| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
इति स्तुतिं च हर्यादिकृतामाकर्ण्य शंकरः ॥ बभूवातिप्रसन्नो हि विजहास च सूतिकृत् ॥ १ ॥
इति स्तुतिम् च हरि-आदि-कृताम् आकर्ण्य शंकरः ॥ बभूव अति प्रसन्नः हि विजहास च सूतिकृत् ॥ १ ॥
iti stutim ca hari-ādi-kṛtām ākarṇya śaṃkaraḥ .. babhūva ati prasannaḥ hi vijahāsa ca sūtikṛt .. 1 ..
ब्रह्मविष्णू तु दृष्ट्वा तौ सस्त्रीकौ संगतौ हरः ॥ यथोचितं समाभाष्य पप्रच्छागमनं तयोः ॥ २॥
ब्रह्म-विष्णू तु दृष्ट्वा तौ स स्त्रीकौ संगतौ हरः ॥ यथोचितम् समाभाष्य पप्रच्छ आगमनम् तयोः ॥ २॥
brahma-viṣṇū tu dṛṣṭvā tau sa strīkau saṃgatau haraḥ .. yathocitam samābhāṣya papraccha āgamanam tayoḥ .. 2..
रुद्र उवाच।।
हहर हावध देवा मुनयश्चाद्य निर्भयाः ॥ निजागमनहेतुं हि कथयस्व सुतत्त्वतः ॥ ३॥
हहर हा वध देवाः मुनयः च अद्य निर्भयाः ॥ निज-आगमन-हेतुम् हि कथयस्व सु तत्त्वतः ॥ ३॥
hahara hā vadha devāḥ munayaḥ ca adya nirbhayāḥ .. nija-āgamana-hetum hi kathayasva su tattvataḥ .. 3..
किमर्थमागता यूयं किं कार्यं चेह विद्यते ॥ तत्सर्वं श्रोतुमिच्छामि भवत्स्तुत्या प्रसन्नधीः ॥ ४ ॥
किमर्थम् आगताः यूयम् किम् कार्यम् च इह विद्यते ॥ तत् सर्वम् श्रोतुम् इच्छामि भवत्-स्तुत्या प्रसन्न-धीः ॥ ४ ॥
kimartham āgatāḥ yūyam kim kāryam ca iha vidyate .. tat sarvam śrotum icchāmi bhavat-stutyā prasanna-dhīḥ .. 4 ..
।। ब्रह्मोवाच ।।
इति पृष्टे हरेणाहं सर्वलोकपितामहः ॥ मुनेऽवोचं महादेवं विष्णुना परिचोदितः ॥ ५ ॥
इति पृष्टे हरेण अहम् सर्व-लोक-पितामहः ॥ मुने अवोचम् महादेवम् विष्णुना परिचोदितः ॥ ५ ॥
iti pṛṣṭe hareṇa aham sarva-loka-pitāmahaḥ .. mune avocam mahādevam viṣṇunā paricoditaḥ .. 5 ..
देवदेव महादेव करुणासागर प्रभो ॥ यदर्थमागतावावां तच्छृणु त्वं सुरर्षिभिः ॥ ६ ॥
देवदेव महादेव करुणा-सागर प्रभो ॥ यद्-अर्थम् आगतौ आवाम् तत् शृणु त्वम् सुर-ऋषिभिः ॥ ६ ॥
devadeva mahādeva karuṇā-sāgara prabho .. yad-artham āgatau āvām tat śṛṇu tvam sura-ṛṣibhiḥ .. 6 ..
विशेषतस्तवैवार्थमागता वृपभध्वज ॥ सहार्थिनस्सदायोग्यमन्यथा न जगद्भवेत् ॥ ७॥
विशेषतः तव एव अर्थम् आगताः वृपभ-ध्वज ॥ सह अर्थिनः सदा योग्यम् अन्यथा न जगत् भवेत् ॥ ७॥
viśeṣataḥ tava eva artham āgatāḥ vṛpabha-dhvaja .. saha arthinaḥ sadā yogyam anyathā na jagat bhavet .. 7..
केचिद्भविष्यंत्यसुरा मम वध्या महेश्वर ॥ हरेर्वध्यास्तथा केचिद्भवंतश्चापि केचन ॥ ८॥
केचिद् भविष्यन्ति असुराः मम वध्याः महेश्वर ॥ हरेः वध्याः तथा केचिद् भवन्तः च अपि केचन ॥ ८॥
kecid bhaviṣyanti asurāḥ mama vadhyāḥ maheśvara .. hareḥ vadhyāḥ tathā kecid bhavantaḥ ca api kecana .. 8..
केचित्त्वद्वीर्यजातस्य तनयस्य महाप्रभो ॥ मायावध्याः प्रभो केचिद्भविष्यंत्यसुरास्सदा ॥ ९॥
केचिद् त्वद्-वीर्य-जातस्य तनयस्य महा-प्रभो ॥ माया-वध्याः प्रभो केचिद् भविष्यन्ति असुराः सदा ॥ ९॥
kecid tvad-vīrya-jātasya tanayasya mahā-prabho .. māyā-vadhyāḥ prabho kecid bhaviṣyanti asurāḥ sadā .. 9..
तवैव कृपया शंभोस्सुराणां सुखमुत्तमम्॥ नाशयित्वाऽसुरान् घोराञ्जगत्स्वास्थ्यं सदाभयम् ॥ 2.2.16.१ ० ॥
तव एव कृपया शंभोः सुराणाम् सुखम् उत्तमम्॥ नाशयित्वा असुरान् घोरान् जगत् स्वास्थ्यम् सदा अभयम् ॥ २।२।१६।१ ० ॥
tava eva kṛpayā śaṃbhoḥ surāṇām sukham uttamam.. nāśayitvā asurān ghorān jagat svāsthyam sadā abhayam .. 2.2.16.1 0 ..
योगयुक्ते त्वयि सदा राग द्वेषविवर्जिते ॥ दयापात्रैकनिरते न वध्या ह्यथवा तव ॥ १ १॥
योग-युक्ते त्वयि सदा राग द्वेष-विवर्जिते ॥ दया-पात्र-एक-निरते न वध्याः हि अथवा तव ॥ १ १॥
yoga-yukte tvayi sadā rāga dveṣa-vivarjite .. dayā-pātra-eka-nirate na vadhyāḥ hi athavā tava .. 1 1..
अराधितेषु तेष्वीश कथं सृष्टिस्तथा स्थितिः ॥ अतश्च भविता युक्तं नित्यंनित्यं वृषध्वज ॥ १२ ॥
अराधितेषु तेषु ईश कथम् सृष्टिः तथा स्थितिः ॥ अतस् च भविता युक्तम् नित्यम् नित्यम् वृषध्वज ॥ १२ ॥
arādhiteṣu teṣu īśa katham sṛṣṭiḥ tathā sthitiḥ .. atas ca bhavitā yuktam nityam nityam vṛṣadhvaja .. 12 ..
सृष्टिस्थित्यंतकर्माणि न कार्याणि यदा तदा ॥ शरीरभेदश्चास्माकं मायायाश्च न युज्यते ॥ १ ३॥
सृष्टि-स्थिति-अन्त-कर्माणि न कार्याणि यदा तदा ॥ शरीर-भेदः च अस्माकम् मायायाः च न युज्यते ॥ १ ३॥
sṛṣṭi-sthiti-anta-karmāṇi na kāryāṇi yadā tadā .. śarīra-bhedaḥ ca asmākam māyāyāḥ ca na yujyate .. 1 3..
एकस्वरूपा हि वयं भिन्नाः कार्यस्य भेदतः ॥ कार्यभेदो न सिद्धश्चेद्रूपभेदाऽप्रयोजनः ॥ १४॥
एक-स्वरूपाः हि वयम् भिन्नाः कार्यस्य भेदतः ॥ कार्य-भेदः न सिद्धः चेद् रूप-भेदाः अप्रयोजनः ॥ १४॥
eka-svarūpāḥ hi vayam bhinnāḥ kāryasya bhedataḥ .. kārya-bhedaḥ na siddhaḥ ced rūpa-bhedāḥ aprayojanaḥ .. 14..
एक एव त्रिधा भिन्नः परमात्मा महेश्वरः ॥ मायास्वाकारणादेव स्वतंत्रो लीलया प्रभुः ॥ १५॥
एकः एव त्रिधा भिन्नः परमात्मा महेश्वरः ॥ मायासु आकारणात् एव स्वतंत्रः लीलया प्रभुः ॥ १५॥
ekaḥ eva tridhā bhinnaḥ paramātmā maheśvaraḥ .. māyāsu ākāraṇāt eva svataṃtraḥ līlayā prabhuḥ .. 15..
वामाङ्गजो हरिस्तस्य दक्षिणांगभवो ह्यहम् ॥ शिवस्य हृदयाज्जातस्त्वं हि पूर्णतनुश्शिवः ॥ १६ ॥
वाम-अङ्ग-जः हरिः तस्य दक्षिण-अंग-भवः हि अहम् ॥ शिवस्य हृदयात् जातः त्वम् हि पूर्ण-तनुः शिवः ॥ १६ ॥
vāma-aṅga-jaḥ hariḥ tasya dakṣiṇa-aṃga-bhavaḥ hi aham .. śivasya hṛdayāt jātaḥ tvam hi pūrṇa-tanuḥ śivaḥ .. 16 ..
इत्थं वयं त्रिधा भूताः प्रभाभिन्नस्वरूपिणः ॥ शिवाशिवसुतास्तत्त्वं हृदा विद्धि सनातन ॥ १७ ॥
इत्थम् वयम् त्रिधा भूताः प्रभा-भिन्न-स्वरूपिणः ॥ शिव-अशिव-सुताः तत्त्वम् हृदा विद्धि सनातन ॥ १७ ॥
ittham vayam tridhā bhūtāḥ prabhā-bhinna-svarūpiṇaḥ .. śiva-aśiva-sutāḥ tattvam hṛdā viddhi sanātana .. 17 ..
अहं विष्णुश्च सस्त्रीकौ संजातौ कार्यहेतुतः ॥ लोककार्यकरौ प्रीत्या तव शासनतः प्रभो ॥ १८ ॥
अहम् विष्णुः च स स्त्रीकौ संजातौ कार्य-हेतुतः ॥ लोक-कार्य-करौ प्रीत्या तव शासनतः प्रभो ॥ १८ ॥
aham viṣṇuḥ ca sa strīkau saṃjātau kārya-hetutaḥ .. loka-kārya-karau prītyā tava śāsanataḥ prabho .. 18 ..
तस्माद्विश्वहितार्थाय सुराणां सुखहेतवे ॥ परिगृह्णीष्व भार्यार्थे रामामेकां सुशोभनाम् ॥ १९ ॥
तस्मात् विश्व-हित-अर्थाय सुराणाम् सुख-हेतवे ॥ परिगृह्णीष्व भार्या-अर्थे रामाम् एकाम् सु शोभनाम् ॥ १९ ॥
tasmāt viśva-hita-arthāya surāṇām sukha-hetave .. parigṛhṇīṣva bhāryā-arthe rāmām ekām su śobhanām .. 19 ..
अन्यच्छृणु महेशान पूर्ववृत्तं स्मृतं मया ॥ यन्नौ पुरःपुरा प्रोक्तं त्वयैव शिवरूपिणा ॥ 2.2.16.२० ॥
अन्यत् शृणु महेशान पूर्व-वृत्तम् स्मृतम् मया ॥ यत् नौ पुरस् पुरा प्रोक्तम् त्वया एव शिव-रूपिणा ॥ २।२।१६।२० ॥
anyat śṛṇu maheśāna pūrva-vṛttam smṛtam mayā .. yat nau puras purā proktam tvayā eva śiva-rūpiṇā .. 2.2.16.20 ..
मद्रूपं परमं ब्रह्मन्नीदृशं भवदंगतः ॥ प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २१ ॥
मद्-रूपम् परमम् ब्रह्मन् ईदृशम् भवत्-अंगतः ॥ प्रकटी भविता लोके नाम्ना रुद्रः प्रकीर्तितः ॥ २१ ॥
mad-rūpam paramam brahman īdṛśam bhavat-aṃgataḥ .. prakaṭī bhavitā loke nāmnā rudraḥ prakīrtitaḥ .. 21 ..
सृष्टिकर्ताऽभवद्ब्रह्मा हरिः पालनकारकः ॥ लयकारी भविष्यामि रुद्ररूपो गुणाकृतिः ॥ २२ ॥
सृष्टि-कर्ता अभवत् ब्रह्मा हरिः पालन-कारकः ॥ लय-कारी भविष्यामि रुद्र-रूपः गुण-आकृतिः ॥ २२ ॥
sṛṣṭi-kartā abhavat brahmā hariḥ pālana-kārakaḥ .. laya-kārī bhaviṣyāmi rudra-rūpaḥ guṇa-ākṛtiḥ .. 22 ..
स्त्रियं विवाह्य लोकस्य करिष्ये कार्यमुत्तमम् ॥ इति संस्मृत्य स्वप्रोक्तं पूर्णं कुरु निजं पणम् ॥ २३ ॥
स्त्रियम् विवाह्य लोकस्य करिष्ये कार्यम् उत्तमम् ॥ इति संस्मृत्य स्व-प्रोक्तम् पूर्णम् कुरु निजम् पणम् ॥ २३ ॥
striyam vivāhya lokasya kariṣye kāryam uttamam .. iti saṃsmṛtya sva-proktam pūrṇam kuru nijam paṇam .. 23 ..
निदेशस्तव च स्वामिन्नहं सृष्टिकरो हरिः ॥ पालको लयहेतुस्त्वमाविर्भूतस्स्वयं शिवः ॥ २४ ॥
निदेशः तव च स्वामिन् अहम् सृष्टि-करः हरिः ॥ पालकः लय-हेतुः त्वम् आविर्भूतः स्वयम् शिवः ॥ २४ ॥
nideśaḥ tava ca svāmin aham sṛṣṭi-karaḥ hariḥ .. pālakaḥ laya-hetuḥ tvam āvirbhūtaḥ svayam śivaḥ .. 24 ..
त्वां विना न समर्थौ हि आवां च स्वस्वकर्मणि ॥ लोककार्यरतो तस्मादेकां गृह्णीष्व कामिनीम् ॥ २५ ॥
त्वाम् विना न समर्थौ हि आवाम् च स्व-स्व-कर्मणि ॥ लोक-कार्य-रतो तस्मात् एकाम् गृह्णीष्व कामिनीम् ॥ २५ ॥
tvām vinā na samarthau hi āvām ca sva-sva-karmaṇi .. loka-kārya-rato tasmāt ekām gṛhṇīṣva kāminīm .. 25 ..
यथा पद्मालया विष्णोस्सावित्री च यथा मम ॥ तथा सहचरीं शंभो कांतां गृह्णीष्व संप्रति ॥ २६ ॥
यथा पद्मालया विष्णोः सावित्री च यथा मम ॥ तथा सहचरीम् शंभो कान्ताम् गृह्णीष्व संप्रति ॥ २६ ॥
yathā padmālayā viṣṇoḥ sāvitrī ca yathā mama .. tathā sahacarīm śaṃbho kāntām gṛhṇīṣva saṃprati .. 26 ..
ब्रह्मोवाच ।।
इति श्रुत्वा वचो मे हि ब्रह्मणः पुरतो हरेः ॥ स मां जगाद लोकेशः स्मेराननमुखो हरः ॥ २७॥
इति श्रुत्वा वचः मे हि ब्रह्मणः पुरतस् हरेः ॥ स माम् जगाद लोकेशः स्मेर-आनन-मुखः हरः ॥ २७॥
iti śrutvā vacaḥ me hi brahmaṇaḥ puratas hareḥ .. sa mām jagāda lokeśaḥ smera-ānana-mukhaḥ haraḥ .. 27..
ईश्वर उवाच ।।
हे ब्रह्मन् हे हरे मे हि युवां प्रियतरौ सदा ॥ दृष्ट्वा त्वां च ममानंदो भवत्यतितरां खलु ॥ २८ ॥
हे ब्रह्मन् हे हरे मे हि युवाम् प्रियतरौ सदा ॥ दृष्ट्वा त्वाम् च मम आनंदः भवति अतितराम् खलु ॥ २८ ॥
he brahman he hare me hi yuvām priyatarau sadā .. dṛṣṭvā tvām ca mama ānaṃdaḥ bhavati atitarām khalu .. 28 ..
युवां सुरविशिष्टौ हि त्रिभव स्वामिनौ किल ॥ कथनं वां गरिष्ठेति भवकार्यरतात्मनोः ॥ २९॥
युवाम् सुर-विशिष्टौ हि त्रि-भव स्वामिनौ किल ॥ कथनम् वाम् गरिष्ठ इति भव-कार्य-रत-आत्मनोः ॥ २९॥
yuvām sura-viśiṣṭau hi tri-bhava svāminau kila .. kathanam vām gariṣṭha iti bhava-kārya-rata-ātmanoḥ .. 29..
उचितं न सुरश्रेष्ठौ विवाहकरणं मम ॥ तपोरतविरक्तस्य सदा विदितयोगिनः ॥ 2.2.16.३० ॥
उचितम् न सुर-श्रेष्ठौ विवाह-करणम् मम ॥ तपः-रत-विरक्तस्य सदा विदित-योगिनः ॥ २।२।१६।३० ॥
ucitam na sura-śreṣṭhau vivāha-karaṇam mama .. tapaḥ-rata-viraktasya sadā vidita-yoginaḥ .. 2.2.16.30 ..
यो निवृत्तिसुमार्गस्थः स्वात्मारामो निरंजनः ॥ अवधूततनुर्ज्ञानी स्वद्रष्टा कामवर्जितः ॥ ३१ ॥
यः निवृत्ति-सु मार्ग-स्थः स्व-आत्म-आरामः निरंजनः ॥ अवधूत-तनुः ज्ञानी स्व-द्रष्टा काम-वर्जितः ॥ ३१ ॥
yaḥ nivṛtti-su mārga-sthaḥ sva-ātma-ārāmaḥ niraṃjanaḥ .. avadhūta-tanuḥ jñānī sva-draṣṭā kāma-varjitaḥ .. 31 ..
अविकारी ह्यभोगी च सदाशुचिरमंगलः ॥ तस्य प्रयोजनं लोके कामिन्या किं वदाधुना ॥ ३२ ॥
अविकारी हि अभोगी च सदा अशुचिः अमंगलः ॥ तस्य प्रयोजनम् लोके कामिन्या किम् वद अधुना ॥ ३२ ॥
avikārī hi abhogī ca sadā aśuciḥ amaṃgalaḥ .. tasya prayojanam loke kāminyā kim vada adhunā .. 32 ..
केवलं योगलग्नस्य ममानंदस्सदास्ति वै ॥ ज्ञानहीनस्तु पुरुषो मनुते बहु कामकम् ॥ ३३ ॥
केवलम् योग-लग्नस्य मम आनंदः सदा अस्ति वै ॥ ज्ञान-हीनः तु पुरुषः मनुते बहु कामकम् ॥ ३३ ॥
kevalam yoga-lagnasya mama ānaṃdaḥ sadā asti vai .. jñāna-hīnaḥ tu puruṣaḥ manute bahu kāmakam .. 33 ..
विवाहकरणं लोके विज्ञेयं परबंधनम् ॥ तस्मात्तस्य रुचिर्नो मे सत्यं सत्यं वदाम्यहम् ॥ ३४ ॥
विवाह-करणम् लोके विज्ञेयम् पर-बंधनम् ॥ तस्मात् तस्य रुचिः नः मे सत्यम् सत्यम् वदामि अहम् ॥ ३४ ॥
vivāha-karaṇam loke vijñeyam para-baṃdhanam .. tasmāt tasya ruciḥ naḥ me satyam satyam vadāmi aham .. 34 ..
न स्वार्थं मे प्रवृत्तिर्हि सम्यक्स्वार्थविचिंतनात् ॥ तथापि तत्करिष्यामि भवदुक्तं जगद्धितम् ॥ ३५ ॥
न स्व-अर्थम् मे प्रवृत्तिः हि सम्यक् स्व-अर्थ-विचिंतनात् ॥ तथा अपि तत् करिष्यामि भवत्-उक्तम् जगत्-हितम् ॥ ३५ ॥
na sva-artham me pravṛttiḥ hi samyak sva-artha-viciṃtanāt .. tathā api tat kariṣyāmi bhavat-uktam jagat-hitam .. 35 ..
मत्त्वा वचो गरिष्ठं वा नियोक्तिपरिपूर्त्तये ॥ करिष्यामि विवाहं वै भक्तवश्यस्सदा ह्यहम् ॥ ३६ ॥
मत्त्वा वचः गरिष्ठम् वा नियोक्ति-परिपूर्त्तये ॥ करिष्यामि विवाहम् वै भक्त-वश्यः सदा हि अहम् ॥ ३६ ॥
mattvā vacaḥ gariṣṭham vā niyokti-paripūrttaye .. kariṣyāmi vivāham vai bhakta-vaśyaḥ sadā hi aham .. 36 ..
परंतु यादृशीं कांतां ग्रहीष्यामि तथापणम् ॥ तच्छृणुष्व हरे ब्रह्मन् युक्तमेव वचो मम ॥ ३७ ॥
परंतु यादृशीम् कांताम् ग्रहीष्यामि तथा आपणम् ॥ तत् शृणुष्व हरे ब्रह्मन् युक्तम् एव वचः मम ॥ ३७ ॥
paraṃtu yādṛśīm kāṃtām grahīṣyāmi tathā āpaṇam .. tat śṛṇuṣva hare brahman yuktam eva vacaḥ mama .. 37 ..
या मे तेजस्समर्था हि ग्रहीतुं स्याद्विभागशः ॥ तां निदेशय भार्यार्थे योगिनीं कामरूपिणीम् ॥ ३८॥
या मे तेजः-समर्था हि ग्रहीतुम् स्यात् विभागशः ॥ ताम् निदेशय भार्या-अर्थे योगिनीम् कामरूपिणीम् ॥ ३८॥
yā me tejaḥ-samarthā hi grahītum syāt vibhāgaśaḥ .. tām nideśaya bhāryā-arthe yoginīm kāmarūpiṇīm .. 38..
योगयुक्ते मयि तथा योगिन्येव भविष्यति ॥ कामासक्ते मयि तथा कामिन्येव भविष्यति ॥ ३९ ॥
योग-युक्ते मयि तथा योगिनी एव भविष्यति ॥ काम-आसक्ते मयि तथा कामिनी एव भविष्यति ॥ ३९ ॥
yoga-yukte mayi tathā yoginī eva bhaviṣyati .. kāma-āsakte mayi tathā kāminī eva bhaviṣyati .. 39 ..
यमक्षरं वेदविदो निगदंति मनीषिणः ॥ ज्योतीरूपं शिवं ते च चिंतयिष्ये सनातनम् ॥ 2.2.16.४० ॥
यम् अक्षरम् वेद-विदः निगदंति मनीषिणः ॥ ज्योती-रूपम् शिवम् ते च चिंतयिष्ये सनातनम् ॥ २।२।१६।४० ॥
yam akṣaram veda-vidaḥ nigadaṃti manīṣiṇaḥ .. jyotī-rūpam śivam te ca ciṃtayiṣye sanātanam .. 2.2.16.40 ..
तच्चिंतायां यदा सक्तो ब्रह्मन् गच्छामि भाविनीम् ॥ तत्र या विघ्नजननी न भवित्री हतास्तु मे ॥ ४१ ॥
तद्-चिंतायाम् यदा सक्तः ब्रह्मन् गच्छामि भाविनीम् ॥ तत्र या विघ्न-जननी न भवित्री हता अस्तु मे ॥ ४१ ॥
tad-ciṃtāyām yadā saktaḥ brahman gacchāmi bhāvinīm .. tatra yā vighna-jananī na bhavitrī hatā astu me .. 41 ..
त्वं वा विष्णुरहं वापि शिवस्य ब्रह्मरूपिणः ॥ अंशभूता महाभागा योग्यं तदनुचिंतनम् ॥ ४२ ॥
त्वम् वा विष्णुः अहम् वा अपि शिवस्य ब्रह्म-रूपिणः ॥ अंश-भूताः महाभागाः योग्यम् तद्-अनुचिंतनम् ॥ ४२ ॥
tvam vā viṣṇuḥ aham vā api śivasya brahma-rūpiṇaḥ .. aṃśa-bhūtāḥ mahābhāgāḥ yogyam tad-anuciṃtanam .. 42 ..
तच्चिंतया विनोद्वाहं स्थास्यामि कमलासन ॥ तस्माज्जायां प्रादिश त्वं मत्कर्मानुगतां सदा ॥ ४३ ॥
तद्-चिंतया विना उद्वाहम् स्थास्यामि कमलासन ॥ तस्मात् जायाम् प्रादिश त्वम् मद्-कर्म-अनुगताम् सदा ॥ ४३ ॥
tad-ciṃtayā vinā udvāham sthāsyāmi kamalāsana .. tasmāt jāyām prādiśa tvam mad-karma-anugatām sadā .. 43 ..
तत्राप्येकं पणं मे त्वं वृणु ब्रह्मँश्च मां प्रति ॥ अविश्वासो मदुक्ते चेन्मया त्यक्ता भविष्यति ॥ ४४ ॥
तत्र अपि एकम् पणम् मे त्वम् वृणु ब्रह्मन् च माम् प्रति ॥ अविश्वासः मद्-उक्ते चेद् मया त्यक्ता भविष्यति ॥ ४४ ॥
tatra api ekam paṇam me tvam vṛṇu brahman ca mām prati .. aviśvāsaḥ mad-ukte ced mayā tyaktā bhaviṣyati .. 44 ..
ब्रह्मोवाच ।।
इति तस्य वचश्श्रुत्वाहं स विष्णुर्हरस्य च ॥ सस्मितं मोदितमनोऽवोचं चेति विनम्रकः ॥ ४५ ॥
इति तस्य वचः श्रुत्वा अहम् स विष्णुः हरस्य च ॥ स स्मितम् मोदित-मनः अवोचम् च इति विनम्रकः ॥ ४५ ॥
iti tasya vacaḥ śrutvā aham sa viṣṇuḥ harasya ca .. sa smitam modita-manaḥ avocam ca iti vinamrakaḥ .. 45 ..
शृणु नाथ महेशान मार्गिता यादृशी त्वया ॥ निवेदयामि सुप्रीत्या तां स्त्रियं तादृशीं प्रभो ॥ ४६ ॥
शृणु नाथ महेशान मार्गिता यादृशी त्वया ॥ निवेदयामि सु प्रीत्या ताम् स्त्रियम् तादृशीम् प्रभो ॥ ४६ ॥
śṛṇu nātha maheśāna mārgitā yādṛśī tvayā .. nivedayāmi su prītyā tām striyam tādṛśīm prabho .. 46 ..
उमा सा भिन्नरूपेण संजाता कार्यसाधिनी ॥ सरस्वती तथा लक्ष्मीर्द्विधा रूपा पुरा प्रभो ॥ ४७॥
उमा सा भिन्न-रूपेण संजाता कार्य-साधिनी ॥ सरस्वती तथा लक्ष्मीः द्विधा रूपा पुरा प्रभो ॥ ४७॥
umā sā bhinna-rūpeṇa saṃjātā kārya-sādhinī .. sarasvatī tathā lakṣmīḥ dvidhā rūpā purā prabho .. 47..
पाद्मा कांताऽभवद्विष्णोस्तथा मम सरस्वती ॥ तृतीयरूपा सा नाभूल्लोककार्यहितैषिणी ॥ ४८॥
पाद्मा कान्ता अभवत् विष्णोः तथा मम सरस्वती ॥ तृतीय-रूपा सा न अभूत् लोक-कार्य-हित-एषिणी ॥ ४८॥
pādmā kāntā abhavat viṣṇoḥ tathā mama sarasvatī .. tṛtīya-rūpā sā na abhūt loka-kārya-hita-eṣiṇī .. 48..
दक्षस्य तनया याभूत्सती नाम्ना तु सा विभो ॥ सैवेदृशी भवेद्भार्या भवेद्धि हितकारिणी ॥ ४९ ॥
दक्षस्य तनया या अभूत् सती नाम्ना तु सा विभो ॥ सा एव ईदृशी भवेत् भार्या भवेत् हि हित-कारिणी ॥ ४९ ॥
dakṣasya tanayā yā abhūt satī nāmnā tu sā vibho .. sā eva īdṛśī bhavet bhāryā bhavet hi hita-kāriṇī .. 49 ..
सा तपस्यति देवेश त्वदर्थं हि दृढव्रता ॥ त्वां पतिं प्राप्तुकामा वै महातेजोवती सती ॥ 2.2.16.५० ॥
सा तपस्यति देवेश त्वद्-अर्थम् हि दृढ-व्रता ॥ त्वाम् पतिम् प्राप्तु-कामा वै महा-तेजोवती सती ॥ २।२।१६।५० ॥
sā tapasyati deveśa tvad-artham hi dṛḍha-vratā .. tvām patim prāptu-kāmā vai mahā-tejovatī satī .. 2.2.16.50 ..
दातुं गच्छ वरं तस्यै कृपां कुरु महेश्वर ॥ तां विवाहय सुप्रीत्या वरं दत्त्वा च तादृशम् ॥ ५१॥
दातुम् गच्छ वरम् तस्यै कृपाम् कुरु महेश्वर ॥ ताम् विवाहय सु प्रीत्या वरम् दत्त्वा च तादृशम् ॥ ५१॥
dātum gaccha varam tasyai kṛpām kuru maheśvara .. tām vivāhaya su prītyā varam dattvā ca tādṛśam .. 51..
हरेर्मम च देवानामियं वाञ्छास्ति शंकर ॥ परिपूरय सद्दृष्ट्या पश्यामोत्सवमादरात् ॥ ५२ ॥
हरेः मम च देवानाम् इयम् वाञ्छा अस्ति शंकर ॥ परिपूरय सत्-दृष्ट्या पश्याम उत्सवम् आदरात् ॥ ५२ ॥
hareḥ mama ca devānām iyam vāñchā asti śaṃkara .. paripūraya sat-dṛṣṭyā paśyāma utsavam ādarāt .. 52 ..
मङ्गलं परमं भूयात्त्रिलोकेषु सुखावहम् ॥ सर्वज्वरो विनश्येद्वै सर्वेषां नात्र संशयः ॥ ५३ ॥
मङ्गलम् परमम् भूयात् त्रि-लोकेषु सुख-आवहम् ॥ सर्व-ज्वरः विनश्येत् वै सर्वेषाम् न अत्र संशयः ॥ ५३ ॥
maṅgalam paramam bhūyāt tri-lokeṣu sukha-āvaham .. sarva-jvaraḥ vinaśyet vai sarveṣām na atra saṃśayaḥ .. 53 ..
अथवास्मद्वचश्शेषे वदंत मधुसूदनः ॥ लीलाजाकृतिमीशानं भक्तवत्सलमच्युतः ॥ ५४ ॥
अथवा अस्मद्-वचः-शेषे वदंत मधुसूदनः ॥ लीला-ज-आकृतिम् ईशानम् भक्त-वत्सलम् अच्युतः ॥ ५४ ॥
athavā asmad-vacaḥ-śeṣe vadaṃta madhusūdanaḥ .. līlā-ja-ākṛtim īśānam bhakta-vatsalam acyutaḥ .. 54 ..
विष्णुरुवाच ।।
देवदेव महादेव करुणाकर शंकर ॥ यदुक्तं ब्रह्मणा सर्वं मदुक्तं तन्न संशयः ॥ ५५ ॥
देवदेव महादेव करुणाकर शंकर ॥ यत् उक्तम् ब्रह्मणा सर्वम् मद्-उक्तम् तत् न संशयः ॥ ५५ ॥
devadeva mahādeva karuṇākara śaṃkara .. yat uktam brahmaṇā sarvam mad-uktam tat na saṃśayaḥ .. 55 ..
तत्कुरुष्व महेशान कृपां कृत्वा ममोपरि ॥ सनाथं कुरु सद्दृष्ट्या त्रिलोकं सुविवाह्यताम् ॥ ५६ ॥
तत् कुरुष्व महेशान कृपाम् कृत्वा मम उपरि ॥ स नाथम् कुरु सत्-दृष्ट्या त्रिलोकम् सुविवाह्यताम् ॥ ५६ ॥
tat kuruṣva maheśāna kṛpām kṛtvā mama upari .. sa nātham kuru sat-dṛṣṭyā trilokam suvivāhyatām .. 56 ..
ब्रह्मोवाच ।।
इत्युक्त्वा भगवान् विष्णुस्तूष्णीमास मुने सुधीः ॥ तथा स्तुतिं विहस्याह स प्रभुर्भक्तवत्सलः ॥ ५७ ॥
इति उक्त्वा भगवान् विष्णुः तूष्णीम् आस मुने सुधीः ॥ तथा स्तुतिम् विहस्य आह स प्रभुः भक्त-वत्सलः ॥ ५७ ॥
iti uktvā bhagavān viṣṇuḥ tūṣṇīm āsa mune sudhīḥ .. tathā stutim vihasya āha sa prabhuḥ bhakta-vatsalaḥ .. 57 ..
ततस्त्वावां च संप्राप्य चाज्ञां स मुनिभिस्सुरैः ॥ अगच्छावस्वेष्टदेशं सस्त्रीकौ परहर्षितौ ॥ ५८॥
ततस् तु आवाम् च संप्राप्य च आज्ञाम् स मुनिभिः सुरैः ॥ अगच्छौ अस्व-इष्टदेशम् स स्त्रीकौ पर-हर्षितौ ॥ ५८॥
tatas tu āvām ca saṃprāpya ca ājñām sa munibhiḥ suraiḥ .. agacchau asva-iṣṭadeśam sa strīkau para-harṣitau .. 58..
इति श्रीशिवमहापुणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे विष्णुब्रह्मकृतशिव प्रार्थनावर्णनं नाम षोडशोऽध्यायः ॥ १६ ॥
इति श्री-शिवमहापुणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे विष्णुब्रह्मकृतशिव-प्रार्थनावर्णनम् नाम षोडशः अध्यायः ॥ १६ ॥
iti śrī-śivamahāpuṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe viṣṇubrahmakṛtaśiva-prārthanāvarṇanam nāma ṣoḍaśaḥ adhyāyaḥ .. 16 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In