| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् शंभुवर प्राज्ञ सम्यगुक्तं त्वयानघ ॥ शिवाशिवचरित्रं च पावितं जन्म मे हितम् ॥ १ ॥
ब्रह्मन् शंभु-वर प्राज्ञ सम्यक् उक्तम् त्वया अनघ ॥ शिव-अशिव-चरित्रम् च पावितम् जन्म मे हितम् ॥ १ ॥
brahman śaṃbhu-vara prājña samyak uktam tvayā anagha .. śiva-aśiva-caritram ca pāvitam janma me hitam .. 1 ..
इदानीं वद दक्षस्तु तपः कृत्वा दृढव्रतः ॥ कं वरं प्राप देव्यास्तु कथं सा दक्षजाऽभवत् ॥ २ ॥
इदानीम् वद दक्षः तु तपः कृत्वा दृढ-व्रतः ॥ कम् वरम् प्राप देव्याः तु कथम् सा दक्षजा अभवत् ॥ २ ॥
idānīm vada dakṣaḥ tu tapaḥ kṛtvā dṛḍha-vrataḥ .. kam varam prāpa devyāḥ tu katham sā dakṣajā abhavat .. 2 ..
ब्रह्मोवाच ।।
शृणु नारद धन्यस्त्वं मुनिभिर्भक्तितोखिलैः ॥ यथा तेपे तपो दक्षो वरं प्राप च सुव्रतः ॥ ३ ॥
शृणु नारद धन्यः त्वम् मुनिभिः भक्ति-ता उ खिलैः ॥ यथा तेपे तपः दक्षः वरम् प्राप च सुव्रतः ॥ ३ ॥
śṛṇu nārada dhanyaḥ tvam munibhiḥ bhakti-tā u khilaiḥ .. yathā tepe tapaḥ dakṣaḥ varam prāpa ca suvrataḥ .. 3 ..
मदाज्ञप्तस्सुधीर्दक्षस्समाधाय महाधिपः ॥ अपाद्यष्टुं च तां देवीं तत्कामो जगदंबिकाम् ॥ ४ ॥
मद्-आज्ञप्तः सुधीः दक्षः समाधाय महा-अधिपः ॥ च ताम् देवीम् तद्-कामः जगत्-अंबिकाम् ॥ ४ ॥
mad-ājñaptaḥ sudhīḥ dakṣaḥ samādhāya mahā-adhipaḥ .. ca tām devīm tad-kāmaḥ jagat-aṃbikām .. 4 ..
क्षीरोदोत्तरतीरस्थां तां कृत्वा हृदयस्थिताम् ॥ तपस्तप्तुं समारेभे द्रुष्टुं प्रत्यक्षतोम्बिकाम् ॥ ५ ॥
क्षीरोद-उत्तर-तीर-स्थाम् ताम् कृत्वा हृदय-स्थिताम् ॥ तपः तप्तुम् समारेभे द्रुष्टुम् प्रत्यक्ष-तोम्बिकाम् ॥ ५ ॥
kṣīroda-uttara-tīra-sthām tām kṛtvā hṛdaya-sthitām .. tapaḥ taptum samārebhe druṣṭum pratyakṣa-tombikām .. 5 ..
दिव्यवर्षेण दक्षस्तु सहस्राणां त्रयं समाः ॥ तपश्चचार नियतस्सं यतात्मा दृढव्रतः ॥ ॥ ६ ॥
दिव्य-वर्षेण दक्षः तु सहस्राणाम् त्रयम् समाः ॥ तपः चचार नियतः सम् यत-आत्मा दृढ-व्रतः ॥ ॥ ६ ॥
divya-varṣeṇa dakṣaḥ tu sahasrāṇām trayam samāḥ .. tapaḥ cacāra niyataḥ sam yata-ātmā dṛḍha-vrataḥ .. .. 6 ..
मारुताशी निराहारो जलाहारी च पर्णभुक् ॥ एवं निनाय तं कालं चिंतयन्तां जगन्मयीम् ॥ ७ ॥
मारुत-आशी निराहारः जल-आहारी च पर्ण-भुज् ॥ एवम् निनाय तम् कालम् चिंतयन्ताम् जगत्-मयीम् ॥ ७ ॥
māruta-āśī nirāhāraḥ jala-āhārī ca parṇa-bhuj .. evam nināya tam kālam ciṃtayantām jagat-mayīm .. 7 ..
दुर्गाध्यानसमासक्तश्चिरं कालं तपोरतः ॥ नियमैर्बहुभिर्देवीमाराधयति सुव्रतः ॥ ८ ॥
दुर्गा-ध्यान-समासक्तः चिरम् कालम् तपः-रतः ॥ नियमैः बहुभिः देवीम् आराधयति सुव्रतः ॥ ८ ॥
durgā-dhyāna-samāsaktaḥ ciram kālam tapaḥ-rataḥ .. niyamaiḥ bahubhiḥ devīm ārādhayati suvrataḥ .. 8 ..
ततो यमादियुक्तस्य दक्षस्य मुनिसत्तम ॥ जगदम्बा पूजयतः प्रत्यक्षमभवच्छिवा ॥ ९ ॥
ततस् यम-आदि-युक्तस्य दक्षस्य मुनि-सत्तम ॥ जगदम्बा पूजयतः प्रत्यक्षम् अभवत् शिवा ॥ ९ ॥
tatas yama-ādi-yuktasya dakṣasya muni-sattama .. jagadambā pūjayataḥ pratyakṣam abhavat śivā .. 9 ..
ततः प्रत्यक्षतो दृष्ट्वा जगदम्बां जगन्मयीम् ॥ कृतकृत्यमथात्मानं मेने दक्षः प्रजापतिः ॥ 2.2.12.१० ॥
ततस् प्रत्यक्षतः दृष्ट्वा जगदम्बाम् जगत्-मयीम् ॥ कृतकृत्यम् अथ आत्मानम् मेने दक्षः प्रजापतिः ॥ २।२।१२।१० ॥
tatas pratyakṣataḥ dṛṣṭvā jagadambām jagat-mayīm .. kṛtakṛtyam atha ātmānam mene dakṣaḥ prajāpatiḥ .. 2.2.12.10 ..
सिंहस्थां कालिकां कृष्णां चारुवक्त्रां चतुर्भुजाम् ॥ वरदाभयनीलाब्जखड्गहस्तां मनोहराम् ॥ ११ ॥
सिंह-स्थाम् कालिकाम् कृष्णाम् चारु-वक्त्राम् चतुर्-भुजाम् ॥ वरद-अभय-नील-अब्ज-खड्ग-हस्ताम् मनोहराम् ॥ ११ ॥
siṃha-sthām kālikām kṛṣṇām cāru-vaktrām catur-bhujām .. varada-abhaya-nīla-abja-khaḍga-hastām manoharām .. 11 ..
आरक्तनयनां चारुमुक्तकेशीं जगत्प्रसूम् ।तुष्टाव वाग्भिश्चित्राभिः सुप्रणम्याथ सुप्रभाम् ॥ १२ ॥
आरक्त-नयनाम् चारु-मुक्तकेशीम् जगत्प्रसूम् ।तुष्टाव वाग्भिः चित्राभिः सु प्रणम्य अथ सुप्रभाम् ॥ १२ ॥
ārakta-nayanām cāru-muktakeśīm jagatprasūm .tuṣṭāva vāgbhiḥ citrābhiḥ su praṇamya atha suprabhām .. 12 ..
दक्ष उवाच ।।
जगदेव महामाये जगदीशे महेश्वरि ॥ कृपां कृत्वा नमस्तेस्तु दर्शितं स्ववपुर्मम॥ १३॥
जगदेव महामाये जगदीशे महेश्वरि ॥ कृपाम् कृत्वा नमः तेः तु दर्शितम् स्व-वपुः मम॥ १३॥
jagadeva mahāmāye jagadīśe maheśvari .. kṛpām kṛtvā namaḥ teḥ tu darśitam sva-vapuḥ mama.. 13..
प्रसीद भगवत्याद्ये प्रसीद शिवरूपिणम् ॥ प्रसीद भक्तवरदे जगन्माये नमोस्तु ते ॥ १४॥
प्रसीद भगवति आद्ये प्रसीद शिव-रूपिणम् ॥ प्रसीद भक्त-वर-दे जगन्माये नमः अस्तु ते ॥ १४॥
prasīda bhagavati ādye prasīda śiva-rūpiṇam .. prasīda bhakta-vara-de jaganmāye namaḥ astu te .. 14..
ब्रह्मोवाच ।।
इति स्तुता महेशानी दक्षेण प्रयतात्मना ॥ उवाच दक्षं ज्ञात्वापि स्वयं तस्येप्सितं मुने ॥ १५ ॥
इति स्तुता महेशानी दक्षेण प्रयत-आत्मना ॥ उवाच दक्षम् ज्ञात्वा अपि स्वयम् तस्य ईप्सितम् मुने ॥ १५ ॥
iti stutā maheśānī dakṣeṇa prayata-ātmanā .. uvāca dakṣam jñātvā api svayam tasya īpsitam mune .. 15 ..
देव्युवाच ।।
तुष्टाहं दक्ष भवतस्सद्भक्त्या ह्यनया भृशम् ॥ वरं वृणीष्व स्वाभीष्टं नादेयं विद्यते तव ॥ १६॥
तुष्टा अहम् दक्ष भवतः सत्-भक्त्या हि अनया भृशम् ॥ वरम् वृणीष्व स्व-अभीष्टम् न आदेयम् विद्यते तव ॥ १६॥
tuṣṭā aham dakṣa bhavataḥ sat-bhaktyā hi anayā bhṛśam .. varam vṛṇīṣva sva-abhīṣṭam na ādeyam vidyate tava .. 16..
ब्रह्मोवाच ।।
जगदम्बावचश्श्रुत्वा ततो दक्षः प्रजापतिः ॥ सुप्रहृष्टतरः प्राह नामं नामं च तां शिवाम् ॥ १७॥
जगदम्बा-वचः श्रुत्वा ततस् दक्षः प्रजापतिः ॥ सु प्रहृष्टतरः प्राह नामम् नामम् च ताम् शिवाम् ॥ १७॥
jagadambā-vacaḥ śrutvā tatas dakṣaḥ prajāpatiḥ .. su prahṛṣṭataraḥ prāha nāmam nāmam ca tām śivām .. 17..
दक्ष उवाच।।
जगदम्बा महामाये यदि त्वं वरदा मम॥ मद्वचः शृणु सुप्रीत्या मम कामं प्रपूरय॥ १८॥
जगदम्बा महामाये यदि त्वम् वर-दा मम॥ मद्-वचः शृणु सु प्रीत्या मम कामम् प्रपूरय॥ १८॥
jagadambā mahāmāye yadi tvam vara-dā mama.. mad-vacaḥ śṛṇu su prītyā mama kāmam prapūraya.. 18..
मम स्वामी शिवो यो हि स जातो ब्रह्मणस्तुतः ॥ रुद्रनामा पूर्णरूपावतारः परमात्मनः ॥ १९॥
मम स्वामी शिवः यः हि स जातः ब्रह्मणः तुतः ॥ ॥ १९॥
mama svāmī śivaḥ yaḥ hi sa jātaḥ brahmaṇaḥ tutaḥ .. .. 19..
तवावतारो नो जातः का तत्पत्नी भवेदतः ॥ तं मोहय महेशानमवतीर्य क्षितौ शिवे ॥ 2.2.12.२० ॥
तव अवतारः नो जातः का तद्-पत्नी भवेत् अतस् ॥ तम् मोहय महेशानम् अवतीर्य क्षितौ शिवे ॥ २।२।१२।२० ॥
tava avatāraḥ no jātaḥ kā tad-patnī bhavet atas .. tam mohaya maheśānam avatīrya kṣitau śive .. 2.2.12.20 ..
त्वदृते तस्य मोहाय न शक्तान्या कदाचन ॥ तस्मान्मम सुता भूत्वा हरजायाभवाऽधुना ॥ २१॥
त्वत् ऋते तस्य मोहाय न शक्ता अन्या कदाचन ॥ तस्मात् मम सुता भूत्वा हर-जाया भव अधुना ॥ २१॥
tvat ṛte tasya mohāya na śaktā anyā kadācana .. tasmāt mama sutā bhūtvā hara-jāyā bhava adhunā .. 21..
इत्थं कृत्वा सुलीला च भव त्वं हर मोहिनी ॥ ममैवैष वरो देवि सत्यमुक्तं तवाग्रतः ॥ २२॥
इत्थम् कृत्वा सु लीला च भव त्वम् हर मोहिनी ॥ मम एव एष वरः देवि सत्यम् उक्तम् तव अग्रतस् ॥ २२॥
ittham kṛtvā su līlā ca bhava tvam hara mohinī .. mama eva eṣa varaḥ devi satyam uktam tava agratas .. 22..
केवलं स्वार्थमिति च सर्वेषां जगतामपि ॥ ब्रह्मविष्णुशिवानां च ब्रह्मणा प्रेरितो ह्यहम् ॥ २३ ॥
केवलम् स्वार्थम् इति च सर्वेषाम् जगताम् अपि ॥ ब्रह्म-विष्णु-शिवानाम् च ब्रह्मणा प्रेरितः हि अहम् ॥ २३ ॥
kevalam svārtham iti ca sarveṣām jagatām api .. brahma-viṣṇu-śivānām ca brahmaṇā preritaḥ hi aham .. 23 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य प्रजेशस्य वचनं जगदम्बिका ॥ प्रत्युवाच विहस्येति स्मृत्वा तं मनसा शिवम्॥ २४॥
इति आकर्ण्य प्रजा-ईशस्य वचनम् जगदम्बिका ॥ प्रत्युवाच विहस्य इति स्मृत्वा तम् मनसा शिवम्॥ २४॥
iti ākarṇya prajā-īśasya vacanam jagadambikā .. pratyuvāca vihasya iti smṛtvā tam manasā śivam.. 24..
देव्युवाच।।
तात प्रजापते दक्ष शृणु मे परमं वचः॥ सत्यं ब्रवीमि त्वद्भक्त्या सुप्रसन्नाखिलप्रदा ॥ २५॥
तात प्रजापते दक्ष शृणु मे परमम् वचः॥ सत्यम् ब्रवीमि त्वद्-भक्त्या सु प्रसन्ना अखिल-प्रदा ॥ २५॥
tāta prajāpate dakṣa śṛṇu me paramam vacaḥ.. satyam bravīmi tvad-bhaktyā su prasannā akhila-pradā .. 25..
अहं तव सुता दक्ष त्वज्जायायां महेश्वरी॥ भविष्यामि न संदेहस्त्वद्भक्तिवशवर्तिनी॥ २६॥
अहम् तव सुता दक्ष त्वद्-जायायाम् महेश्वरी॥ भविष्यामि न संदेहः त्वद्-भक्ति-वश-वर्तिनी॥ २६॥
aham tava sutā dakṣa tvad-jāyāyām maheśvarī.. bhaviṣyāmi na saṃdehaḥ tvad-bhakti-vaśa-vartinī.. 26..
तथा यत्नं करिष्यामि तपः कृत्वा सुदुस्सहम् ॥ हरजाया भविष्यामि तद्वरं प्राप्य चानघ ॥ २७॥
तथा यत्नम् करिष्यामि तपः कृत्वा सु दुस्सहम् ॥ हर-जाया भविष्यामि तद्-वरम् प्राप्य च अनघ ॥ २७॥
tathā yatnam kariṣyāmi tapaḥ kṛtvā su dussaham .. hara-jāyā bhaviṣyāmi tad-varam prāpya ca anagha .. 27..
नान्यथा कार्यसिद्धिर्हि निर्विकारी च स प्रभुः ॥ विधेर्विष्णोश्च संसेव्यः पूर्ण एव सदाशिवः ॥ २८॥
ना अन्यथा कार्य-सिद्धिः हि निर्विकारी च स प्रभुः ॥ विधेः विष्णोः च संसेव्यः पूर्णः एव सदाशिवः ॥ २८॥
nā anyathā kārya-siddhiḥ hi nirvikārī ca sa prabhuḥ .. vidheḥ viṣṇoḥ ca saṃsevyaḥ pūrṇaḥ eva sadāśivaḥ .. 28..
अहं तस्य सदा दासी प्रिया जन्मनि जन्मनि ॥ मम स्वामी स वै शंभुर्नानारूपधरोपि ह ॥ २९ ॥
अहम् तस्य सदा दासी प्रिया जन्मनि जन्मनि ॥ मम स्वामी स वै शंभुः नाना रूप-धरः अपि ह ॥ २९ ॥
aham tasya sadā dāsī priyā janmani janmani .. mama svāmī sa vai śaṃbhuḥ nānā rūpa-dharaḥ api ha .. 29 ..
वरप्रभावाद्भ्रुकुटेरवतीर्णो विधेस्म च ॥ अहं तद्वरतोपीहावतरिष्ये तदाज्ञया ॥ 2.2.12.३०॥
वर-प्रभावात् भ्रुकुटेः अवतीर्णः विधेस्म च ॥ अहम् तद्-वर-ता उपि इह अवतरिष्ये तद्-आज्ञया ॥ २।२।१२।३०॥
vara-prabhāvāt bhrukuṭeḥ avatīrṇaḥ vidhesma ca .. aham tad-vara-tā upi iha avatariṣye tad-ājñayā .. 2.2.12.30..
गच्छ स्वभवनं तात मया ज्ञाता तु दूतिका ॥ हरजाया भविष्यामि भूता ते तनयाचिरात् ॥ ३१॥
गच्छ स्व-भवनम् तात मया ज्ञाता तु दूतिका ॥ हर-जाया भविष्यामि भूता ते तनय अचिरात् ॥ ३१॥
gaccha sva-bhavanam tāta mayā jñātā tu dūtikā .. hara-jāyā bhaviṣyāmi bhūtā te tanaya acirāt .. 31..
इत्युक्त्वा सद्वचो दक्षं शिवाज्ञां प्राप्य चेतसि ॥ पुनः प्रोवाच सा देवी स्मृत्वा शिवपदाम्बुजम् ॥ ३२॥
इति उक्त्वा सत्-वचः दक्षम् शिव-आज्ञाम् प्राप्य चेतसि ॥ पुनर् प्रोवाच सा देवी स्मृत्वा शिव-पद-अम्बुजम् ॥ ३२॥
iti uktvā sat-vacaḥ dakṣam śiva-ājñām prāpya cetasi .. punar provāca sā devī smṛtvā śiva-pada-ambujam .. 32..
परन्तु पण आधेयो मनसा ते प्रजापते ॥ श्रावयिष्यामि ते तं वै सत्यं जानीहि नो मृषा ॥ ३३॥
परन्तु पणः आधेयः मनसा ते प्रजापते ॥ श्रावयिष्यामि ते तम् वै सत्यम् जानीहि नः मृषा ॥ ३३॥
parantu paṇaḥ ādheyaḥ manasā te prajāpate .. śrāvayiṣyāmi te tam vai satyam jānīhi naḥ mṛṣā .. 33..
यदा भवान् मयि पुनर्भवेन्मंदादरस्तपा ॥ देहं त्यक्ष्ये निजं सत्यं स्वात्मन्यस्म्यथ वेतरम् ॥ ३४ ॥
यदा भवान् मयि पुनर् भवेत् मंद-आदरः तपा ॥ देहम् त्यक्ष्ये निजम् सत्यम् स्व-आत्मनि अस्मि अथ वा इतरम् ॥ ३४ ॥
yadā bhavān mayi punar bhavet maṃda-ādaraḥ tapā .. deham tyakṣye nijam satyam sva-ātmani asmi atha vā itaram .. 34 ..
एष दत्तस्तव वरः प्रतिसर्गं प्रजापते ॥ अहं तव सुता भूत्वा भविष्यामि हरप्रिया ॥ ३५ ॥
एष दत्तः तव वरः प्रतिसर्गम् प्रजापते ॥ अहम् तव सुता भूत्वा भविष्यामि हर-प्रिया ॥ ३५ ॥
eṣa dattaḥ tava varaḥ pratisargam prajāpate .. aham tava sutā bhūtvā bhaviṣyāmi hara-priyā .. 35 ..
ब्रह्मोवाच ॥ एवमुक्त्वा महेशानी दक्षं मुख्यप्रजापतिम् ॥ अंतर्दधे द्रुतं तत्र सम्यग् दक्षस्य पश्यतः ॥ ३६॥
ब्रह्मा उवाच ॥ एवम् उक्त्वा महेशानी दक्षम् मुख्य-प्रजापतिम् ॥ अंतर्दधे द्रुतम् तत्र सम्यक् दक्षस्य पश्यतः ॥ ३६॥
brahmā uvāca .. evam uktvā maheśānī dakṣam mukhya-prajāpatim .. aṃtardadhe drutam tatra samyak dakṣasya paśyataḥ .. 36..
अंतर्हितायां दुर्गायां स दक्षोपि निजाश्रमम् ॥ जगाम च मुदं लेभे भविष्यति सुतेति सा ॥ ३७॥
अंतर्हितायाम् दुर्गायाम् स दक्षः अपि निज-आश्रमम् ॥ जगाम च मुदम् लेभे भविष्यति सुता इति सा ॥ ३७॥
aṃtarhitāyām durgāyām sa dakṣaḥ api nija-āśramam .. jagāma ca mudam lebhe bhaviṣyati sutā iti sā .. 37..
इति श्रीशिवमहा पुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे दक्षवरप्राप्तिवर्णनो नाम द्वादशोऽध्यायः ॥ १२॥
इति श्री-शिव-महा-पुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सती-खण्डे दक्षवरप्राप्तिवर्णनः नाम द्वादशः अध्यायः ॥ १२॥
iti śrī-śiva-mahā-purāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satī-khaṇḍe dakṣavaraprāptivarṇanaḥ nāma dvādaśaḥ adhyāyaḥ .. 12..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In