| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
अथैकदा पितुः पार्श्वे तिष्ठंतीं तां सतीमहम् ॥ त्वया सह मुनेद्राक्षं सारभूतां त्रिलोकके ॥ १ ॥
अथा एकदा पितुः पार्श्वे तिष्ठंतीम् ताम् सतीम् अहम् ॥ त्वया सह मुने इद्राक्षम् सार-भूताम् त्रिलोकके ॥ १ ॥
athā ekadā pituḥ pārśve tiṣṭhaṃtīm tām satīm aham .. tvayā saha mune idrākṣam sāra-bhūtām trilokake .. 1 ..
पित्रा नमस्कृतं वीक्ष्य सत्कृतं त्वां च मां सती ॥ प्रणनाम मुदा भक्त्या लोकलीलानुसारिणी ॥ २ ॥
पित्रा नमस्कृतम् वीक्ष्य सत्कृतम् त्वाम् च माम् सती ॥ प्रणनाम मुदा भक्त्या लोक-लीला-अनुसारिणी ॥ २ ॥
pitrā namaskṛtam vīkṣya satkṛtam tvām ca mām satī .. praṇanāma mudā bhaktyā loka-līlā-anusāriṇī .. 2 ..
प्रणामांते सतीं वीक्ष्य दक्षदत्तशुभासने ॥ स्थितोहं नारद त्वं च विनतामहमागदम् ॥ ३ ॥
प्रणाम-अंते सतीम् वीक्ष्य दक्षदत्त-शुभ-आसने ॥ स्थितः ऊहम् नारद त्वम् च विनताम् अहम् आगदम् ॥ ३ ॥
praṇāma-aṃte satīm vīkṣya dakṣadatta-śubha-āsane .. sthitaḥ ūham nārada tvam ca vinatām aham āgadam .. 3 ..
त्वामेव यः कामयते यन्तु कामयसे सति ॥ तमाप्नुहि पतिं देवं सर्वज्ञं जगदीश्वरम् ॥ ४॥
त्वाम् एव यः कामयते यन्तु कामयसे सति ॥ तम् आप्नुहि पतिम् देवम् सर्वज्ञम् जगत्-ईश्वरम् ॥ ४॥
tvām eva yaḥ kāmayate yantu kāmayase sati .. tam āpnuhi patim devam sarvajñam jagat-īśvaram .. 4..
यो नान्यां जगृहे नापि गृह्णाति न ग्रहीष्यति ॥ जायां स ते पतिर्भूयादनन्यसदृशश्शुभे॥ ५॥
यः न अन्याम् जगृहे न अपि गृह्णाति न ग्रहीष्यति ॥ जायाम् स ते पतिः भूयात् अन् अन्य-सदृशः शुभे॥ ५॥
yaḥ na anyām jagṛhe na api gṛhṇāti na grahīṣyati .. jāyām sa te patiḥ bhūyāt an anya-sadṛśaḥ śubhe.. 5..
इत्युक्त्वा सुचिरं तां वै स्थित्वा दक्षालये पुनः॥ विसृष्टौ तेन संयातौ स्वस्थानं तौ च नारद ॥ ६॥
इति उक्त्वा सु चिरम् ताम् वै स्थित्वा दक्ष-आलये पुनर्॥ विसृष्टौ तेन संयातौ स्व-स्थानम् तौ च नारद ॥ ६॥
iti uktvā su ciram tām vai sthitvā dakṣa-ālaye punar.. visṛṣṭau tena saṃyātau sva-sthānam tau ca nārada .. 6..
दक्षोभवच्च सुप्रीतः तदाकर्ण्य गतज्वरः ॥ आददे तनयां स्वां तां मत्वा हि परमेश्वरीम्॥ ७॥
सु प्रीतः तत् आकर्ण्य गत-ज्वरः ॥ आददे तनयाम् स्वाम् ताम् मत्वा हि परमेश्वरीम्॥ ७॥
su prītaḥ tat ākarṇya gata-jvaraḥ .. ādade tanayām svām tām matvā hi parameśvarīm.. 7..
इत्थं विहारै रुचिरैः कौमारैर्भक्तवत्सला ॥ जहाववस्थां कौमारीं स्वेच्छाधृतनराकृतिः ॥ ८॥
इत्थम् रुचिरैः कौमारैः भक्त-वत्सला ॥ जहौ अवस्थाम् कौमारीम् स्व-इच्छा-धृत-नर-आकृतिः ॥ ८॥
ittham ruciraiḥ kaumāraiḥ bhakta-vatsalā .. jahau avasthām kaumārīm sva-icchā-dhṛta-nara-ākṛtiḥ .. 8..
बाल्यं व्यतीत्य सा प्राप किञ्चिद्यौवनतां सती ।९।अतीव तपसांगेन सर्वांगेषु मनोहरा ॥ ९॥
बाल्यम् व्यतीत्य सा प्राप किञ्चिद् यौवन-ताम् सती ।९।अतीव तपसा अंगेन सर्व-अंगेषु मनोहरा ॥ ९॥
bālyam vyatītya sā prāpa kiñcid yauvana-tām satī .9.atīva tapasā aṃgena sarva-aṃgeṣu manoharā .. 9..
दक्षस्तां वीक्ष्य लोकेशः प्रोद्भिन्नांतर्वयस्थिताम् ॥ चिंतयामास भर्गाय कथं दास्य इमां सुताम् ॥ 2.2.15.१ ०॥
दक्षः ताम् वीक्ष्य लोकेशः प्रोद्भिन्न-अंतर्वय-स्थिताम् ॥ चिंतयामास भर्गाय कथम् दास्ये इमाम् सुताम् ॥ २।२।१५।१ ०॥
dakṣaḥ tām vīkṣya lokeśaḥ prodbhinna-aṃtarvaya-sthitām .. ciṃtayāmāsa bhargāya katham dāsye imām sutām .. 2.2.15.1 0..
अथ सापि स्वयं भर्गं प्राप्तुमैच्छत्तदान्वहम् ॥ पितुर्मनोगतिं ज्ञात्वा मातुर्निकटमागमत् ॥ ११ ॥
अथ सा अपि स्वयम् भर्गम् प्राप्तुम् ऐच्छत् तदा अन्वहम् ॥ पितुः मनोगतिम् ज्ञात्वा मातुः निकटम् आगमत् ॥ ११ ॥
atha sā api svayam bhargam prāptum aicchat tadā anvaham .. pituḥ manogatim jñātvā mātuḥ nikaṭam āgamat .. 11 ..
पप्रच्छाज्ञां तपोहेतोश्शंकरस्य विनीतधीः ॥ मातुश्शिवाथ वैरिण्यास्सा सखी परमेश्वरी ॥ १२॥
पप्रच्छ आज्ञाम् तपः-हेतोः शंकरस्य विनीत-धीः ॥ मातुः शिवा अथ वैरिण्याः सा सखी परमेश्वरी ॥ १२॥
papraccha ājñām tapaḥ-hetoḥ śaṃkarasya vinīta-dhīḥ .. mātuḥ śivā atha vairiṇyāḥ sā sakhī parameśvarī .. 12..
ततस्सती महेशानं पतिं प्राप्तुं दृढव्रता ॥ सा तमाराधयामास गृहे मातुरनुज्ञया ॥ १ ३॥
ततस् सती महेशानम् पतिम् प्राप्तुम् दृढ-व्रता ॥ सा तम् आराधयामास गृहे मातुः अनुज्ञया ॥ १ ३॥
tatas satī maheśānam patim prāptum dṛḍha-vratā .. sā tam ārādhayāmāsa gṛhe mātuḥ anujñayā .. 1 3..
आश्विने मासि नन्दायां तिथावानर्च भक्तितः ॥ गुडौदनैस्सलवणैर्हरं नत्वा निनाय तम् ॥ १४॥
आश्विने मासि नन्दायाम् तिथावान् अर्च भक्तितः ॥ गुड-ओदनैः स लवणैः हरम् नत्वा निनाय तम् ॥ १४॥
āśvine māsi nandāyām tithāvān arca bhaktitaḥ .. guḍa-odanaiḥ sa lavaṇaiḥ haram natvā nināya tam .. 14..
कार्तिकस्य चतुर्दश्यामपूपैः पायसैरपि ॥ समाकीर्णैस्समाराध्य सस्मार परमेश्वरम्॥ १५॥
कार्तिकस्य चतुर्दश्याम् अपूपैः पायसैः अपि ॥ समाकीर्णैः समाराध्य सस्मार परमेश्वरम्॥ १५॥
kārtikasya caturdaśyām apūpaiḥ pāyasaiḥ api .. samākīrṇaiḥ samārādhya sasmāra parameśvaram.. 15..
मार्गशीर्षेऽसिताष्टम्यां सतिलैस्सयवौदनैः ॥ पूजयित्वा हरं कीलैर्निनाय दिवसान् सती ॥ १६ ॥
मार्गशीर्षे असित-अष्टम्याम् स तिलैः स यव-ओदनैः ॥ पूजयित्वा हरम् कीलैः निनाय दिवसान् सती ॥ १६ ॥
mārgaśīrṣe asita-aṣṭamyām sa tilaiḥ sa yava-odanaiḥ .. pūjayitvā haram kīlaiḥ nināya divasān satī .. 16 ..
पौषे तु शुक्लसप्तम्यां कृत्वा जागरणं निशि ॥ अपूजयच्छिवं प्रातः कृशरान्नेन सा सती ॥ १७ ॥
पौषे तु शुक्ल-सप्तम्याम् कृत्वा जागरणम् निशि ॥ अपूजयत् शिवम् प्रातर् कृशर-अन्नेन सा सती ॥ १७ ॥
pauṣe tu śukla-saptamyām kṛtvā jāgaraṇam niśi .. apūjayat śivam prātar kṛśara-annena sā satī .. 17 ..
माघे तु पौर्णमास्यां स कृत्वा जागरणं निशि ॥ आर्द्रवस्त्रा नदीतीरेऽकरोच्छंकरपूजनम् ॥ १८॥
माघे तु पौर्णमास्याम् स कृत्वा जागरणम् निशि ॥ आर्द्र-वस्त्रा नदी-तीरे अकरोत् शंकर-पूजनम् ॥ १८॥
māghe tu paurṇamāsyām sa kṛtvā jāgaraṇam niśi .. ārdra-vastrā nadī-tīre akarot śaṃkara-pūjanam .. 18..
तपस्यसितभूतायां कृत्वा जागरणं निशि॥ ।विशेषतस्समानर्च शैलूषैस्सर्वयामसु ॥ १९॥
तपसि असित-भूतायाम् कृत्वा जागरणम् निशि॥ ।विशेषतः समानर्च शैलूषैः सर्व-यामसु ॥ १९॥
tapasi asita-bhūtāyām kṛtvā jāgaraṇam niśi.. .viśeṣataḥ samānarca śailūṣaiḥ sarva-yāmasu .. 19..
चैत्रे शुक्लचतुर्दश्यां पलाशैर्दमनैश्शिवम् ॥ अपूजयद्दिवारात्रौ संस्मरन् सा निनाय तम्॥ 2.2.15.२०॥
चैत्रे शुक्ल-चतुर्दश्याम् पलाशैः दमनैः शिवम् ॥ अपूजयत् दिवारात्रौ संस्मरन् सा निनाय तम्॥ २।२।१५।२०॥
caitre śukla-caturdaśyām palāśaiḥ damanaiḥ śivam .. apūjayat divārātrau saṃsmaran sā nināya tam.. 2.2.15.20..
राधशुक्लतृतीयायां तिलाहारयवौदनैः॥ पूजयित्वा सती रुद्रं नव्यैर्मासं निनाय तम् ॥ २१॥
राध-शुक्ल-तृतीयायाम् तिल-आहार-यव-ओदनैः॥ पूजयित्वा सती रुद्रम् नव्यैः मासम् निनाय तम् ॥ २१॥
rādha-śukla-tṛtīyāyām tila-āhāra-yava-odanaiḥ.. pūjayitvā satī rudram navyaiḥ māsam nināya tam .. 21..
ज्येष्ठस्य पूर्णिमायां वै रात्रै संपूज्य शंकरम् ॥ वसनैर्बृहतीपुष्पैर्निराहारा निनाय तम् ॥ २२॥
ज्येष्ठस्य पूर्णिमायाम् वै संपूज्य शंकरम् ॥ वसनैः बृहती-पुष्पैः निराहारा निनाय तम् ॥ २२॥
jyeṣṭhasya pūrṇimāyām vai saṃpūjya śaṃkaram .. vasanaiḥ bṛhatī-puṣpaiḥ nirāhārā nināya tam .. 22..
आषाढस्य चतुर्दश्यां शुक्लायां कृष्णवाससा।बृहतीकुसुमैः पूजा रुद्रस्याकारि वै तया ॥ २३॥
आषाढस्य चतुर्दश्याम् शुक्लायाम् कृष्ण-वाससा।बृहती-कुसुमैः पूजा रुद्रस्य अकारि वै तया ॥ २३॥
āṣāḍhasya caturdaśyām śuklāyām kṛṣṇa-vāsasā.bṛhatī-kusumaiḥ pūjā rudrasya akāri vai tayā .. 23..
श्रावणस्य सिताष्टम्यां चतुर्दश्यां च सा शिवम्॥ यज्ञोपवीतैर्वासोभिः पवित्रैरप्यपूजयत् ॥ २४ ॥
श्रावणस्य सित-अष्टम्याम् चतुर्दश्याम् च सा शिवम्॥ यज्ञोपवीतैः वासोभिः पवित्रैः अपि अपूजयत् ॥ २४ ॥
śrāvaṇasya sita-aṣṭamyām caturdaśyām ca sā śivam.. yajñopavītaiḥ vāsobhiḥ pavitraiḥ api apūjayat .. 24 ..
भाद्रे कृष्णत्रयोदश्यां पुष्पैर्नानाविधैः फलैः ॥ संपूज्य च चतुर्दश्यां चकार जलभो जनम् ॥ २५॥
भाद्रे कृष्ण-त्रयोदश्याम् पुष्पैः नानाविधैः फलैः ॥ संपूज्य च चतुर्दश्याम् चकार जलभः जनम् ॥ २५॥
bhādre kṛṣṇa-trayodaśyām puṣpaiḥ nānāvidhaiḥ phalaiḥ .. saṃpūjya ca caturdaśyām cakāra jalabhaḥ janam .. 25..
नानाविधैः फलैः पुष्पैस्सस्यैस्तत्कालसंभवैः ॥ चक्रे सुनियताहारा जपन्मासे शिवार्चनम् ॥ २६॥
नानाविधैः फलैः पुष्पैः सस्यैः तद्-काल-संभवैः ॥ चक्रे सु नियत-आहारा जपन् मासे शिव-अर्चनम् ॥ २६॥
nānāvidhaiḥ phalaiḥ puṣpaiḥ sasyaiḥ tad-kāla-saṃbhavaiḥ .. cakre su niyata-āhārā japan māse śiva-arcanam .. 26..
सर्वमासे सर्वदिने शिवार्चनरता सती॥ दृढव्रताभवद्देवी स्वेच्छाधृतनराकृतिः ॥ २७॥
सर्व-मासे सर्व-दिने शिव-अर्चन-रता सती॥ दृढ-व्रता अभवत् देवी स्व-इच्छा-धृत-नर-आकृतिः ॥ २७॥
sarva-māse sarva-dine śiva-arcana-ratā satī.. dṛḍha-vratā abhavat devī sva-icchā-dhṛta-nara-ākṛtiḥ .. 27..
इत्थं नंदाव्रतं कृत्स्नं समाप्य सुसमाहिता ॥ दध्यौ शिवं सती प्रेम्णा निश्चलाभूदनन्यधीः ॥ २८ ॥
इत्थम् नंदा-व्रतम् कृत्स्नम् समाप्य सु समाहिता ॥ दध्यौ शिवम् सती प्रेम्णा निश्चला अभूत् अन् अन्य-धीः ॥ २८ ॥
ittham naṃdā-vratam kṛtsnam samāpya su samāhitā .. dadhyau śivam satī premṇā niścalā abhūt an anya-dhīḥ .. 28 ..
एतस्मिन्नंतरे देवा मुनयश्चाखिला मुने ॥ विष्णुं मां च पुरस्कृत्य ययुर्द्रष्टुं सतीतपः ॥ ॥ २९ ॥
एतस्मिन् अन्तरे देवाः मुनयः च अखिलाः मुने ॥ विष्णुम् माम् च पुरस्कृत्य ययुः द्रष्टुम् सती-तपः ॥ ॥ २९ ॥
etasmin antare devāḥ munayaḥ ca akhilāḥ mune .. viṣṇum mām ca puraskṛtya yayuḥ draṣṭum satī-tapaḥ .. .. 29 ..
दृष्टागत्य सती देवैर्मूर्ता सिद्धिरिवापरा ॥ शिवध्यानमहामग्ना सिद्धावस्थां गता तदा ॥ 2.2.15.३० ॥
दृष्टा आगत्य सती देवैः मूर्ता सिद्धिः इव अपरा ॥ शिव-ध्यान-महा-मग्ना सिद्ध-अवस्थाम् गता तदा ॥ २।२।१५।३० ॥
dṛṣṭā āgatya satī devaiḥ mūrtā siddhiḥ iva aparā .. śiva-dhyāna-mahā-magnā siddha-avasthām gatā tadā .. 2.2.15.30 ..
चक्रुः सर्वे सुरास्सत्ये मुदा सांजलयो नतिम् ॥ मुनयश्च नतस्कंधा विष्ण्वाद्याः प्रीतमानसाः ॥ ३१ ॥
चक्रुः सर्वे सुराः सत्ये मुदा स अंजलयः नतिम् ॥ मुनयः च नत-स्कंधाः विष्णु-आद्याः प्रीत-मानसाः ॥ ३१ ॥
cakruḥ sarve surāḥ satye mudā sa aṃjalayaḥ natim .. munayaḥ ca nata-skaṃdhāḥ viṣṇu-ādyāḥ prīta-mānasāḥ .. 31 ..
अथ सर्वे सुप्रसन्ना विष्ण्वाद्याश्च सुरर्षयः ॥ प्रशशंसुस्तपस्तस्यास्सत्यास्तस्मात्सविस्मयाः ॥ ३२॥
अथ सर्वे सु प्रसन्नाः विष्णु-आद्याः च सुरर्षयः ॥ प्रशशंसुः तपः तस्याः सत्याः तस्मात् स विस्मयाः ॥ ३२॥
atha sarve su prasannāḥ viṣṇu-ādyāḥ ca surarṣayaḥ .. praśaśaṃsuḥ tapaḥ tasyāḥ satyāḥ tasmāt sa vismayāḥ .. 32..
ततः प्रणम्य तां देवीं पुनस्ते मुनयस्सुराः ॥ जग्मुर्गिरिवरं सद्यः कैलासं शिववल्लभम् ॥ ३३ ॥
ततस् प्रणम्य ताम् देवीम् पुनर् ते मुनयः सुराः ॥ जग्मुः गिरि-वरम् सद्यस् कैलासम् शिव-वल्लभम् ॥ ३३ ॥
tatas praṇamya tām devīm punar te munayaḥ surāḥ .. jagmuḥ giri-varam sadyas kailāsam śiva-vallabham .. 33 ..
सावित्रीसहितश्चाहं सह लक्ष्म्या मुदान्वितः ॥ वासुदेवोपि भगवाञ्जगामाथ हरांतिकम् ॥ ३४ ॥
सावित्री-सहितः च अहम् सह लक्ष्म्या मुदा अन्वितः ॥ वासुदेवः उपि भगवान् जगाम अथ हर-अंतिकम् ॥ ३४ ॥
sāvitrī-sahitaḥ ca aham saha lakṣmyā mudā anvitaḥ .. vāsudevaḥ upi bhagavān jagāma atha hara-aṃtikam .. 34 ..
गत्वा तत्र प्रभुं दृष्ट्वा सुप्रणम्य सुसंभ्रमाः॥ तुष्टुवुर्विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥ ३५॥
गत्वा तत्र प्रभुम् दृष्ट्वा सु प्रणम्य सु संभ्रमाः॥ तुष्टुवुः विविधैः स्तोत्रैः करौ बद्ध्वा विनम्रकाः ॥ ३५॥
gatvā tatra prabhum dṛṣṭvā su praṇamya su saṃbhramāḥ.. tuṣṭuvuḥ vividhaiḥ stotraiḥ karau baddhvā vinamrakāḥ .. 35..
देवा ऊचुः ।।
नमो भगवते तुभ्यं यत एतच्चराचरम् ॥ पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥
नमः भगवते तुभ्यम् यतस् एतत् चराचरम् ॥ पुरुषाय महेशाय परेशाय महात्मने ॥ ३६॥
namaḥ bhagavate tubhyam yatas etat carācaram .. puruṣāya maheśāya pareśāya mahātmane .. 36..
आदिबीजाय सर्वेषां चिद्रूपाय पराय च ॥ ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥
आदि-बीजाय सर्वेषाम् चित्-रूपाय पराय च ॥ ब्रह्मणे निर्विकाराय प्रकृतेः पुरुषस्य च ॥ ३७॥
ādi-bījāya sarveṣām cit-rūpāya parāya ca .. brahmaṇe nirvikārāya prakṛteḥ puruṣasya ca .. 37..
य इदं प्रतिपंच्येदं येनेदं विचकास्ति हि ॥ यस्मादिदं यतश्चेदं यस्येदं त्वं च यत्नतः ॥ ३८॥
यः इदम् प्रतिपंच्य इदम् येन इदम् विचकास्ति हि ॥ यस्मात् इदम् यतस् च इदम् यस्य इदम् त्वम् च यत्नतः ॥ ३८॥
yaḥ idam pratipaṃcya idam yena idam vicakāsti hi .. yasmāt idam yatas ca idam yasya idam tvam ca yatnataḥ .. 38..
योस्मात्परस्माच्च परो निर्विकारी महाप्रभुः ॥ ईक्षते यस्स्वात्मनीदं तं नताः स्म स्वयंभुवम् ॥ ३९ ॥
यः स्मात् परस्मात् च परः निर्विकारी महा-प्रभुः ॥ ईक्षते यः स्व-आत्मनि इदम् तम् नताः स्म स्वयंभुवम् ॥ ३९ ॥
yaḥ smāt parasmāt ca paraḥ nirvikārī mahā-prabhuḥ .. īkṣate yaḥ sva-ātmani idam tam natāḥ sma svayaṃbhuvam .. 39 ..
अविद्धदृक् परः साक्षी सर्वात्मा ऽनेकरूपधृक् ॥ आत्मभूतः परब्रह्म तपंतं शरणं गताः ॥ 2.2.15.४० ॥
अविद्ध-दृश् परः साक्षी सर्व-आत्मा अनेक-रूप-धृक् ॥ आत्म-भूतः पर-ब्रह्म तपंतम् शरणम् गताः ॥ २।२।१५।४० ॥
aviddha-dṛś paraḥ sākṣī sarva-ātmā aneka-rūpa-dhṛk .. ātma-bhūtaḥ para-brahma tapaṃtam śaraṇam gatāḥ .. 2.2.15.40 ..
न यस्य देवा ऋषयः सिद्धाश्च न विदुः पदम् ॥ कः पुनर्जंतुरपरो ज्ञातुमर्हति वेदितुम् ॥ ४१॥
न यस्य देवाः ऋषयः सिद्धाः च न विदुः पदम् ॥ कः पुनर् जंतुः अपरः ज्ञातुम् अर्हति वेदितुम् ॥ ४१॥
na yasya devāḥ ṛṣayaḥ siddhāḥ ca na viduḥ padam .. kaḥ punar jaṃtuḥ aparaḥ jñātum arhati veditum .. 41..
दिदृक्षवो यस्य पदं मुक्तसंगास्सुसाधवः ॥ चरितं सुगतिर्नस्त्वं सलोकव्रतमव्रणम् ॥ ४२॥
दिदृक्षवः यस्य पदम् मुक्त-संगाः सु साधवः ॥ चरितम् सु गतिः नः त्वम् स लोक-व्रतम् अव्रणम् ॥ ४२॥
didṛkṣavaḥ yasya padam mukta-saṃgāḥ su sādhavaḥ .. caritam su gatiḥ naḥ tvam sa loka-vratam avraṇam .. 42..
त्वज्जन्मादिविकारा नो विद्यंते केपि दुःखदा ॥ तथापि मायया त्वं हि गृह्णासि कृपया च तान् ॥ ४३ ॥
त्वद्-जन्म-आदि-विकाराः नो विद्यंते के अपि दुःख-दा ॥ तथा अपि मायया त्वम् हि गृह्णासि कृपया च तान् ॥ ४३ ॥
tvad-janma-ādi-vikārāḥ no vidyaṃte ke api duḥkha-dā .. tathā api māyayā tvam hi gṛhṇāsi kṛpayā ca tān .. 43 ..
तस्मै नमः परेशाय तुभ्यमाश्चर्यकर्मणे ॥ नमो गिरां विदूराय ब्रह्मणे परमात्मने ॥ ४४ ॥
तस्मै नमः परेशाय तुभ्यम् आश्चर्य-कर्मणे ॥ नमः गिराम् विदूराय ब्रह्मणे परमात्मने ॥ ४४ ॥
tasmai namaḥ pareśāya tubhyam āścarya-karmaṇe .. namaḥ girām vidūrāya brahmaṇe paramātmane .. 44 ..
अरूपायोरुरूपाय परायानंतशक्तये ॥ त्रिलोकपतये सर्वसाक्षिणे सर्वगाय च ॥ ४५ ॥
अरूपाय उरु-रूपाय पराय अनंत-शक्तये ॥ त्रि-लोक-पतये सर्व-साक्षिणे सर्वगाय च ॥ ४५ ॥
arūpāya uru-rūpāya parāya anaṃta-śaktaye .. tri-loka-pataye sarva-sākṣiṇe sarvagāya ca .. 45 ..
नम आत्मप्रदीपाय निर्वाणसुखसंपदे ॥ ज्ञानात्मने नमस्तेऽस्तु व्यापकायेश्वराय च ॥ ४६॥
नमः आत्म-प्रदीपाय निर्वाण-सुख-संपदे ॥ ज्ञान-आत्मने नमः ते अस्तु व्यापकाय ईश्वराय च ॥ ४६॥
namaḥ ātma-pradīpāya nirvāṇa-sukha-saṃpade .. jñāna-ātmane namaḥ te astu vyāpakāya īśvarāya ca .. 46..
नैष्कर्म्येण सुलभ्याय कैवल्यपतये नमः ॥ पुरुषाय परेशाय नमस्ते सर्वदाय च॥ ४७॥
नैष्कर्म्येण सुलभ्याय कैवल्य-पतये नमः ॥ पुरुषाय परेशाय नमः ते सर्व-दाय च॥ ४७॥
naiṣkarmyeṇa sulabhyāya kaivalya-pataye namaḥ .. puruṣāya pareśāya namaḥ te sarva-dāya ca.. 47..
क्षेत्रज्ञायात्मरूपाय सर्वप्रत्ययहेतवे॥ ४८॥
क्षेत्रज्ञाय आत्म-रूपाय सर्व-प्रत्यय-हेतवे॥ ४८॥
kṣetrajñāya ātma-rūpāya sarva-pratyaya-hetave.. 48..
सर्वाध्यक्षाय महते मूलप्रकृतये नमः ॥ पुरुषाय परेशाय नमस्ते सर्वदाय च ॥ ४९ ॥
सर्व-अध्यक्षाय महते मूलप्रकृतये नमः ॥ पुरुषाय परेशाय नमः ते सर्व-दाय च ॥ ४९ ॥
sarva-adhyakṣāya mahate mūlaprakṛtaye namaḥ .. puruṣāya pareśāya namaḥ te sarva-dāya ca .. 49 ..
त्रिनेत्रायेषुवक्त्राय सदाभासाय ते नमः ॥ सर्वेन्द्रियगुणद्रष्ट्रे निष्कारण नमोस्तु ते ॥ 2.2.15.५० ॥
त्रिनेत्राय इषु-वक्त्राय सत्-आभासाय ते नमः ॥ सर्व-इन्द्रिय-गुण-द्रष्ट्रे निष्कारण नमः अस्तु ते ॥ २।२।१५।५० ॥
trinetrāya iṣu-vaktrāya sat-ābhāsāya te namaḥ .. sarva-indriya-guṇa-draṣṭre niṣkāraṇa namaḥ astu te .. 2.2.15.50 ..
त्रिलोककारणायाथापवर्गाय नमोनमः ॥ अपवर्गप्रदायाशु शरणागततारिणे ॥ ५१ ॥
त्रिलोक-कारणाय अथ अपवर्गाय नमः नमः ॥ अपवर्ग-प्रदाय आशु शरण-आगत-तारिणे ॥ ५१ ॥
triloka-kāraṇāya atha apavargāya namaḥ namaḥ .. apavarga-pradāya āśu śaraṇa-āgata-tāriṇe .. 51 ..
सर्वाम्नायागमानां चोदधये परमेष्ठिने ॥ परायणाय भक्तानां गुणानां च नमोस्तु ते ॥ ५२॥
सर्व-आम्नाय-आगमानाम् च उदधये परमेष्ठिने ॥ परायणाय भक्तानाम् गुणानाम् च नमः अस्तु ते ॥ ५२॥
sarva-āmnāya-āgamānām ca udadhaye parameṣṭhine .. parāyaṇāya bhaktānām guṇānām ca namaḥ astu te .. 52..
नमो गुणारणिच्छन्न चिदूष्माय महेश्वर ॥ मूढदुष्प्राप्तरूपाय ज्ञानिहृद्वासिने सदा ॥ ५३ ॥
नमः गुण-अरणि-छन्न चित्-ऊष्माय महेश्वर ॥ मूढ-दुष्प्राप्त-रूपाय ज्ञानि-हृद्-वासिने सदा ॥ ५३ ॥
namaḥ guṇa-araṇi-channa cit-ūṣmāya maheśvara .. mūḍha-duṣprāpta-rūpāya jñāni-hṛd-vāsine sadā .. 53 ..
पशुपाशविमोक्षाय भक्तसन्मुक्तिदाय च ॥ स्वप्रकाशाय नित्यायाऽव्ययायाजस्रसंविदे ॥ ५४ ॥
पशु-पाश-विमोक्षाय भक्त-सत्-मुक्ति-दाय च ॥ स्व-प्रकाशाय नित्याय अ व्ययाय अजस्र-संविदे ॥ ५४ ॥
paśu-pāśa-vimokṣāya bhakta-sat-mukti-dāya ca .. sva-prakāśāya nityāya a vyayāya ajasra-saṃvide .. 54 ..
प्रत्यग्द्रष्ट्रैऽविकाराय परमैश्वर्य धारिणे ॥ यं भजन्ति चतुर्वर्गे कामयंतीष्टसद्गतिम् ॥ सोऽभूदकरुणस्त्वं नः प्रसन्नो भव ते नमः ॥ ५५ ॥
प्रत्यक्-द्रष्ट्रै अविकाराय परम-ऐश्वर्य-धारिणे ॥ यम् भजन्ति चतुर्वर्गे कामयंति इष्ट-सत्-गतिम् ॥ सः अभूत् अकरुणः त्वम् नः प्रसन्नः भव ते नमः ॥ ५५ ॥
pratyak-draṣṭrai avikārāya parama-aiśvarya-dhāriṇe .. yam bhajanti caturvarge kāmayaṃti iṣṭa-sat-gatim .. saḥ abhūt akaruṇaḥ tvam naḥ prasannaḥ bhava te namaḥ .. 55 ..
एकांतिनः कंचनार्थं भक्ता वांछंति यस्य न ॥ केवलं चरितं ते ते गायंति परमंगलम्॥ ५६॥
एकान्तिनः कंचन अर्थम् भक्ताः वांछंति यस्य न ॥ केवलम् चरितम् ते ते गायंति पर-मंगलम्॥ ५६॥
ekāntinaḥ kaṃcana artham bhaktāḥ vāṃchaṃti yasya na .. kevalam caritam te te gāyaṃti para-maṃgalam.. 56..
अक्षरं परमं ब्रह्मतमव्यक्ताकृतिं विभुम् ॥ अध्यात्मयोगगम्यं त्वां परिपूर्णं स्तुमो वयम् ॥ ५७॥
अक्षरम् परमम् विभुम् ॥ अध्यात्म-योग-गम्यम् त्वाम् परिपूर्णम् स्तुमः वयम् ॥ ५७॥
akṣaram paramam vibhum .. adhyātma-yoga-gamyam tvām paripūrṇam stumaḥ vayam .. 57..
अतींद्रियमनाधारं सर्वाधारमहेतुकम् ॥ अनंतमाद्यं सूक्ष्मं त्वां प्रणमामोऽखिलेश्वरम् ॥ ५८॥
अतींद्रियम् अनाधारम् सर्व-आधारम् अहेतुकम् ॥ अनन्तम् आद्यम् सूक्ष्मम् त्वाम् प्रणमामः अखिल-ईश्वरम् ॥ ५८॥
atīṃdriyam anādhāram sarva-ādhāram ahetukam .. anantam ādyam sūkṣmam tvām praṇamāmaḥ akhila-īśvaram .. 58..
हर्यादयोऽखिला देवास्तथा लोकाश्चराचराः ॥ नामरूपविभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥
हरि-आदयः अखिलाः देवाः तथा लोकाः चर-अचराः ॥ नाम-रूप-विभेदेन फल्ग्व्या च कलया कृताः ॥ ५९॥
hari-ādayaḥ akhilāḥ devāḥ tathā lokāḥ cara-acarāḥ .. nāma-rūpa-vibhedena phalgvyā ca kalayā kṛtāḥ .. 59..
यथार्चिषोग्नेस्सवितुर्यांति निर्यांति वासकृत् ॥ गभस्तयस्तथायं वै प्रवाहो गौण उच्यते ॥ 2.2.15.६०॥
यथा अर्चिषा उग्नेः सवितुः यान्ति निर्यांति वा असकृत् ॥ गभस्तयः तथा अयम् वै प्रवाहः गौणः उच्यते ॥ २।२।१५।६०॥
yathā arciṣā ugneḥ savituḥ yānti niryāṃti vā asakṛt .. gabhastayaḥ tathā ayam vai pravāhaḥ gauṇaḥ ucyate .. 2.2.15.60..
न त्वं देवो ऽसुरो मर्त्यो न तिर्यङ् न द्विजः प्रभो ॥ न स्त्री न षंढो न पुमान्सदसन्न च किंचन ॥ ६१ ॥
न त्वम् देवः असुरः मर्त्यः न तिर्यङ् न द्विजः प्रभो ॥ न स्त्री न षंढः न पुमान् सत्-असत् न च किंचन ॥ ६१ ॥
na tvam devaḥ asuraḥ martyaḥ na tiryaṅ na dvijaḥ prabho .. na strī na ṣaṃḍhaḥ na pumān sat-asat na ca kiṃcana .. 61 ..
निषेधशेषस्सर्वं त्वं विश्वकृद्विश्व पालकः ॥ विश्वलयकृद्विश्वात्मा प्रणतास्स्मस्तमीश्वरम् ॥ ६२॥
निषेध-शेषः सर्वम् त्वम् विश्व-कृत् विश्व पालकः ॥ विश्व-लय-कृत् विश्वात्मा प्रणताः स्मः तम् ईश्वरम् ॥ ६२॥
niṣedha-śeṣaḥ sarvam tvam viśva-kṛt viśva pālakaḥ .. viśva-laya-kṛt viśvātmā praṇatāḥ smaḥ tam īśvaram .. 62..
योगरंधितकर्माणो यं प्रपश्यन्ति योगिनः ॥ योगसंभाविते चित्ते योगेशं त्वां नता वयम् ॥ ६३ ॥
योग-रंधित-कर्माणः यम् प्रपश्यन्ति योगिनः ॥ योग-संभाविते चित्ते योगेशम् त्वाम् नताः वयम् ॥ ६३ ॥
yoga-raṃdhita-karmāṇaḥ yam prapaśyanti yoginaḥ .. yoga-saṃbhāvite citte yogeśam tvām natāḥ vayam .. 63 ..
नमोस्तु तेऽसह्यवेग शक्तित्रय त्रयीमय ॥ नमः प्रसन्नपालाय नमस्ते भूरिशक्तये ॥ ६४ ॥
नमः अस्तु ते असह्य-वेग शक्ति-त्रय त्रयी-मय ॥ नमः प्रसन्न-पालाय नमः ते भूरिशक्तये ॥ ६४ ॥
namaḥ astu te asahya-vega śakti-traya trayī-maya .. namaḥ prasanna-pālāya namaḥ te bhūriśaktaye .. 64 ..
कदिंद्रियाणां दुर्गेशानवाप्य परवर्त्मने ॥ भक्तोद्धाररतायाथ नमस्ते गूढवर्चसे ॥ ६५॥
कद्-इंद्रियाणाम् दुर्ग-ईशान् अवाप्य पर-वर्त्मने ॥ भक्त-उद्धार-रताय अथ नमः ते गूढ-वर्चसे ॥ ६५॥
kad-iṃdriyāṇām durga-īśān avāpya para-vartmane .. bhakta-uddhāra-ratāya atha namaḥ te gūḍha-varcase .. 65..
यच्छक्त्याहं धियात्मानं हंत वेद न मूढधी ॥ तं दुरत्ययमाहात्म्यं त्वां नतः स्मो महाप्रभुम् ॥ ६६ ॥
यत् शक्त्या अहम् धिया आत्मानम् हंत वेद न मूढ-धी ॥ तम् दुरत्यय-माहात्म्यम् त्वाम् नतः स्मः महा-प्रभुम् ॥ ६६ ॥
yat śaktyā aham dhiyā ātmānam haṃta veda na mūḍha-dhī .. tam duratyaya-māhātmyam tvām nataḥ smaḥ mahā-prabhum .. 66 ..
ब्रह्मोवाच ।।
इति स्तुत्वा महादेवं सर्वे विष्ण्वादिकास्सुराः ॥ तूष्णीमासन्प्रभोरग्रे सद्भक्तिनतकंधराः ॥ ६७॥
इति स्तुत्वा महादेवम् सर्वे विष्णु-आदिकाः सुराः ॥ तूष्णीम् आसन् प्रभोः अग्रे सत्-भक्ति-नत-कंधराः ॥ ६७॥
iti stutvā mahādevam sarve viṣṇu-ādikāḥ surāḥ .. tūṣṇīm āsan prabhoḥ agre sat-bhakti-nata-kaṃdharāḥ .. 67..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे नंदाव्रतविधानशिवस्तुति वर्णनं नाम पंचदशोऽध्यायः ॥ १५ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सती-खण्डे नंदाव्रतविधानशिवस्तुति वर्णनम् नाम पंचदशः अध्यायः ॥ १५ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satī-khaṇḍe naṃdāvratavidhānaśivastuti varṇanam nāma paṃcadaśaḥ adhyāyaḥ .. 15 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In