| |
|

This overlay will guide you through the buttons:

एतस्मिन्नन्तरे देवमुने लोकपितामह ॥ तत्रागममहं प्रीत्या ज्ञात्वा तच्चरितं द्रुतम् ॥ १॥
एतस्मिन् अन्तरे देव-मुने लोकपितामह ॥ तत्र अगमम् अहम् प्रीत्या ज्ञात्वा तद्-चरितम् द्रुतम् ॥ १॥
etasmin antare deva-mune lokapitāmaha .. tatra agamam aham prītyā jñātvā tad-caritam drutam .. 1..
ब्रह्मोवाच ।। ।।
असांत्वयमहं दक्षं पूर्ववत्सुविचक्षणः ॥ अकार्षं तेन सुस्नेहं तव सुप्रीतिमावहन् ॥ २॥
असाम् तु अयम् अहम् दक्षम् पूर्ववत् सु विचक्षणः ॥ अकार्षम् तेन सु स्नेहम् तव सु प्रीतिम् आवहन् ॥ २॥
asām tu ayam aham dakṣam pūrvavat su vicakṣaṇaḥ .. akārṣam tena su sneham tava su prītim āvahan .. 2..
स्वात्मजं मुनिवर्यं त्वां सुप्रीत्या देववल्लभम्॥ समाश्वास्य समादाय प्रत्यपद्ये स्वधाम ह॥ ३॥
स्व-आत्मजम् मुनि-वर्यम् त्वाम् सु प्रीत्या देव-वल्लभम्॥ समाश्वास्य समादाय प्रत्यपद्ये स्व-धाम ह॥ ३॥
sva-ātmajam muni-varyam tvām su prītyā deva-vallabham.. samāśvāsya samādāya pratyapadye sva-dhāma ha.. 3..
ततः प्रजापतिर्दक्षोऽनुनीतो मे निजस्त्रियाम् ॥ जनयामास दुहितॄस्सुभगाः षष्टिसंमिताः ॥ ४॥
ततस् प्रजापतिः दक्षः अनुनीतः मे निज-स्त्रियाम् ॥ जनयामास दुहितॄः सुभगाः षष्टि-संमिताः ॥ ४॥
tatas prajāpatiḥ dakṣaḥ anunītaḥ me nija-striyām .. janayāmāsa duhitṝḥ subhagāḥ ṣaṣṭi-saṃmitāḥ .. 4..
तासां विवाहकृतवान्धर्मादिभिरतंद्रितः ॥ तदेव शृणु सुप्रीत्या प्रवदामि मुनीश्वर ॥ ५॥
तासाम् विवाह-कृतवान् धर्म-आदिभिः अतंद्रितः ॥ तत् एव शृणु सु प्रीत्या प्रवदामि मुनि-ईश्वर ॥ ५॥
tāsām vivāha-kṛtavān dharma-ādibhiḥ ataṃdritaḥ .. tat eva śṛṇu su prītyā pravadāmi muni-īśvara .. 5..
ददौ दश सुता दक्षो धर्माय विधिवन्मुने ॥ त्रयोदश कश्यपाय मुनये त्रिनवेंदवे ॥ ६ ॥
ददौ दश सुताः दक्षः धर्माय विधिवत् मुने ॥ त्रयोदश कश्यपाय मुनये त्रिनव-इंदवे ॥ ६ ॥
dadau daśa sutāḥ dakṣaḥ dharmāya vidhivat mune .. trayodaśa kaśyapāya munaye trinava-iṃdave .. 6 ..
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे पुत्री प्रदत्तवान् ॥ तार्क्ष्याय चापरः कन्या प्रसूतिप्रसवैर्यतः ॥ ७॥
भूतांगिरः कृशाश्वेभ्यः द्वे द्वे पुत्री प्रदत्तवान् ॥ तार्क्ष्याय च अपरः कन्या प्रसूति-प्रसवैः यतस् ॥ ७॥
bhūtāṃgiraḥ kṛśāśvebhyaḥ dve dve putrī pradattavān .. tārkṣyāya ca aparaḥ kanyā prasūti-prasavaiḥ yatas .. 7..
त्रिलोकाः पूरितास्तन्नो वर्ण्यते व्यासतो भयात् ॥ ८ ॥
त्रि-लोकाः पूरिताः तत् नः वर्ण्यते व्यासतः भयात् ॥ ८ ॥
tri-lokāḥ pūritāḥ tat naḥ varṇyate vyāsataḥ bhayāt .. 8 ..
केचिद्वदंति तां ज्येष्ठां मध्यमां चापरे शिवाम् ॥ सर्वानन्तरजां केचित्कल्पभेदात्त्रयं च सत ॥ ९॥
केचिद् वदंति ताम् ज्येष्ठाम् मध्यमाम् च अपरे शिवाम् ॥ सर्व-अनन्तर-जाम् केचिद् कल्प-भेदात् त्रयम् च सत ॥ ९॥
kecid vadaṃti tām jyeṣṭhām madhyamām ca apare śivām .. sarva-anantara-jām kecid kalpa-bhedāt trayam ca sata .. 9..
अनंतरं सुतोत्पत्तेः सपत्नीकः प्रजापतिः ॥ दक्षो दधौ सुप्रीत्मा तां मनसा जगदम्बिकाम् ॥ 2.2.14.१०॥
अनंतरम् सुत-उत्पत्तेः स पत्नीकः प्रजापतिः ॥ दक्षः सु प्रीत्मा ताम् मनसा जगत्-अम्बिकाम् ॥ २।२।१४।१०॥
anaṃtaram suta-utpatteḥ sa patnīkaḥ prajāpatiḥ .. dakṣaḥ su prītmā tām manasā jagat-ambikām .. 2.2.14.10..
अतः प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ॥ भूयोभूयो नमस्कृत्य सांजलिर्विनयान्वितः ॥ ११ ॥
अतस् प्रेम्णा च तुष्टाव गिरा गद्गदया हि सः ॥ भूयस् भूयस् नमस्कृत्य स अंजलिः विनय-अन्वितः ॥ ११ ॥
atas premṇā ca tuṣṭāva girā gadgadayā hi saḥ .. bhūyas bhūyas namaskṛtya sa aṃjaliḥ vinaya-anvitaḥ .. 11 ..
सन्तुष्टा सा तदा देवी विचारं मनसीति च ॥ चक्रेऽवतारं वीरिण्यां कुर्यां पणविपूर्तये ॥ १२ ॥
सन्तुष्टा सा तदा देवी विचारम् मनसि इति च ॥ चक्रे अवतारम् वीरिण्याम् कुर्याम् पण-विपूर्तये ॥ १२ ॥
santuṣṭā sā tadā devī vicāram manasi iti ca .. cakre avatāram vīriṇyām kuryām paṇa-vipūrtaye .. 12 ..
अथ सोवास मनसि दक्षस्य जगदम्बिका ॥ विललास तदातीव स दक्षो मुनिसत्तम ॥ १३ ॥
अथ सा उवास मनसि दक्षस्य जगदम्बिका ॥ विललास तदा अतीव स दक्षः मुनि-सत्तम ॥ १३ ॥
atha sā uvāsa manasi dakṣasya jagadambikā .. vilalāsa tadā atīva sa dakṣaḥ muni-sattama .. 13 ..
सुमुहूर्तेनाथ दक्षोऽपि स्वपत्न्यां निदधे मुदा ॥ दक्षपत्न्यास्तदा चित्ते शिवोवास दयान्विता ॥ १४ ॥
सु मुहूर्तेन अथ दक्षः अपि स्व-पत्न्याम् निदधे मुदा ॥ दक्ष-पत्न्याः तदा चित्ते शिवा उवास दया-अन्विता ॥ १४ ॥
su muhūrtena atha dakṣaḥ api sva-patnyām nidadhe mudā .. dakṣa-patnyāḥ tadā citte śivā uvāsa dayā-anvitā .. 14 ..
आविर्बभूवुश्चिह्नानि दोहदस्याखिलानि वै ॥ १५ ॥
आविर्बभूवुः चिह्नानि दोहदस्य अखिलानि वै ॥ १५ ॥
āvirbabhūvuḥ cihnāni dohadasya akhilāni vai .. 15 ..
विरेजे वीरिणी तात हृष्टचित्ताधिका च सा ॥ शिवावासप्रभावात्तु महामंगल रूपिणी ॥ १५ ॥
विरेजे वीरिणी तात हृष्ट-चित्ता अधिका च सा ॥ शिव-आवास-प्रभावात् तु महामंगल रूपिणी ॥ १५ ॥
vireje vīriṇī tāta hṛṣṭa-cittā adhikā ca sā .. śiva-āvāsa-prabhāvāt tu mahāmaṃgala rūpiṇī .. 15 ..
कुलस्य संपदश्चैव श्रुतेश्चित्तसमुन्नतेः ॥ व्यधत्त सुक्रिया दक्षः प्रीत्या पुंसवनादिकाः ॥ १७ ॥
कुलस्य संपदः च एव श्रुतेः चित्त-समुन्नतेः ॥ व्यधत्त सुक्रियाः दक्षः प्रीत्या पुंसवन-आदिकाः ॥ १७ ॥
kulasya saṃpadaḥ ca eva śruteḥ citta-samunnateḥ .. vyadhatta sukriyāḥ dakṣaḥ prītyā puṃsavana-ādikāḥ .. 17 ..
उत्सवोतीव संजातस्तदा तेषु च कर्मसु ॥ वित्तं ददौ द्विजातिभ्यो यथाकामं प्रजापतिः ॥ १८ ॥
उत्सवः उतीव संजातः तदा तेषु च कर्मसु ॥ वित्तम् ददौ द्विजातिभ्यः यथाकामम् प्रजापतिः ॥ १८ ॥
utsavaḥ utīva saṃjātaḥ tadā teṣu ca karmasu .. vittam dadau dvijātibhyaḥ yathākāmam prajāpatiḥ .. 18 ..
अथ तस्मिन्नवसरे सर्वे हर्यादयस्सुराः ॥ ज्ञात्वा गर्भगतां देवीं वीरिण्यास्ते मुदं ययुः ॥ १९॥
अथ तस्मिन् अवसरे सर्वे हरि-आदयः सुराः ॥ ज्ञात्वा गर्भ-गताम् देवीम् वीरिण्याः ते मुदम् ययुः ॥ १९॥
atha tasmin avasare sarve hari-ādayaḥ surāḥ .. jñātvā garbha-gatām devīm vīriṇyāḥ te mudam yayuḥ .. 19..
तत्रागत्य च सर्वे ते तुष्टुवुर्जगदम्बिकाम् ॥ लोकोपकारकरिणीं प्रणम्य च मुहुर्मुहुः ॥ 2.2.14.२०॥
तत्र आगत्य च सर्वे ते तुष्टुवुः जगदम्बिकाम् ॥ लोक-उपकार-करिणीम् प्रणम्य च मुहुर् मुहुर् ॥ २।२।१४।२०॥
tatra āgatya ca sarve te tuṣṭuvuḥ jagadambikām .. loka-upakāra-kariṇīm praṇamya ca muhur muhur .. 2.2.14.20..
कृत्वा ततस्ते बहुधा प्रशंसां हृष्टमानसाः ॥ दक्षप्रजापतेश्चैव वीरिण्यास्स्वगृहं ययुः ॥ २१॥
कृत्वा ततस् ते बहुधा प्रशंसाम् हृष्ट-मानसाः ॥ दक्ष-प्रजापतेः च एव वीरिण्याः स्व-गृहम् ययुः ॥ २१॥
kṛtvā tatas te bahudhā praśaṃsām hṛṣṭa-mānasāḥ .. dakṣa-prajāpateḥ ca eva vīriṇyāḥ sva-gṛham yayuḥ .. 21..
गतेषु नवमासेषु कारयित्वा च लौकिकीम् ॥ गतिं शिवा च पूर्णे सा दशमे मासि नारद ॥ २२ ॥
गतेषु नव-मासेषु कारयित्वा च लौकिकीम् ॥ गतिम् शिवा च पूर्णे सा दशमे मासि नारद ॥ २२ ॥
gateṣu nava-māseṣu kārayitvā ca laukikīm .. gatim śivā ca pūrṇe sā daśame māsi nārada .. 22 ..
आविर्बभूव पुरतो मातुस्सद्यस्तदा मुने॥ मुहूर्ते सुखदे चन्द्रग्रहतारानुकूलके ॥ २३ ॥
आविर्बभूव पुरतस् मातुः सद्यस् तदा मुने॥ मुहूर्ते सुख-दे चन्द्र-ग्रह-तारा-अनुकूलके ॥ २३ ॥
āvirbabhūva puratas mātuḥ sadyas tadā mune.. muhūrte sukha-de candra-graha-tārā-anukūlake .. 23 ..
तस्यां तु जातमात्रायां सुप्रीतोऽसौ प्रजापतिः ॥ सैव देवीति तां मेने दृष्ट्वा तां तेजसोल्बणाम् ॥ २४ ॥
तस्याम् तु जात-मात्रायाम् सु प्रीतः असौ प्रजापतिः ॥ सा एव देवी इति ताम् मेने दृष्ट्वा ताम् तेजसा उल्बणाम् ॥ २४ ॥
tasyām tu jāta-mātrāyām su prītaḥ asau prajāpatiḥ .. sā eva devī iti tām mene dṛṣṭvā tām tejasā ulbaṇām .. 24 ..
तदाभूत्पुष्पसद्वृष्टिर्मेघाश्च ववृषुर्जलम् ॥ दिशश्शांता द्रुतं तस्यां जातायां च मुनीश्वर ॥ २५ ॥
तदा अभूत् पुष्प-सत्-वृष्टिः मेघाः च ववृषुः जलम् ॥ दिशः शांताः द्रुतम् तस्याम् जातायाम् च मुनि-ईश्वर ॥ २५ ॥
tadā abhūt puṣpa-sat-vṛṣṭiḥ meghāḥ ca vavṛṣuḥ jalam .. diśaḥ śāṃtāḥ drutam tasyām jātāyām ca muni-īśvara .. 25 ..
अवादयंत त्रिदशाश्शुभवाद्यानि खे गताः॥ जज्ज्वलुश्चाग्नयश्शांताः सर्वमासीत्सुमंगलम्॥ २६॥
अवादयन्त त्रिदशाः शुभ-वाद्यानि खे गताः॥ जज्ज्वलुः च अग्नयः शांताः सर्वम् आसीत् सु मंगलम्॥ २६॥
avādayanta tridaśāḥ śubha-vādyāni khe gatāḥ.. jajjvaluḥ ca agnayaḥ śāṃtāḥ sarvam āsīt su maṃgalam.. 26..
वीरिणोसंभवां दृष्ट्वा दक्षस्तां जगदम्बिकाम् ॥ नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७ ॥
वीरिणोसंभवाम् दृष्ट्वा दक्षः ताम् जगदम्बिकाम् ॥ नमस्कृत्य करौ बद्ध्वा बहु तुष्टाव भक्तितः ॥ २७ ॥
vīriṇosaṃbhavām dṛṣṭvā dakṣaḥ tām jagadambikām .. namaskṛtya karau baddhvā bahu tuṣṭāva bhaktitaḥ .. 27 ..
दक्ष उवाच ।।
महेशानि नमस्तुभ्यं जगदम्बे सनातनि ॥ कृपां कुरु महादेवि सत्ये सत्यस्वरूपिणि ॥ २८॥
महेशानि नमः तुभ्यम् जगदम्बे सनातनि ॥ कृपाम् कुरु महादेवि सत्ये सत्य-स्वरूपिणि ॥ २८॥
maheśāni namaḥ tubhyam jagadambe sanātani .. kṛpām kuru mahādevi satye satya-svarūpiṇi .. 28..
शिवा शांता महामाया योगनिद्रा जगन्मयी॥ या प्रोच्यते वेदविद्भिर्नमामि त्वां हितावहाम् ॥ २९ ॥
शिवा शांता महामाया योगनिद्रा जगत्-मयी॥ या प्रोच्यते वेद-विद्भिः नमामि त्वाम् हित-आवहाम् ॥ २९ ॥
śivā śāṃtā mahāmāyā yoganidrā jagat-mayī.. yā procyate veda-vidbhiḥ namāmi tvām hita-āvahām .. 29 ..
यया धाता जगत्सृष्टौ नियुक्तस्तां पुराकरोत् ॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ 2.2.14.३०॥
यया धाता जगत्-सृष्टौ नियुक्तः ताम् पुरा अकरोत् ॥ ताम् त्वाम् नमामि परमाम् जगद्धात्रीम् महेश्वरीम् ॥ २।२।१४।३०॥
yayā dhātā jagat-sṛṣṭau niyuktaḥ tām purā akarot .. tām tvām namāmi paramām jagaddhātrīm maheśvarīm .. 2.2.14.30..
यया विष्णुर्जगत्स्थित्यै नियुक्तस्तां सदाकरोत् ॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३१॥
यया विष्णुः जगत्-स्थित्यै नियुक्तः ताम् सदा अकरोत् ॥ ताम् त्वाम् नमामि परमाम् जगद्धात्रीम् महेश्वरीम् ॥ ३१॥
yayā viṣṇuḥ jagat-sthityai niyuktaḥ tām sadā akarot .. tām tvām namāmi paramām jagaddhātrīm maheśvarīm .. 31..
यया रुद्रो जगन्नाशे नियुक्तस्तां सदाकरोत्॥ तां त्वां नमामि परमां जगद्धात्रीं महेश्वरीम् ॥ ३२॥
यया रुद्रः जगत्-नाशे नियुक्तः ताम् सदा अकरोत्॥ ताम् त्वाम् नमामि परमाम् जगद्धात्रीम् महेश्वरीम् ॥ ३२॥
yayā rudraḥ jagat-nāśe niyuktaḥ tām sadā akarot.. tām tvām namāmi paramām jagaddhātrīm maheśvarīm .. 32..
रजस्सत्त्वतमोरूपां सर्वकार्यकरीं सदा ॥ त्रिदेवजननीं देवीं त्वां नमामि च तां शिवाम् ॥ ३३॥
रजः-सत्त्व-तमः-रूपाम् सर्व-कार्य-करीम् सदा ॥ त्रिदेव-जननीम् देवीम् त्वाम् नमामि च ताम् शिवाम् ॥ ३३॥
rajaḥ-sattva-tamaḥ-rūpām sarva-kārya-karīm sadā .. trideva-jananīm devīm tvām namāmi ca tām śivām .. 33..
यस्त्वां विचिंतयेद्देवीं विद्याविद्यात्मिकां पराम् ॥ तस्य भुक्तिश्च मुक्तिश्च सदा करतले स्थिता॥ ३४॥ ।
यः त्वाम् विचिंतयेत् देवीम् विद्या-अविद्या-आत्मिकाम् पराम् ॥ तस्य भुक्तिः च मुक्तिः च सदा कर-तले स्थिता॥ ३४॥ ।
yaḥ tvām viciṃtayet devīm vidyā-avidyā-ātmikām parām .. tasya bhuktiḥ ca muktiḥ ca sadā kara-tale sthitā.. 34.. .
यस्त्वां प्रत्यक्षतो देवि शिवां पश्यति पावनीम् ॥ तस्यावश्यं भवेन्मुक्तिर्विद्याविद्याप्रकाशिका ॥ ३५ ॥ ।
यः त्वाम् प्रत्यक्षतस् देवि शिवाम् पश्यति पावनीम् ॥ तस्य अवश्यम् भवेत् मुक्तिः विद्या-अविद्या-प्रकाशिका ॥ ३५ ॥ ।
yaḥ tvām pratyakṣatas devi śivām paśyati pāvanīm .. tasya avaśyam bhavet muktiḥ vidyā-avidyā-prakāśikā .. 35 .. .
ये स्तुवंति जगन्मातर्भवानीमंबिकेति च ॥ जगन्मयीति दुर्गेति सर्वं तेषां भविष्यति ॥ ३६ ॥
ये स्तुवंति जगन्मातर् भवानीम् अंबिका इति च ॥ जगत्-मयी इति दुर्गा इति सर्वम् तेषाम् भविष्यति ॥ ३६ ॥
ye stuvaṃti jaganmātar bhavānīm aṃbikā iti ca .. jagat-mayī iti durgā iti sarvam teṣām bhaviṣyati .. 36 ..
ब्रह्मोवाच ।।
इति स्तुता जगन्माता शिवा दक्षेण धीमता ॥ तथोवाच तदा दक्षं यथा माता शृणोति न ॥ ३७ ॥
इति स्तुता जगन्माता शिवा दक्षेण धीमता ॥ तथा उवाच तदा दक्षम् यथा माता शृणोति न ॥ ३७ ॥
iti stutā jaganmātā śivā dakṣeṇa dhīmatā .. tathā uvāca tadā dakṣam yathā mātā śṛṇoti na .. 37 ..
सर्वं मुमोह तथ्यं च तथा दक्षः शृणोतु तत् ॥ नान्यस्तथा शिवा प्राह नानोतिः परमेश्वरी ॥ ३८ ॥
सर्वम् मुमोह तथ्यम् च तथा दक्षः शृणोतु तत् ॥ न अन्यः तथा शिवा प्राह न अनोतिः परमेश्वरी ॥ ३८ ॥
sarvam mumoha tathyam ca tathā dakṣaḥ śṛṇotu tat .. na anyaḥ tathā śivā prāha na anotiḥ parameśvarī .. 38 ..
देव्युवाच ।।
अहमाराधिता पूर्वं सुतार्थं ते प्रजापते ॥ ईप्सितं तव सिद्धं तु तपो धारय संप्रति ॥ ३९ ॥
अहम् आराधिता पूर्वम् सुत-अर्थम् ते प्रजापते ॥ ईप्सितम् तव सिद्धम् तु तपः धारय संप्रति ॥ ३९ ॥
aham ārādhitā pūrvam suta-artham te prajāpate .. īpsitam tava siddham tu tapaḥ dhāraya saṃprati .. 39 ..
ब्रह्मोवाच ।।
एवमुक्त्वा तदा देवी दक्षं च निजमायया ॥ आस्थाय शैशवं भावं जनन्यंते रुरोद सा ॥ 2.2.14.४०॥
एवम् उक्त्वा तदा देवी दक्षम् च निज-मायया ॥ आस्थाय शैशवम् भावम् जननी-अंते रुरोद सा ॥ २।२।१४।४०॥
evam uktvā tadā devī dakṣam ca nija-māyayā .. āsthāya śaiśavam bhāvam jananī-aṃte ruroda sā .. 2.2.14.40..
अथ तद्रोदनं श्रुत्वा स्त्रियो वाक्यं ससंभ्रमाः॥ आगतास्तत्र सुप्रीत्या दास्योपि च ससंभ्रमाः ॥ ४१ ॥
अथ तत् रोदनम् श्रुत्वा स्त्रियः वाक्यम् स संभ्रमाः॥ आगताः तत्र सु प्रीत्या दास्या उपि च स संभ्रमाः ॥ ४१ ॥
atha tat rodanam śrutvā striyaḥ vākyam sa saṃbhramāḥ.. āgatāḥ tatra su prītyā dāsyā upi ca sa saṃbhramāḥ .. 41 ..
दृष्ट्वासिक्नीसुतारूपं ननन्दुस्सर्वयोषितः ॥ सर्वे पौरजनाश्चापि चक्रुर्जयरवं तदा ॥ ४२ ॥
दृष्ट्वा असिक्नी-सुता-रूपम् ननन्दुः सर्व-योषितः ॥ सर्वे पौर-जनाः च अपि चक्रुः जय-रवम् तदा ॥ ४२ ॥
dṛṣṭvā asiknī-sutā-rūpam nananduḥ sarva-yoṣitaḥ .. sarve paura-janāḥ ca api cakruḥ jaya-ravam tadā .. 42 ..
उत्सवश्च महानासीद्गानवाद्यपुरस्सरम् ॥ दक्षोसिक्नी मुदं लेभे शुभं दृष्ट्वा सुताननम् ॥ ४३ ॥
उत्सवः च महान् आसीत् गान-वाद्य-पुरस्सरम् ॥ दक्षोसिक्नी मुदम् लेभे शुभम् दृष्ट्वा सुत-आननम् ॥ ४३ ॥
utsavaḥ ca mahān āsīt gāna-vādya-purassaram .. dakṣosiknī mudam lebhe śubham dṛṣṭvā suta-ānanam .. 43 ..
दक्षः श्रुतिकुलाचारं चक्रे च विधिवत्तदा ॥ दानं ददौ द्विजातिभ्योन्येभ्यश्च द्रविणं तथा ॥ ४४ ॥
दक्षः श्रुति-कुल-आचारम् चक्रे च विधिवत् तदा ॥ दानम् ददौ द्विजातिभ्यः न्येभ्यः च द्रविणम् तथा ॥ ४४ ॥
dakṣaḥ śruti-kula-ācāram cakre ca vidhivat tadā .. dānam dadau dvijātibhyaḥ nyebhyaḥ ca draviṇam tathā .. 44 ..
बभूव सर्वतो गानं नर्तनं च यथोचितम् ॥ नेदुर्वाद्यानि बहुशस्सुमंगलपुरस्सरम् ॥ ४५ ॥
बभूव सर्वतस् गानम् नर्तनम् च यथोचितम् ॥ नेदुः वाद्यानि बहुशस् सुमंगल-पुरस्सरम् ॥ ४५ ॥
babhūva sarvatas gānam nartanam ca yathocitam .. neduḥ vādyāni bahuśas sumaṃgala-purassaram .. 45 ..
अथ हर्यादयो देवास्सर्वे सानुचरास्तदा ॥ मुनिवृन्दैः समागत्योत्सवं चक्रुर्यथाविधि ॥ ४६॥
अथ हरि-आदयः देवाः सर्वे स अनुचराः तदा ॥ मुनि-वृन्दैः समागत्य उत्सवम् चक्रुः यथाविधि ॥ ४६॥
atha hari-ādayaḥ devāḥ sarve sa anucarāḥ tadā .. muni-vṛndaiḥ samāgatya utsavam cakruḥ yathāvidhi .. 46..
दृष्ट्वा दक्षसुतामंबां जगतः परमेश्वरीम् ॥ नेमुः सविनयास्सर्वे तुष्टुवुश्च शुभैस्तवैः ॥ ४७ ॥
दृष्ट्वा दक्ष-सुताम् अंबाम् जगतः परमेश्वरीम् ॥ नेमुः स विनयाः सर्वे तुष्टुवुः च शुभैः तवैः ॥ ४७ ॥
dṛṣṭvā dakṣa-sutām aṃbām jagataḥ parameśvarīm .. nemuḥ sa vinayāḥ sarve tuṣṭuvuḥ ca śubhaiḥ tavaiḥ .. 47 ..
ऊचुस्सर्वे प्रमुदिता गिरं जयजयात्मिकाम् ॥ प्रशशंसुर्मुदा दक्षं वीरिणीं च विशेषतः ॥ ४८ ॥
ऊचुः सर्वे प्रमुदिताः गिरम् जय-जय-आत्मिकाम् ॥ प्रशशंसुः मुदा दक्षम् वीरिणीम् च विशेषतः ॥ ४८ ॥
ūcuḥ sarve pramuditāḥ giram jaya-jaya-ātmikām .. praśaśaṃsuḥ mudā dakṣam vīriṇīm ca viśeṣataḥ .. 48 ..
तदोमेति नाम चक्रे तस्या दक्षस्तदाज्ञया ॥ प्रशस्तायास्सर्वगुणसत्त्वादपि मुदान्वितः ॥ ४९ ॥
तदा उमा इति नाम चक्रे तस्याः दक्षः तद्-आज्ञया ॥ प्रशस्तायाः सर्व-गुण-सत्त्वात् अपि मुदा अन्वितः ॥ ४९ ॥
tadā umā iti nāma cakre tasyāḥ dakṣaḥ tad-ājñayā .. praśastāyāḥ sarva-guṇa-sattvāt api mudā anvitaḥ .. 49 ..
नामान्यन्यानि तस्यास्तु पश्चाज्जातानि लोकतः ॥ महामंगलदान्येव दुःखघ्नानि विशेषतः ॥ 2.2.14.५० ॥
नामानि अन्यानि तस्याः तु पश्चात् जातानि लोकतः ॥ महा-मंगल-दानि एव दुःख-घ्नानि विशेषतः ॥ २।२।१४।५० ॥
nāmāni anyāni tasyāḥ tu paścāt jātāni lokataḥ .. mahā-maṃgala-dāni eva duḥkha-ghnāni viśeṣataḥ .. 2.2.14.50 ..
दक्षस्तदा हरिं नत्वा मां सर्वानमरानपि ॥ मुनीनपि करौ बद्ध्वा स्तुत्वा चानर्च भक्तितः ॥ ५१ ॥
दक्षः तदा हरिम् नत्वा माम् सर्वान् अमरान् अपि ॥ मुनीन् अपि करौ बद्ध्वा स्तुत्वा च अनर्च भक्तितः ॥ ५१ ॥
dakṣaḥ tadā harim natvā mām sarvān amarān api .. munīn api karau baddhvā stutvā ca anarca bhaktitaḥ .. 51 ..
अथ विष्ण्वादयस्सर्वे सुप्रशस्याजनंदनम् ॥ प्रीत्या ययुस्वधामानि संस्मरन् सशिवं शिवम् ॥ ५२ ॥
अथ विष्णु-आदयः सर्वे ॥ प्रीत्या ययुः स्व-धामानि संस्मरन् स शिवम् शिवम् ॥ ५२ ॥
atha viṣṇu-ādayaḥ sarve .. prītyā yayuḥ sva-dhāmāni saṃsmaran sa śivam śivam .. 52 ..
अतस्तां च सुतां माता सुसंस्कृत्य यथोचितम् ॥ शिशुपानेन विधिना तस्यै स्तन्यादिकं ददौ ॥ ५३ ॥
अतस् ताम् च सुताम् माता सु संस्कृत्य यथोचितम् ॥ शिशुपानेन विधिना तस्यै स्तन्य-आदिकम् ददौ ॥ ५३ ॥
atas tām ca sutām mātā su saṃskṛtya yathocitam .. śiśupānena vidhinā tasyai stanya-ādikam dadau .. 53 ..
पालिता साथ वीरिण्या दक्षेण च महात्मना ॥ ववृधे शुक्लपक्षस्य यथा शशिकलान्वहम् ॥ ५४ ॥
पालिता सा अथ वीरिण्या दक्षेण च महात्मना ॥ ववृधे शुक्ल-पक्षस्य यथा शशि-कला अन्वहम् ॥ ५४ ॥
pālitā sā atha vīriṇyā dakṣeṇa ca mahātmanā .. vavṛdhe śukla-pakṣasya yathā śaśi-kalā anvaham .. 54 ..
तस्यां तु सद्गुणास्सर्वे विविशुर्द्विजसत्तम ॥ शैशवेपि यथा चन्द्रे कलास्सर्वा मनोहराः ॥ ५५ ॥
तस्याम् तु सत्-गुणाः सर्वे विविशुः द्विजसत्तम ॥ शैशवे अपि यथा चन्द्रे कलाः सर्वाः मनोहराः ॥ ५५ ॥
tasyām tu sat-guṇāḥ sarve viviśuḥ dvijasattama .. śaiśave api yathā candre kalāḥ sarvāḥ manoharāḥ .. 55 ..
आचरन्निजभावेन सखीमध्यगता यदा ॥ तदा लिलेख भर्गस्य प्रतिमामन्वहं मुहुः ॥ ५६ ॥
आचरत् निज-भावेन सखी-मध्य-गता यदा ॥ तदा लिलेख भर्गस्य प्रतिमाम् अन्वहम् मुहुर् ॥ ५६ ॥
ācarat nija-bhāvena sakhī-madhya-gatā yadā .. tadā lilekha bhargasya pratimām anvaham muhur .. 56 ..
यदा जगौ सुगीतानि शिवा बाल्योचितानि सा ॥ तदा स्थाणुं हरं रुद्रं सस्मार स्मरशासनम् ॥ ५७ ॥
यदा जगौ सु गीतानि शिवा बाल्य-उचितानि सा ॥ तदा स्थाणुम् हरम् रुद्रम् सस्मार स्मरशासनम् ॥ ५७ ॥
yadā jagau su gītāni śivā bālya-ucitāni sā .. tadā sthāṇum haram rudram sasmāra smaraśāsanam .. 57 ..
ववृधेतीव दंपत्योः प्रत्यहं करुणातुला ॥ तस्या बाल्येपि भक्तायास्तयोर्नित्यं मुहुर्मुहुः ॥ ५८ ॥
ववृधे इति इव दंपत्योः प्रत्यहम् करुणा-तुला ॥ तस्याः बाल्ये अपि भक्तायाः तयोः नित्यम् मुहुर् मुहुर् ॥ ५८ ॥
vavṛdhe iti iva daṃpatyoḥ pratyaham karuṇā-tulā .. tasyāḥ bālye api bhaktāyāḥ tayoḥ nityam muhur muhur .. 58 ..
सर्वबालागुणा क्रांतां सदा स्वालयकारिणीम्॥ तोषयामास पितरौ नित्यंनित्यं मुहुर्मुहुः॥ ५९॥
सर्व सदा॥ तोषयामास पितरौ नित्यम् नित्यम् मुहुर् मुहुर्॥ ५९॥
sarva sadā.. toṣayāmāsa pitarau nityam nityam muhur muhur.. 59..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां सती खण्डे सतीजन्म बाललीलावर्णनंनाम चतुर्दशोऽध्यायः ॥ १४ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् सती-खण्डे सतीजन्म बाललीलावर्णनम् नाम चतुर्दशः अध्यायः ॥ १४ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām satī-khaṇḍe satījanma bālalīlāvarṇanam nāma caturdaśaḥ adhyāyaḥ .. 14 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In