| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
ततस्ते मुनयः सर्वे तदाभिप्रायवेदिनः ॥ चक्रुस्तदुचितं नाम मरीचिप्रमुखास्सुताः ॥ १ ॥
ततस् ते मुनयः सर्वे तदा अभिप्राय-वेदिनः ॥ चक्रुः तत् उचितम् नाम मरीचि-प्रमुखाः सुताः ॥ १ ॥
tatas te munayaḥ sarve tadā abhiprāya-vedinaḥ .. cakruḥ tat ucitam nāma marīci-pramukhāḥ sutāḥ .. 1 ..
मुखावलोकनादेव ज्ञात्वा वृत्तांतमन्यतः ॥ दक्षादयश्च स्रष्टारः स्थानं पत्नीं च ते ददुः ॥ २॥
मुख-अवलोकनात् एव ज्ञात्वा वृत्तांतम् अन्यतस् ॥ दक्ष-आदयः च स्रष्टारः स्थानम् पत्नीम् च ते ददुः ॥ २॥
mukha-avalokanāt eva jñātvā vṛttāṃtam anyatas .. dakṣa-ādayaḥ ca sraṣṭāraḥ sthānam patnīm ca te daduḥ .. 2..
ततो निश्चित्य नामानि मरीचिप्रमुखा द्विजाः ॥ ऊचुस्संगतमेतस्मै पुरुषाय ममात्मजाः ॥ ३ ॥
ततस् निश्चित्य नामानि मरीचि-प्रमुखाः द्विजाः ॥ ऊचुः संगतम् एतस्मै पुरुषाय मम आत्मजाः ॥ ३ ॥
tatas niścitya nāmāni marīci-pramukhāḥ dvijāḥ .. ūcuḥ saṃgatam etasmai puruṣāya mama ātmajāḥ .. 3 ..
ऋषय ऊचुः ।।
यस्मात्प्रमथसे तत्त्वं जातोस्माकं यथा विधेः ॥ तस्मान्मन्मथनामा त्वं लोके ख्यातो भविष्यसि ॥ ४॥
यस्मात् प्रमथसे तत्त्वम् जातः स्माकम् यथा विधेः ॥ तस्मात् मन्मथ-नामा त्वम् लोके ख्यातः भविष्यसि ॥ ४॥
yasmāt pramathase tattvam jātaḥ smākam yathā vidheḥ .. tasmāt manmatha-nāmā tvam loke khyātaḥ bhaviṣyasi .. 4..
जगत्सु कामरूपस्त्वं त्वत्समो न हि विद्यते॥ अतस्त्वं कामनामापि ख्यातो भव मनोभव ॥ ५॥
जगत्सु कामरूपः त्वम् त्वद्-समः न हि विद्यते॥ अतस् त्वम् काम-नामा अपि ख्यातः भव मनोभव ॥ ५॥
jagatsu kāmarūpaḥ tvam tvad-samaḥ na hi vidyate.. atas tvam kāma-nāmā api khyātaḥ bhava manobhava .. 5..
मदनान्मदनाख्यस्त्वं जातो दर्पात्सदर्पकः ॥ तस्मात्कंदर्पनामापि लोके ख्यातो भविष्यसि ॥ ६॥
मदनात् मदन-आख्यः त्वम् जातः दर्पात् स दर्पकः ॥ तस्मात् कंदर्प-नामा अपि लोके ख्यातः भविष्यसि ॥ ६॥
madanāt madana-ākhyaḥ tvam jātaḥ darpāt sa darpakaḥ .. tasmāt kaṃdarpa-nāmā api loke khyātaḥ bhaviṣyasi .. 6..
त्वत्समं सर्वदेवानां यद्वीर्यं न भविष्यति ॥ ततः स्थानानि सर्वाणि सर्वव्यापी भवांस्ततः ॥ ७॥
त्वद्-समम् सर्व-देवानाम् यत् वीर्यम् न भविष्यति ॥ ततस् स्थानानि सर्वाणि सर्वव्यापी भवान् ततस् ॥ ७॥
tvad-samam sarva-devānām yat vīryam na bhaviṣyati .. tatas sthānāni sarvāṇi sarvavyāpī bhavān tatas .. 7..
दक्षोयं भवते पत्नी स्वयं दास्यति कामिनीम् ॥ आद्यः प्रजापतिर्यो हि यथेष्टं पुरुषोत्तमः ॥ ८॥
दक्षः इयम् भवते पत्नी स्वयम् दास्यति कामिनीम् ॥ आद्यः प्रजापतिः यः हि यथेष्टम् पुरुषोत्तमः ॥ ८॥
dakṣaḥ iyam bhavate patnī svayam dāsyati kāminīm .. ādyaḥ prajāpatiḥ yaḥ hi yatheṣṭam puruṣottamaḥ .. 8..
एषा च कन्यका चारुरूपा ब्रह्ममनोभवा ॥ संध्या नाम्नेति विख्याता सर्वलोके भविष्यति ॥ ९ ॥
एषा च कन्यका चारु-रूपा ब्रह्म-मनोभवा ॥ संध्या नाम्ना इति विख्याता सर्व-लोके भविष्यति ॥ ९ ॥
eṣā ca kanyakā cāru-rūpā brahma-manobhavā .. saṃdhyā nāmnā iti vikhyātā sarva-loke bhaviṣyati .. 9 ..
ब्रह्मणो ध्यायतो यस्मात्सम्यग्जाता वरांगना ॥ अतस्संध्येति विख्याता क्रांताभा तुल्यमल्लिका ॥ 2.2.3.१० ॥
ब्रह्मणः ध्यायतः यस्मात् सम्यक् जाता वर-अंगना ॥ अतस् संध्या इति विख्याता क्रान्त-आभा तुल्य-मल्लिका ॥ २।२।३।१० ॥
brahmaṇaḥ dhyāyataḥ yasmāt samyak jātā vara-aṃganā .. atas saṃdhyā iti vikhyātā krānta-ābhā tulya-mallikā .. 2.2.3.10 ..
।। ब्रह्मोवाच ।।
कौसुमानि तथास्त्राणि पंचादाय मनोभवः ॥ प्रच्छन्नरूपी तत्रैव चिंतयामास निश्चयम् ॥ ११ ॥
कौसुमानि तथा अस्त्राणि पंच आदाय मनोभवः ॥ प्रच्छन्न-रूपी तत्र एव चिंतयामास निश्चयम् ॥ ११ ॥
kausumāni tathā astrāṇi paṃca ādāya manobhavaḥ .. pracchanna-rūpī tatra eva ciṃtayāmāsa niścayam .. 11 ..
हर्षणं रोचनाख्यं च मोहनं शोषणं तथा ॥ मारणं चेति प्रोक्तानि मुनेर्मोहकराण्यपि ॥ १२ ॥
हर्षणम् रोचन-आख्यम् च मोहनम् शोषणम् तथा ॥ मारणम् च इति प्रोक्तानि मुनेः मोह-कराणि अपि ॥ १२ ॥
harṣaṇam rocana-ākhyam ca mohanam śoṣaṇam tathā .. māraṇam ca iti proktāni muneḥ moha-karāṇi api .. 12 ..
ब्रह्मणा मम यत्कर्म समुद्दिष्टं सनातनम् ॥ तदिहैव करिष्यामि मुनीनां सन्निधौ विधे ॥ १३ ॥
ब्रह्मणा मम यत् कर्म समुद्दिष्टम् सनातनम् ॥ तत् इह एव करिष्यामि मुनीनाम् सन्निधौ विधे ॥ १३ ॥
brahmaṇā mama yat karma samuddiṣṭam sanātanam .. tat iha eva kariṣyāmi munīnām sannidhau vidhe .. 13 ..
तिष्ठंति मुनयश्चात्र स्वयं चापि प्रजापतिः ॥ एतेषां साक्षिभूतं मे भविष्यंत्यद्य निश्चयम् ॥ १४॥
तिष्ठन्ति मुनयः च अत्र स्वयम् च अपि प्रजापतिः ॥ एतेषाम् साक्षि-भूतम् मे भविष्यन्ति अद्य निश्चयम् ॥ १४॥
tiṣṭhanti munayaḥ ca atra svayam ca api prajāpatiḥ .. eteṣām sākṣi-bhūtam me bhaviṣyanti adya niścayam .. 14..
संध्यापि ब्रह्मणा प्रोक्ता चेदानीं प्रेषयेद्वचः ॥ इह कर्म परीक्ष्यैव प्रयोगान्मोहयाम्यहम् ॥ १५ ॥
संध्या अपि ब्रह्मणा प्रोक्ता च इदानीम् प्रेषयेत् वचः ॥ इह कर्म परीक्ष्य एव प्रयोगात् मोहयामि अहम् ॥ १५ ॥
saṃdhyā api brahmaṇā proktā ca idānīm preṣayet vacaḥ .. iha karma parīkṣya eva prayogāt mohayāmi aham .. 15 ..
ब्रह्मोवाच ।।
इति संचित्य मनसा निश्चित्य च मनोभवः ॥ पुष्पजं पुष्पजातस्य योजयामास मार्गणैः ॥ १६ ॥
इति संचित्य मनसा निश्चित्य च मनोभवः ॥ पुष्पजम् पुष्पजातस्य योजयामास मार्गणैः ॥ १६ ॥
iti saṃcitya manasā niścitya ca manobhavaḥ .. puṣpajam puṣpajātasya yojayāmāsa mārgaṇaiḥ .. 16 ..
आलीढस्थानमासाद्य धनुराकृष्य यत्नतः ॥ चकार वलयाकारं कामो धन्विवरस्तदा ॥ १७ ॥
आलीढ-स्थानम् आसाद्य धनुः आकृष्य यत्नतः ॥ चकार वलय-आकारम् कामः धन्वि-वरः तदा ॥ १७ ॥
ālīḍha-sthānam āsādya dhanuḥ ākṛṣya yatnataḥ .. cakāra valaya-ākāram kāmaḥ dhanvi-varaḥ tadā .. 17 ..
संहिते तेन कोदंडे मारुताश्च सुगंधयः ॥ ववुस्तत्र मुनिश्रेष्ठ सम्यगाह्लादकारिणः ॥ १८ ॥
संहिते तेन कोदंडे मारुताः च सुगंधयः ॥ ववुः तत्र मुनि-श्रेष्ठ सम्यक् आह्लाद-कारिणः ॥ १८ ॥
saṃhite tena kodaṃḍe mārutāḥ ca sugaṃdhayaḥ .. vavuḥ tatra muni-śreṣṭha samyak āhlāda-kāriṇaḥ .. 18 ..
ततस्तानपि धात्रादीन् सर्वानेव च मानसान् ॥ पृथक् पुष्पशरैस्तीक्ष्णैर्मोहयामास मोहनः ॥ १९॥
ततस् तान् अपि धातृ-आदीन् सर्वान् एव च मानसान् ॥ पृथक् पुष्प-शरैः तीक्ष्णैः मोहयामास मोहनः ॥ १९॥
tatas tān api dhātṛ-ādīn sarvān eva ca mānasān .. pṛthak puṣpa-śaraiḥ tīkṣṇaiḥ mohayāmāsa mohanaḥ .. 19..
ततस्ते मुनयस्सर्वे मोहिताश्चाप्यहं मुने ॥ सहितो मनसा कंचिद्विकारं प्रापुरादितः ॥ 2.2.3.२० ॥
ततस् ते मुनयः सर्वे मोहिताः च अपि अहम् मुने ॥ सहितः मनसा कंचिद् विकारम् प्रापुः आदितस् ॥ २।२।३।२० ॥
tatas te munayaḥ sarve mohitāḥ ca api aham mune .. sahitaḥ manasā kaṃcid vikāram prāpuḥ āditas .. 2.2.3.20 ..
संध्यां सर्वे निरीक्षंतस्सविकारं मुहुर्मुहुः ॥ आसन् प्रवृद्धमदनाः स्त्री यस्मान्मदनैधिनी ॥ २१ ॥
संध्याम् सर्वे निरीक्षंतः स विकारम् मुहुर् मुहुर् ॥ आसन् प्रवृद्ध-मदनाः स्त्री यस्मात् मदन-एधिनी ॥ २१ ॥
saṃdhyām sarve nirīkṣaṃtaḥ sa vikāram muhur muhur .. āsan pravṛddha-madanāḥ strī yasmāt madana-edhinī .. 21 ..
ततः सर्वान्स मदनो मोहयित्वा पुनःपुनः ॥ यथेन्द्रियविकारं त प्रापुस्तानकरोत्तथा ॥ २२॥
ततस् सर्वान् स मदनः मोहयित्वा पुनर् पुनर् ॥ यथा इन्द्रिय-विकारम् प्रापुः तान् अकरोत् तथा ॥ २२॥
tatas sarvān sa madanaḥ mohayitvā punar punar .. yathā indriya-vikāram prāpuḥ tān akarot tathā .. 22..
उदीरितेंद्रियो धाता वीक्ष्याहं स यदा च ताम् ॥ तदैव चोनपंचाशद्भावा जाताश्शरीरतः ॥ २३ ॥
उदीरित-इंद्रियः धाता वीक्ष्य अहम् स यदा च ताम् ॥ तदा एव च ऊनपंचाशत्-भावाः जाताः शरीरतः ॥ २३ ॥
udīrita-iṃdriyaḥ dhātā vīkṣya aham sa yadā ca tām .. tadā eva ca ūnapaṃcāśat-bhāvāḥ jātāḥ śarīrataḥ .. 23 ..
सापि तैर्वीक्ष्यमाणाथ कंदर्पशरपातनात् ॥ चक्रे मुहुर्मुहुर्भावान्कटाक्षावरणादिकान् ॥ २४ ॥
सा अपि तैः वीक्ष्यमाणा अथ कंदर्प-शर-पातनात् ॥ चक्रे मुहुर् मुहुर् भावान् कटाक्ष-आवरण-आदिकान् ॥ २४ ॥
sā api taiḥ vīkṣyamāṇā atha kaṃdarpa-śara-pātanāt .. cakre muhur muhur bhāvān kaṭākṣa-āvaraṇa-ādikān .. 24 ..
निसर्गसुंदरी संध्या तान्भावान् मानसोद्भवान् ॥ कुर्वंत्यतितरां रेजे स्वर्णदीव तनूर्मिभिः ॥ २५ ॥
निसर्ग-सुंदरी संध्या तान् भावान् मानस-उद्भवान् ॥ कुर्वंती अतितराम् रेजे स्वर्णदी इव तनु-ऊर्मिभिः ॥ २५ ॥
nisarga-suṃdarī saṃdhyā tān bhāvān mānasa-udbhavān .. kurvaṃtī atitarām reje svarṇadī iva tanu-ūrmibhiḥ .. 25 ..
अथ भावयुतां संध्यां वीक्ष्याकार्षं प्रजापतिः ॥ धर्माभिपूरित तनुरभिलाषमहं मुने ॥ २६॥
अथ भाव-युताम् संध्याम् वीक्ष्य अकार्षम् प्रजापतिः ॥ धर्म-अभिपूरित तनुः अभिलाषम् अहम् मुने ॥ २६॥
atha bhāva-yutām saṃdhyām vīkṣya akārṣam prajāpatiḥ .. dharma-abhipūrita tanuḥ abhilāṣam aham mune .. 26..
ततस्ते मुनयस्सर्वे मरीच्यत्रिमुखा अपि ॥ दक्षाद्याश्च द्विजश्रेष्ठ प्रापुर्वेकारिकेन्द्रियम् ॥ २७ ॥
ततस् ते मुनयः सर्वे मरीचि-अत्रि-मुखाः अपि ॥ दक्ष-आद्याः च द्विजश्रेष्ठ प्रापुः वेकारिक-इन्द्रियम् ॥ २७ ॥
tatas te munayaḥ sarve marīci-atri-mukhāḥ api .. dakṣa-ādyāḥ ca dvijaśreṣṭha prāpuḥ vekārika-indriyam .. 27 ..
दृष्ट्वा तथाविधा दक्षमरीचिप्रमुखाश्च माम् ॥ संध्यां च कर्मणि निजे श्रद्दधे मदनस्तदा ॥ २८॥
दृष्ट्वा तथाविधाः दक्ष-मरीचि-प्रमुखाः च माम् ॥ संध्याम् च कर्मणि निजे श्रद्दधे मदनः तदा ॥ २८॥
dṛṣṭvā tathāvidhāḥ dakṣa-marīci-pramukhāḥ ca mām .. saṃdhyām ca karmaṇi nije śraddadhe madanaḥ tadā .. 28..
यदिदं ब्रह्मणा कर्म ममोद्दिष्टं मयापि तत् ॥ कर्तुं शक्यमिति ह्यद्धा भावितं स्वभुवा तदा॥ २९॥
यत् इदम् ब्रह्मणा कर्म मम उद्दिष्टम् मया अपि तत् ॥ कर्तुम् शक्यम् इति हि अद्धा भावितम् स्व-भुवा तदा॥ २९॥
yat idam brahmaṇā karma mama uddiṣṭam mayā api tat .. kartum śakyam iti hi addhā bhāvitam sva-bhuvā tadā.. 29..
इत्थं पापगतिं वीक्ष्य भ्रातॄणां च पितुस्तथा ॥ धर्मस्सस्मार शंभुं वै तदा धर्मावनं प्रभुम् ॥ 2.2.3.३० ॥
इत्थम् पाप-गतिम् वीक्ष्य भ्रातॄणाम् च पितुः तथा ॥ धर्मः सस्मार शंभुम् वै तदा धर्म-अवनम् प्रभुम् ॥ २।२।३।३० ॥
ittham pāpa-gatim vīkṣya bhrātṝṇām ca pituḥ tathā .. dharmaḥ sasmāra śaṃbhum vai tadā dharma-avanam prabhum .. 2.2.3.30 ..
संस्मरन्मनसा धर्मं शंकरं धर्मपालकम् ॥ तुष्टाव विविधैर्वाक्यैर्दीनो भूत्वाजसंभवः ॥ ३१ ॥
संस्मरन् मनसा धर्मम् शंकरम् धर्म-पालकम् ॥ तुष्टाव विविधैः वाक्यैः दीनः भूत्वा अज-संभवः ॥ ३१ ॥
saṃsmaran manasā dharmam śaṃkaram dharma-pālakam .. tuṣṭāva vividhaiḥ vākyaiḥ dīnaḥ bhūtvā aja-saṃbhavaḥ .. 31 ..
धर्म उवाच ।।
देवदेव महादेव धर्मपाल नमोस्तु ते ॥ सृष्टिस्थितिविनाशानां कर्ता शंभो त्वमेव हि ॥ ३२ ॥
देवदेव महादेव धर्मपाल नमः अस्तु ते ॥ सृष्टि-स्थिति-विनाशानाम् कर्ता शंभो त्वम् एव हि ॥ ३२ ॥
devadeva mahādeva dharmapāla namaḥ astu te .. sṛṣṭi-sthiti-vināśānām kartā śaṃbho tvam eva hi .. 32 ..
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हररूपधृक् ॥ रजस्सत्त्वतमोभिश्च त्रिगुणैरगुणः प्रभो ॥ ३३ ॥
सृष्टौ ब्रह्मा स्थितौ विष्णुः प्रलये हर-रूपधृक् ॥ रजः-सत्त्व-तमोभिः च त्रिगुणैः अगुणः प्रभो ॥ ३३ ॥
sṛṣṭau brahmā sthitau viṣṇuḥ pralaye hara-rūpadhṛk .. rajaḥ-sattva-tamobhiḥ ca triguṇaiḥ aguṇaḥ prabho .. 33 ..
निस्त्रैगुण्यः शिवः साक्षात्तुर्यश्च प्रकृतेः परः ॥ निर्गुणो निर्विकारी त्वं नानालीलाविशारदः ॥ ३४ ॥
निस्त्रैगुण्यः शिवः साक्षात् तुर्यः च प्रकृतेः परः ॥ निर्गुणः निर्विकारी त्वम् नाना लीला-विशारदः ॥ ३४ ॥
nistraiguṇyaḥ śivaḥ sākṣāt turyaḥ ca prakṛteḥ paraḥ .. nirguṇaḥ nirvikārī tvam nānā līlā-viśāradaḥ .. 34 ..
रक्षरक्ष महादेव पापान्मां दुस्तरादितः ॥ मत्पितायं तथा चेमे भ्रातरः पापबुद्धयः ॥ ३५ ॥
रक्ष रक्ष महादेव पापात् माम् दुस्तर-आदितस् ॥ मद्-पिता अयम् तथा च इमे भ्रातरः पाप-बुद्धयः ॥ ३५ ॥
rakṣa rakṣa mahādeva pāpāt mām dustara-āditas .. mad-pitā ayam tathā ca ime bhrātaraḥ pāpa-buddhayaḥ .. 35 ..
ब्रह्मोवाच।।
इति स्तुतो महेशानो धर्मेणैव परः प्रभुः ॥ तत्राजगाम शीघ्रं वै रक्षितुं धर्ममात्मभूः ॥ ३६ ॥
इति स्तुतः महेशानः धर्मेण एव परः प्रभुः ॥ तत्र आजगाम शीघ्रम् वै रक्षितुम् धर्मम् आत्मभूः ॥ ३६ ॥
iti stutaḥ maheśānaḥ dharmeṇa eva paraḥ prabhuḥ .. tatra ājagāma śīghram vai rakṣitum dharmam ātmabhūḥ .. 36 ..
जातो वियद्गतश्शंभुर्विधिं दृष्ट्वा तथाविधम्॥ मां दक्षाद्यांश्च मनसा जहासोपजहास च ॥ ३७ ॥
जातः वियत्-गतः शंभुः विधिम् दृष्ट्वा तथाविधम्॥ माम् दक्ष-आद्यान् च मनसा जहास उपजहास च ॥ ३७ ॥
jātaḥ viyat-gataḥ śaṃbhuḥ vidhim dṛṣṭvā tathāvidham.. mām dakṣa-ādyān ca manasā jahāsa upajahāsa ca .. 37 ..
स साधुवादं तान् सर्वान्विहस्य च पुनः पुनः ॥ उवाचेदं मुनिश्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८ ॥
स साधुवादम् तान् सर्वान् विहस्य च पुनर् पुनर् ॥ उवाच इदम् मुनि-श्रेष्ठ लज्जयन् वृषभध्वजः ॥ ३८ ॥
sa sādhuvādam tān sarvān vihasya ca punar punar .. uvāca idam muni-śreṣṭha lajjayan vṛṣabhadhvajaḥ .. 38 ..
शिव उवाच ।।
अहो ब्रह्मंस्तव कथं कामभावस्समुद्गतः ॥ दृष्ट्वा च तनयां नैव योग्यं वेदानुसारिणाम् ॥ ३९॥
अहो ब्रह्मन् तव कथम् काम-भावः समुद्गतः ॥ दृष्ट्वा च तनयाम् ना एव योग्यम् वेद-अनुसारिणाम् ॥ ३९॥
aho brahman tava katham kāma-bhāvaḥ samudgataḥ .. dṛṣṭvā ca tanayām nā eva yogyam veda-anusāriṇām .. 39..
यथा माता च भगिनी भ्रातृपत्नी तथा सुता ॥ एतः कुदृष्ट्या द्रष्टव्या न कदापि विपश्चिता ॥ 2.2.3.४० ॥
यथा माता च भगिनी भ्रातृ-पत्नी तथा सुता ॥ कु दृष्ट्या द्रष्टव्याः न कदापि विपश्चिता ॥ २।२।३।४० ॥
yathā mātā ca bhaginī bhrātṛ-patnī tathā sutā .. ku dṛṣṭyā draṣṭavyāḥ na kadāpi vipaścitā .. 2.2.3.40 ..
एष वै वेदमार्गस्य निश्चयस्त्वन्मुखे स्थितः ॥ कथं तु काममात्रेण स ते विस्मारितो विधे ॥ ४१ ॥
एष वै वेद-मार्गस्य निश्चयः त्वद्-मुखे स्थितः ॥ कथम् तु काम-मात्रेण स ते विस्मारितः विधे ॥ ४१ ॥
eṣa vai veda-mārgasya niścayaḥ tvad-mukhe sthitaḥ .. katham tu kāma-mātreṇa sa te vismāritaḥ vidhe .. 41 ..
धैर्ये जागरितं ब्रह्मन्मनस्ते चतुरानन ॥ कथं क्षुद्रेण कामेन रंतुं विगटितं विधे ॥ । ४२ ॥
धैर्ये जागरितम् ब्रह्मन् मनः ते चतुरानन ॥ कथम् क्षुद्रेण कामेन रंतुम् विगटितम् विधे ॥ । ४२ ॥
dhairye jāgaritam brahman manaḥ te caturānana .. katham kṣudreṇa kāmena raṃtum vigaṭitam vidhe .. . 42 ..
एकांतयोगिनस्तस्मात्सर्वदादित्यदर्शिनः ॥ कथं दक्षमरीच्याद्या लोलुपाः स्त्रीषु मानसाः ॥ ४३ ॥
एकान्त-योगिनः तस्मात् सर्वदा आदित्य-दर्शिनः ॥ कथम् दक्ष-मरीचि-आद्याः लोलुपाः स्त्रीषु मानसाः ॥ ४३ ॥
ekānta-yoginaḥ tasmāt sarvadā āditya-darśinaḥ .. katham dakṣa-marīci-ādyāḥ lolupāḥ strīṣu mānasāḥ .. 43 ..
कथं कामोपि मंदात्मा प्राबल्यात्सोधुनैव हि ॥ विकृतान्बाणैः कृतवानकालज्ञोल्पचेतनः ॥ ४४॥
कथम् कामः अपि मंद-आत्मा प्राबल्यात् सः अधुना एव हि ॥ विकृतान् बाणैः कृतवान् अकाल-ज्ञ-उल्प-चेतनः ॥ ४४॥
katham kāmaḥ api maṃda-ātmā prābalyāt saḥ adhunā eva hi .. vikṛtān bāṇaiḥ kṛtavān akāla-jña-ulpa-cetanaḥ .. 44..
धिक्तं श्रुतं सदा तस्य यस्य कांता मनोहरत् ॥ धैर्यादाकृष्य लौल्येषु मज्जयत्यपि मानसम् ॥ ४५॥
धिक् तम् श्रुतम् सदा तस्य यस्य कांता मनोहरत् ॥ धैर्यात् आकृष्य लौल्येषु मज्जयति अपि मानसम् ॥ ४५॥
dhik tam śrutam sadā tasya yasya kāṃtā manoharat .. dhairyāt ākṛṣya laulyeṣu majjayati api mānasam .. 45..
ब्रह्मोवाच ।।
इति तस्य वचः श्रुत्वा लोके सोहं शिवस्य च ॥ व्रीडया द्विगुणीभूतस्स्वेदार्द्रस्त्वभवं क्षणात् ॥ ४६॥
इति तस्य वचः श्रुत्वा लोके सः उहम् शिवस्य च ॥ व्रीडया द्विगुणीभूतः स्वेद-आर्द्रः तु अभवम् क्षणात् ॥ ४६॥
iti tasya vacaḥ śrutvā loke saḥ uham śivasya ca .. vrīḍayā dviguṇībhūtaḥ sveda-ārdraḥ tu abhavam kṣaṇāt .. 46..
ततो निगृह्यैंद्रियकं विकारं चात्यजं मुने ॥ जिघृक्षुरपि तद्भीत्या तां संध्यां कामरूपिणीम् ॥ ४७॥
ततस् निगृह्य ऐंद्रियकम् विकारम् च अत्यजम् मुने ॥ जिघृक्षुः अपि तद्-भीत्या ताम् संध्याम् कामरूपिणीम् ॥ ४७॥
tatas nigṛhya aiṃdriyakam vikāram ca atyajam mune .. jighṛkṣuḥ api tad-bhītyā tām saṃdhyām kāmarūpiṇīm .. 47..
मच्छरीरात्तु घर्मांभो यत्पपात द्विजोत्तम ॥ धर्मांभोअग्निष्वात्ताः पितृगणा जाताः पितृगणास्ततः ॥ ४८॥
मद्-शरीरात् तु घर्म-अंभः यत् पपात द्विजोत्तम ॥ धर्म-अंभः-अग्निष्वात्ताः पितृ-गणाः जाताः पितृ-गणाः ततस् ॥ ४८॥
mad-śarīrāt tu gharma-aṃbhaḥ yat papāta dvijottama .. dharma-aṃbhaḥ-agniṣvāttāḥ pitṛ-gaṇāḥ jātāḥ pitṛ-gaṇāḥ tatas .. 48..
भिन्नांजननिभास्सर्वे फुल्लराजीवलोचनाः ॥ नितांतयतयः पुण्यास्संसारविमुखाः परे ॥ ४९॥
भिन्नांजन-निभाः सर्वे फुल्ल-राजीव-लोचनाः ॥ नितान्त-यतयः पुण्याः संसार-विमुखाः परे ॥ ४९॥
bhinnāṃjana-nibhāḥ sarve phulla-rājīva-locanāḥ .. nitānta-yatayaḥ puṇyāḥ saṃsāra-vimukhāḥ pare .. 49..
सहस्राणां चतुःषष्टिरग्निष्वात्ताः प्रकीर्तिता ॥ षडशीतिसहस्राणि तथा बर्हिषदो मुने ॥ 2.2.3.५० ॥
सहस्राणाम् चतुःषष्टिः अग्निष्वात्ताः प्रकीर्तिता ॥ षष्-अशीति-सहस्राणि तथा बर्हिषदः मुने ॥ २।२।३।५० ॥
sahasrāṇām catuḥṣaṣṭiḥ agniṣvāttāḥ prakīrtitā .. ṣaṣ-aśīti-sahasrāṇi tathā barhiṣadaḥ mune .. 2.2.3.50 ..
घर्मांभः पतितं भूमौ तदा दक्षशरीरतः ॥ समस्तगुणसंपन्ना तस्माज्जाता वरांगना ॥ ५१॥
घर्मांभः पतितम् भूमौ तदा दक्ष-शरीरतः ॥ समस्त-गुण-संपन्ना तस्मात् जाता वर-अंगना ॥ ५१॥
gharmāṃbhaḥ patitam bhūmau tadā dakṣa-śarīrataḥ .. samasta-guṇa-saṃpannā tasmāt jātā vara-aṃganā .. 51..
तन्वंगी सममध्या च तनुरोमावली श्रुता ॥ मृद्वंगी चारुदशना नवकांचनसुप्रभा ॥ ५२॥
तन्वंगी सम-मध्या च तनु-रोम-आवली श्रुता ॥ मृदु-अंगी चारु-दशना नव-कांचन-सु प्रभा ॥ ५२॥
tanvaṃgī sama-madhyā ca tanu-roma-āvalī śrutā .. mṛdu-aṃgī cāru-daśanā nava-kāṃcana-su prabhā .. 52..
सर्वावयवरम्या च पूर्णचन्द्राननाम्बुजा ॥ नाम्ना रतिरिति ख्याता मुनीनामपि मोहिनी ॥ ५३॥
सर्व-अवयव-रम्या च पूर्ण-चन्द्र-आनन-अम्बुजा ॥ नाम्ना रतिः इति ख्याता मुनीनाम् अपि मोहिनी ॥ ५३॥
sarva-avayava-ramyā ca pūrṇa-candra-ānana-ambujā .. nāmnā ratiḥ iti khyātā munīnām api mohinī .. 53..
मरीचिप्रमुखा षड् वै निगृहीतेन्द्रियक्रियाः ॥ ऋते क्रतुं वसिष्ठं च पुलस्त्यांगिरसौ तथा ॥ ॥ ५४ ॥
मरीचि-प्रमुखा षष् वै निगृहीत-इन्द्रिय-क्रियाः ॥ ऋते क्रतुम् वसिष्ठम् च पुलस्त्य-अंगिरसौ तथा ॥ ॥ ५४ ॥
marīci-pramukhā ṣaṣ vai nigṛhīta-indriya-kriyāḥ .. ṛte kratum vasiṣṭham ca pulastya-aṃgirasau tathā .. .. 54 ..
क्रत्वादीनां चतुर्णां च बीजं भूमौ पपात च ॥ तेभ्यः पितृगणा जाता अपरे मुनिसत्तम॥ ५५॥
क्रतु-आदीनाम् चतुर्णाम् च बीजम् भूमौ पपात च ॥ तेभ्यः पितृ-गणाः जाताः अपरे मुनि-सत्तम॥ ५५॥
kratu-ādīnām caturṇām ca bījam bhūmau papāta ca .. tebhyaḥ pitṛ-gaṇāḥ jātāḥ apare muni-sattama.. 55..
सोमपा आज्यपा नाम्ना तथैवान्ये सुकालिनः ॥ हविष्मंतस्तु तास्सर्वे कव्यवाहाः प्रकीर्तिताः ॥ ५६ ॥
सोमपाः आज्यपाः नाम्ना तथा एव अन्ये सुकालिनः ॥ हविष्मंतः तु ताः सर्वे कव्य-वाहाः प्रकीर्तिताः ॥ ५६ ॥
somapāḥ ājyapāḥ nāmnā tathā eva anye sukālinaḥ .. haviṣmaṃtaḥ tu tāḥ sarve kavya-vāhāḥ prakīrtitāḥ .. 56 ..
क्रतोस्तु सोमपाः पुत्रा वसिष्ठात्कालिनस्तथा ॥ आज्यपाख्याः पुलस्त्यस्य हविष्मंतोंगिरस्सुताः ॥ ५७॥
क्रतोः तु सोमपाः पुत्राः वसिष्ठात् कालिनः तथा ॥ आज्यप-आख्याः पुलस्त्यस्य हविष्मंत-उंगिरः-सुताः ॥ ५७॥
kratoḥ tu somapāḥ putrāḥ vasiṣṭhāt kālinaḥ tathā .. ājyapa-ākhyāḥ pulastyasya haviṣmaṃta-uṃgiraḥ-sutāḥ .. 57..
जातेषु तेषु विप्रेन्द्र अग्निष्वात्तादिकेष्वथ॥ लोकानां पितृवर्गेषु कव्यवाह स समंततः ॥ ५८ ॥
जातेषु तेषु विप्र-इन्द्र अग्निष्वात्त-आदिकेषु अथ॥ लोकानाम् पितृ-वर्गेषु कव्य-वाह स समंततः ॥ ५८ ॥
jāteṣu teṣu vipra-indra agniṣvātta-ādikeṣu atha.. lokānām pitṛ-vargeṣu kavya-vāha sa samaṃtataḥ .. 58 ..
संध्या पितृप्रसूर्भूत्वा तदुद्देशयुताऽभवत् ॥ निर्दोषा शंभुसंदृष्टा धर्मकर्मपरायणा ॥ ५९ ॥
संध्या पितृ-प्रसूः भूत्वा तद्-उद्देश-युता अभवत् ॥ निर्दोषा शंभु-संदृष्टा धर्म-कर्म-परायणा ॥ ५९ ॥
saṃdhyā pitṛ-prasūḥ bhūtvā tad-uddeśa-yutā abhavat .. nirdoṣā śaṃbhu-saṃdṛṣṭā dharma-karma-parāyaṇā .. 59 ..
एतस्मिन्नंतरे शम्भुरनुगृह्याखिलान्द्विजान् ॥ धर्मं संरक्ष्य विधिवदंतर्धानं गतो द्रुतम् ॥ 2.2.3.६० ॥
एतस्मिन् अन्तरे शम्भुः अनुगृह्य अखिलान् द्विजान् ॥ धर्मम् संरक्ष्य विधिवत् अंतर्धानम् गतः द्रुतम् ॥ २।२।३।६० ॥
etasmin antare śambhuḥ anugṛhya akhilān dvijān .. dharmam saṃrakṣya vidhivat aṃtardhānam gataḥ drutam .. 2.2.3.60 ..
अथ शंकरवाक्येन लज्जितोहं पितामहः ॥ कंदर्प्पायाकोपिंत हि भ्रुकुटीकुटिलाननः ॥ ६१ ॥
अथ शंकर-वाक्येन लज्जितः ऊहम् पितामहः ॥ हि भ्रुकुटी-कुटिल-आननः ॥ ६१ ॥
atha śaṃkara-vākyena lajjitaḥ ūham pitāmahaḥ .. hi bhrukuṭī-kuṭila-ānanaḥ .. 61 ..
दृष्ट्वा मुखमभिप्रायं विदित्वा सोपि मन्मथः ॥ स्वबाणान्संजहाराशु भीतः पशुपतेर्मुने ॥ ६२ ॥
दृष्ट्वा मुखम् अभिप्रायम् विदित्वा सः उपि मन्मथः ॥ स्व-बाणान् संजहार आशु भीतः पशुपतेः मुने ॥ ६२ ॥
dṛṣṭvā mukham abhiprāyam viditvā saḥ upi manmathaḥ .. sva-bāṇān saṃjahāra āśu bhītaḥ paśupateḥ mune .. 62 ..
ततः कोपसमायुक्तः पद्मयोनिरहं मुने ॥ अज्वलं चातिबलवान् दिधक्षुरिव पावकः ॥ ६३ ॥
ततस् कोप-समायुक्तः पद्मयोनिः अहम् मुने ॥ अज्वलम् च अति बलवान् दिधक्षुः इव पावकः ॥ ६३ ॥
tatas kopa-samāyuktaḥ padmayoniḥ aham mune .. ajvalam ca ati balavān didhakṣuḥ iva pāvakaḥ .. 63 ..
भवनेत्राग्निनिर्दग्धः कंदर्पो दर्पमोहितः ॥ भविष्यति महादेवे कृत्वा कर्मं सुदुष्करम् ॥ ६४ ॥
भव-नेत्र-अग्नि-निर्दग्धः कंदर्पः दर्प-मोहितः ॥ भविष्यति महादेवे कृत्वा कर्मम् सु दुष्करम् ॥ ६४ ॥
bhava-netra-agni-nirdagdhaḥ kaṃdarpaḥ darpa-mohitaḥ .. bhaviṣyati mahādeve kṛtvā karmam su duṣkaram .. 64 ..
इति वेधास्त्वहं काममक्षयं द्विजसत्तम ॥ समक्षं पितृसंघस्य मुनीनां च यतात्मनाम् ॥ ६५ ॥
इति वेधाः तु अहम् कामम् अक्षयम् द्विजसत्तम ॥ समक्षम् पितृ-संघस्य मुनीनाम् च यत-आत्मनाम् ॥ ६५ ॥
iti vedhāḥ tu aham kāmam akṣayam dvijasattama .. samakṣam pitṛ-saṃghasya munīnām ca yata-ātmanām .. 65 ..
इति भीतो रतिपतिस्तत्क्षणात्त्यक्तमार्गणः ॥ प्रादुर्बभूव प्रत्यक्षं शापं श्रुत्वातिदारुणम् ॥ ६६ ॥
इति भीतः रतिपतिः तद्-क्षणात् त्यक्त-मार्गणः ॥ प्रादुर्बभूव प्रत्यक्षम् शापम् श्रुत्वा अति दारुणम् ॥ ६६ ॥
iti bhītaḥ ratipatiḥ tad-kṣaṇāt tyakta-mārgaṇaḥ .. prādurbabhūva pratyakṣam śāpam śrutvā ati dāruṇam .. 66 ..
ब्रह्माणं मामुवाचेदं स दक्षादिसुतं मुने ॥ शृण्वतां पितृसंघानां संध्यायाश्च विगर्वधीः ॥ ६७ ॥
ब्रह्माणम् माम् उवाच इदम् स दक्ष-आदि-सुतम् मुने ॥ शृण्वताम् पितृ-संघानाम् संध्यायाः च विगर्व-धीः ॥ ६७ ॥
brahmāṇam mām uvāca idam sa dakṣa-ādi-sutam mune .. śṛṇvatām pitṛ-saṃghānām saṃdhyāyāḥ ca vigarva-dhīḥ .. 67 ..
काम उवाच ।।
किमर्थं भवता ब्रह्मञ् शप्तोहमिति दारुणम् ॥ अनागास्तव लोकेश न्याय्यमार्गानुसारिणः ॥ ६८ ॥
किमर्थम् भवता ब्रह्मन् शप्ता उहम् इति दारुणम् ॥ अनागाः तव लोकेश न्याय्य-मार्ग-अनुसारिणः ॥ ६८ ॥
kimartham bhavatā brahman śaptā uham iti dāruṇam .. anāgāḥ tava lokeśa nyāyya-mārga-anusāriṇaḥ .. 68 ..
त्वया चोक्तं नु मत्कर्म यत्तद्ब्रह्मन् कृतं मया ॥ तत्र योग्यो न शापो मे यतो नान्यत्कृतं मया ॥ ६९ ॥
त्वया च उक्तम् नु मद्-कर्म यत् तत् ब्रह्मन् कृतम् मया ॥ तत्र योग्यः न शापः मे यतस् ना अन्यत् कृतम् मया ॥ ६९ ॥
tvayā ca uktam nu mad-karma yat tat brahman kṛtam mayā .. tatra yogyaḥ na śāpaḥ me yatas nā anyat kṛtam mayā .. 69 ..
अहं विष्णुस्तथा शंभुः सर्वे त्वच्छ रगोचराः ॥ इति यद्भवता प्रोक्तं तन्मयापि परीक्षितम् ॥ 2.2.3.७० ॥
अहम् विष्णुः तथा शंभुः सर्वे त्वच्छ रगोचराः ॥ इति यत् भवता प्रोक्तम् तत् मया अपि परीक्षितम् ॥ २।२।३।७० ॥
aham viṣṇuḥ tathā śaṃbhuḥ sarve tvaccha ragocarāḥ .. iti yat bhavatā proktam tat mayā api parīkṣitam .. 2.2.3.70 ..
नापराधो ममाप्यत्र ब्रह्मन् मयि निरागसि ॥ दारुणः समयश्चैव शापो देव जगत्पते ॥ ७१ ॥
न अपराधः मम अपि अत्र ब्रह्मन् मयि निरागसि ॥ दारुणः समयः च एव शापः देव जगत्पते ॥ ७१ ॥
na aparādhaḥ mama api atra brahman mayi nirāgasi .. dāruṇaḥ samayaḥ ca eva śāpaḥ deva jagatpate .. 71 ..
ब्रह्मोवाच।।
इति तस्य वचः श्रुत्वा ब्रह्माहं जगतां पतिः ॥ प्रत्यवोचं यतात्मानं मदनं दमयन्मुहुः॥ ॥ ७२ ॥
इति तस्य वचः श्रुत्वा ब्रह्मा अहम् जगताम् पतिः ॥ प्रत्यवोचम् यत-आत्मानम् मदनम् दमयन् मुहुर्॥ ॥ ७२ ॥
iti tasya vacaḥ śrutvā brahmā aham jagatām patiḥ .. pratyavocam yata-ātmānam madanam damayan muhur.. .. 72 ..
आत्मजा मम संध्येयं यस्मादेतत्स कामतः ॥ लक्ष्यीकृतोहं भवता ततश्शापो मया कृतः ॥ ७३ ॥
आत्मजा मम संध्या इयम् यस्मात् एतत् स कामतः ॥ लक्ष्यीकृतः उहम् भवता ततस् शापः मया कृतः ॥ ७३ ॥
ātmajā mama saṃdhyā iyam yasmāt etat sa kāmataḥ .. lakṣyīkṛtaḥ uham bhavatā tatas śāpaḥ mayā kṛtaḥ .. 73 ..
ब्रह्मोवाच ।।
अधुना शांतरोषोहं त्वां वदामि मनोभव ॥ शृणुष्व गतसंदेहस्सुखी भव भयं त्यज ॥ ७४॥
अधुना शांत-रोषः हम् त्वाम् वदामि मनोभव ॥ शृणुष्व गत-संदेहः सुखी भव भयम् त्यज ॥ ७४॥
adhunā śāṃta-roṣaḥ ham tvām vadāmi manobhava .. śṛṇuṣva gata-saṃdehaḥ sukhī bhava bhayam tyaja .. 74..
त्वं भस्म भूत्वा मदन भर्गलोचनवह्निना ॥ तथैवाशु समं पश्चाच्छरीरं प्रापयिष्यसि ॥ ७५ ॥
त्वम् भस्म भूत्वा मदन भर्ग-लोचन-वह्निना ॥ तथा एव आशु समम् पश्चात् शरीरम् प्रापयिष्यसि ॥ ७५ ॥
tvam bhasma bhūtvā madana bharga-locana-vahninā .. tathā eva āśu samam paścāt śarīram prāpayiṣyasi .. 75 ..
यदा करिष्यति हरोंजसा दारपरिग्रहम् ॥ तदा स एव भवतश्शरीरं प्रापयिष्यति ॥ ७६ ॥
यदा करिष्यति हरः उंजसा दार-परिग्रहम् ॥ तदा सः एव भवतः शरीरम् प्रापयिष्यति ॥ ७६ ॥
yadā kariṣyati haraḥ uṃjasā dāra-parigraham .. tadā saḥ eva bhavataḥ śarīram prāpayiṣyati .. 76 ..
ब्रह्मोवाच ।।
एवमुक्त्वाथ मदनमहं लोकपितामहः ॥ अंतर्गतो मुनीन्द्राणां मानसानां प्रपश्यताम् ॥ ७७॥
एवम् उक्त्वा अथ मदन-महम् लोकपितामहः ॥ अंतर्गतः मुनि-इन्द्राणाम् मानसानाम् प्रपश्यताम् ॥ ७७॥
evam uktvā atha madana-maham lokapitāmahaḥ .. aṃtargataḥ muni-indrāṇām mānasānām prapaśyatām .. 77..
इत्येवं मे वचश्श्रुत्वा मदनस्तेपि मानसाः ॥ संबभूवुस्सुतास्सर्वे सुखिनोऽरं गृहं गताः ॥ ७८॥
इति एवम् मे वचः श्रुत्वा मदनः ते अपि मानसाः ॥ संबभूवुः सुताः सर्वे सुखिनः अरम् गृहम् गताः ॥ ७८॥
iti evam me vacaḥ śrutvā madanaḥ te api mānasāḥ .. saṃbabhūvuḥ sutāḥ sarve sukhinaḥ aram gṛham gatāḥ .. 78..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामशापानुग्रहो नाम तृतीयोऽध्यायः ॥ ३॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे कामशापानुग्रहः नाम तृतीयः अध्यायः ॥ ३॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe kāmaśāpānugrahaḥ nāma tṛtīyaḥ adhyāyaḥ .. 3..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In