| |
|

This overlay will guide you through the buttons:

ब्रह्मन् विधे महाभाग धन्यस्त्वं शिवसक्तधीः॥ कथितं सुचरित्रं ते शंकरस्य परात्मनः॥ १॥
ब्रह्मन् विधे महाभाग धन्यः त्वम् शिव-सक्त-धीः॥ कथितम् सु चरित्रम् ते शंकरस्य परात्मनः॥ १॥
brahman vidhe mahābhāga dhanyaḥ tvam śiva-sakta-dhīḥ.. kathitam su caritram te śaṃkarasya parātmanaḥ.. 1..
नारद उवाच।।
निजाश्रमे गते कामे सगणे सरतौ ततः॥ किमासीत्किमकार्षीस्त्वं तश्चरित्रं वदाधुना ॥ २॥
निज-आश्रमे गते कामे स गणे स रतौ ततस्॥ किम् आसीत् किम् अकार्षीः त्वम् तः चरित्रम् वद अधुना ॥ २॥
nija-āśrame gate kāme sa gaṇe sa ratau tatas.. kim āsīt kim akārṣīḥ tvam taḥ caritram vada adhunā .. 2..
ब्रह्मोवाच।।
शृणु नारद सुप्रीत्या चरित्रं शशिमौलिनः॥ यस्य श्रवणमात्रेण निर्विकारो भवेन्नरः ॥ ३ ॥
शृणु नारद सु प्रीत्या चरित्रम् शशिमौलिनः॥ यस्य श्रवण-मात्रेण निर्विकारः भवेत् नरः ॥ ३ ॥
śṛṇu nārada su prītyā caritram śaśimaulinaḥ.. yasya śravaṇa-mātreṇa nirvikāraḥ bhavet naraḥ .. 3 ..
निजाश्रमं गते कामे परिवारसमन्विते॥ यद्बभूव तदा जातं तच्चरित्रं निबोध मे ॥ ४॥
निज-आश्रमम् गते कामे परिवार-समन्विते॥ यत् बभूव तदा जातम् तत् चरित्रम् निबोध मे ॥ ४॥
nija-āśramam gate kāme parivāra-samanvite.. yat babhūva tadā jātam tat caritram nibodha me .. 4..
नष्टोभून्नारद मदो विस्मयोऽभूच्च मे हृदि ॥ निरानंदस्य च मुनेऽपूर्णो निजमनोरथे॥ ५॥
नष्टः उभूत् नारद मदः विस्मयः अभूत् च मे हृदि ॥ निरानंदस्य च मुने अपूर्णः निज-मनोरथे॥ ५॥
naṣṭaḥ ubhūt nārada madaḥ vismayaḥ abhūt ca me hṛdi .. nirānaṃdasya ca mune apūrṇaḥ nija-manorathe.. 5..
अशोचं बहुधा चित्ते गृह्णीयात्स कथं स्त्रियम् ॥ निर्विकारी जितात्मा स शंकरो योगतत्परः॥ ६॥
अ शोचम् बहुधा चित्ते गृह्णीयात् स कथम् स्त्रियम् ॥ निर्विकारी जित-आत्मा स शंकरः योग-तत्परः॥ ६॥
a śocam bahudhā citte gṛhṇīyāt sa katham striyam .. nirvikārī jita-ātmā sa śaṃkaraḥ yoga-tatparaḥ.. 6..
इत्थं विचार्य बहुधा तदाहं विमदो मुने ॥ हरिं तं सोऽस्मरं भक्त्या शिवात्मानं स्वदेहदम् ॥ ७॥
इत्थम् विचार्य बहुधा तदा अहम् विमदः मुने ॥ हरिम् तम् सः अस्मरम् भक्त्या शिव-आत्मानम् स्व-देह-दम् ॥ ७॥
ittham vicārya bahudhā tadā aham vimadaḥ mune .. harim tam saḥ asmaram bhaktyā śiva-ātmānam sva-deha-dam .. 7..
अस्तवं च शुभस्तोत्रैर्दीनवाक्यसमन्वितैः॥ तच्छ्रुत्वा भगवानाशु बभूवाविर्हि मे पुरा॥ ८॥
अस्तवम् च शुभ-स्तोत्रैः दीन-वाक्य-समन्वितैः॥ तत् श्रुत्वा भगवान् आशु बभूव आविस् हि मे पुरा॥ ८॥
astavam ca śubha-stotraiḥ dīna-vākya-samanvitaiḥ.. tat śrutvā bhagavān āśu babhūva āvis hi me purā.. 8..
चतुर्भुजोरविंदाक्षः शंरववार्ज गदाधरः॥ लसत्पीत पटश्श्यामतनुर्भक्तप्रियो हरिः ॥ ९ ॥
चतुर्-भुज-उरविंद-अक्षः गदा-धरः॥ लसत्-पीत-पटः श्याम-तनुः भक्त-प्रियः हरिः ॥ ९ ॥
catur-bhuja-uraviṃda-akṣaḥ gadā-dharaḥ.. lasat-pīta-paṭaḥ śyāma-tanuḥ bhakta-priyaḥ hariḥ .. 9 ..
तं दृष्ट्वा तादृशमहं सुशरण्यं मुहुर्मुहुः ॥ अस्तवं च पुनः प्रेम्णा बाष्पगद्गदया गिरा ॥ 2.2.10.१०॥
तम् दृष्ट्वा तादृशम् अहम् सु शरण्यम् मुहुर् मुहुर् ॥ अस्तवम् च पुनर् प्रेम्णा बाष्प-गद्गदया गिरा ॥ २।२।१०।१०॥
tam dṛṣṭvā tādṛśam aham su śaraṇyam muhur muhur .. astavam ca punar premṇā bāṣpa-gadgadayā girā .. 2.2.10.10..
हरिराकर्ण्य तत्स्तोत्रं सुप्रसन्न उवाच माम् ॥ दुःखहा निजभक्तानां ब्रह्माणं शरणं गतम् ॥ ११ ॥
हरिः आकर्ण्य तत् स्तोत्रम् सु प्रसन्नः उवाच माम् ॥ दुःख-हा निज-भक्तानाम् ब्रह्माणम् शरणम् गतम् ॥ ११ ॥
hariḥ ākarṇya tat stotram su prasannaḥ uvāca mām .. duḥkha-hā nija-bhaktānām brahmāṇam śaraṇam gatam .. 11 ..
हरिरुवाच ।।
विधे ब्रह्मन् महाप्राज्ञ धन्यस्त्वं लोककारक ॥ किमर्थं स्मरणं मेऽद्य कृतं च क्रियते नुतिः ॥ १२॥
विधे ब्रह्मन् महा-प्राज्ञ धन्यः त्वम् लोक-कारक ॥ किमर्थम् स्मरणम् मे अद्य कृतम् च क्रियते नुतिः ॥ १२॥
vidhe brahman mahā-prājña dhanyaḥ tvam loka-kāraka .. kimartham smaraṇam me adya kṛtam ca kriyate nutiḥ .. 12..
किं जातं ते महद्दुःखं मदग्रे तद्वदाधुना ॥ शमयिष्यामि तत्सर्वं नात्र कार्य्या विचारणा ॥ १३ ॥
किम् जातम् ते महत् दुःखम् मद्-अग्रे तत् वद अधुना ॥ शमयिष्यामि तत् सर्वम् न अत्र कार्या विचारणा ॥ १३ ॥
kim jātam te mahat duḥkham mad-agre tat vada adhunā .. śamayiṣyāmi tat sarvam na atra kāryā vicāraṇā .. 13 ..
ब्रह्मोवाच ।।
इति विष्णोर्वचश्श्रुत्वा किंचिदुच्छवसिताननः ॥ अवोच वचनं विष्णुं प्रणम्य सुकृतांजलिः ॥ १४ ॥
इति विष्णोः वचः श्रुत्वा किंचिद् उच्छवसित-आननः ॥ अवोच वचनम् विष्णुम् प्रणम्य सु कृत-अंजलिः ॥ १४ ॥
iti viṣṇoḥ vacaḥ śrutvā kiṃcid ucchavasita-ānanaḥ .. avoca vacanam viṣṇum praṇamya su kṛta-aṃjaliḥ .. 14 ..
ब्रह्मोवाच ।।
देवदेव रमानाथ मद्वार्तां शृणु मानद ॥ श्रुत्वा च करुणां कृत्वा हर दुःखं कमावह ॥ १५॥
देवदेव रमानाथ मद्-वार्ताम् शृणु मानद ॥ श्रुत्वा च करुणाम् कृत्वा हर दुःखम् कम् आवह ॥ १५॥
devadeva ramānātha mad-vārtām śṛṇu mānada .. śrutvā ca karuṇām kṛtvā hara duḥkham kam āvaha .. 15..
रुद्रसंमोहनार्थं हि कामं प्रेषितवानहम् ॥ परिवारयुतं विष्णो समारमधुबांधवम् ॥ १६॥
रुद्र-संमोहन-अर्थम् हि कामम् प्रेषितवान् अहम् ॥ परिवार-युतम् विष्णो समारमधु-बांधवम् ॥ १६॥
rudra-saṃmohana-artham hi kāmam preṣitavān aham .. parivāra-yutam viṣṇo samāramadhu-bāṃdhavam .. 16..
चक्रुस्ते विविधोपायान् निष्फला अभवंश्च ते ॥ अभवत्तस्य संमोहो योगिनस्समदर्शिनः ॥ १७॥
चक्रुः ते विविध-उपायान् निष्फलाः अभवन् च ते ॥ अभवत् तस्य संमोहः योगिनः सम-दर्शिनः ॥ १७॥
cakruḥ te vividha-upāyān niṣphalāḥ abhavan ca te .. abhavat tasya saṃmohaḥ yoginaḥ sama-darśinaḥ .. 17..
इत्याकर्ण्य वचो मे स हरिर्मां प्राह विस्मितः ॥ विज्ञाताखिलदज्ञानी शिवतत्त्वविशारदः ॥ १८ ॥
इति आकर्ण्य वचः मे स हरिः माम् प्राह विस्मितः ॥ ॥ १८ ॥
iti ākarṇya vacaḥ me sa hariḥ mām prāha vismitaḥ .. .. 18 ..
विष्णुरुवाच ।।
कस्माद्धेतोरिति मतिस्तव जाता पितामह ॥ सर्वं विचार्य सुधिया ब्रह्मन् सत्यं हि तद्वद ॥ १९ ॥
कस्मात् हेतोः इति मतिः तव जाता पितामह ॥ सर्वम् विचार्य सुधिया ब्रह्मन् सत्यम् हि तत् वद ॥ १९ ॥
kasmāt hetoḥ iti matiḥ tava jātā pitāmaha .. sarvam vicārya sudhiyā brahman satyam hi tat vada .. 19 ..
ब्रह्मोवाच ।।
शृणु तात चरित्रं तत् तव माया विमोहिनी ॥ तदधीनं जगत्सर्वं सुखदुःखादितत्परम् ॥ 2.2.10.२०॥
शृणु तात चरित्रम् तत् तव माया विमोहिनी ॥ तद्-अधीनम् जगत् सर्वम् सुख-दुःख-आदि-तत्परम् ॥ २।२।१०।२०॥
śṛṇu tāta caritram tat tava māyā vimohinī .. tad-adhīnam jagat sarvam sukha-duḥkha-ādi-tatparam .. 2.2.10.20..
ययैव प्रेषितश्चाहं पापं कर्तुं समुद्यतः ॥ आसं तच्छृणु देवेश वदामि तव शासनात् ॥ २१॥
यया एव प्रेषितः च अहम् पापम् कर्तुम् समुद्यतः ॥ आसम् तत् शृणु देवेश वदामि तव शासनात् ॥ २१॥
yayā eva preṣitaḥ ca aham pāpam kartum samudyataḥ .. āsam tat śṛṇu deveśa vadāmi tava śāsanāt .. 21..
सृष्टिप्रारंभसमये दश पुत्रा हि जज्ञिरे ॥ दक्षाद्यास्तनया चैका वाग्भवाप्यतिसुन्दरी ॥ २२ ॥
सृष्टि-प्रारंभ-समये दश पुत्राः हि जज्ञिरे ॥ दक्ष-आद्याः तनया च एका वाग्भवा अपि अति सुन्दरी ॥ २२ ॥
sṛṣṭi-prāraṃbha-samaye daśa putrāḥ hi jajñire .. dakṣa-ādyāḥ tanayā ca ekā vāgbhavā api ati sundarī .. 22 ..
धर्मो वक्षःस्थलात्कामो मनसोन्योपि देहतः ॥ जातास्तत्र सुतां दृष्ट्वा मम मोहो भवद्धरे ॥ २३॥
धर्मः वक्षःस्थलात् कामः मनसः अन्यः अपि देहतः ॥ जाताः तत्र सुताम् दृष्ट्वा मम मोहः भवत्-हरे ॥ २३॥
dharmaḥ vakṣaḥsthalāt kāmaḥ manasaḥ anyaḥ api dehataḥ .. jātāḥ tatra sutām dṛṣṭvā mama mohaḥ bhavat-hare .. 23..
कुदृष्ट्या तां समद्राक्ष तव मायाविमोहितः ॥ तत्क्षणाद्धर आगत्य मामनिन्दत्सुतानपि ॥ २४॥
कुदृष्ट्या ताम् समद्राक्ष तव माया-विमोहितः ॥ तद्-क्षणात् हरः आगत्य माम् अनिन्दत् सुतान् अपि ॥ २४॥
kudṛṣṭyā tām samadrākṣa tava māyā-vimohitaḥ .. tad-kṣaṇāt haraḥ āgatya mām anindat sutān api .. 24..
धिक्कारं कृतवान् सर्वान्निजं मत्वा परप्रभुम् ॥ ज्ञानिनं योगिनं नाथाभोगिनं विजितेन्द्रियम्॥ २५॥
धिक्कारम् कृतवान् सर्वान् निजम् मत्वा पर-प्रभुम् ॥ ज्ञानिनम् योगिनम् नाथ-अभोगिनम् विजित-इन्द्रियम्॥ २५॥
dhikkāram kṛtavān sarvān nijam matvā para-prabhum .. jñāninam yoginam nātha-abhoginam vijita-indriyam.. 25..
पुत्रो भूत्वा मम हरेऽनिन्दन्मां च समक्षतः ॥ इति दुःखं महन्मे हि तदुक्तं तव सन्निधौ ॥ २६॥
पुत्रः भूत्वा मम हरे अनिन्दत् माम् च समक्षतः ॥ इति दुःखम् महत् मे हि तत् उक्तम् तव सन्निधौ ॥ २६॥
putraḥ bhūtvā mama hare anindat mām ca samakṣataḥ .. iti duḥkham mahat me hi tat uktam tava sannidhau .. 26..
गृह्णीयाद्यदि पत्नीं स स्यां सुखी नष्टदुःखधी ॥ एतदर्थं समायातुश्शरणं तव केशव ॥ २७ ॥
गृह्णीयात् यदि पत्नीम् स स्याम् सुखी नष्ट-दुःख-धी ॥ एतद्-अर्थम् समायातुः शरणम् तव केशव ॥ २७ ॥
gṛhṇīyāt yadi patnīm sa syām sukhī naṣṭa-duḥkha-dhī .. etad-artham samāyātuḥ śaraṇam tava keśava .. 27 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि ब्रह्मणो मधुसूदनः ॥ विहस्य मां द्रुतं प्राह हर्षयन्भवकारकम् ॥ २८ ॥
इति आकर्ण्य वचः मे हि ब्रह्मणः मधुसूदनः ॥ विहस्य माम् द्रुतम् प्राह हर्षयन् भव-कारकम् ॥ २८ ॥
iti ākarṇya vacaḥ me hi brahmaṇaḥ madhusūdanaḥ .. vihasya mām drutam prāha harṣayan bhava-kārakam .. 28 ..
विष्णुरुवाच ।।
विधे शृणु हि मद्वाक्यं सर्वं भ्रमनिवारणम् ॥ सर्वं वेदागमादीनां संमतं परमार्थतः ॥ २९ ॥
विधे शृणु हि मद्-वाक्यम् सर्वम् भ्रम-निवारणम् ॥ सर्वम् वेद-आगम-आदीनाम् संमतम् परमार्थतः ॥ २९ ॥
vidhe śṛṇu hi mad-vākyam sarvam bhrama-nivāraṇam .. sarvam veda-āgama-ādīnām saṃmatam paramārthataḥ .. 29 ..
महामूढमतिश्चाद्य संजातोसि कथं विधे ॥ वेदवक्तापि निखिललोककर्त्ता हि दुर्मतिः ॥ 2.2.10.३० ॥
महा-मूढ-मतिः च अद्य संजातः असि कथम् विधे ॥ वेद-वक्ता अपि निखिल-लोक-कर्त्ता हि दुर्मतिः ॥ २।२।१०।३० ॥
mahā-mūḍha-matiḥ ca adya saṃjātaḥ asi katham vidhe .. veda-vaktā api nikhila-loka-karttā hi durmatiḥ .. 2.2.10.30 ..
जडतां त्यज मन्दात्मन् कुरु त्वं नेदृशीं मतिम् ॥ किं ब्रुवंत्यखिला वेदाः स्तुत्या तत्स्मर सद्धिया ॥ ३१ ॥
जड-ताम् त्यज मन्द-आत्मन् कुरु त्वम् ना ईदृशीम् मतिम् ॥ किम् ब्रुवन्ति अखिलाः वेदाः स्तुत्या तत् स्मर सत्-धिया ॥ ३१ ॥
jaḍa-tām tyaja manda-ātman kuru tvam nā īdṛśīm matim .. kim bruvanti akhilāḥ vedāḥ stutyā tat smara sat-dhiyā .. 31 ..
रुद्रं जानासि दुर्बुद्धे स्वसुतं परमेश्वरम् ॥ वेदवक्तापि विज्ञानं विस्मृतं तेखिलं विधे ॥ ३२ ॥
रुद्रम् जानासि दुर्बुद्धे स्व-सुतम् परमेश्वरम् ॥ वेद-वक्ता अपि विज्ञानम् विस्मृतम् तेखिलम् विधे ॥ ३२ ॥
rudram jānāsi durbuddhe sva-sutam parameśvaram .. veda-vaktā api vijñānam vismṛtam tekhilam vidhe .. 32 ..
शंकरं सुरसामान्यं मत्वा द्रोहं करोषि हि ॥ सुबुद्धिर्विगता तेद्याविर्भूता कुमतिस्तथा ॥ ३३॥
शंकरम् सुर-सामान्यम् मत्वा द्रोहम् करोषि हि ॥ सुबुद्धिः विगता तेद्या आविर्भूता कुमतिः तथा ॥ ३३॥
śaṃkaram sura-sāmānyam matvā droham karoṣi hi .. subuddhiḥ vigatā tedyā āvirbhūtā kumatiḥ tathā .. 33..
तत्त्वसिद्धांतमाख्यातं शृणु सद्बुद्धिमावह ॥ यथार्थं निगमाख्यातं निर्णीय भवकारकम् ॥ ३४॥
तत्त्व-सिद्धांतम् आख्यातम् शृणु सत्-बुद्धिम् आवह ॥ यथार्थम् निगम-आख्यातम् निर्णीय भव-कारकम् ॥ ३४॥
tattva-siddhāṃtam ākhyātam śṛṇu sat-buddhim āvaha .. yathārtham nigama-ākhyātam nirṇīya bhava-kārakam .. 34..
शिवस्सर्वस्वकर्ता हि भर्ता हर्ता परात्परः ॥ परब्रह्म परेशश्च निर्गुणो नित्य एव च । ३५ ॥
शिवः सर्व-स्व-कर्ता हि भर्ता हर्ता परात्परः ॥ पर-ब्रह्म पर-ईशः च निर्गुणः नित्यः एव च । ३५ ॥
śivaḥ sarva-sva-kartā hi bhartā hartā parātparaḥ .. para-brahma para-īśaḥ ca nirguṇaḥ nityaḥ eva ca . 35 ..
अनिर्देश्यो निर्विकारी परमात्माऽद्वयोऽच्युतः ॥ अनंतोंतकरः स्वामी व्यापकः परमेश्वरः ॥ ३६ ॥
अनिर्देश्यः निर्विकारी परमात्मा अद्वयः अच्युतः ॥ स्वामी व्यापकः परमेश्वरः ॥ ३६ ॥
anirdeśyaḥ nirvikārī paramātmā advayaḥ acyutaḥ .. svāmī vyāpakaḥ parameśvaraḥ .. 36 ..
सृष्टिस्थितिविनाशानां कर्त्ता त्रिगुणभाग्विभुः ॥ ब्रह्मविष्णुमहेशाख्यो रजस्सत्त्व तमःपरः ॥ ३७ ॥
सृष्टि-स्थिति-विनाशानाम् कर्त्ता त्रिगुण-भाज् विभुः ॥ ब्रह्म-विष्णु-महेश-आख्यः ॥ ३७ ॥
sṛṣṭi-sthiti-vināśānām karttā triguṇa-bhāj vibhuḥ .. brahma-viṣṇu-maheśa-ākhyaḥ .. 37 ..
मायाभिन्नो निरीहश्च मायो मायाविशारदः ॥ सगुणोपि स्वतंत्रश्च निजानंदो विकल्पकः ॥ ३८ ॥
माया-भिन्नः निरीहः च मायः माया-विशारदः ॥ स गुणः अपि स्वतंत्रः च निज-आनंदः विकल्पकः ॥ ३८ ॥
māyā-bhinnaḥ nirīhaḥ ca māyaḥ māyā-viśāradaḥ .. sa guṇaḥ api svataṃtraḥ ca nija-ānaṃdaḥ vikalpakaḥ .. 38 ..
आत्मा रामो हि निर्द्वन्द्वो भक्ताधीनस्सुविग्रहः ॥ योगी योगरतो नित्यं योगमार्गप्रदर्शकः ॥ ३९ ॥
आत्मा रामः हि निर्द्वन्द्वः भक्त-अधीनः सु विग्रहः ॥ योगी योग-रतः नित्यम् योग-मार्ग-प्रदर्शकः ॥ ३९ ॥
ātmā rāmaḥ hi nirdvandvaḥ bhakta-adhīnaḥ su vigrahaḥ .. yogī yoga-rataḥ nityam yoga-mārga-pradarśakaḥ .. 39 ..
गर्वापहारी लोकेशस्सर्वदा दीनवत्सलः ॥ एतादृशो हि यः स्वामी स्वपुत्रं मन्यसे हि तम् ॥ 2.2.10.४० ॥
गर्व-अपहारी लोकेशः सर्वदा दीन-वत्सलः ॥ एतादृशः हि यः स्वामी स्व-पुत्रम् मन्यसे हि तम् ॥ २।२।१०।४० ॥
garva-apahārī lokeśaḥ sarvadā dīna-vatsalaḥ .. etādṛśaḥ hi yaḥ svāmī sva-putram manyase hi tam .. 2.2.10.40 ..
ईदृशं त्यज कुज्ञानं शरणं व्रज तस्य वै ॥ भज सर्वात्मना शम्भुं सन्तुष्टश्शं विधास्यति ॥ ४१ ॥
ईदृशम् त्यज कुज्ञानम् शरणम् व्रज तस्य वै ॥ भज सर्व-आत्मना शम्भुम् सन् तुष्टः शम् विधास्यति ॥ ४१ ॥
īdṛśam tyaja kujñānam śaraṇam vraja tasya vai .. bhaja sarva-ātmanā śambhum san tuṣṭaḥ śam vidhāsyati .. 41 ..
गृह्णीयाच्छंकरः पत्नीं विचारो हृदि चेत्तव ॥ शिवामुद्दिश्य सुतपः कुरु ब्रह्मन् शिवं स्मरन् ॥ ४२॥
गृह्णीयात् शंकरः पत्नीम् विचारः हृदि चेद् तव ॥ शिवाम् उद्दिश्य सु तपः कुरु ब्रह्मन् शिवम् स्मरन् ॥ ४२॥
gṛhṇīyāt śaṃkaraḥ patnīm vicāraḥ hṛdi ced tava .. śivām uddiśya su tapaḥ kuru brahman śivam smaran .. 42..
कुरु ध्यानं शिवायात्स्वं काममुद्दिश्य तं हृदि ॥ सा चेत्प्रसन्ना देवेशी सर्वं कार्यं विधास्यति ॥ ४३॥
कुरु ध्यानम् शिवायाः स्वम् कामम् उद्दिश्य तम् हृदि ॥ सा चेद् प्रसन्ना देवेशी सर्वम् कार्यम् विधास्यति ॥ ४३॥
kuru dhyānam śivāyāḥ svam kāmam uddiśya tam hṛdi .. sā ced prasannā deveśī sarvam kāryam vidhāsyati .. 43..
कृत्वावतारं सगुणा यदि स्यान्मानुषी शिवा ॥ कस्यचित्तनया लोके सा तत्पत्नी भवेद्ध्रुवम्॥ ४४॥
कृत्वा अवतारम् स गुणा यदि स्यात् मानुषी शिवा ॥ कस्यचिद् तनया लोके सा तद्-पत्नी भवेत् ध्रुवम्॥ ४४॥
kṛtvā avatāram sa guṇā yadi syāt mānuṣī śivā .. kasyacid tanayā loke sā tad-patnī bhavet dhruvam.. 44..
दक्षमाज्ञापय ब्रह्मन् तपः कुर्य्यात्प्रयत्नतः ॥ तामुत्पादयितुं पत्नीं शिवार्थं भक्तितत्स्वतः ॥ ४५॥
दक्षम् आज्ञापय ब्रह्मन् तपः कुर्य्यात् प्रयत्नतः ॥ ताम् उत्पादयितुम् पत्नीम् शिव-अर्थम् भक्ति-तद्-स्वतः ॥ ४५॥
dakṣam ājñāpaya brahman tapaḥ kuryyāt prayatnataḥ .. tām utpādayitum patnīm śiva-artham bhakti-tad-svataḥ .. 45..
भक्ताधीनौ च तौ तात सुविज्ञेयौ शिवाशिवौ ॥ स्वेच्छया सगुणौ जातौ परब्रह्मस्वरूपिणौ ॥ ४६॥
भक्त-अधीनौ च तौ तात सु विज्ञेयौ शिव-अशिवौ ॥ स्व-इच्छया स गुणौ जातौ पर-ब्रह्म-स्वरूपिणौ ॥ ४६॥
bhakta-adhīnau ca tau tāta su vijñeyau śiva-aśivau .. sva-icchayā sa guṇau jātau para-brahma-svarūpiṇau .. 46..
ब्रह्मोवाच ।। ।।
इत्युक्त्वा तत्क्षणं मेशश्शिवं सस्मार स्वप्रभुम् ॥ कृपया तस्य संप्राप्य ज्ञानमूचे च मां ततः ॥ ४७ ॥
इति उक्त्वा तद्-क्षणम् मा ईशः शिवम् सस्मार स्व-प्रभुम् ॥ कृपया तस्य संप्राप्य ज्ञानम् ऊचे च माम् ततस् ॥ ४७ ॥
iti uktvā tad-kṣaṇam mā īśaḥ śivam sasmāra sva-prabhum .. kṛpayā tasya saṃprāpya jñānam ūce ca mām tatas .. 47 ..
विष्णुरुवाच ।।
विधे स्मर पुरोक्तं यद्वचनं शंकरेण च ॥ प्रार्थितेन यदावाभ्यामुत्पन्नाभ्यां तदिच्छया ॥ ४८ ॥
विधे स्मर पुरा उक्तम् यत् वचनम् शंकरेण च ॥ प्रार्थितेन यत् आवाभ्याम् उत्पन्नाभ्याम् तद्-इच्छया ॥ ४८ ॥
vidhe smara purā uktam yat vacanam śaṃkareṇa ca .. prārthitena yat āvābhyām utpannābhyām tad-icchayā .. 48 ..
विस्मृतं तव तत्सर्वं धन्या या शांभवी परा ॥ तया संमोहितं सर्वं दुर्विज्ञेया शिवं विना ॥ ४९ ॥
विस्मृतम् तव तत् सर्वम् धन्या या शांभवी परा ॥ तया संमोहितम् सर्वम् दुर्विज्ञेया शिवम् विना ॥ ४९ ॥
vismṛtam tava tat sarvam dhanyā yā śāṃbhavī parā .. tayā saṃmohitam sarvam durvijñeyā śivam vinā .. 49 ..
यदा हि सगुणो जातस्स्वेच्छया निर्गुणश्शिवः ॥ मामुत्पाद्य ततस्त्वां च स्वशक्त्या सुविहारकृत् ॥ 2.2.10.५० ॥
यदा हि स गुणः जातः स्व-इच्छया निर्गुणः शिवः ॥ माम् उत्पाद्य ततस् त्वाम् च स्व-शक्त्या सु विहार-कृत् ॥ २।२।१०।५० ॥
yadā hi sa guṇaḥ jātaḥ sva-icchayā nirguṇaḥ śivaḥ .. mām utpādya tatas tvām ca sva-śaktyā su vihāra-kṛt .. 2.2.10.50 ..
उपादिदेश त्वां शम्भुस्सृष्टिकार्यं तदा प्रभुः ॥ तत्पालनं च मां ब्रह्मन् सोमस्सूतिकरोऽव्ययः ॥ ५१ ॥
उपादिदेश त्वाम् शम्भुः सृष्टि-कार्यम् तदा प्रभुः ॥ तद्-पालनम् च माम् ब्रह्मन् सोमः सूति-करः अव्ययः ॥ ५१ ॥
upādideśa tvām śambhuḥ sṛṣṭi-kāryam tadā prabhuḥ .. tad-pālanam ca mām brahman somaḥ sūti-karaḥ avyayaḥ .. 51 ..
तदा वां वेश्म संप्राप्तौ सांजली नतमस्तकौ ॥ भव त्वमपि सर्वेशोऽवतारी गुणरूपधृक् ॥ ५२॥
तदा वाम् वेश्म संप्राप्तौ स अंजली नत-मस्तकौ ॥ भव त्वम् अपि सर्व-ईशः अवतारी गुण-रूपधृक् ॥ ५२॥
tadā vām veśma saṃprāptau sa aṃjalī nata-mastakau .. bhava tvam api sarva-īśaḥ avatārī guṇa-rūpadhṛk .. 52..
इत्युक्तः प्राह स स्वामी विहस्य करुणान्वितः ॥ दिवमुद्वीक्ष्य सुप्रीत्या नानालीलाविशारदः ॥ ॥ ५३॥
इति उक्तः प्राह स स्वामी विहस्य करुणा-अन्वितः ॥ दिवम् उद्वीक्ष्य सु प्रीत्या नाना लीला-विशारदः ॥ ॥ ५३॥
iti uktaḥ prāha sa svāmī vihasya karuṇā-anvitaḥ .. divam udvīkṣya su prītyā nānā līlā-viśāradaḥ .. .. 53..
मद्रूपं परमं विष्णो ईदृशं ह्यंगतो विधेः ॥ प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ५४ ॥
मद्-रूपम् परमम् विष्णो ईदृशम् हि अंगतः विधेः ॥ प्रकटीभविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ ५४ ॥
mad-rūpam paramam viṣṇo īdṛśam hi aṃgataḥ vidheḥ .. prakaṭībhavitā loke nāmnā rudraḥ prakīrtitaḥ .. 54 ..
पूर्णरूपस्स मे पूज्यस्सदा वां सर्वकामकृत् ॥ लयकर्त्ता गुणाध्यक्षो निर्विशेषः सुयोगकृत् ॥ ५५ ॥
पूर्ण-रूपः स मे पूज्यः सदा वाम् सर्व-काम-कृत् ॥ ॥ ५५ ॥
pūrṇa-rūpaḥ sa me pūjyaḥ sadā vām sarva-kāma-kṛt .. .. 55 ..
त्रिदेवा अपि मे रूपं हरः पूर्णो विशेषतः ॥ उमाया अपि रूपाणि भविष्यंति त्रिधा सुताः ॥ ५६॥
त्रि-देवाः अपि मे रूपम् हरः पूर्णः विशेषतः ॥ उमायाः अपि रूपाणि भविष्यन्ति त्रिधा सुताः ॥ ५६॥
tri-devāḥ api me rūpam haraḥ pūrṇaḥ viśeṣataḥ .. umāyāḥ api rūpāṇi bhaviṣyanti tridhā sutāḥ .. 56..
लक्ष्मीर्नाम हरेः पत्नी ब्रह्मपत्नी सरस्वती ॥ पूर्णरूपा सती नाम रुद्रपत्नी भविष्यति॥ ५७॥ ।
लक्ष्मीः नाम हरेः पत्नी ब्रह्म-पत्नी सरस्वती ॥ पूर्ण-रूपा सती नाम रुद्र-पत्नी भविष्यति॥ ५७॥ ।
lakṣmīḥ nāma hareḥ patnī brahma-patnī sarasvatī .. pūrṇa-rūpā satī nāma rudra-patnī bhaviṣyati.. 57.. .
विष्णुरुवाच ।।
इत्युक्त्वांतर्हितो जातः कृपां कृत्वा महेश्वरः ॥ अभूतां सुखिनावावां स्वस्वकार्यपरायणौ ॥ ५८ ॥
इति उक्त्वा अंतर्हितः जातः कृपाम् कृत्वा महेश्वरः ॥ अभूताम् सुखिनौ आवाम् स्व-स्व-कार्य-परायणौ ॥ ५८ ॥
iti uktvā aṃtarhitaḥ jātaḥ kṛpām kṛtvā maheśvaraḥ .. abhūtām sukhinau āvām sva-sva-kārya-parāyaṇau .. 58 ..
समयं प्राप्य सस्त्रीकावावां ब्रह्मन्न शंकरः॥ अवतीर्णस्स्वयं रुद्रनामा कैलाससंश्रयः॥ ५९॥
समयम् प्राप्य स स्त्रीकौ आवाम् ब्रह्मन् न शंकरः॥ अवतीर्णः स्वयम् रुद्र-नामा कैलास-संश्रयः॥ ५९॥
samayam prāpya sa strīkau āvām brahman na śaṃkaraḥ.. avatīrṇaḥ svayam rudra-nāmā kailāsa-saṃśrayaḥ.. 59..
अवतीर्णा शिवा स्यात्सा सतीनाम प्रजेश्वर॥ तदुत्पादनहेतोर्हि यत्नोतः कार्य एव वै ॥ 2.2.10.६०॥
अवतीर्णा शिवा स्यात् सा सती-नाम प्रजा-ईश्वर॥ तद्-उत्पादन-हेतोः हि यत्न-ऊतः कार्यः एव वै ॥ २।२।१०।६०॥
avatīrṇā śivā syāt sā satī-nāma prajā-īśvara.. tad-utpādana-hetoḥ hi yatna-ūtaḥ kāryaḥ eva vai .. 2.2.10.60..
इत्युक्त्वांतर्दधे विष्णुः कृत्वा स करुणां परम् ॥ प्राप्नुवं प्रमुदं चाथ ह्यधिकं गतमत्सरः॥ ॥ ६१ ॥
इति उक्त्वा अंतर्दधे विष्णुः कृत्वा स करुणाम् परम् ॥ प्राप्नुवम् प्रमुदम् च अथ हि अधिकम् गत-मत्सरः॥ ॥ ६१ ॥
iti uktvā aṃtardadhe viṣṇuḥ kṛtvā sa karuṇām param .. prāpnuvam pramudam ca atha hi adhikam gata-matsaraḥ.. .. 61 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसहितायां द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादो नाम दशमोऽध्यायः॥ १०॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसहितायाम् द्वितीये सतीखण्डे ब्रह्मविष्णुसंवादः नाम दशमः अध्यायः॥ १०॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasahitāyām dvitīye satīkhaṇḍe brahmaviṣṇusaṃvādaḥ nāma daśamaḥ adhyāyaḥ.. 10..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In