| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन्विधे महा प्राज्ञ वद नो वदतां वर ॥ दक्षे गृहं गते प्रीत्या किमभूत्तदनंतरम् ॥ १ ॥
ब्रह्मन्विधे महा प्राज्ञ वद नः वदताम् वर ॥ दक्षे गृहम् गते प्रीत्या किम् अभूत् तत् अनंतरम् ॥ १ ॥
brahmanvidhe mahā prājña vada naḥ vadatām vara .. dakṣe gṛham gate prītyā kim abhūt tat anaṃtaram .. 1 ..
ब्रह्मोवाच ।।
दक्षः प्रजापतिर्गत्वा स्वाश्रमं हृष्टमानसः ॥ सर्गं चकार बहुधा मानसं मम चाज्ञया ॥ २ ॥
दक्षः प्रजापतिः गत्वा स्व-आश्रमम् हृष्ट-मानसः ॥ सर्गम् चकार बहुधा मानसम् मम च आज्ञया ॥ २ ॥
dakṣaḥ prajāpatiḥ gatvā sva-āśramam hṛṣṭa-mānasaḥ .. sargam cakāra bahudhā mānasam mama ca ājñayā .. 2 ..
तमबृंहितमालोक्य प्रजासर्गं प्रजापतिः ॥ दक्षो निवेदयामास ब्रह्मणे जनकाय मे ॥ ३ ॥
तम् अ बृंहितम् आलोक्य प्रजा-सर्गम् प्रजापतिः ॥ दक्षः निवेदयामास ब्रह्मणे जनकाय मे ॥ ३ ॥
tam a bṛṃhitam ālokya prajā-sargam prajāpatiḥ .. dakṣaḥ nivedayāmāsa brahmaṇe janakāya me .. 3 ..
दक्ष उवाच ।।
ब्रह्मंस्तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ॥ मया विरचितास्सर्वास्तावत्यो हि स्थिताः खलु ॥ ४ ॥
ब्रह्मन् तात प्रजानाथ वर्द्धन्ते न प्रजाः प्रभो ॥ मया विरचिताः सर्वाः तावत्यः हि स्थिताः खलु ॥ ४ ॥
brahman tāta prajānātha varddhante na prajāḥ prabho .. mayā viracitāḥ sarvāḥ tāvatyaḥ hi sthitāḥ khalu .. 4 ..
किं करोमि प्रजानाथ वर्द्धेयुः कथमात्मना ॥ तदुपायं समाचक्ष्व प्रजाः कुर्यां न संशयः ॥ ५ ॥
किम् करोमि प्रजानाथ वर्द्धेयुः कथम् आत्मना ॥ तत् उपायम् समाचक्ष्व प्रजाः कुर्याम् न संशयः ॥ ५ ॥
kim karomi prajānātha varddheyuḥ katham ātmanā .. tat upāyam samācakṣva prajāḥ kuryām na saṃśayaḥ .. 5 ..
ब्रह्मोवाच ।।
दक्ष प्रजापते तात शृणु मे परमं वचः ॥ तत्कुरुष्व सुरश्रेष्ठ शिवस्ते शं करिष्यति ॥ ६॥
दक्ष प्रजापते तात शृणु मे परमम् वचः ॥ तत् कुरुष्व सुरश्रेष्ठ शिवः ते शम् करिष्यति ॥ ६॥
dakṣa prajāpate tāta śṛṇu me paramam vacaḥ .. tat kuruṣva suraśreṣṭha śivaḥ te śam kariṣyati .. 6..
या च पञ्चजनस्यांग सुता रम्या प्रजापतेः ॥ असिक्नी नाम पत्नीत्वे प्रजेश प्रतिगृह्यताम् ॥ ७॥
या च पञ्चजनस्य अंग सुता रम्या प्रजापतेः ॥ असिक्नी नाम पत्नी-त्वे प्रजा ईश प्रतिगृह्यताम् ॥ ७॥
yā ca pañcajanasya aṃga sutā ramyā prajāpateḥ .. asiknī nāma patnī-tve prajā īśa pratigṛhyatām .. 7..
वामव्यवायधर्मस्त्वं प्रजासर्गमिमं पुनः ॥ तद्विधायां च कामिन्यां भूरिशो भावयिष्यसि ॥ ८॥
वाम् अव्यवाय-धर्मः त्वम् प्रजा-सर्गम् इमम् पुनर् ॥ तद्विधायाम् च कामिन्याम् भूरिशस् भावयिष्यसि ॥ ८॥
vām avyavāya-dharmaḥ tvam prajā-sargam imam punar .. tadvidhāyām ca kāminyām bhūriśas bhāvayiṣyasi .. 8..
ब्रह्मोवाच ।।
ततस्समुत्पादयितुं प्रजा मैथुनधर्मतः ॥ उपयेमे वीरणस्य निदेशान्मे सुतां ततः ॥ ९॥
ततस् समुत्पादयितुम् प्रजाः मैथुन-धर्मतः ॥ उपयेमे वीरणस्य निदेशात् मे सुताम् ततस् ॥ ९॥
tatas samutpādayitum prajāḥ maithuna-dharmataḥ .. upayeme vīraṇasya nideśāt me sutām tatas .. 9..
अथ तस्यां स्वपत्न्यां च वीरिण्यां स प्रजापतिः ॥ हर्यश्वसंज्ञानयुतं दक्षः पुत्रानजीजनत् ॥ 2.2.13.१० ॥
अथ तस्याम् स्व-पत्न्याम् च वीरिण्याम् स प्रजापतिः ॥ हर्यश्व-संज्ञान-युतम् दक्षः पुत्रान् अजीजनत् ॥ २।२।१३।१० ॥
atha tasyām sva-patnyām ca vīriṇyām sa prajāpatiḥ .. haryaśva-saṃjñāna-yutam dakṣaḥ putrān ajījanat .. 2.2.13.10 ..
अपृथग्धर्मशीलास्ते सर्व आसन् सुता मुने ॥ पितृभक्तिरता नित्यं वेदमार्गपरायणाः ॥ ११ ॥
अपृथक् धर्म-शीलाः ते सर्वे आसन् सुताः मुने ॥ पितृ-भक्ति-रताः नित्यम् वेद-मार्ग-परायणाः ॥ ११ ॥
apṛthak dharma-śīlāḥ te sarve āsan sutāḥ mune .. pitṛ-bhakti-ratāḥ nityam veda-mārga-parāyaṇāḥ .. 11 ..
पितृप्रोक्ताः प्रजासर्गकरणार्थं ययुर्दिशम् ॥ प्रतीचीं तपसे तात सर्वे दाक्षायणास्सुताः ॥ १२॥
पितृ-प्रोक्ताः प्रजा-सर्ग-करण-अर्थम् ययुः दिशम् ॥ प्रतीचीम् तपसे तात सर्वे दाक्षायणाः सुताः ॥ १२॥
pitṛ-proktāḥ prajā-sarga-karaṇa-artham yayuḥ diśam .. pratīcīm tapase tāta sarve dākṣāyaṇāḥ sutāḥ .. 12..
तत्र नारायणसरस्तीर्थं परमपावनम्॥ गमो यत्र संजातो दिव्यसिन्धुसमुद्रयोः ॥ १३ ॥
तत्र नारायणसरः तीर्थम् परम-पावनम्॥ गमः यत्र संजातः दिव्य-सिन्धु-समुद्रयोः ॥ १३ ॥
tatra nārāyaṇasaraḥ tīrtham parama-pāvanam.. gamaḥ yatra saṃjātaḥ divya-sindhu-samudrayoḥ .. 13 ..
तदुपस्पर्शनादेव प्रोत्पन्नमतयोऽ भवन् ॥ धर्मे पारमहंसे च विनिर्द्धूतमलाशयाः ॥ १४॥
तद्-उपस्पर्शनात् एव भवन् ॥ धर्मे पारमहंसे च विनिर्द्धूत-मल-आशयाः ॥ १४॥
tad-upasparśanāt eva bhavan .. dharme pāramahaṃse ca vinirddhūta-mala-āśayāḥ .. 14..
प्रजाविवृद्धये ते वै तेपिर तत्र सत्तमाः ॥ दाक्षायणा दृढात्मानः पित्रादेश सुयंत्रिताः ॥ १५ ॥
प्रजा-विवृद्धये ते वै तेपिर तत्र सत्तमाः ॥ दाक्षायणाः दृढ-आत्मानः पितृ-आदेश सु यंत्रिताः ॥ १५ ॥
prajā-vivṛddhaye te vai tepira tatra sattamāḥ .. dākṣāyaṇāḥ dṛḍha-ātmānaḥ pitṛ-ādeśa su yaṃtritāḥ .. 15 ..
त्वं च तान् नारद ज्ञात्वा तपतस्सृष्टि हेतवे ॥ अगमस्तत्र भूरीणि हार्दमाज्ञाय मापतेः ॥ १६ ॥
त्वम् च तान् नारद ज्ञात्वा तपतः सृष्टि-हेतवे ॥ अगमः तत्र भूरीणि हार्दम् आज्ञाय मापतेः ॥ १६ ॥
tvam ca tān nārada jñātvā tapataḥ sṛṣṭi-hetave .. agamaḥ tatra bhūrīṇi hārdam ājñāya māpateḥ .. 16 ..
अदृष्ट्वा तं भुवस्सृष्टि कथं कर्तुं समुद्यताः ॥ हर्यश्वा दक्षतनया इत्यवोचस्तमादरात् ॥ १७ ॥
अ दृष्ट्वा तम् भुवः सृष्टि कथम् कर्तुम् समुद्यताः ॥ हर्यश्वाः दक्ष-तनयाः इति अवोचः तम् आदरात् ॥ १७ ॥
a dṛṣṭvā tam bhuvaḥ sṛṣṭi katham kartum samudyatāḥ .. haryaśvāḥ dakṣa-tanayāḥ iti avocaḥ tam ādarāt .. 17 ..
ब्रह्मोवाच ।।
तन्निशम्याथ हर्यश्वास्ते त्वदुक्तमतंद्रिताः ॥ औत्पत्तिकधियस्सर्वे स्वयं विममृशुर्भृशम् ॥ १८ ॥
तत् निशम्य अथ हर्यश्वाः ते त्वद्-उक्तम् अतंद्रिताः ॥ औत्पत्तिक-धियः सर्वे स्वयम् विममृशुः भृशम् ॥ १८ ॥
tat niśamya atha haryaśvāḥ te tvad-uktam ataṃdritāḥ .. autpattika-dhiyaḥ sarve svayam vimamṛśuḥ bhṛśam .. 18 ..
सुशास्त्रजनकादेशं यो न वेद निवर्तकम्॥ स कथं गुणविश्रंभी कर्तुं सर्गमुपक्रमेत्॥ १९॥
सुशास्त्र-जनक-आदेशम् यः न वेद निवर्तकम्॥ स कथम् गुण-विश्रंभी कर्तुम् सर्गम् उपक्रमेत्॥ १९॥
suśāstra-janaka-ādeśam yaḥ na veda nivartakam.. sa katham guṇa-viśraṃbhī kartum sargam upakramet.. 19..
इति निश्चित्य ते पुत्रास्सुधियश्चैकचेतसः ॥ प्रणम्य तं परिक्रम्यायुर्मार्गमनिवर्तकम्॥ 2.2.13.२०॥
इति निश्चित्य ते पुत्राः सुधियः च एकचेतसः ॥ प्रणम्य तम् परिक्रम्य आयुः-मार्गम् अनिवर्तकम्॥ २।२।१३।२०॥
iti niścitya te putrāḥ sudhiyaḥ ca ekacetasaḥ .. praṇamya tam parikramya āyuḥ-mārgam anivartakam.. 2.2.13.20..
नारद त्वं मनश्शंभोर्लोंकानन्यचरो मुने ॥ निर्विकारो महेशानमनोवृत्तिकरस्तदा ॥ २१ ॥
नारद त्वम् मनः शंभोः लोंक-अन् अन्य-चरः मुने ॥ निर्विकारः महेशान-मनः-वृत्ति-करः तदा ॥ २१ ॥
nārada tvam manaḥ śaṃbhoḥ loṃka-an anya-caraḥ mune .. nirvikāraḥ maheśāna-manaḥ-vṛtti-karaḥ tadā .. 21 ..
काले गते बहुतरे मम पुत्रः प्रजापतिः ॥ नाशं निशम्य पुत्राणां नारदादन्वतप्यत ॥ २२ ॥
काले गते बहुतरे मम पुत्रः प्रजापतिः ॥ नाशम् निशम्य पुत्राणाम् नारदात् अन्वतप्यत ॥ २२ ॥
kāle gate bahutare mama putraḥ prajāpatiḥ .. nāśam niśamya putrāṇām nāradāt anvatapyata .. 22 ..
मुहुर्मुहुरुवाचेति सुप्रजात्वं शुचां पदम् ॥ शुशोच बहुशो दक्षश्शिवमायाविमोहितः ॥ २३॥
मुहुर् मुहुर् उवाच इति सु प्रजा-त्वम् शुचाम् पदम् ॥ शुशोच बहुशस् दक्षः शिव-माया-विमोहितः ॥ २३॥
muhur muhur uvāca iti su prajā-tvam śucām padam .. śuśoca bahuśas dakṣaḥ śiva-māyā-vimohitaḥ .. 23..
अहमागत्य सुप्रीत्या सांत्वयं दक्षमात्मजम् ॥ शांतिभावं प्रदर्श्यैव देवं प्रबलमित्युत ॥ २४ ॥
अहम् आगत्य सु प्रीत्या सांत्वयम् दक्षम् आत्मजम् ॥ शांति-भावम् प्रदर्श्य एव देवम् प्रबलम् इति उत ॥ २४ ॥
aham āgatya su prītyā sāṃtvayam dakṣam ātmajam .. śāṃti-bhāvam pradarśya eva devam prabalam iti uta .. 24 ..
अथ दक्षः पंचजन्या मया स परिसांत्वितः ॥ सबलाश्वाभिधान्् पुत्रान् सहस्रं चाप्यजीजनत् ॥ २५ ॥
अथ दक्षः पंचजन्या मया स परिसांत्वितः ॥ सबलाश्व-अभिधान् पुत्रान् सहस्रम् च अपि अजीजनत् ॥ २५ ॥
atha dakṣaḥ paṃcajanyā mayā sa parisāṃtvitaḥ .. sabalāśva-abhidhān putrān sahasram ca api ajījanat .. 25 ..
तेपि जग्मुस्तत्र सुताः पित्रादिष्टा दृढव्रताः ॥ प्रजासर्गे अत्र सिद्धास्स्वपूर्वभ्रातरो ययुः ॥ २६ ॥
ते अपि जग्मुः तत्र सुताः पित्रा आदिष्टाः दृढ-व्रताः ॥ प्रजा-सर्गे अत्र सिद्धाः स्व-पूर्व-भ्रातरः ययुः ॥ २६ ॥
te api jagmuḥ tatra sutāḥ pitrā ādiṣṭāḥ dṛḍha-vratāḥ .. prajā-sarge atra siddhāḥ sva-pūrva-bhrātaraḥ yayuḥ .. 26 ..
तदुपस्पर्शनादेव नष्टाघा विमलाशयाः ॥ तेपुर्महत्तपस्तत्र जपन्तो ब्रह्म सुव्रताः ॥ ॥ २७ ॥
तद्-उपस्पर्शनात् एव नष्ट-अघाः विमल-आशयाः ॥ तेपुः महत् तपः तत्र जपन्तः ब्रह्म सुव्रताः ॥ ॥ २७ ॥
tad-upasparśanāt eva naṣṭa-aghāḥ vimala-āśayāḥ .. tepuḥ mahat tapaḥ tatra japantaḥ brahma suvratāḥ .. .. 27 ..
प्रजासर्गोद्यतांस्तान् वै ज्ञात्वा गत्वेति नारद ॥ पूर्ववच्चागदो वाक्यं संस्मरन्नैश्वरीं गतिम् ॥ २८ ॥
प्रजा-सर्ग-उद्यतान् तान् वै ज्ञात्वा गत्वा इति नारद ॥ पूर्ववत् च अगदः वाक्यम् संस्मरन् ऐश्वरीम् गतिम् ॥ २८ ॥
prajā-sarga-udyatān tān vai jñātvā gatvā iti nārada .. pūrvavat ca agadaḥ vākyam saṃsmaran aiśvarīm gatim .. 28 ..
भ्रातृपंथानमादिश्य त्वं मुने मोघदर्शनः ॥ अयाश्चोर्द्ध्वगतिं तेऽपि भ्रातृमार्गं ययुस्सुताः ॥ २९ ॥
भ्रातृ-पंथानम् आदिश्य त्वम् मुने मोघ-दर्शनः ॥ अयाः च ऊर्द्ध्वगतिम् ते अपि भ्रातृ-मार्गम् ययुः सुताः ॥ २९ ॥
bhrātṛ-paṃthānam ādiśya tvam mune mogha-darśanaḥ .. ayāḥ ca ūrddhvagatim te api bhrātṛ-mārgam yayuḥ sutāḥ .. 29 ..
उत्पातान् बहुशोऽपश्यत्तदैव स प्रजापतिः ॥ विस्मितोभूत्स मे पुत्रो दक्षो मनसि दुःखितः ॥ 2.2.13.३० ॥
उत्पातान् बहुशस् अपश्यत् तदा एव स प्रजापतिः ॥ विस्मितः अभूत् स मे पुत्रः दक्षः मनसि दुःखितः ॥ २।२।१३।३० ॥
utpātān bahuśas apaśyat tadā eva sa prajāpatiḥ .. vismitaḥ abhūt sa me putraḥ dakṣaḥ manasi duḥkhitaḥ .. 2.2.13.30 ..
पूर्ववत्त्वत्कृतं दक्षश्शुश्राव चकितो भृशम् ॥ पुत्रनाशं शुशोचाति पुत्रशोक विमूर्छितः ॥ ३१ ॥
पूर्ववत् त्वद्-कृतम् दक्षः शुश्राव चकितः भृशम् ॥ पुत्र-नाशम् शुशोचाति पुत्र-शोक विमूर्छितः ॥ ३१ ॥
pūrvavat tvad-kṛtam dakṣaḥ śuśrāva cakitaḥ bhṛśam .. putra-nāśam śuśocāti putra-śoka vimūrchitaḥ .. 31 ..
चुक्रोध तुभ्यं दक्षोसौ दुष्टोयमिति चाब्रवीत् ॥ आगतस्तत्र दैवात्त्वमनुग्रहकरस्तदा ॥ ३२ ॥
चुक्रोध तुभ्यम् दक्षः असौ दुष्टः यम् इति च अब्रवीत् ॥ आगतः तत्र दैवात् त्वम् अनुग्रह-करः तदा ॥ ३२ ॥
cukrodha tubhyam dakṣaḥ asau duṣṭaḥ yam iti ca abravīt .. āgataḥ tatra daivāt tvam anugraha-karaḥ tadā .. 32 ..
शोकाविष्टस्स दक्षो हि रोषविस्फुरिताधरः ॥ उपलभ्य तमाहत्य धिग्धिक् प्रोच्य विगर्हयन् ॥ ३३ ॥
शोक-आविष्टः स दक्षः हि रोष-विस्फुरित-अधरः ॥ उपलभ्य तम् आहत्य धिक् धिक् प्रोच्य विगर्हयन् ॥ ३३ ॥
śoka-āviṣṭaḥ sa dakṣaḥ hi roṣa-visphurita-adharaḥ .. upalabhya tam āhatya dhik dhik procya vigarhayan .. 33 ..
दक्ष उवाच ।।
किं कृतं तेऽधमश्रेष्ठ साधूनां साधुलिंगतः ॥ भिक्षोमार्गोऽर्भकानां वै दर्शितस्साधुकारि नो ॥ ३४॥
किम् कृतम् ते अधम-श्रेष्ठ साधूनाम् साधु-लिंगतः ॥ भिक्षः-मार्गः अर्भकानाम् वै दर्शितः साधु-कारि नः ॥ ३४॥
kim kṛtam te adhama-śreṣṭha sādhūnām sādhu-liṃgataḥ .. bhikṣaḥ-mārgaḥ arbhakānām vai darśitaḥ sādhu-kāri naḥ .. 34..
ऋणैस्त्रिभिरमुक्तानां लोकयोरुभयोः कृतः ॥ विघातश्श्रेयसोऽमीषां निर्दयेन शठेन ते ॥ ३५॥
ऋणैः त्रिभिः अमुक्तानाम् लोकयोः उभयोः कृतः ॥ विघातः श्रेयसः अमीषाम् निर्दयेन शठेन ते ॥ ३५॥
ṛṇaiḥ tribhiḥ amuktānām lokayoḥ ubhayoḥ kṛtaḥ .. vighātaḥ śreyasaḥ amīṣām nirdayena śaṭhena te .. 35..
ऋणानि त्रीण्यपाकृत्य यो गृहात्प्रव्रजेत्पुमान्॥ मातरं पितरं त्यक्त्वा मोक्षमिच्छन्व्रजत्यधः ॥ ३६॥
ऋणानि त्रीणि अपाकृत्य यः गृहात् प्रव्रजेत् पुमान्॥ मातरम् पितरम् त्यक्त्वा मोक्षम् इच्छन् व्रजति अधस् ॥ ३६॥
ṛṇāni trīṇi apākṛtya yaḥ gṛhāt pravrajet pumān.. mātaram pitaram tyaktvā mokṣam icchan vrajati adhas .. 36..
निर्दयस्त्वं सुनिर्लज्जश्शिशुधीभिद्यशोऽपहा॥ हरेः पार्षदमध्ये हि वृथा चरसि मूढधीः ॥ ३७॥
निर्दयः त्वम् सु निर्लज्जः शिशु-धी-भिद् यशः-अपहा॥ हरेः पार्षद-मध्ये हि वृथा चरसि मूढ-धीः ॥ ३७॥
nirdayaḥ tvam su nirlajjaḥ śiśu-dhī-bhid yaśaḥ-apahā.. hareḥ pārṣada-madhye hi vṛthā carasi mūḍha-dhīḥ .. 37..
मुहुर्मुहुरभद्रं त्वमचरो मेऽधमा ऽधम ॥ विभवेद्भ्रमतस्तेऽतः पदं लोकेषु स्थिरम्॥ ३८॥
मुहुर् मुहुर् अभद्रम् त्वम् अचरः मे अधमा अधम ॥ विभवेत् भ्रमतः ते अतस् पदम् लोकेषु स्थिरम्॥ ३८॥
muhur muhur abhadram tvam acaraḥ me adhamā adhama .. vibhavet bhramataḥ te atas padam lokeṣu sthiram.. 38..
शशापेति शुचा दक्षस्त्वां तदा साधुसंमतम्॥ बुबोध नेश्वरेच्छां स शिवमायाविमोहितः ॥ ३९॥
शशाप इति शुचा दक्षः त्वाम् तदा साधु-संमतम्॥ बुबोध ना ईश्वर-इच्छाम् स शिव-माया-विमोहितः ॥ ३९॥
śaśāpa iti śucā dakṣaḥ tvām tadā sādhu-saṃmatam.. bubodha nā īśvara-icchām sa śiva-māyā-vimohitaḥ .. 39..
शापं प्रत्यग्रहीश्च त्वं स मुने निर्विकारधीः ॥ एष एव ब्रह्मसाधो सहते सोपि च स्वयम्॥ 2.2.13.४०॥
शापम् प्रत्यग्रहीः च त्वम् स मुने निर्विकार-धीः ॥ एषः एव ब्रह्मसाधो सहते सः उपि च स्वयम्॥ २।२।१३।४०॥
śāpam pratyagrahīḥ ca tvam sa mune nirvikāra-dhīḥ .. eṣaḥ eva brahmasādho sahate saḥ upi ca svayam.. 2.2.13.40..
इति श्रीशिव महापुराणे द्वितीयायां रुद्रसंहितायां द्वि० सतीखंडे दक्षसृष्टौ नारदशापो नाम त्रयोदशोऽध्यायः ॥ १३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वि-सतीखण्डे दक्षसृष्टौ नारदशापः नाम त्रयोदशः अध्यायः ॥ १३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvi-satīkhaṇḍe dakṣasṛṣṭau nāradaśāpaḥ nāma trayodaśaḥ adhyāyaḥ .. 13 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In