुन्दरेण वरेण ह ॥ ५ ॥
मुनि-वाक्यम् न बुद्धम् मे सम्यक् नारी-स्वभावतः ॥ विवाहम् कुरु कन्यायाः सुन्दरेण वरेण ह ॥ ५ ॥
muni-vākyam na buddham me samyak nārī-svabhāvataḥ .. vivāham kuru kanyāyāḥ sundareṇa vareṇa ha .. 5 ..
सर्वथा हि भवेत्तत्रोद्वाहोऽपूर्वसुखावहः ॥ वरश्च गिरिजायास्तु सुलक्षणकुलोद्भवः ॥ ६ ॥
सर्वथा हि भवेत् तत्र उद्वाहः अपूर्व-सुख-आवहः ॥ वरः च गिरिजायाः तु सुलक्षण-कुल-उद्भवः ॥ ६ ॥
sarvathā hi bhavet tatra udvāhaḥ apūrva-sukha-āvahaḥ .. varaḥ ca girijāyāḥ tu sulakṣaṇa-kula-udbhavaḥ .. 6 ..
प्राणप्रिया सुता मे हि सुखिता स्याद्यथा प्रिय ॥ सद्वरं प्राप्य सुप्रीता तथा कुरु नमोऽस्तु ते ॥ ७॥
प्राण-प्रिया सुता मे हि सुखिता स्यात् यथा प्रिय ॥ सत्-वरम् प्राप्य सु प्रीता तथा कुरु नमः अस्तु ते ॥ ७॥
prāṇa-priyā sutā me hi sukhitā syāt yathā priya .. sat-varam prāpya su prītā tathā kuru namaḥ astu te .. 7..
ब्रह्मोवाच ।।
इत्युक्ताश्रुमुखी मेना पत्यंघ्र्योः पतिता तदा ॥ तामुत्थाप्य गिरिः प्राह यथावत्प्रज्ञसत्तमः ॥ ८ ॥
इति उक्त-अश्रु-मुखी मेना पति-अंघ्र्योः पतिता तदा ॥ ताम् उत्थाप्य गिरिः प्राह यथावत् प्रज्ञ-सत्तमः ॥ ८ ॥
iti ukta-aśru-mukhī menā pati-aṃghryoḥ patitā tadā .. tām utthāpya giriḥ prāha yathāvat prajña-sattamaḥ .. 8 ..
हिमालय उवाच ।।
शृणु त्वं मेनके देवि यथार्थं वच्मि तत्त्वतः॥ भ्रमं त्यज मुनेर्वाक्यं वितथं न कदाचन ॥ ९॥
शृणु त्वम् मेनके देवि यथार्थम् वच्मि तत्त्वतः॥ भ्रमम् त्यज मुनेः वाक्यम् वितथम् न कदाचन ॥ ९॥
śṛṇu tvam menake devi yathārtham vacmi tattvataḥ.. bhramam tyaja muneḥ vākyam vitatham na kadācana .. 9..
यदि स्नेहः सुतायास्ते सुतां शिक्षय सादरम् ॥ तपः कुर्याच्छंकरस्य सा भक्त्या स्थिरचेतसा ॥ 2.3.9.१० ॥
यदि स्नेहः सुतायाः ते सुताम् शिक्षय सादरम् ॥ तपः कुर्यात् शंकरस्य सा भक्त्या स्थिर-चेतसा ॥ २।३।९।१० ॥
yadi snehaḥ sutāyāḥ te sutām śikṣaya sādaram .. tapaḥ kuryāt śaṃkarasya sā bhaktyā sthira-cetasā .. 2.3.9.10 ..
चेत्प्रसन्नः शिवः काल्याः पाणिं गृह्णाति मेनके ॥ सर्वं भूयाच्छुभं नश्येन्नारदोक्तममंगलम् ॥ ११॥
चेद् प्रसन्नः शिवः काल्याः पाणिम् गृह्णाति मेनके ॥ सर्वम् भूयात् शुभम् नश्येत् नारद-उक्तम् अमंगलम् ॥ ११॥
ced prasannaḥ śivaḥ kālyāḥ pāṇim gṛhṇāti menake .. sarvam bhūyāt śubham naśyet nārada-uktam amaṃgalam .. 11..
अमंगलानि सर्वाणि मंगलानि सदाशिवे ॥ तस्मात्सुतां शिवप्राप्त्यै तपसे शिक्षय द्रुतम् ॥ १२ ॥
अमंगलानि सर्वाणि मंगलानि सदाशिवे ॥ तस्मात् सुताम् शिव-प्राप्त्यै तपसे शिक्षय द्रुतम् ॥ १२ ॥
amaṃgalāni sarvāṇi maṃgalāni sadāśive .. tasmāt sutām śiva-prāptyai tapase śikṣaya drutam .. 12 ..
।। ब्रह्मोवाच ।।
इत्याकर्ण्य गिरेर्वाक्यं मेना प्रीततराऽभवत् ॥ सुतोपकंठमगमदुपदेष्टुं तदोरुचिम् ॥ १३ ॥
इति आकर्ण्य गिरेः वाक्यम् मेना प्रीततरा अभवत् ॥ सुत-उपकंठम् अगमत् उपदेष्टुम् तदा ऊरुचिम् ॥ १३ ॥
iti ākarṇya gireḥ vākyam menā prītatarā abhavat .. suta-upakaṃṭham agamat upadeṣṭum tadā ūrucim .. 13 ..
सुताङ्गं सुकुमारं हि दृष्ट्वातीवाथ मेनका ॥ विव्यथे नेत्रयुग्मे चाश्रुपूर्णेऽभवतां द्रुतम् ॥ ॥ १४ ॥
सुत-अङ्गम् सु कुमारम् हि दृष्ट्वा अतीव अथ मेनका ॥ विव्यथे नेत्र-युग्मे च अश्रु-पूर्णे अभवताम् द्रुतम् ॥ ॥ १४ ॥
suta-aṅgam su kumāram hi dṛṣṭvā atīva atha menakā .. vivyathe netra-yugme ca aśru-pūrṇe abhavatām drutam .. .. 14 ..
सुतां समुपदेष्टुं तन्न शशाक गिरिप्रिया ॥ बुबुधे पार्वती तद्वै जननीङ्गितमाशु सा ॥ १५ ॥
सुताम् समुपदेष्टुम् तत् न शशाक गिरिप्रिया ॥ बुबुधे पार्वती तत् वै जननी-इङ्गितम् आशु सा ॥ १५ ॥
sutām samupadeṣṭum tat na śaśāka giripriyā .. bubudhe pārvatī tat vai jananī-iṅgitam āśu sā .. 15 ..
अथ सा कालिका देवी सर्वज्ञा परमेश्वरी ॥ उवाच जननीं सद्यः समाश्वास्य पुनः पुनः ॥ १५॥
अथ सा कालिका देवी सर्वज्ञा परमेश्वरी ॥ उवाच जननीम् सद्यस् समाश्वास्य पुनर् पुनर् ॥ १५॥
atha sā kālikā devī sarvajñā parameśvarī .. uvāca jananīm sadyas samāśvāsya punar punar .. 15..
पार्वत्युवाच ।।
मातश्शृणु महाप्राज्ञेऽद्यतने ऽजमुहूर्तके ॥ रात्रौ दृष्टो मया स्वप्नस्तं वदामि कृपां कुरु ॥ १७ ॥
मातर् शृणु महा-प्राज्ञे अद्यतने अजमुहूर्तके ॥ रात्रौ दृष्टः मया स्वप्नः तम् वदामि कृपाम् कुरु ॥ १७ ॥
mātar śṛṇu mahā-prājñe adyatane ajamuhūrtake .. rātrau dṛṣṭaḥ mayā svapnaḥ tam vadāmi kṛpām kuru .. 17 ..
विप्रश्चैव तपस्वी मां सदयः प्रीतिपूर्वकम् ॥ उपादिदेश सुतपः कर्तुं मातश्शिवस्य वै ॥ १८॥
विप्रः च एव तपस्वी माम् स दयः प्रीति-पूर्वकम् ॥ उपादिदेश सु तपः कर्तुम् मातर् शिवस्य वै ॥ १८॥
vipraḥ ca eva tapasvī mām sa dayaḥ prīti-pūrvakam .. upādideśa su tapaḥ kartum mātar śivasya vai .. 18..
ब्रह्मोवाच ।।
तच्छ्रुत्वा मेनका शीघ्रं पतिमाहूय तत्र च ॥ तत्स्वप्नं कथयामास सुता दृष्टमशेषतः ॥ ॥ १९॥
तत् श्रुत्वा मेनका शीघ्रम् पतिम् आहूय तत्र च ॥ तद्-स्वप्नम् कथयामास सुता दृष्टम् अशेषतस् ॥ ॥ १९॥
tat śrutvā menakā śīghram patim āhūya tatra ca .. tad-svapnam kathayāmāsa sutā dṛṣṭam aśeṣatas .. .. 19..
सुतास्वप्नमथाकर्ण्य मेनकातो गिरीश्वरः ॥ उवाच परमप्रीतः प्रियां सम्बोधयन्गिरा ॥ 2.3.9.२० ॥
सुता-स्वप्नम् अथ आकर्ण्य मेनकातः गिरि-ईश्वरः ॥ उवाच परम-प्रीतः प्रियाम् सम्बोधयन् गिरा ॥ २।३।९।२० ॥
sutā-svapnam atha ākarṇya menakātaḥ giri-īśvaraḥ .. uvāca parama-prītaḥ priyām sambodhayan girā .. 2.3.9.20 ..
।। गिरीश्वर उवाच ।।
हे प्रियेऽपररात्रान्ते स्वप्नो दृष्टो मयापि हि ॥ तं शृणु त्वं महाप्रीत्या वच्म्यहं तं समादरात् ॥ २१॥
हे प्रिये अपररात्र-अन्ते स्वप्नः दृष्टः मया अपि हि ॥ तम् शृणु त्वम् महा-प्रीत्या वच्मि अहम् तम् समादरात् ॥ २१॥
he priye apararātra-ante svapnaḥ dṛṣṭaḥ mayā api hi .. tam śṛṇu tvam mahā-prītyā vacmi aham tam samādarāt .. 21..
एकस्तपस्वी परमो नारदोक्तवरां गधृक् ॥ पुरोपकंठं सुप्रीत्या तपः कर्तुं समागतः ॥ २२॥
एकः तपस्वी परमः नारद-उक्त-वराम् ॥ पुरा उपकंठम् सु प्रीत्या तपः कर्तुम् समागतः ॥ २२॥
ekaḥ tapasvī paramaḥ nārada-ukta-varām .. purā upakaṃṭham su prītyā tapaḥ kartum samāgataḥ .. 22..
गृहीत्वा स्वसुतां तत्रागमं प्रीततरोप्यहम् ॥ मया ज्ञातस्स वै शम्भुर्नारदो क्तवरः प्रभुः ॥ २३ ॥
गृहीत्वा स्व-सुताम् तत्र अगमम् प्रीततरः अपि अहम् ॥ मया ज्ञातः स वै शम्भुः नारदः क्तवरः प्रभुः ॥ २३ ॥
gṛhītvā sva-sutām tatra agamam prītataraḥ api aham .. mayā jñātaḥ sa vai śambhuḥ nāradaḥ ktavaraḥ prabhuḥ .. 23 ..
सेवार्थं तस्य तनयामुपदिश्य तपस्विनः ॥ तंवै प्रार्थितवांस्तस्यां न तदांगीचकार सः ॥ २४ ॥
सेवा-अर्थम् तस्य तनयाम् उपदिश्य तपस्विनः ॥ तम् वै प्रार्थितवान् तस्याम् न तदा अंगीचकार सः ॥ २४ ॥
sevā-artham tasya tanayām upadiśya tapasvinaḥ .. tam vai prārthitavān tasyām na tadā aṃgīcakāra saḥ .. 24 ..
अभूद्विवादस्तुमहान्सांख्यवेदान्तसंमतः ॥ ततस्तदाज्ञया तत्र संस्थितासीत्सुता मम ॥ २५॥
अभूत् विवादः तु महान् सांख्य-वेदान्त-संमतः ॥ ततस् तद्-आज्ञया तत्र संस्थिता आसीत् सुता मम ॥ २५॥
abhūt vivādaḥ tu mahān sāṃkhya-vedānta-saṃmataḥ .. tatas tad-ājñayā tatra saṃsthitā āsīt sutā mama .. 25..
निधाय हृदि तं कामं सिषेवे भक्तितश्च सा ॥ इति दृष्टं मया स्वप्नं प्रोक्तवांस्ते वरानने ॥ २६ ॥
निधाय हृदि तम् कामम् सिषेवे भक्तितः च सा ॥ इति दृष्टम् मया स्वप्नम् प्रोक्तवान् ते वरानने ॥ २६ ॥
nidhāya hṛdi tam kāmam siṣeve bhaktitaḥ ca sā .. iti dṛṣṭam mayā svapnam proktavān te varānane .. 26 ..
ततो मेने कियत्कालं परीक्ष्यं तत्फलं प्रिये ॥ योग्यमस्तीदमेवेह बुध्यस्व त्वं मम ध्रुवम् ॥ २७ ॥
ततस् मेने कियत्कालम् परीक्ष्यम् तत् फलम् प्रिये ॥ योग्यम् अस्ति इदम् एवा इह बुध्यस्व त्वम् मम ध्रुवम् ॥ २७ ॥
tatas mene kiyatkālam parīkṣyam tat phalam priye .. yogyam asti idam evā iha budhyasva tvam mama dhruvam .. 27 ..
।। ब्रह्मोवाच ।।
इत्युक्त्वा गिरिराजश्च मेनका वै मुनीश्वर ॥ सन्तस्थतुः परीक्षन्तीं तत्फलं शुद्धचेतसौ ॥ २८॥
इति उक्त्वा गिरि-राजः च मेनका वै मुनि-ईश्वर ॥ सन्तस्थतुः परीक्षन्तीम् तद्-फलम् शुद्ध-चेतसौ ॥ २८॥
iti uktvā giri-rājaḥ ca menakā vai muni-īśvara .. santasthatuḥ parīkṣantīm tad-phalam śuddha-cetasau .. 28..
इत्थम्व्यतीतेऽल्पदिने परमेशः सतां गतिः ॥ सतीविरहसुव्यग्रो भ्रमन्सर्वत्र सूतिकृत् ॥ २९ ॥
इत्थम् व्यतीते अल्प-दिने परमेशः सताम् गतिः ॥ सती-विरह-सु व्यग्रः भ्रमन् सर्वत्र सूति-कृत् ॥ २९ ॥
ittham vyatīte alpa-dine parameśaḥ satām gatiḥ .. satī-viraha-su vyagraḥ bhraman sarvatra sūti-kṛt .. 29 ..
तत्राजगाम सुप्रीत्या कियद्गुणयुतः प्रभुः ॥ तपः कर्तुं सतीप्रेमविरहाकुलमानसः ॥ 2.3.9.३० ॥
तत्र आजगाम सु प्रीत्या कियत्-गुण-युतः प्रभुः ॥ तपः कर्तुम् सती-प्रेम-विरह-आकुल-मानसः ॥ २।३।९।३० ॥
tatra ājagāma su prītyā kiyat-guṇa-yutaḥ prabhuḥ .. tapaḥ kartum satī-prema-viraha-ākula-mānasaḥ .. 2.3.9.30 ..
तपश्चकार स्वं तत्र पार्वती सेवने रता ॥ सखीभ्यां सहिता नित्यं प्रसन्नार्थमभूत्तदा ॥ ३१ ॥
तपः चकार स्वम् तत्र पार्वती सेवने रता ॥ सखीभ्याम् सहिता नित्यम् प्रसन्न-अर्थम् अभूत् तदा ॥ ३१ ॥
tapaḥ cakāra svam tatra pārvatī sevane ratā .. sakhībhyām sahitā nityam prasanna-artham abhūt tadā .. 31 ..
विद्धोऽऽपि मार्गणैश्शम्भुर्विकृतिं नाप स प्रभुः ॥ प्रेषितेन सुरैस्स्वात्ममोहनार्थं स्मरेण वै ॥ ३२ ॥
विद्धः मार्गणैः शम्भुः विकृतिम् ना आप स प्रभुः ॥ प्रेषितेन सुरैः स्व-आत्म-मोहन-अर्थम् स्मरेण वै ॥ ३२ ॥
viddhaḥ mārgaṇaiḥ śambhuḥ vikṛtim nā āpa sa prabhuḥ .. preṣitena suraiḥ sva-ātma-mohana-artham smareṇa vai .. 32 ..
दग्ध्वा स्मरं च तत्रैव स्ववह्निनयनेन सः ॥ स्मृत्वा मम वचः क्रुद्धो मह्यमन्तर्दधे ततः ॥ ३३॥
दग्ध्वा स्मरम् च तत्र एव स्व-वह्नि-नयनेन सः ॥ स्मृत्वा मम वचः क्रुद्धः मह्यम् अन्तर्दधे ततस् ॥ ३३॥
dagdhvā smaram ca tatra eva sva-vahni-nayanena saḥ .. smṛtvā mama vacaḥ kruddhaḥ mahyam antardadhe tatas .. 33..
ततः कालेन कियता विनाश्य गिरिजामदम् ॥ प्रसादितस्सुतपसा प्रसन्नोऽभून्महेश्वरः ॥ ३४॥
ततस् कालेन कियता विनाश्य गिरिजा-मदम् ॥ प्रसादितः सु तपसा प्रसन्नः अभूत् महेश्वरः ॥ ३४॥
tatas kālena kiyatā vināśya girijā-madam .. prasāditaḥ su tapasā prasannaḥ abhūt maheśvaraḥ .. 34..
लौकिकाचारमाश्रित्य रुद्रो विष्णुप्रसादितः ॥ कालीं विवाहयामास ततोऽभूद्बहुमंगलम् ॥ ३५ ॥
लौकिक-आचारम् आश्रित्य रुद्रः विष्णु-प्रसादितः ॥ कालीम् विवाहयामास ततस् अभूत् बहु-मंगलम् ॥ ३५ ॥
laukika-ācāram āśritya rudraḥ viṣṇu-prasāditaḥ .. kālīm vivāhayāmāsa tatas abhūt bahu-maṃgalam .. 35 ..
इत्येतत्कथितं तात समासाच्चरितं विभोः ॥ शंकरस्य परं दिव्यं किं भूयः श्रोतुमि च्छसि ॥ ३६॥
इति एतत् कथितम् तात समासात् चरितम् विभोः ॥ शंकरस्य परम् दिव्यम् किम् भूयस् श्रोतुम् इ ॥ ३६॥
iti etat kathitam tāta samāsāt caritam vibhoḥ .. śaṃkarasya param divyam kim bhūyas śrotum i .. 36..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां तृतीये पार्वतीखण्डे स्वप्नवर्ण्णनपू० संक्षेपशिवचरितवर्णनं नाम नवमोऽध्यायः ॥ ९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् तृतीये पार्वतीखण्डे स्वप्नवर्ण्णन-संक्षेपशिवचरितवर्णनम् नाम नवमः अध्यायः ॥ ९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām tṛtīye pārvatīkhaṇḍe svapnavarṇṇana-saṃkṣepaśivacaritavarṇanam nāma navamaḥ adhyāyaḥ .. 9 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In