| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् तात महाप्राज्ञ वद नो वदतां वर॥ गते विष्णौ किमभवदकार्षीत्किं विधे भवान्॥ १॥
ब्रह्मन् तात महा-प्राज्ञ वद नः वदताम् वर॥ गते विष्णौ किम् अभवत् अकार्षीत् किम् विधे भवान्॥ १॥
brahman tāta mahā-prājña vada naḥ vadatām vara.. gate viṣṇau kim abhavat akārṣīt kim vidhe bhavān.. 1..
ब्रह्मोवाच ।।
विप्रनन्दनवर्य त्वं सावधानतया शृणु ॥ विष्णौ गते भगवति यदकार्षमहं खलु ॥ २॥
विप्र-नन्दन-वर्य त्वम् सावधान-तया शृणु ॥ विष्णौ गते भगवति यत् अकार्षम् अहम् खलु ॥ २॥
vipra-nandana-varya tvam sāvadhāna-tayā śṛṇu .. viṣṇau gate bhagavati yat akārṣam aham khalu .. 2..
विद्याविद्यात्मिकां शुद्धां परब्रह्मस्वरूपिणीम् ॥ स्तौमि देव जगद्धात्रीं दुर्गां शम्भुप्रियां सदा ॥ ३॥
विद्या-अविद्या-आत्मिकाम् शुद्धाम् पर-ब्रह्म-स्वरूपिणीम् ॥ स्तौमि देव जगद्धात्रीम् दुर्गाम् शम्भु-प्रियाम् सदा ॥ ३॥
vidyā-avidyā-ātmikām śuddhām para-brahma-svarūpiṇīm .. staumi deva jagaddhātrīm durgām śambhu-priyām sadā .. 3..
सर्वत्र व्यापिनीं नित्यां निरालंबां निराकुलाम्॥ त्रिदेवजननीं वंदे स्थूलस्थूलामरूपिणीम्॥ ॥ ४॥
सर्वत्र व्यापिनीम् नित्याम् निरालंबाम् निराकुलाम्॥ त्रिदेव-जननीम् वंदे स्थूल-स्थूल-आम-रूपिणीम्॥ ॥ ४॥
sarvatra vyāpinīm nityām nirālaṃbām nirākulām.. trideva-jananīm vaṃde sthūla-sthūla-āma-rūpiṇīm.. .. 4..
त्वं चितिः परमानंदा परमात्मस्वरूपिणी ॥ प्रसन्ना भव देवेशि मत्कार्यं कुरु ते नमः ॥ ५॥
त्वम् चितिः परम-आनंदा परमात्म-स्वरूपिणी ॥ प्रसन्ना भव देवेशि मद्-कार्यम् कुरु ते नमः ॥ ५॥
tvam citiḥ parama-ānaṃdā paramātma-svarūpiṇī .. prasannā bhava deveśi mad-kāryam kuru te namaḥ .. 5..
ब्रह्मोवाच ।।
एवं संस्तूयमाना सा योगनिद्रा मया मुने ॥ आविर्बभूव प्रत्यक्षं देवर्षे चंडिका मम ॥ ६ ॥
एवम् संस्तूयमाना सा योगनिद्रा मया मुने ॥ आविर्बभूव प्रत्यक्षम् देव-ऋषे चंडिका मम ॥ ६ ॥
evam saṃstūyamānā sā yoganidrā mayā mune .. āvirbabhūva pratyakṣam deva-ṛṣe caṃḍikā mama .. 6 ..
स्निग्धांजनद्युतिश्चारुरूपा दिव्यचतुर्भुजा ॥ सिंहस्था वरहस्ता च मुक्तामणिकचोत्कटा ॥ ७ ॥
स्निग्ध-अंजन-द्युतिः चारु-रूपा दिव्य-चतुर्-भुजा ॥ सिंह-स्था वर-हस्ता च मुक्ता-मणि-कच-उत्कटा ॥ ७ ॥
snigdha-aṃjana-dyutiḥ cāru-rūpā divya-catur-bhujā .. siṃha-sthā vara-hastā ca muktā-maṇi-kaca-utkaṭā .. 7 ..
शरदिंद्वानना शुभ्रचन्द्रभाला त्रिलोचना ॥ सर्वावयवरम्या च कमलांघ्रिनखद्युतिः॥ ८॥
शरद्-इंदु-आनना शुभ्र-चन्द्र-भाला त्रि-लोचना ॥ सर्व-अवयव-रम्या च कमल-अंघ्रि-नख-द्युतिः॥ ८॥
śarad-iṃdu-ānanā śubhra-candra-bhālā tri-locanā .. sarva-avayava-ramyā ca kamala-aṃghri-nakha-dyutiḥ.. 8..
समक्षं तामुमां वीक्ष्य मुने शक्तिं शिवस्य हि ॥ भक्त्या विनततुंगांशः प्रास्तवं सुप्रणम्य वै ॥ ९ ॥
समक्षम् ताम् उमाम् वीक्ष्य मुने शक्तिम् शिवस्य हि ॥ भक्त्या विनत-तुंग-अंशः प्रास्तवम् सु प्रणम्य वै ॥ ९ ॥
samakṣam tām umām vīkṣya mune śaktim śivasya hi .. bhaktyā vinata-tuṃga-aṃśaḥ prāstavam su praṇamya vai .. 9 ..
ब्रह्मोवाच ।।
नमो नमस्ते जगतःप्रवृत्तिनिवृतिरूपे स्थितिसर्गरूपे ॥ चराचराणां भवती सुशक्तिस्सनातनी सर्वविमोहनीति ॥ 2.2.11.१० ॥
नमः नमः ते जगतः प्रवृत्ति-निवृति-रूपे स्थिति-सर्ग-रूपे ॥ चर-अचराणाम् भवती सु शक्तिः सनातनी सर्व-विमोहनी इति ॥ २।२।११।१० ॥
namaḥ namaḥ te jagataḥ pravṛtti-nivṛti-rūpe sthiti-sarga-rūpe .. cara-acarāṇām bhavatī su śaktiḥ sanātanī sarva-vimohanī iti .. 2.2.11.10 ..
या श्रीः सदा केशवमूर्तिमाला विश्वंभरा या सकलं बिभर्ति॥ या त्वं पुरा सृष्टिकरी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्य ॥ ११॥
या श्रीः सदा केशव-मूर्ति-माला विश्वंभरा या सकलम् बिभर्ति॥ या त्वम् पुरा सृष्टि-करी महेशी हर्त्री त्रिलोकस्य परा गुणेभ्यः ॥ ११॥
yā śrīḥ sadā keśava-mūrti-mālā viśvaṃbharā yā sakalam bibharti.. yā tvam purā sṛṣṭi-karī maheśī hartrī trilokasya parā guṇebhyaḥ .. 11..
या योगिनां वै महिता मनोज्ञा सा त्वं न ते परमाणुसारे ॥ यमादिपूते हृदि योगिनां या या योगिनां ध्यानपथे प्रतीता ॥ १२ ॥
या योगिनाम् वै महिता मनोज्ञा सा त्वम् न ते परमाणु-सारे ॥ यम-आदि-पूते हृदि योगिनाम् या या योगिनाम् ध्यान-पथे प्रतीता ॥ १२ ॥
yā yoginām vai mahitā manojñā sā tvam na te paramāṇu-sāre .. yama-ādi-pūte hṛdi yoginām yā yā yoginām dhyāna-pathe pratītā .. 12 ..
प्रकाशशुद्ध्यादियुता विरागा सा त्वं हि विद्या विविधावलंबा ॥ कूटस्थमव्यक्तमनंतरूपं त्वं बिभ्रती कालमयी जगंति ॥ १३ ॥
प्रकाश-शुद्धि-आदि-युता विरागा सा त्वम् हि विद्या विविध-अवलंबा ॥ कूटस्थम् अव्यक्तम् अनंत-रूपम् त्वम् बिभ्रती काल-मयी जगंति ॥ १३ ॥
prakāśa-śuddhi-ādi-yutā virāgā sā tvam hi vidyā vividha-avalaṃbā .. kūṭastham avyaktam anaṃta-rūpam tvam bibhratī kāla-mayī jagaṃti .. 13 ..
विकारबीजं प्रकरोपि नित्यं गुणान्विता सर्वजनेषु नूनम् ॥ त्वं वै गुणानां च शिवे त्रयाणां निदानभूता च ततः परासि ॥ १४ ॥
विकार-बीजम् नित्यम् गुण-अन्विता सर्व-जनेषु नूनम् ॥ त्वम् वै गुणानाम् च शिवे त्रयाणाम् निदान-भूता च ततस् परासि ॥ १४ ॥
vikāra-bījam nityam guṇa-anvitā sarva-janeṣu nūnam .. tvam vai guṇānām ca śive trayāṇām nidāna-bhūtā ca tatas parāsi .. 14 ..
सत्वं रजस्तामस इत्यमीषां विकारहीना समु वस्तितीर्या ॥ सा त्वं गुणानां जगदेकहेतुं ब्रह्मांतरारंभसि चात्सि पासि ॥ १५ ॥
सत्वम् रजः तामसः इति अमीषाम् विकार-हीना समु वस्ति-तीर्या ॥ सा त्वम् गुणानाम् जगत्-एक-हेतुम् ब्रह्म-अंतर-आरंभसि च अत्सि पासि ॥ १५ ॥
satvam rajaḥ tāmasaḥ iti amīṣām vikāra-hīnā samu vasti-tīryā .. sā tvam guṇānām jagat-eka-hetum brahma-aṃtara-āraṃbhasi ca atsi pāsi .. 15 ..
अशेषजगतां बीजे ज्ञेयज्ञानस्वरूपिणि ॥ जगद्धिताय सततं शिवपत्नि नमोस्तु ते ॥ १६॥
अशेष-जगताम् बीजे ज्ञेय-ज्ञान-स्वरूपिणि ॥ जगत्-हिताय सततम् शिवपत्नि नमः अस्तु ते ॥ १६॥
aśeṣa-jagatām bīje jñeya-jñāna-svarūpiṇi .. jagat-hitāya satatam śivapatni namaḥ astu te .. 16..
ब्रह्मोवाच।।
इत्याकर्ण्य वचः सा मे काली लोक विभाविनी ॥ प्रीत्या मां जगतामूचे स्रष्टारं जनशब्दवत् ॥ १७॥
इति आकर्ण्य वचः सा मे काली लोक-विभाविनी ॥ प्रीत्या माम् जगताम् ऊचे स्रष्टारम् जन-शब्द-वत् ॥ १७॥
iti ākarṇya vacaḥ sā me kālī loka-vibhāvinī .. prītyā mām jagatām ūce sraṣṭāram jana-śabda-vat .. 17..
देव्युवाच ।।
ब्रह्मन्किमर्थं भवता स्तुताहमवधारय ॥ उच्यतां यदि धृष्योसि तच्छीघ्रं पुरतो मम ॥ १८ ॥
ब्रह्मन् किमर्थम् भवता स्तुता अहम् अवधारय ॥ उच्यताम् यदि धृष्यः असि तत् शीघ्रम् पुरतस् मम ॥ १८ ॥
brahman kimartham bhavatā stutā aham avadhāraya .. ucyatām yadi dhṛṣyaḥ asi tat śīghram puratas mama .. 18 ..
प्रत्यक्षमपि जातायां सिद्धिः कार्यस्य निश्चिता ॥ तस्मात्त्वं वांछितं ब्रूहि या करिष्यामि भाविता ॥ १९ ॥
प्रत्यक्षम् अपि जातायाम् सिद्धिः कार्यस्य निश्चिता ॥ तस्मात् त्वम् वांछितम् ब्रूहि या करिष्यामि भाविता ॥ १९ ॥
pratyakṣam api jātāyām siddhiḥ kāryasya niścitā .. tasmāt tvam vāṃchitam brūhi yā kariṣyāmi bhāvitā .. 19 ..
ब्रह्मोवाच ।।
शृणु देवि महेशानि कृपां कृत्वा ममोपरि ॥ मनोरथस्थं सर्वज्ञे प्रवदामि त्वदाज्ञया ॥ 2.2.11.२० ॥
शृणु देवि महेशानि कृपाम् कृत्वा मम उपरि ॥ मनोरथ-स्थम् सर्वज्ञे प्रवदामि त्वद्-आज्ञया ॥ २।२।११।२० ॥
śṛṇu devi maheśāni kṛpām kṛtvā mama upari .. manoratha-stham sarvajñe pravadāmi tvad-ājñayā .. 2.2.11.20 ..
यः पतिस्तव देवेशि ललाटान्मेऽभवत्पुरा ॥ शिवो रुद्राख्यया योगी स वै कैलासमास्थितः ॥ २१॥
यः पतिः तव देवेशि ललाटात् मे अभवत् पुरा ॥ शिवः रुद्र-आख्यया योगी स वै कैलासम् आस्थितः ॥ २१॥
yaḥ patiḥ tava deveśi lalāṭāt me abhavat purā .. śivaḥ rudra-ākhyayā yogī sa vai kailāsam āsthitaḥ .. 21..
तपश्चरति भूतेश एक एवाविकल्पकः ॥ अपत्नीको निर्विकारो न द्वितीयां समीहते ॥ २२ ॥
तपः चरति भूतेशः एकः एव अविकल्पकः ॥ अपत्नीकः निर्विकारः न द्वितीयाम् समीहते ॥ २२ ॥
tapaḥ carati bhūteśaḥ ekaḥ eva avikalpakaḥ .. apatnīkaḥ nirvikāraḥ na dvitīyām samīhate .. 22 ..
तं मोहय यथा चान्यां द्वितीयां सति वीक्षते ॥ त्वदृते तस्य नो काचिद्भविष्यति मनोहरा ॥ २३॥
तम् मोहय यथा च अन्याम् द्वितीयाम् सति वीक्षते ॥ त्वत् ऋते तस्य नो काचिद् भविष्यति मनोहरा ॥ २३॥
tam mohaya yathā ca anyām dvitīyām sati vīkṣate .. tvat ṛte tasya no kācid bhaviṣyati manoharā .. 23..
तस्मात्त्वमेव रूपेण भवस्व हरमोहिनी॥ सुता भूत्वा च दक्षस्य रुद्रपत्नी शिवे भव॥ २४॥
तस्मात् त्वम् एव रूपेण भवस्व हर-मोहिनी॥ सुता भूत्वा च दक्षस्य रुद्र-पत्नी शिवे भव॥ २४॥
tasmāt tvam eva rūpeṇa bhavasva hara-mohinī.. sutā bhūtvā ca dakṣasya rudra-patnī śive bhava.. 24..
यथा धृतशरीरा त्वं लक्ष्मीरूपेण केशवम्॥ आमोदयसि विश्वस्य हितायैतं तथा कुरु॥ २५॥
यथा धृत-शरीरा त्वम् लक्ष्मी-रूपेण केशवम्॥ आमोदयसि विश्वस्य हिताय एतम् तथा कुरु॥ २५॥
yathā dhṛta-śarīrā tvam lakṣmī-rūpeṇa keśavam.. āmodayasi viśvasya hitāya etam tathā kuru.. 25..
कांताभिलाषमात्रं मे दृष्ट्वाऽनिंदद्वृषध्वजः ॥ स कथं वनितां देवी स्वेच्छया संग्रहीष्यति ॥ २६।
कान्त-अभिलाष-मात्रम् मे दृष्ट्वा अनिंदत् वृषध्वजः ॥ स कथम् वनिताम् देवी स्व-इच्छया संग्रहीष्यति ॥ २६।
kānta-abhilāṣa-mātram me dṛṣṭvā aniṃdat vṛṣadhvajaḥ .. sa katham vanitām devī sva-icchayā saṃgrahīṣyati .. 26.
हरे गृहीतकांते तु कथं सृष्टिश्शुभावहा ॥ आद्यंतमध्ये चैतस्य हेतौ तस्मिन्विरागिणि ॥ २७॥
हरे गृहीत-कान्ते तु कथम् सृष्टिः शुभ-आवहा ॥ आदि-अंत-मध्ये च एतस्य हेतौ तस्मिन् विरागिणि ॥ २७॥
hare gṛhīta-kānte tu katham sṛṣṭiḥ śubha-āvahā .. ādi-aṃta-madhye ca etasya hetau tasmin virāgiṇi .. 27..
इति चिंतापरो नाहं त्वदन्यं शरणं हितम्॥ कृच्छ्रवांस्तेन विश्वस्य हितायैतत्कुरुष्व मे॥ २८॥
इति चिंता-परः न अहम् त्वद्-अन्यम् शरणम् हितम्॥ कृच्छ्रवान् तेन विश्वस्य हिताय एतत् कुरुष्व मे॥ २८॥
iti ciṃtā-paraḥ na aham tvad-anyam śaraṇam hitam.. kṛcchravān tena viśvasya hitāya etat kuruṣva me.. 28..
न विष्णुस्तस्य मोहाय न लक्ष्मीर्न मनोभवः॥ न चाप्यहं जगन्मातर्नान्यस्त्वां कोपि वै विना ॥ २९॥
न विष्णुः तस्य मोहाय न लक्ष्मीः न मनोभवः॥ न च अपि अहम् जगन्मातर् न अन्यः त्वाम् वै विना ॥ २९॥
na viṣṇuḥ tasya mohāya na lakṣmīḥ na manobhavaḥ.. na ca api aham jaganmātar na anyaḥ tvām vai vinā .. 29..
तस्मात्त्वं दक्षजा भूत्वा दिव्यरूपा महेश्वरी ॥ तत्पत्नी भव मद्भक्त्या योगिनं मोहयेश्वरम् ॥ 2.2.11.३०॥
तस्मात् त्वम् दक्षजा भूत्वा दिव्य-रूपा महेश्वरी ॥ तद्-पत्नी भव मद्-भक्त्या योगिनम् मोहय ईश्वरम् ॥ २।२।११।३०॥
tasmāt tvam dakṣajā bhūtvā divya-rūpā maheśvarī .. tad-patnī bhava mad-bhaktyā yoginam mohaya īśvaram .. 2.2.11.30..
दक्षस्तपति देवेशि क्षीरोदोत्तरतीरगः॥ त्वामुद्दिश्य समाधाय मनस्त्वयि दृढव्रतः ॥ ३१॥
दक्षः तपति देवेशि क्षीरोद-उत्तर-तीर-गः॥ त्वाम् उद्दिश्य समाधाय मनः त्वयि दृढ-व्रतः ॥ ३१॥
dakṣaḥ tapati deveśi kṣīroda-uttara-tīra-gaḥ.. tvām uddiśya samādhāya manaḥ tvayi dṛḍha-vrataḥ .. 31..
ब्रह्मोवाच।।
इत्याकर्ण्य वचस्सा चिंतामाप शिवा तदा॥ उवाच च स्वमनसि विस्मिता जगदम्बिका॥ ३२॥
इति आकर्ण्य वचः सा चिंताम् आप शिवा तदा॥ उवाच च स्व-मनसि विस्मिता जगदम्बिका॥ ३२॥
iti ākarṇya vacaḥ sā ciṃtām āpa śivā tadā.. uvāca ca sva-manasi vismitā jagadambikā.. 32..
देव्युवाच ।।
अहो सुमहदाश्चर्यं वेदवक्तापि विश्वकृत् ॥ महाज्ञानपरो भूत्वा विधाता किं वदत्ययम् ॥ ३३॥
अहो सु महत् आश्चर्यम् वेद-वक्ता अपि विश्वकृत् ॥ महा-ज्ञान-परः भूत्वा विधाता किम् वदति अयम् ॥ ३३॥
aho su mahat āścaryam veda-vaktā api viśvakṛt .. mahā-jñāna-paraḥ bhūtvā vidhātā kim vadati ayam .. 33..
विधेश्चेतसि संजातो महामोहोऽसुखावहः ॥ यद्वरं निर्विकारं तं संमोहयितुमिच्छति ॥ ३४॥
विधेः चेतसि संजातः महा-मोहः असुख-आवहः ॥ यत् वरम् निर्विकारम् तम् संमोहयितुम् इच्छति ॥ ३४॥
vidheḥ cetasi saṃjātaḥ mahā-mohaḥ asukha-āvahaḥ .. yat varam nirvikāram tam saṃmohayitum icchati .. 34..
हरमोहवरं मत्तस्समिच्छति विधिस्त्वयम् ॥ को लाभोस्यात्र स विभुर्निर्मोहो निर्विकल्पकः ॥ ३५॥
हर-मोह-वरम् मत्तः समिच्छति विधिः तु अयम् ॥ कः लाभः अस्य अत्र स विभुः निर्मोहः निर्विकल्पकः ॥ ३५॥
hara-moha-varam mattaḥ samicchati vidhiḥ tu ayam .. kaḥ lābhaḥ asya atra sa vibhuḥ nirmohaḥ nirvikalpakaḥ .. 35..
परब्रह्माख्यो यश्शंभुर्निर्गुणो निर्विकारवान् ॥ तस्याहं सर्वदा दासी तदाज्ञावशगा सदा ॥ ३६॥
निर्विकारवान् ॥ तस्य अहम् सर्वदा दासी तद्-आज्ञा-वश-गा सदा ॥ ३६॥
nirvikāravān .. tasya aham sarvadā dāsī tad-ājñā-vaśa-gā sadā .. 36..
स एव पूर्णरूपेण रुद्रनामाभवच्छिवः ॥ भक्तोद्धारणहेतोर्हि स्वतंत्रः परमेश्वरः ॥ ३७॥
सः एव पूर्ण-रूपेण रुद्र-नामा भवत् शिवः ॥ भक्त-उद्धारण-हेतोः हि स्वतंत्रः परमेश्वरः ॥ ३७॥
saḥ eva pūrṇa-rūpeṇa rudra-nāmā bhavat śivaḥ .. bhakta-uddhāraṇa-hetoḥ hi svataṃtraḥ parameśvaraḥ .. 37..
हरेर्विधेश्च स स्वामी शिवान्न्यूनो न कर्हिचित् ॥ योगादरो ह्यमायस्थो मायेशः परतः परः ॥ ३८॥
हरेः विधेः च स स्वामी शिवात् न्यूनः न कर्हिचित् ॥ योग-आदरः हि अमाय-स्थः माया-ईशः परतस् परः ॥ ३८॥
hareḥ vidheḥ ca sa svāmī śivāt nyūnaḥ na karhicit .. yoga-ādaraḥ hi amāya-sthaḥ māyā-īśaḥ paratas paraḥ .. 38..
मत्वा तमात्मजं ब्रह्मा सामान्यसुरसंनिभम् ॥ इच्छत्ययं मोहयितुमतोऽज्ञानविमोहितः ॥ ३९ ॥
मत्वा तम् आत्मजम् ब्रह्मा सामान्य-सुर-संनिभम् ॥ इच्छति अयम् मोहयितुम् अतस् अज्ञान-विमोहितः ॥ ३९ ॥
matvā tam ātmajam brahmā sāmānya-sura-saṃnibham .. icchati ayam mohayitum atas ajñāna-vimohitaḥ .. 39 ..
न दद्यां चेद्वरं वेदनीतिर्भ्रष्टा भवेदिति ॥ किं कुर्यां येन न विभुः क्रुद्धस्स्यान्मे महेश्वरः ॥ 2.2.11.४०॥
न दद्याम् चेद् वरम् वेद-नीतिः भ्रष्टा भवेत् इति ॥ किम् कुर्याम् येन न विभुः क्रुद्धः स्यात् मे महेश्वरः ॥ २।२।११।४०॥
na dadyām ced varam veda-nītiḥ bhraṣṭā bhavet iti .. kim kuryām yena na vibhuḥ kruddhaḥ syāt me maheśvaraḥ .. 2.2.11.40..
ब्रह्मो वाच ।।
विचार्य्येत्थं महेशं तं सस्मार मनसा शिवा ॥ प्रापानुज्ञां शिवस्याथोवाच दुर्गा च मां तदा ॥ ४१ ॥
विचार्य्य इत्थम् महेशम् तम् सस्मार मनसा शिवा ॥ प्राप अनुज्ञाम् शिवस्य अथा उवाच दुर्गा च माम् तदा ॥ ४१ ॥
vicāryya ittham maheśam tam sasmāra manasā śivā .. prāpa anujñām śivasya athā uvāca durgā ca mām tadā .. 41 ..
।। दुर्गोवाच ।।
यदुक्तं भवता ब्रह्मन् समस्तं सत्यमेव तत् ॥ मदृते मोहयित्रीह शंकरस्य न विद्यते ॥ ४२ ॥
यत् उक्तम् भवता ब्रह्मन् समस्तम् सत्यम् एव तत् ॥ मत् ऋते मोहयित्री इह शंकरस्य न विद्यते ॥ ४२ ॥
yat uktam bhavatā brahman samastam satyam eva tat .. mat ṛte mohayitrī iha śaṃkarasya na vidyate .. 42 ..
हरेऽगृहीतदारे तु सृष्टिनैषा सनातनी ॥ भविष्यतीति तत्सत्यं भवता प्रतिपादितम् ॥ ४३ ॥
हरे अगृहीत-दारे तु सृष्टिना एषा सनातनी ॥ भविष्यति इति तत् सत्यम् भवता प्रतिपादितम् ॥ ४३ ॥
hare agṛhīta-dāre tu sṛṣṭinā eṣā sanātanī .. bhaviṣyati iti tat satyam bhavatā pratipāditam .. 43 ..
ममापि मोहने यन्नो विद्यतेस्य महाप्रभोः ॥ त्वद्वाक्याद्विगुणो मेद्य प्रयत्नोऽभूत्स निर्भरः ॥ ४४ ॥
मम अपि मोहने यत् नः विद्यते इस्य महा-प्रभोः ॥ त्वद्-वाक्यात् विगुणः मेद्य प्रयत्नः अभूत् स निर्भरः ॥ ४४ ॥
mama api mohane yat naḥ vidyate isya mahā-prabhoḥ .. tvad-vākyāt viguṇaḥ medya prayatnaḥ abhūt sa nirbharaḥ .. 44 ..
अहं तथा यतिष्यामि यथा दारपरिग्रहम् ॥ हरः करिष्यति विधे स्वयमेव विमोहितः ॥ ४५ ॥
अहम् तथा यतिष्यामि यथा दार-परिग्रहम् ॥ हरः करिष्यति विधे स्वयम् एव विमोहितः ॥ ४५ ॥
aham tathā yatiṣyāmi yathā dāra-parigraham .. haraḥ kariṣyati vidhe svayam eva vimohitaḥ .. 45 ..
सतीमूर्तिमहं धृत्वा तस्यैव वशवर्तिनी ॥ भविष्यामि महाभागा लक्ष्मीर्विष्णोर्यथा प्रिया॥ ४६॥
सती-मूर्तिम् अहम् धृत्वा तस्य एव वश-वर्तिनी ॥ भविष्यामि महाभागा लक्ष्मीः विष्णोः यथा प्रिया॥ ४६॥
satī-mūrtim aham dhṛtvā tasya eva vaśa-vartinī .. bhaviṣyāmi mahābhāgā lakṣmīḥ viṣṇoḥ yathā priyā.. 46..
यथा सोपि मयैवेय वशवर्ती सदा भवेत्॥ तथा यत्नं करिष्यामि तस्यैव कृपया विधे॥ ४७॥
यथा सः उपि वश-वर्ती सदा भवेत्॥ तथा यत्नम् करिष्यामि तस्य एव कृपया विधे॥ ४७॥
yathā saḥ upi vaśa-vartī sadā bhavet.. tathā yatnam kariṣyāmi tasya eva kṛpayā vidhe.. 47..
उत्पन्ना दक्षजायायां सतीरूपेण शंकरम्॥ अहं सभाजयिष्यामि लीलया तं पितामह ॥ ४८॥
उत्पन्ना दक्ष-जायायाम् सती-रूपेण शंकरम्॥ अहम् सभाजयिष्यामि लीलया तम् पितामह ॥ ४८॥
utpannā dakṣa-jāyāyām satī-rūpeṇa śaṃkaram.. aham sabhājayiṣyāmi līlayā tam pitāmaha .. 48..
यथान्यजंतुरवनौ वर्तते वनितावशे ॥ मद्भक्त्या स हरो वामावशवर्ती भविष्यति ॥ ४९॥
यथा अन्य-जंतुः अवनौ वर्तते वनिता-वशे ॥ मद्-भक्त्या स हरः वामा-वश-वर्ती भविष्यति ॥ ४९॥
yathā anya-jaṃtuḥ avanau vartate vanitā-vaśe .. mad-bhaktyā sa haraḥ vāmā-vaśa-vartī bhaviṣyati .. 49..
ब्रह्मोवाच ।।
मह्यमित्थं समाभाष्य शिवा सा जगदम्बिका॥ वीक्ष्यमाणा मया तात तत्रैवांतर्दधे ततः॥ 2.2.11.५०॥
मह्यम् इत्थम् समाभाष्य शिवा सा जगदम्बिका॥ वीक्ष्यमाणा मया तात तत्र एव अंतर्दधे ततस्॥ २।२।११।५०॥
mahyam ittham samābhāṣya śivā sā jagadambikā.. vīkṣyamāṇā mayā tāta tatra eva aṃtardadhe tatas.. 2.2.11.50..
तस्यामंतर्हितायां तु सोहं लोकपितामहः॥ अगमं यत्र स्वसुतास्तेभ्यस्सर्वमवर्णयम् ॥ ५१ ॥
तस्याम् अंतर्हितायाम् तु सः हम् लोकपितामहः॥ अगमम् यत्र स्व-सुताः तेभ्यः सर्वम् अवर्णयम् ॥ ५१ ॥
tasyām aṃtarhitāyām tu saḥ ham lokapitāmahaḥ.. agamam yatra sva-sutāḥ tebhyaḥ sarvam avarṇayam .. 51 ..
इति श्रीशिवपुराणे द्वितीयायां रुद्रसंहितायां सतीखण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनो नामेकादशोऽध्यायः ॥ ११ ॥
इति श्री-शिवपुराणे द्वितीयायाम् रुद्रसंहितायाम् सती-खण्डे दुर्गास्तुतिब्रह्मवरप्राप्तिवर्णनः नाम एकादशः अध्यायः ॥ ११ ॥
iti śrī-śivapurāṇe dvitīyāyām rudrasaṃhitāyām satī-khaṇḍe durgāstutibrahmavaraprāptivarṇanaḥ nāma ekādaśaḥ adhyāyaḥ .. 11 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In