| |
|

This overlay will guide you through the buttons:

अथ सतीखंडो द्वितीयः प्रारभ्यते ॥
अथ सतीखंडः द्वितीयः प्रारभ्यते ॥
atha satīkhaṃḍaḥ dvitīyaḥ prārabhyate ..
नारद उवाच ।।
विधे सर्वं विजानासि कृपया शंकरस्य च ॥ त्वयाद्भुता हि कथिताः कथा मे शिवयोश्शुभाः ॥ १॥
विधे सर्वम् विजानासि कृपया शंकरस्य च ॥ त्वया अद्भुताः हि कथिताः कथाः मे शिवयोः शुभाः ॥ १॥
vidhe sarvam vijānāsi kṛpayā śaṃkarasya ca .. tvayā adbhutāḥ hi kathitāḥ kathāḥ me śivayoḥ śubhāḥ .. 1..
त्वन्मुखांभोजसंवृत्तां श्रुत्वा शिवकथां पराम् ॥ अतृप्तो हि पुनस्तां वै श्रोतुमिच्छाम्यहं प्रभो॥ २॥
त्वद्-मुख-अंभोज-संवृत्ताम् श्रुत्वा शिव-कथाम् पराम् ॥ अतृप्तः हि पुनर् ताम् वै श्रोतुम् इच्छामि अहम् प्रभो॥ २॥
tvad-mukha-aṃbhoja-saṃvṛttām śrutvā śiva-kathām parām .. atṛptaḥ hi punar tām vai śrotum icchāmi aham prabho.. 2..
पूर्णांशश्शंकरस्यैव यो रुद्रो वर्णितः पुरा ॥ विधे त्वया महेशानः कैलासनिलयो वशी॥ ३॥
पूर्णांशः शंकरस्य एव यः रुद्रः वर्णितः पुरा ॥ विधे त्वया महेशानः कैलास-निलयः वशी॥ ३॥
pūrṇāṃśaḥ śaṃkarasya eva yaḥ rudraḥ varṇitaḥ purā .. vidhe tvayā maheśānaḥ kailāsa-nilayaḥ vaśī.. 3..
स योगी सर्वविष्ण्वादिसुरसे व्यस्सतां गतिः ॥ निर्द्वंद्वः क्रीडति सदा निर्विकारी महाप्रभुः ॥ ४ ॥
स योगी सर्व-विष्णु-आदि-सुरसे गतिः ॥ निर्द्वंद्वः क्रीडति सदा निर्विकारी महा-प्रभुः ॥ ४ ॥
sa yogī sarva-viṣṇu-ādi-surase gatiḥ .. nirdvaṃdvaḥ krīḍati sadā nirvikārī mahā-prabhuḥ .. 4 ..
सोऽभूत्पुनर्गृहस्थश्च विवाह्य परमां स्त्रियम् ॥ हरिप्रार्थनया प्रीत्या मंगलां स्वतपस्विनीम् ॥ ५॥
सः अभूत् पुनर् गृहस्थः च विवाह्य परमाम् स्त्रियम् ॥ हरि-प्रार्थनया प्रीत्या मंगलाम् स्व-तपस्विनीम् ॥ ५॥
saḥ abhūt punar gṛhasthaḥ ca vivāhya paramām striyam .. hari-prārthanayā prītyā maṃgalām sva-tapasvinīm .. 5..
प्रथमं दक्षपुत्री सा पश्चात्सा पर्वतात्मजा ॥ कथमेकशरीरेण द्वयोरप्यात्मजा मता॥ ६॥
प्रथमम् दक्ष-पुत्री सा पश्चात् सा पर्वत-आत्मजा ॥ कथम् एक-शरीरेण द्वयोः अपि आत्मजा मता॥ ६॥
prathamam dakṣa-putrī sā paścāt sā parvata-ātmajā .. katham eka-śarīreṇa dvayoḥ api ātmajā matā.. 6..
कथं सती पार्वती सा पुनश्शिवमुपागता ॥ एतत्सर्वं तथान्यच्च ब्रह्मन् गदितुमर्हसि ॥ ७॥
कथम् सती पार्वती सा पुनर् शिवम् उपागता ॥ एतत् सर्वम् तथा अन्यत् च ब्रह्मन् गदितुम् अर्हसि ॥ ७॥
katham satī pārvatī sā punar śivam upāgatā .. etat sarvam tathā anyat ca brahman gaditum arhasi .. 7..
सूत उवाच ।।
इति तस्य वचः श्रुत्वा सुरर्षेः शंकरात्मनः ॥ प्रसन्नमानसो भूत्वा ब्रह्मा वचनमब्रवीत् ॥ ८ ॥
इति तस्य वचः श्रुत्वा सुरर्षेः शंकर-आत्मनः ॥ प्रसन्न-मानसः भूत्वा ब्रह्मा वचनम् अब्रवीत् ॥ ८ ॥
iti tasya vacaḥ śrutvā surarṣeḥ śaṃkara-ātmanaḥ .. prasanna-mānasaḥ bhūtvā brahmā vacanam abravīt .. 8 ..
शृणु तात मुनिश्रेष्ठ कथयामि कथां शुभाम् ॥ यां श्रुत्वा सफलं जन्म भविष्यति न संशयः॥ ९॥
शृणु तात मुनि-श्रेष्ठ कथयामि कथाम् शुभाम् ॥ याम् श्रुत्वा सफलम् जन्म भविष्यति न संशयः॥ ९॥
śṛṇu tāta muni-śreṣṭha kathayāmi kathām śubhām .. yām śrutvā saphalam janma bhaviṣyati na saṃśayaḥ.. 9..
ब्रह्मोवाच ।।
पुराहं स्वसुतां दृष्ट्वा संध्याह्वां तनयैस्सह ॥ अभवं विकृतस्तात कामबाणप्रपीडितः ॥ 2.2.1.१० ॥
पुरा अहम् स्व-सुताम् दृष्ट्वा संध्याह्वाम् तनयैः सह ॥ अभवम् विकृतः तात काम-बाण-प्रपीडितः ॥ २।२।१।१० ॥
purā aham sva-sutām dṛṣṭvā saṃdhyāhvām tanayaiḥ saha .. abhavam vikṛtaḥ tāta kāma-bāṇa-prapīḍitaḥ .. 2.2.1.10 ..
धर्मः स्मृतस्तदा रुद्रो महायोगी परः प्रभुः॥ धिक्कृत्य मां सुतैस्तात स्वस्थानं गतवानयम् ॥ ११ ॥
धर्मः स्मृतः तदा रुद्रः महा-योगी परः प्रभुः॥ धिक्कृत्य माम् सुतैः तात स्व-स्थानम् गतवान् अयम् ॥ ११ ॥
dharmaḥ smṛtaḥ tadā rudraḥ mahā-yogī paraḥ prabhuḥ.. dhikkṛtya mām sutaiḥ tāta sva-sthānam gatavān ayam .. 11 ..
यन्मायामोहितश्चाहं वेदवक्ता च मूढधीः ॥ तेनाकार्षं सहाकार्य परमेशेन शंभुना ॥ १२ ॥
यत् माया-मोहितः च अहम् वेद-वक्ता च मूढ-धीः ॥ तेन अकार्षम् सह आकार्य परमेशेन शंभुना ॥ १२ ॥
yat māyā-mohitaḥ ca aham veda-vaktā ca mūḍha-dhīḥ .. tena akārṣam saha ākārya parameśena śaṃbhunā .. 12 ..
तदीर्षयाहमाकार्षं बहूपायान्सुतैः सह ॥ कर्तुं तन्मोहनं मूढः शिवमाया विमोहितः ॥ १३ ॥
तत् ईर्षया अहम् आकार्षम् बहु-उपायान् सुतैः सह ॥ कर्तुम् तत् मोहनम् मूढः शिव-मायाः विमोहितः ॥ १३ ॥
tat īrṣayā aham ākārṣam bahu-upāyān sutaiḥ saha .. kartum tat mohanam mūḍhaḥ śiva-māyāḥ vimohitaḥ .. 13 ..
अभवंस्तेऽथ वै सर्वे तस्मिञ् शंभो परप्रभो ॥ उपाया निष्फलास्तेषां मम चापि मुनीश्वर ॥ १४ ॥
अभवन् ते अथ वै सर्वे तस्मिन् शंभो पर-प्रभो ॥ उपायाः निष्फलाः तेषाम् मम च अपि मुनि-ईश्वर ॥ १४ ॥
abhavan te atha vai sarve tasmin śaṃbho para-prabho .. upāyāḥ niṣphalāḥ teṣām mama ca api muni-īśvara .. 14 ..
तदाऽस्मरं रमेशानं व्यथोपायस्तुतैस्सह ॥ अबोधयत्स आगत्य शिवभक्तिरतस्सुधीः ॥ १५ ॥
तदा अस्मरम् रमेशानम् व्यथा-उपाय-स्तुतैः सह ॥ अबोधयत् सः आगत्य शिव-भक्ति-रतः सुधीः ॥ १५ ॥
tadā asmaram rameśānam vyathā-upāya-stutaiḥ saha .. abodhayat saḥ āgatya śiva-bhakti-rataḥ sudhīḥ .. 15 ..
प्रबोधितो रमेशेन शिवतत्त्वप्रदर्शिना ॥ तदीर्षामत्यजं सोहं तं हठं न विमोहितः ॥ १६ ॥
प्रबोधितः रमेशेन शिवतत्त्व-प्रदर्शिना ॥ तद्-ईर्षाम् अत्यजम् तम् हठम् न विमोहितः ॥ १६ ॥
prabodhitaḥ rameśena śivatattva-pradarśinā .. tad-īrṣām atyajam tam haṭham na vimohitaḥ .. 16 ..
शक्तिं संसेव्य तत्प्रीत्योत्पादयामास तां तदा ॥ दक्षादशिक्न्यां वीरिण्यां स्वपुत्राद्धरमोहने ॥ १७ ॥
शक्तिम् संसेव्य तद्-प्रीत्या उत्पादयामास ताम् तदा ॥ दक्षादशिक्न्याम् वीरिण्याम् स्व-पुत्रात् हर-मोहने ॥ १७ ॥
śaktim saṃsevya tad-prītyā utpādayāmāsa tām tadā .. dakṣādaśiknyām vīriṇyām sva-putrāt hara-mohane .. 17 ..
सोमा भूत्वा दक्षसुता तपः कृत्वा तु दुस्सहम् ॥ रुद्रपत्न्यभवद्भक्त्या स्वभक्तहितकारिणी ॥ १८ ॥
सोमा भूत्वा दक्ष-सुता तपः कृत्वा तु दुस्सहम् ॥ रुद्र-पत्नी अभवत् भक्त्या स्व-भक्त-हित-कारिणी ॥ १८ ॥
somā bhūtvā dakṣa-sutā tapaḥ kṛtvā tu dussaham .. rudra-patnī abhavat bhaktyā sva-bhakta-hita-kāriṇī .. 18 ..
सोमो रुद्रो गृही भूत्वाऽकार्षील्लीलां परां प्रभुः ॥ मोहयित्वाथ मां तत्र स्वविवाहेऽविकारधीः ॥ ॥ १९ ॥
सोमः रुद्रः गृही भूत्वा अकार्षीत् लीलाम् पराम् प्रभुः ॥ मोहयित्वा अथ माम् तत्र स्व-विवाहे अविकार-धीः ॥ ॥ १९ ॥
somaḥ rudraḥ gṛhī bhūtvā akārṣīt līlām parām prabhuḥ .. mohayitvā atha mām tatra sva-vivāhe avikāra-dhīḥ .. .. 19 ..
विवाह्य तां स आगत्य स्वगिरौ सूतिकृत्तया ॥ रेमे बहुविमोहो हि स्वतंत्रस्स्वात्तविग्रहः ॥ 2.2.1.२० ॥
विवाह्य ताम् सः आगत्य स्व-गिरौ सूति-कृत्-तया ॥ रेमे बहु-विमोहः हि स्वतंत्रः स्व-आत्त-विग्रहः ॥ २।२।१।२० ॥
vivāhya tām saḥ āgatya sva-girau sūti-kṛt-tayā .. reme bahu-vimohaḥ hi svataṃtraḥ sva-ātta-vigrahaḥ .. 2.2.1.20 ..
तया विहरतस्तस्य व्यातीयाय महान् मुने ॥ कालस्सुखकरश्शभोर्निर्विकारस्य सद्रतेः ॥ २१ ॥
तया विहरतः तस्य व्यातीयाय महान् मुने ॥ कालः सुख-करः शभोः निर्विकारस्य सत्-रतेः ॥ २१ ॥
tayā viharataḥ tasya vyātīyāya mahān mune .. kālaḥ sukha-karaḥ śabhoḥ nirvikārasya sat-rateḥ .. 21 ..
ततो रुद्रस्य दक्षेण स्पर्द्धा जाता निजेच्छया ॥ महामूढस्य तन्मायामोहितस्य सुगर्विणः ॥ २२ ॥
ततस् रुद्रस्य दक्षेण स्पर्द्धा जाता निज-इच्छया ॥ महा-मूढस्य तद्-माया-मोहितस्य सु गर्विणः ॥ २२ ॥
tatas rudrasya dakṣeṇa sparddhā jātā nija-icchayā .. mahā-mūḍhasya tad-māyā-mohitasya su garviṇaḥ .. 22 ..
तत्प्रभावाद्धरं दक्षो महागर्वी विमूढधीः ॥ महाशांतं निर्विकारं निनिxद बहुमोहितः ॥ २३ ॥
तद्-प्रभावात् हरम् दक्षः महा-गर्वी विमूढ-धीः ॥ महा-शांतम् निर्विकारम् निनिxद बहु-मोहितः ॥ २३ ॥
tad-prabhāvāt haram dakṣaḥ mahā-garvī vimūḍha-dhīḥ .. mahā-śāṃtam nirvikāram ninixda bahu-mohitaḥ .. 23 ..
ततो दक्षः स्वयं यज्ञं कृतवान्गर्वितोऽहरम् ॥ सर्वानाहूय देवादीन् विष्णुं मां चाखिलाधिपः ॥ २४॥
ततस् दक्षः स्वयम् यज्ञम् कृतवान् गर्वितः अहरम् ॥ सर्वान् आहूय देव-आदीन् विष्णुम् माम् च अखिल-अधिपः ॥ २४॥
tatas dakṣaḥ svayam yajñam kṛtavān garvitaḥ aharam .. sarvān āhūya deva-ādīn viṣṇum mām ca akhila-adhipaḥ .. 24..
नाजुहाव तथाभूतो रुद्रं रोषसमाकुलः ॥ तथा तत्र सतीं नाम्ना स्वपुत्रीं विधिमोहितः ॥ २५॥
न आजुहाव तथाभूतः रुद्रम् रोष-समाकुलः ॥ तथा तत्र सतीम् नाम्ना स्व-पुत्रीम् विधि-मोहितः ॥ २५॥
na ājuhāva tathābhūtaḥ rudram roṣa-samākulaḥ .. tathā tatra satīm nāmnā sva-putrīm vidhi-mohitaḥ .. 25..
यदा नाकारिता पित्रा मायामोहित चेतसा॥ लीलां चकार सुज्ञाना महासाध्वी शिवा तदा॥ २६॥
यदा पित्रा चेतसा॥ लीलाम् चकार सु ज्ञाना महा-साध्वी शिवा तदा॥ २६॥
yadā pitrā cetasā.. līlām cakāra su jñānā mahā-sādhvī śivā tadā.. 26..
अथागता सती तत्र शिवाज्ञामधिगम्य सा ॥ अनाहूतापि दक्षेण गर्विणा स्वपितुर्गृहम् ॥ २७ ॥
अथा आगता सती तत्र शिव-आज्ञाम् अधिगम्य सा ॥ अन् आहूता अपि दक्षेण गर्विणा स्व-पितुः गृहम् ॥ २७ ॥
athā āgatā satī tatra śiva-ājñām adhigamya sā .. an āhūtā api dakṣeṇa garviṇā sva-pituḥ gṛham .. 27 ..
विलोक्य रुद्रभागं नो प्राप्यावज्ञां च ताततः ॥ विनिंद्य तत्र तान्सर्वान्देहत्यागमथाकरोत् ॥ २८ ॥
विलोक्य रुद्र-भागम् नो प्राप्य अवज्ञाम् च ताततः ॥ विनिंद्य तत्र तान् सर्वान् देहत्यागम् अथा अकरोत् ॥ २८ ॥
vilokya rudra-bhāgam no prāpya avajñām ca tātataḥ .. viniṃdya tatra tān sarvān dehatyāgam athā akarot .. 28 ..
तच्छुत्वा देव देवेशः क्रोधं कृत्वा तु दुस्सहम् ॥ जटामुत्कृत्य महतीं वीरभद्रमजीजनत् ॥ २९॥
तत् शुत्वा देव देवेशः क्रोधम् कृत्वा तु दुस्सहम् ॥ जटाम् उत्कृत्य महतीम् वीरभद्रम् अजीजनत् ॥ २९॥
tat śutvā deva deveśaḥ krodham kṛtvā tu dussaham .. jaṭām utkṛtya mahatīm vīrabhadram ajījanat .. 29..
सगणं तं समुत्पाद्य किं कुर्य्या मिति वादिनम् ॥ सर्वापमानपूर्वं हि यज्ञध्वंसं दिदेश ह ॥ 2.2.1.३०॥ ।
स गणम् तम् समुत्पाद्य किम् कुर्य्याम् इति वादिनम् ॥ सर्व-अपमान-पूर्वम् हि यज्ञ-ध्वंसम् दिदेश ह ॥ २।२।१।३०॥ ।
sa gaṇam tam samutpādya kim kuryyām iti vādinam .. sarva-apamāna-pūrvam hi yajña-dhvaṃsam dideśa ha .. 2.2.1.30.. .
तदाज्ञां प्राप्य स गणाधीशो बहुबलान्वितः ॥ गतोऽरं तत्र सहसा महाबलपराक्रमः ॥ ३१॥
तद्-आज्ञाम् प्राप्य स गणाधीशः बहु-बल-अन्वितः ॥ गतः अरम् तत्र सहसा महा-बल-पराक्रमः ॥ ३१॥
tad-ājñām prāpya sa gaṇādhīśaḥ bahu-bala-anvitaḥ .. gataḥ aram tatra sahasā mahā-bala-parākramaḥ .. 31..
महोपद्रवमाचेरुर्गणास्तत्र तदाज्ञया॥ सर्वान्स दंडयामास न कश्चिदवशेषितः।३२॥
महा-उपद्रवम् आचेरुः गणाः तत्र तद्-आज्ञया॥ सर्वान् स दंडयामास न कश्चिद् अवशेषितः।३२॥
mahā-upadravam āceruḥ gaṇāḥ tatra tad-ājñayā.. sarvān sa daṃḍayāmāsa na kaścid avaśeṣitaḥ.32..
विष्णुं संजित्य यत्नेन सामरं गणसत्तमः ॥ चक्रे दक्षशिरश्छेदं तच्छिरोग्नौ जुहाव च ॥ ३३ ॥
विष्णुम् संजित्य यत्नेन स अमरम् गण-सत्तमः ॥ चक्रे दक्ष-शिरः-छेदम् तद्-शिरः-अग्नौ जुहाव च ॥ ३३ ॥
viṣṇum saṃjitya yatnena sa amaram gaṇa-sattamaḥ .. cakre dakṣa-śiraḥ-chedam tad-śiraḥ-agnau juhāva ca .. 33 ..
यज्ञध्वंसं चकाराशु महोपद्रवमाचरन् ॥ ततो जगाम स्वगिरिं प्रणनाम प्रभुं शिवम् ॥ ३४ ॥
यज्ञ-ध्वंसम् चकार आशु महा-उपद्रवम् आचरन् ॥ ततस् जगाम स्व-गिरिम् प्रणनाम प्रभुम् शिवम् ॥ ३४ ॥
yajña-dhvaṃsam cakāra āśu mahā-upadravam ācaran .. tatas jagāma sva-girim praṇanāma prabhum śivam .. 34 ..
यज्ञध्वंसोऽभवच्चेत्थं देवलोके हि पश्यति ॥ रुद्रस्यानुचरैस्तत्र वीरभद्रादिभिः कृतः॥ ३५॥
यज्ञ-ध्वंसः अभवत् च इत्थम् देव-लोके हि पश्यति ॥ रुद्रस्य अनुचरैः तत्र वीरभद्र-आदिभिः कृतः॥ ३५॥
yajña-dhvaṃsaḥ abhavat ca ittham deva-loke hi paśyati .. rudrasya anucaraiḥ tatra vīrabhadra-ādibhiḥ kṛtaḥ.. 35..
मुने नीतिरियं ज्ञेया श्रुतिस्मृतिषु संमता ॥ रुद्रे रुष्टे कथं लोके सुखं भवति सुप्रभो ॥ ३६॥
मुने नीतिः इयम् ज्ञेया श्रुति-स्मृतिषु संमता ॥ रुद्रे रुष्टे कथम् लोके सुखम् भवति सु प्रभो ॥ ३६॥
mune nītiḥ iyam jñeyā śruti-smṛtiṣu saṃmatā .. rudre ruṣṭe katham loke sukham bhavati su prabho .. 36..
ततो रुद्रः प्रसन्नोभूत्स्तुतिमाकर्ण्य तां पराम् ॥ विज्ञप्तिं सफलां चक्रे सर्वेषां दीनवत्सलः ॥ ३७॥
ततस् रुद्रः प्रसन्नः भूत् स्तुतिम् आकर्ण्य ताम् पराम् ॥ विज्ञप्तिम् सफलाम् चक्रे सर्वेषाम् दीन-वत्सलः ॥ ३७॥
tatas rudraḥ prasannaḥ bhūt stutim ākarṇya tām parām .. vijñaptim saphalām cakre sarveṣām dīna-vatsalaḥ .. 37..
पूर्ववच्च कृतं तेन कृपालुत्वं महात्मना॥ शंकरेण महेशेन नानालीलावि हारिणा ॥ ३८॥
पूर्ववत् च कृतम् तेन कृपालु-त्वम् महात्मना॥ शंकरेण महेशेन नाना लीला-वि हारिणा ॥ ३८॥
pūrvavat ca kṛtam tena kṛpālu-tvam mahātmanā.. śaṃkareṇa maheśena nānā līlā-vi hāriṇā .. 38..
जीवितस्तेन दक्षो हि तत्र सर्वे हि सत्कृताः ॥ पुनस्स कारितो यज्ञः शंकरेण कृपालुना ॥ ३९॥
जीवितः तेन दक्षः हि तत्र सर्वे हि सत्कृताः ॥ पुनर् स कारितः यज्ञः शंकरेण कृपालुना ॥ ३९॥
jīvitaḥ tena dakṣaḥ hi tatra sarve hi satkṛtāḥ .. punar sa kāritaḥ yajñaḥ śaṃkareṇa kṛpālunā .. 39..
रुद्रश्च पूजितस्तत्र सर्वैर्देवैर्विशेषतः ॥ यज्ञे विश्वादिभिर्भक्त्या सुप्रसन्नात्मभिर्वने ॥ 2.2.1.४०॥ ॥
रुद्रः च पूजितः तत्र सर्वैः देवैः विशेषतः ॥ यज्ञे विश्व-आदिभिः भक्त्या सु प्रसन्न-आत्मभिः वने ॥ २।२।१।४०॥ ॥
rudraḥ ca pūjitaḥ tatra sarvaiḥ devaiḥ viśeṣataḥ .. yajñe viśva-ādibhiḥ bhaktyā su prasanna-ātmabhiḥ vane .. 2.2.1.40.. ..
सतीदेहसमुत्पन्ना ज्वाला लोकसुखावहा ॥ पतिता पर्वते तत्र पूजिता सुखदायिनी ॥ ४१ ॥
सती-देह-समुत्पन्ना ज्वाला लोक-सुख-आवहा ॥ पतिता पर्वते तत्र पूजिता सुख-दायिनी ॥ ४१ ॥
satī-deha-samutpannā jvālā loka-sukha-āvahā .. patitā parvate tatra pūjitā sukha-dāyinī .. 41 ..
ज्वालामुखीति विख्याता सर्वकामफलप्रदा ॥ बभूव परमा देवी दर्शनात्पापहारिणी ॥ ४२ ॥
ज्वालामुखी इति विख्याता सर्व-काम-फल-प्रदा ॥ बभूव परमा देवी दर्शनात् पाप-हारिणी ॥ ४२ ॥
jvālāmukhī iti vikhyātā sarva-kāma-phala-pradā .. babhūva paramā devī darśanāt pāpa-hāriṇī .. 42 ..
इदानीं पूज्यते लोके सर्वकामफलाप्तये ॥ संविधाभिरनेकाभिर्महोत्सवपरस्परम् ॥ ४३ ॥
इदानीम् पूज्यते लोके सर्व-काम-फल-आप्तये ॥ संविधाभिः अनेकाभिः महा-उत्सव-परस्परम् ॥ ४३ ॥
idānīm pūjyate loke sarva-kāma-phala-āptaye .. saṃvidhābhiḥ anekābhiḥ mahā-utsava-parasparam .. 43 ..
ततश्च सा सती देवी हिमालयसुता ऽभवत् ॥ तस्याश्च पार्वतीनाम प्रसिद्धमभवत्तदा ॥ ४४ ॥
ततस् च सा सती देवी हिमालय-सुता अभवत् ॥ तस्याः च पार्वती-नाम प्रसिद्धम् अभवत् तदा ॥ ४४ ॥
tatas ca sā satī devī himālaya-sutā abhavat .. tasyāḥ ca pārvatī-nāma prasiddham abhavat tadā .. 44 ..
सा पुनश्च समाराध्य तपसा कठिनेन वै ॥ तमेव परमेशानं भर्त्तारं समुपाश्रिता ॥ ४५ ॥
सा पुनर् च समाराध्य तपसा कठिनेन वै ॥ तम् एव परमेशानम् भर्त्तारम् समुपाश्रिता ॥ ४५ ॥
sā punar ca samārādhya tapasā kaṭhinena vai .. tam eva parameśānam bharttāram samupāśritā .. 45 ..
एतत्सर्वं समाख्यातं यत्पृष्टोहं मुनीश्वर ॥ यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥ ४६ ॥
एतत् सर्वम् समाख्यातम् यत् पृष्टः अहम् मुनि-ईश्वर ॥ यत् श्रुत्वा सर्व-पापेभ्यः मुच्यते न अत्र संशयः ॥ ४६ ॥
etat sarvam samākhyātam yat pṛṣṭaḥ aham muni-īśvara .. yat śrutvā sarva-pāpebhyaḥ mucyate na atra saṃśayaḥ .. 46 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीसंक्षेपचरित्रवर्णनं नाम प्रथमोऽध्यायः ॥ १ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीसंक्षेपचरित्रवर्णनम् नाम प्रथमः अध्यायः ॥ १ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīsaṃkṣepacaritravarṇanam nāma prathamaḥ adhyāyaḥ .. 1 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In