| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
इत्युक्त्वा सर्वदेवैश्च कृता शंभोर्नुतिः परा ॥ शिवाच्च सा वरं प्राप्ता शृणु ह्यादरतो मुने ॥ १ ॥
इति उक्त्वा सर्व-देवैः च कृता शंभोः नुतिः परा ॥ शिवात् च सा वरम् प्राप्ता शृणु हि आदरतः मुने ॥ १ ॥
iti uktvā sarva-devaiḥ ca kṛtā śaṃbhoḥ nutiḥ parā .. śivāt ca sā varam prāptā śṛṇu hi ādarataḥ mune .. 1 ..
अथो सती पुनः शुक्लपक्षेऽष्टम्यामुपोषिता ॥ आश्विने मासि सर्वेशं पूजयामास भक्तितः ॥ २॥
अथ उ सती पुनर् शुक्लपक्षे अष्टम्याम् उपोषिता ॥ आश्विने मासि सर्व-ईशम् पूजयामास भक्तितः ॥ २॥
atha u satī punar śuklapakṣe aṣṭamyām upoṣitā .. āśvine māsi sarva-īśam pūjayāmāsa bhaktitaḥ .. 2..
इति नंदाव्रते पूर्णे नवम्यां दिनभागतः ॥ तस्यास्तु ध्यानमग्नायाः प्रत्यक्षमभवद्धरः ॥ ३ ॥
इति नंदाव्रते पूर्णे नवम्याम् दिन-भागतः ॥ तस्याः तु ध्यान-मग्नायाः प्रत्यक्षम् अभवत् हरः ॥ ३ ॥
iti naṃdāvrate pūrṇe navamyām dina-bhāgataḥ .. tasyāḥ tu dhyāna-magnāyāḥ pratyakṣam abhavat haraḥ .. 3 ..
सर्वाङ्गसुन्दरो गौरः पंचवक्त्रस्त्रिलोचनः॥ चंद्रभालः प्रसन्नात्मा शितिकंठश्चतुर्भुज ॥ ४ ॥
सर्व-अङ्ग-सुन्दरः गौरः पंचवक्त्रः त्रिलोचनः॥ चंद्रभालः प्रसन्न-आत्मा शितिकंठः चतुर्भुज ॥ ४ ॥
sarva-aṅga-sundaraḥ gauraḥ paṃcavaktraḥ trilocanaḥ.. caṃdrabhālaḥ prasanna-ātmā śitikaṃṭhaḥ caturbhuja .. 4 ..
त्रिशूलब्रह्मकवराभयधृग्भस्मभास्वरः ॥ स्वर्धुन्या विलसच्छीर्षस्सकलाङ्गमनोहरः ॥ ५ ॥
॥ स्वर्धुन्या विलसत्-शीर्षः सकल-अङ्ग-मनोहरः ॥ ५ ॥
.. svardhunyā vilasat-śīrṣaḥ sakala-aṅga-manoharaḥ .. 5 ..
महालावण्यधामा च कोटिचन्द्रसमाननः ॥ कोटिस्मरसमाकांतिस्सर्वथा स्त्रीप्रियाकृतिः ॥ ६ ॥
महा-लावण्य-धामा च कोटि-चन्द्र-सम-आननः ॥ कोटि-स्मर-सम-अकांतिः सर्वथा स्त्री-प्रिय-आकृतिः ॥ ६ ॥
mahā-lāvaṇya-dhāmā ca koṭi-candra-sama-ānanaḥ .. koṭi-smara-sama-akāṃtiḥ sarvathā strī-priya-ākṛtiḥ .. 6 ..
प्रत्यक्षतो हरं वीक्ष्य सती सेदृविधं प्रभुम् ॥ ववन्दे चरणौ तस्य सुलज्जावनतानना ॥ ७ ॥
प्रत्यक्षतस् हरम् वीक्ष्य सती सा ईदृविधम् प्रभुम् ॥ ववन्दे चरणौ तस्य सु लज्जा-अवनत-आनना ॥ ७ ॥
pratyakṣatas haram vīkṣya satī sā īdṛvidham prabhum .. vavande caraṇau tasya su lajjā-avanata-ānanā .. 7 ..
अथ प्राह महादेवस्सतीं सद्व्रतधारिणीम् ॥ तामिच्छन्नपि भार्यार्थं तपश्चर्याफलप्रदः ॥ ८ ॥
अथ प्राह महादेवः सतीम् सत्-व्रत-धारिणीम् ॥ ताम् इच्छन् अपि भार्या-अर्थम् तपः-चर्या-फल-प्रदः ॥ ८ ॥
atha prāha mahādevaḥ satīm sat-vrata-dhāriṇīm .. tām icchan api bhāryā-artham tapaḥ-caryā-phala-pradaḥ .. 8 ..
महादेव उवाच ।।
दक्षनंदिनि प्रीतोस्मि व्रतेनानेन सुव्रते ॥ वरं वरय संदास्ये यत्तवाभिमतं भवेत् ॥ ९ ॥
दक्षनंदिनि प्रीतः अस्मि व्रतेन अनेन सुव्रते ॥ वरम् वरय संदास्ये यत् तव अभिमतम् भवेत् ॥ ९ ॥
dakṣanaṃdini prītaḥ asmi vratena anena suvrate .. varam varaya saṃdāsye yat tava abhimatam bhavet .. 9 ..
ब्रह्मोवाच ।।
जानन्नपीह तद्भावं महादेवो जगत्पतिः॥ जगौ वरं वृणीष्वेति तद्वाक्यश्रवणेच्छया ॥ 2.2.17.१० ॥
जानन् अपि इह तद्-भावम् महादेवः जगत्पतिः॥ जगौ वरम् वृणीष्व इति तद्-वाक्य-श्रवण-इच्छया ॥ २।२।१७।१० ॥
jānan api iha tad-bhāvam mahādevaḥ jagatpatiḥ.. jagau varam vṛṇīṣva iti tad-vākya-śravaṇa-icchayā .. 2.2.17.10 ..
सापि त्रपावशा युक्ता वक्तुं नो हृदि यत्स्थितम् ॥ शशाक सा त्वभीष्टं यत्तल्लज्जाच्छादितं पुनः ॥ ११॥
सा अपि त्रपा-वशा युक्ता वक्तुम् नः हृदि यत् स्थितम् ॥ शशाक सा तु अभीष्टम् यत् तत् लज्जा-आच्छादितम् पुनर् ॥ ११॥
sā api trapā-vaśā yuktā vaktum naḥ hṛdi yat sthitam .. śaśāka sā tu abhīṣṭam yat tat lajjā-ācchāditam punar .. 11..
प्रेममग्नाऽभवत्साति श्रुत्वा शिववचः प्रियम् ॥ तज्ज्ञात्वा सुप्रसन्नोभूच्छंकरो भक्तवत्सलः ॥ १२ ॥
प्रेम-मग्ना अभवत् सा अति श्रुत्वा शिव-वचः प्रियम् ॥ तत् ज्ञात्वा सु प्रसन्नः भूत् शंकरः भक्त-वत्सलः ॥ १२ ॥
prema-magnā abhavat sā ati śrutvā śiva-vacaḥ priyam .. tat jñātvā su prasannaḥ bhūt śaṃkaraḥ bhakta-vatsalaḥ .. 12 ..
वरं ब्रूहि वरं ब्रूहि प्राहेति स पुनर्द्रुतम् ॥ सतीभक्तिवशश्शंभुरंतर्यामी सतां गतिः ॥ १३॥
वरम् ब्रूहि वरम् ब्रूहि प्राह इति स पुनर् द्रुतम् ॥ सती-भक्ति-वशः शंभुः अंतर्यामी सताम् गतिः ॥ १३॥
varam brūhi varam brūhi prāha iti sa punar drutam .. satī-bhakti-vaśaḥ śaṃbhuḥ aṃtaryāmī satām gatiḥ .. 13..
अथ त्रपां स्वां संधाय यदा प्राह हरं सती ॥ यथेष्टं देहि वरद वरमित्यनिवारकम् ॥ १४ ॥
अथ त्रपाम् स्वाम् संधाय यदा प्राह हरम् सती ॥ यथा इष्टम् देहि वर-द वरम् इति अनिवारकम् ॥ १४ ॥
atha trapām svām saṃdhāya yadā prāha haram satī .. yathā iṣṭam dehi vara-da varam iti anivārakam .. 14 ..
तदा वाक्यस्यावसानमनवेक्ष्य वृषध्वजः ॥ भव त्वं मम भार्येति प्राह तां भक्तवत्सलः ॥ १५॥
तदा वाक्यस्य अवसानम् अन् अवेक्ष्य वृषध्वजः ॥ भव त्वम् मम भार्या इति प्राह ताम् भक्त-वत्सलः ॥ १५॥
tadā vākyasya avasānam an avekṣya vṛṣadhvajaḥ .. bhava tvam mama bhāryā iti prāha tām bhakta-vatsalaḥ .. 15..
एतच्छ्रुत्वा वचस्तस्य साभीष्टफल भावनम् ॥ तूष्णीं तस्थौ प्रमुदिता वरं प्राप्य मनोगतम् ॥ १६ ॥
एतत् श्रुत्वा वचः तस्य भावनम् ॥ तूष्णीम् तस्थौ प्रमुदिता वरम् प्राप्य मनोगतम् ॥ १६ ॥
etat śrutvā vacaḥ tasya bhāvanam .. tūṣṇīm tasthau pramuditā varam prāpya manogatam .. 16 ..
सकामस्य हरस्याग्रे स्थिता सा चारुहासिनी ॥ अकरोन्निजभावांश्च हावान्कामविवर्द्धनान् ॥ १७ ॥
स कामस्य हरस्य अग्रे स्थिता सा चारु-हासिनी ॥ अकरोत् निज-भावान् च हावान् काम-विवर्द्धनान् ॥ १७ ॥
sa kāmasya harasya agre sthitā sā cāru-hāsinī .. akarot nija-bhāvān ca hāvān kāma-vivarddhanān .. 17 ..
ततो भावान्समादाय शृंगाराख्यो रसस्तदा ॥ तयोश्चित्ते विवेशाशु कला हावा यथोदितम् ॥ १८ ॥
ततस् भावान् समादाय शृंगार-आख्यः रसः तदा ॥ तयोः चित्ते विवेश आशु कलाः हावाः यथा उदितम् ॥ १८ ॥
tatas bhāvān samādāya śṛṃgāra-ākhyaḥ rasaḥ tadā .. tayoḥ citte viveśa āśu kalāḥ hāvāḥ yathā uditam .. 18 ..
तत्प्रवेशात्तु देवर्षे लोकलीलानुसारिणोः ॥ काप्यभिख्या तयोरासीच्चित्रा चन्द्रमसोर्यथा ॥ १९ ॥
तद्-प्रवेशात् तु देव-ऋषे लोक-लीला-अनुसारिणोः ॥ का अपि अभिख्या तयोः आसीत् चित्रा चन्द्रमसोः यथा ॥ १९ ॥
tad-praveśāt tu deva-ṛṣe loka-līlā-anusāriṇoḥ .. kā api abhikhyā tayoḥ āsīt citrā candramasoḥ yathā .. 19 ..
रेजे सती हरं प्राप्य स्निग्धभिन्नांजनप्रभा ॥ चन्द्राभ्याशेऽभ्रलेखेव स्फटिकोज्ज्वलवर्ष्मणः ॥ 2.2.17.२०॥
रेजे सती हरम् प्राप्य स्निग्ध-भिन्न-अंजन-प्रभा ॥ चन्द्र-अभ्याशे अभ्र-लेखा इव स्फटिक-उज्ज्वल-वर्ष्मणः ॥ २।२।१७।२०॥
reje satī haram prāpya snigdha-bhinna-aṃjana-prabhā .. candra-abhyāśe abhra-lekhā iva sphaṭika-ujjvala-varṣmaṇaḥ .. 2.2.17.20..
अथ सा तमुवाचेदं हरं दाक्षायणी मुहुः ॥ सुप्रसन्ना करौ बद्ध्वा नतका भक्तवत्सलम् ॥ २१ ॥
अथ सा तम् उवाच इदम् हरम् दाक्षायणी मुहुर् ॥ सु प्रसन्ना करौ बद्ध्वा नतका भक्त-वत्सलम् ॥ २१ ॥
atha sā tam uvāca idam haram dākṣāyaṇī muhur .. su prasannā karau baddhvā natakā bhakta-vatsalam .. 21 ..
सत्युवाच ।।
देवदेव महादेव विवाह विधिना प्रभौ ॥ पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ २२ ॥
देवदेव महादेव विवाह-विधिना प्रभौ ॥ पितुः मे गोचरीकृत्य माम् गृहाण जगत्पते ॥ २२ ॥
devadeva mahādeva vivāha-vidhinā prabhau .. pituḥ me gocarīkṛtya mām gṛhāṇa jagatpate .. 22 ..
।। ब्रह्मोवाच ।।
एवं सतीवचः श्रुत्वा महेशो भक्तवत्सलः ॥ तथास्त्विति वचः प्राह निरीक्ष्य प्रेमतश्च ताम् ॥ २३ ॥
एवम् सती-वचः श्रुत्वा महेशः भक्त-वत्सलः ॥ तथा अस्तु इति वचः प्राह निरीक्ष्य प्रेमतः च ताम् ॥ २३ ॥
evam satī-vacaḥ śrutvā maheśaḥ bhakta-vatsalaḥ .. tathā astu iti vacaḥ prāha nirīkṣya premataḥ ca tām .. 23 ..
दाक्षायण्यपि तं नत्वा शंभुं विज्ञाप्य भक्तितः ॥ प्राप्ताज्ञा मातुरभ्याशमगान्मोहमुदान्विता ॥ २४ ॥
दाक्षायणी अपि तम् नत्वा शंभुम् विज्ञाप्य भक्तितः ॥ प्राप्त-आज्ञा मातुः अभ्याशम् अगात् मोह-मुदा अन्विता ॥ २४ ॥
dākṣāyaṇī api tam natvā śaṃbhum vijñāpya bhaktitaḥ .. prāpta-ājñā mātuḥ abhyāśam agāt moha-mudā anvitā .. 24 ..
हरोपि हिमवत्प्रस्थं प्रविश्य च निजाश्रमम् ॥ दाक्षायणीवियोगाद्वै कृच्छ्रध्यानपरोऽभवत् ॥ २५॥
हरः उपि हिमवत्प्रस्थम् प्रविश्य च निज-आश्रमम् ॥ दाक्षायणी-वियोगात् वै कृच्छ्र-ध्यान-परः अभवत् ॥ २५॥
haraḥ upi himavatprastham praviśya ca nija-āśramam .. dākṣāyaṇī-viyogāt vai kṛcchra-dhyāna-paraḥ abhavat .. 25..
समाधाय मनः शंभुर्लौकिकीं गतिमाश्रितः ॥ चिंतयामास देवर्षे मनसा मां वृषध्वजः ॥ २६ ॥
समाधाय मनः शंभुः लौकिकीम् गतिम् आश्रितः ॥ चिंतयामास देव-ऋषे मनसा माम् वृषध्वजः ॥ २६ ॥
samādhāya manaḥ śaṃbhuḥ laukikīm gatim āśritaḥ .. ciṃtayāmāsa deva-ṛṣe manasā mām vṛṣadhvajaḥ .. 26 ..
ततस्संचिंत्यमानोहं महेशेन त्रिशूल्रिना ॥ पुरस्तात्प्राविशं तूर्णं हरसिद्धिप्रचोदितः ॥ २७ ॥
ततस् संचिंत्यमाना उहम् महेशेन त्रिशूल्रिना ॥ पुरस्तात् प्राविशम् तूर्णम् हर-सिद्धि-प्रचोदितः ॥ २७ ॥
tatas saṃciṃtyamānā uham maheśena triśūlrinā .. purastāt prāviśam tūrṇam hara-siddhi-pracoditaḥ .. 27 ..
यत्रासौ हिमवत्प्रस्थे तद्वियोगी हरः स्थितः ॥ सरस्वतीयुतस्तात तत्रैव समुपस्थितः ॥ २८ ॥
यत्र असौ हिमवत्-प्रस्थे तद्-वियोगी हरः स्थितः ॥ सरस्वती-युतः तात तत्र एव समुपस्थितः ॥ २८ ॥
yatra asau himavat-prasthe tad-viyogī haraḥ sthitaḥ .. sarasvatī-yutaḥ tāta tatra eva samupasthitaḥ .. 28 ..
सरस्वतीयुतं मां च देवर्षे वीक्ष्य स प्रभुः ॥ उत्सुकः प्रेमबद्धश्च सत्या शंभुरुवाच ह ॥ २९॥
सरस्वती-युतम् माम् च देव-ऋषे वीक्ष्य स प्रभुः ॥ उत्सुकः प्रेम-बद्धः च सत्या शंभुः उवाच ह ॥ २९॥
sarasvatī-yutam mām ca deva-ṛṣe vīkṣya sa prabhuḥ .. utsukaḥ prema-baddhaḥ ca satyā śaṃbhuḥ uvāca ha .. 29..
शंभुरुवाच ।।
अहं ब्रह्मन्स्वार्थपरः परिग्रहकृतौ च यत् ॥ तदा स्वत्वमिवस्वार्थे प्रतिभाति ममाधुना ॥ 2.2.17.३०॥
अहम् ब्रह्मन् स्व-अर्थ-परः परिग्रह-कृतौ च यत् ॥ तदा स्व-त्वम् इव स्व-अर्थे प्रतिभाति मम अधुना ॥ २।२।१७।३०॥
aham brahman sva-artha-paraḥ parigraha-kṛtau ca yat .. tadā sva-tvam iva sva-arthe pratibhāti mama adhunā .. 2.2.17.30..
अहमाराधितस्सत्याद्दाक्षायण्याथ भक्तितः ॥ तस्यै वरो मया दत्तो नंदाव्रतप्रभावतः ॥ ३१॥
अहम् आराधितः सत्यात् दाक्षायण्या अथ भक्तितः ॥ तस्यै वरः मया दत्तः नंदाव्रत-प्रभावतः ॥ ३१॥
aham ārādhitaḥ satyāt dākṣāyaṇyā atha bhaktitaḥ .. tasyai varaḥ mayā dattaḥ naṃdāvrata-prabhāvataḥ .. 31..
भर्ता भवेति च तया मत्तो ब्रह्मन् वरो वृतः ॥ मम भार्या भवेत्युक्तं मया तुष्टेन सर्वथा ॥ ३२॥
भर्ता भव इति च तया मत्तः ब्रह्मन् वरः वृतः ॥ मम भार्या भव इति उक्तम् मया तुष्टेन सर्वथा ॥ ३२॥
bhartā bhava iti ca tayā mattaḥ brahman varaḥ vṛtaḥ .. mama bhāryā bhava iti uktam mayā tuṣṭena sarvathā .. 32..
अथावदत्तदा मां सा सती दाक्षायणी त्विति ॥ पितुर्मे गोचरीकृत्य मां गृहाण जगत्पते ॥ ३३॥
अथ अवदत् तदा माम् सा सती दाक्षायणी तु इति ॥ पितुः मे गोचरीकृत्य माम् गृहाण जगत्पते ॥ ३३॥
atha avadat tadā mām sā satī dākṣāyaṇī tu iti .. pituḥ me gocarīkṛtya mām gṛhāṇa jagatpate .. 33..
तदप्यंगीकृतं ब्रह्मन्मया तद्भक्ति तुष्टितः ॥ सा गता भवनं मातुरहमत्रागतो विधे ॥ ३४॥
तत् अपि अंगीकृतम् ब्रह्मन् मया तद्-भक्ति तुष्टितः ॥ सा गता भवनम् मातुः अहम् अत्र आगतः विधे ॥ ३४॥
tat api aṃgīkṛtam brahman mayā tad-bhakti tuṣṭitaḥ .. sā gatā bhavanam mātuḥ aham atra āgataḥ vidhe .. 34..
तस्मात्त्वं गच्छ भवनं दक्षस्य मम शासनात् ॥ तां दक्षोपि यथा कन्यां दद्यान्मेऽरं तथा वद ॥ ३५ ॥
तस्मात् त्वम् गच्छ भवनम् दक्षस्य मम शासनात् ॥ ताम् दक्षः उपि यथा कन्याम् दद्यात् मे अरम् तथा वद ॥ ३५ ॥
tasmāt tvam gaccha bhavanam dakṣasya mama śāsanāt .. tām dakṣaḥ upi yathā kanyām dadyāt me aram tathā vada .. 35 ..
सतीवियोगभंगस्स्याद्यथा मे त्वं तथा कुरु ॥ समाश्वासय तं दक्षं सर्वविद्याविशारदः ॥ ३६ ॥
सती-वियोग-भंगः स्यात् यथा मे त्वम् तथा कुरु ॥ समाश्वासय तम् दक्षम् सर्व-विद्या-विशारदः ॥ ३६ ॥
satī-viyoga-bhaṃgaḥ syāt yathā me tvam tathā kuru .. samāśvāsaya tam dakṣam sarva-vidyā-viśāradaḥ .. 36 ..
।। ब्रह्मोवाच ।।
इत्युदीर्य महादेवस्सकाशे मे प्रजापतेः ॥ सरस्वतीं विलोक्याशु वियोगवशगोभवत् ॥ ३७॥
इति उदीर्य महादेवः सकाशे मे प्रजापतेः ॥ सरस्वतीम् विलोक्य आशु वियोग-वश-गः भवत् ॥ ३७॥
iti udīrya mahādevaḥ sakāśe me prajāpateḥ .. sarasvatīm vilokya āśu viyoga-vaśa-gaḥ bhavat .. 37..
तेनाहमपि चाज्ञप्तः कृतकृत्यो मुदान्वितः ॥ प्रावोचं चेति जगतां नाथं तं भक्तवत्सलम् ॥ ३८॥
तेन अहम् अपि च आज्ञप्तः कृतकृत्यः मुदा अन्वितः ॥ प्रावोचम् च इति जगताम् नाथम् तम् भक्त-वत्सलम् ॥ ३८॥
tena aham api ca ājñaptaḥ kṛtakṛtyaḥ mudā anvitaḥ .. prāvocam ca iti jagatām nātham tam bhakta-vatsalam .. 38..
।। ब्रह्मोवाच ।।
यदात्थ भगवञ्शम्भो तद्विचार्य सुनिश्चितम् ॥ देवानां मुख्यस्स्वार्थो हि ममापि वृषभध्वज॥ ३९॥
यत् आत्थ भगवन् शम्भो तत् विचार्य सु निश्चितम् ॥ देवानाम् मुख्यः स्व-अर्थः हि मम अपि वृषभध्वज॥ ३९॥
yat āttha bhagavan śambho tat vicārya su niścitam .. devānām mukhyaḥ sva-arthaḥ hi mama api vṛṣabhadhvaja.. 39..
दक्षस्तुभ्यं सुतां स्वां च स्वयमेव प्रदास्यति ॥ अहं चापि वदिष्यामि त्वद्वाक्यं तत्समक्षतः ॥ 2.2.17.४० ॥
दक्षः तुभ्यम् सुताम् स्वाम् च स्वयम् एव प्रदास्यति ॥ अहम् च अपि वदिष्यामि त्वद्-वाक्यम् तद्-समक्षतः ॥ २।२।१७।४० ॥
dakṣaḥ tubhyam sutām svām ca svayam eva pradāsyati .. aham ca api vadiṣyāmi tvad-vākyam tad-samakṣataḥ .. 2.2.17.40 ..
ब्रह्मोवाच ।।
इत्युदीर्य्य महादेवमहं सर्वेश्वरं प्रभुम् ॥ अगमं दक्षनिलयं स्यंदनेनातिवेगिना ॥ ४१॥
इति उदीर्य्य महादेवम् अहम् सर्वेश्वरम् प्रभुम् ॥ अगमम् दक्ष-निलयम् स्यंदनेन अति वेगिना ॥ ४१॥
iti udīryya mahādevam aham sarveśvaram prabhum .. agamam dakṣa-nilayam syaṃdanena ati veginā .. 41..
।। नारद उवाच ।।
विधे प्राज्ञ महाभाग वद नो वदतां वर ॥ सत्यै गृहागतायै स दक्षः किमकरोत्ततः ॥ ४२ ॥
विधे प्राज्ञ महाभाग वद नः वदताम् वर ॥ सत्यै गृह-आगतायै स दक्षः किम् अकरोत् ततस् ॥ ४२ ॥
vidhe prājña mahābhāga vada naḥ vadatām vara .. satyai gṛha-āgatāyai sa dakṣaḥ kim akarot tatas .. 42 ..
ब्रह्मोवाच ।।
तपस्तप्त्वा वरं प्राप्य मनोभिलषितं सती ॥ गृहं गत्वा पितुर्मातुः प्रणाममकरोत्तदा ॥ ४३॥
तपः तप्त्वा वरम् प्राप्य मनः-भिलषितम् सती ॥ गृहम् गत्वा पितुः मातुः प्रणामम् अकरोत् तदा ॥ ४३॥
tapaḥ taptvā varam prāpya manaḥ-bhilaṣitam satī .. gṛham gatvā pituḥ mātuḥ praṇāmam akarot tadā .. 43..
मात्रे पित्रेऽथ तत्सर्वं समाचख्यौ महेश्वरात् ॥ वरप्राप्तिः स्वसख्या वै सत्यास्तुष्टस्तु भक्तितः ॥ ४४ ॥
मात्रे पित्रे अथ तत् सर्वम् समाचख्यौ महेश्वरात् ॥ वर-प्राप्तिः स्व-सख्याः वै सत्याः तुष्टः तु भक्तितः ॥ ४४ ॥
mātre pitre atha tat sarvam samācakhyau maheśvarāt .. vara-prāptiḥ sva-sakhyāḥ vai satyāḥ tuṣṭaḥ tu bhaktitaḥ .. 44 ..
माता पिता च वृत्तांतं सर्वं श्रुत्वा सखीमुखात् ॥ आनन्दं परमं लेभे चक्रे च परमोत्सवम् ॥ ४५॥
माता पिता च वृत्तांतम् सर्वम् श्रुत्वा सखी-मुखात् ॥ आनन्दम् परमम् लेभे चक्रे च परम-उत्सवम् ॥ ४५॥
mātā pitā ca vṛttāṃtam sarvam śrutvā sakhī-mukhāt .. ānandam paramam lebhe cakre ca parama-utsavam .. 45..
द्रव्यं ददौ द्विजातिभ्यो यथाभीष्टमुदारधीः॥ अन्येभ्यश्चांधदीनेभ्यो वीरिणी च महामनाः ॥ ४६॥
द्रव्यम् ददौ द्विजातिभ्यः यथा अभीष्टम् उदार-धीः॥ अन्येभ्यः च अंध-दीनेभ्यः वीरिणी च महामनाः ॥ ४६॥
dravyam dadau dvijātibhyaḥ yathā abhīṣṭam udāra-dhīḥ.. anyebhyaḥ ca aṃdha-dīnebhyaḥ vīriṇī ca mahāmanāḥ .. 46..
वीरिणी तां समालिंग्य स्वसुतां प्रीतिवर्द्धिनीम् ॥ मूर्ध्न्युपाघ्राय मुदिता प्रशशंस मुहुर्मुहुः ॥ ४७॥
वीरिणी ताम् समालिंग्य स्व-सुताम् प्रीति-वर्द्धिनीम् ॥ मूर्ध्नि उपाघ्राय मुदिता प्रशशंस मुहुर् मुहुर् ॥ ४७॥
vīriṇī tām samāliṃgya sva-sutām prīti-varddhinīm .. mūrdhni upāghrāya muditā praśaśaṃsa muhur muhur .. 47..
अथ दक्षः कियत्काले व्यतीते धर्मवित्तमः ॥ चिंतयामास देयेयं स्वसुता शम्भवे कथम् ॥ ४८ ॥
अथ दक्षः कियत्-काले व्यतीते धर्म-वित्तमः ॥ चिंतयामास देया इयम् स्व-सुता शम्भवे कथम् ॥ ४८ ॥
atha dakṣaḥ kiyat-kāle vyatīte dharma-vittamaḥ .. ciṃtayāmāsa deyā iyam sva-sutā śambhave katham .. 48 ..
आगतोपि महादेवः प्रसन्नस्स जगाम ह ॥ पुनरेव कथं सोपि सुतार्थेऽत्रागमिष्यति ॥ ४९ ॥
आगतः उपि महादेवः प्रसन्नः स जगाम ह ॥ पुनर् एव कथम् सः अपि सुत-अर्थे अत्र आगमिष्यति ॥ ४९ ॥
āgataḥ upi mahādevaḥ prasannaḥ sa jagāma ha .. punar eva katham saḥ api suta-arthe atra āgamiṣyati .. 49 ..
प्रास्थाप्योथ मया कश्चिच्छंभोर्निकटमंजसा ॥ नैतद्योग्यं निगृह्णीयाद्यद्येवं विफलार्दना ॥ 2.2.17.५० ॥
प्रास्थाप्य उथ मया कश्चिद् शंभोः निकटम् अंजसा ॥ न एतद्-योग्यम् निगृह्णीयात् यदि एवम् विफल-अर्दना ॥ २।२।१७।५० ॥
prāsthāpya utha mayā kaścid śaṃbhoḥ nikaṭam aṃjasā .. na etad-yogyam nigṛhṇīyāt yadi evam viphala-ardanā .. 2.2.17.50 ..
अथवा पूजयिष्यामि तमेव वृषभध्वजम्॥ मदीयतनया भक्त्या स्वयमेव यथा भवेत्॥ ५१॥
अथवा पूजयिष्यामि तम् एव वृषभध्वजम्॥ मदीय-तनया भक्त्या स्वयम् एव यथा भवेत्॥ ५१॥
athavā pūjayiṣyāmi tam eva vṛṣabhadhvajam.. madīya-tanayā bhaktyā svayam eva yathā bhavet.. 51..
तथैव पूजितस्सोपि वांछत्यार्यप्रयत्नतः॥ शंभुर्भवतु मद्भर्त्तेत्येवं दत्तवरेणतत्॥ ५२॥
तथा एव पूजितः सः अपि वांछति आर्य-प्रयत्नतः॥ शंभुः भवतु मद्-भर्त्ता इति एवम् दत्त-वरेण तत्॥ ५२॥
tathā eva pūjitaḥ saḥ api vāṃchati ārya-prayatnataḥ.. śaṃbhuḥ bhavatu mad-bharttā iti evam datta-vareṇa tat.. 52..
इति चिंतयतस्तस्य दक्षस्य पुरतोऽन्वहम्॥ उपस्थितोहं सहसा सरस्वत्यन्वितस्तदा।५३॥
इति चिंतयतः तस्य दक्षस्य पुरतस् अन्वहम्॥ उपस्थितः उहम् सहसा सरस्वती-अन्वितः तदा।५३॥
iti ciṃtayataḥ tasya dakṣasya puratas anvaham.. upasthitaḥ uham sahasā sarasvatī-anvitaḥ tadā.53..
मां दृष्ट्वा पितरं दक्षः प्रणम्यावनतः स्थितः ॥ आसनं च ददौ मह्यं स्वभवाय यथोचितम् ॥ ५४॥
माम् दृष्ट्वा पितरम् दक्षः प्रणम्य अवनतः स्थितः ॥ आसनम् च ददौ मह्यम् स्व-भवाय यथोचितम् ॥ ५४॥
mām dṛṣṭvā pitaram dakṣaḥ praṇamya avanataḥ sthitaḥ .. āsanam ca dadau mahyam sva-bhavāya yathocitam .. 54..
ततो मां सर्वलोकेशं तत्रागमन कारणम् ॥ दक्षः पप्रच्छ स क्षिप्रं चिंताविष्टोपि हर्षितः ॥ ५५॥
ततस् माम् सर्व-लोक-ईशम् तत्र आगमन-कारणम् ॥ दक्षः पप्रच्छ स क्षिप्रम् चिंता-आविष्टः अपि हर्षितः ॥ ५५॥
tatas mām sarva-loka-īśam tatra āgamana-kāraṇam .. dakṣaḥ papraccha sa kṣipram ciṃtā-āviṣṭaḥ api harṣitaḥ .. 55..
दक्ष उवाच ।।
तवात्रागमने हेतुः कः प्रवेशे स सृष्टिकृत् ॥ ममोपरि सुप्रसादं कृत्वाचक्ष्व जगद्गुरो ॥ ५६॥
तव अत्रा आगमने हेतुः कः प्रवेशे स सृष्टि-कृत् ॥ मम उपरि सु प्रसादम् कृत्वा आचक्ष्व जगद्गुरो ॥ ५६॥
tava atrā āgamane hetuḥ kaḥ praveśe sa sṛṣṭi-kṛt .. mama upari su prasādam kṛtvā ācakṣva jagadguro .. 56..
पुत्रस्नेहात्कार्यवशादथ वा लोककारक॥ ममाश्रमं समायातो हृष्टस्य तव दर्शनात्॥ ५७॥
पुत्र-स्नेहात् कार्य-वशात् अथ वा लोक-कारक॥ मम आश्रमम् समायातः हृष्टस्य तव दर्शनात्॥ ५७॥
putra-snehāt kārya-vaśāt atha vā loka-kāraka.. mama āśramam samāyātaḥ hṛṣṭasya tava darśanāt.. 57..
ब्रह्मोवाच ।।
इति पृष्टस्स्वपुत्रेण दक्षेण मुनिसत्तम ॥ विहसन्नब्रुवं वाक्यं मोदयंस्तं प्रजापतिम् ॥ ५८ ॥
इति पृष्टः स्व-पुत्रेण दक्षेण मुनि-सत्तम ॥ विहसन् अब्रुवम् वाक्यम् मोदयन् तम् प्रजापतिम् ॥ ५८ ॥
iti pṛṣṭaḥ sva-putreṇa dakṣeṇa muni-sattama .. vihasan abruvam vākyam modayan tam prajāpatim .. 58 ..
ब्रह्मोवाच ।।
शृणु दक्ष यदर्थं त्वत्समीपमहमागतः ॥ त्वत्तोकस्य हितं मेपि भवतोपि तदीप्सितम् ॥ ५९ ॥
शृणु दक्ष यद्-अर्थम् त्वद्-समीपम् अहम् आगतः ॥ त्वद्-तोकस्य हितम् मे अपि भवतः उपि तत् ईप्सितम् ॥ ५९ ॥
śṛṇu dakṣa yad-artham tvad-samīpam aham āgataḥ .. tvad-tokasya hitam me api bhavataḥ upi tat īpsitam .. 59 ..
तव पुत्री समाराध्य महादेवं जगत्पतिम् ॥ यो वरः प्रार्थितस्तस्य समयोयमुपागतः ॥ 2.2.17.६० ॥
तव पुत्री समाराध्य महादेवम् जगत्पतिम् ॥ यः वरः प्रार्थितः तस्य समयः उयम् उपागतः ॥ २।२।१७।६० ॥
tava putrī samārādhya mahādevam jagatpatim .. yaḥ varaḥ prārthitaḥ tasya samayaḥ uyam upāgataḥ .. 2.2.17.60 ..
शंभुना तव पुत्र्यर्थं त्वत्सकाशमहं धुवम् ॥ प्रस्थापितोस्मि यत्कृत्यं श्रेय स्तदवधारय ॥ ६१ ॥
शंभुना तव पुत्री-अर्थम् त्वद्-सकाशम् अहम् ॥ प्रस्थापितः अस्मि यत् कृत्यम् श्रेयः तत् अवधारय ॥ ६१ ॥
śaṃbhunā tava putrī-artham tvad-sakāśam aham .. prasthāpitaḥ asmi yat kṛtyam śreyaḥ tat avadhāraya .. 61 ..
वरं दत्त्वा गतो रुद्रस्तावत्प्रभृति शंकरः ॥ त्वत्सुताया वियोगेन न शर्म लभतेंजसा ॥ ६२ ॥
वरम् दत्त्वा गतः रुद्रः तावत्-प्रभृति शंकरः ॥ त्वद्-सुतायाः वियोगेन न शर्म लभता इंजसा ॥ ६२ ॥
varam dattvā gataḥ rudraḥ tāvat-prabhṛti śaṃkaraḥ .. tvad-sutāyāḥ viyogena na śarma labhatā iṃjasā .. 62 ..
अलब्धच्छिद्रमदनो जिगाय गिरिशं न यम् ॥ सर्वैः पुष्पमयैर्बाणैर्यत्नं कृत्वापि भूरिशः ॥ ६३ ॥
अ लब्ध-छिद्र-मदनः जिगाय गिरिशम् न यम् ॥ सर्वैः पुष्प-मयैः बाणैः यत्नम् कृत्वा अपि भूरिशस् ॥ ६३ ॥
a labdha-chidra-madanaḥ jigāya giriśam na yam .. sarvaiḥ puṣpa-mayaiḥ bāṇaiḥ yatnam kṛtvā api bhūriśas .. 63 ..
स कामबाणविद्धोपि परित्यज्यात्म चिंतनम् ॥ सतीं विचिंतयन्नास्ते व्याकुलः प्राकृतो यथा ॥ ६४ ॥
स काम-बाण-विद्धः अपि परित्यज्य आत्म चिंतनम् ॥ सतीम् विचिंतयन् आस्ते व्याकुलः प्राकृतः यथा ॥ ६४ ॥
sa kāma-bāṇa-viddhaḥ api parityajya ātma ciṃtanam .. satīm viciṃtayan āste vyākulaḥ prākṛtaḥ yathā .. 64 ..
विस्मृत्य प्रश्रुतां वाणीं गणाग्रे विप्रयोगतः ॥ क्व सतीत्येवमभितो भाषते निकृतावपि ॥ ६५ ॥
विस्मृत्य प्रश्रुताम् वाणीम् गण-अग्रे विप्रयोगतः ॥ क्व सती इति एवम् अभितस् भाषते निकृतौ अपि ॥ ६५ ॥
vismṛtya praśrutām vāṇīm gaṇa-agre viprayogataḥ .. kva satī iti evam abhitas bhāṣate nikṛtau api .. 65 ..
मया यद्वांछितं पूर्वं त्वया च मदनेन च ॥ मरीच्याद्यैमुनिवरैस्तत्सिद्धमधुना सुत ॥ ६६ ॥
मया यत् वांछितम् पूर्वम् त्वया च मदनेन च ॥ मरीचि-आद्यैः मुनि-वरैः तत् सिद्धम् अधुना सुत ॥ ६६ ॥
mayā yat vāṃchitam pūrvam tvayā ca madanena ca .. marīci-ādyaiḥ muni-varaiḥ tat siddham adhunā suta .. 66 ..
त्वत्पुत्र्याराधितश्शंभुस्सोपि तस्या विचिंतनात् ॥ अनुशोधयितुं प्रेप्सुर्वर्त्तते हिमवद्गिरौ ॥ ६७ ॥
त्वद्-पुत्री-आराधितः शंभुः सः अपि तस्याः विचिंतनात् ॥ अनुशोधयितुम् प्रेप्सुः वर्त्तते हिमवत्-गिरौ ॥ ६७ ॥
tvad-putrī-ārādhitaḥ śaṃbhuḥ saḥ api tasyāḥ viciṃtanāt .. anuśodhayitum prepsuḥ varttate himavat-girau .. 67 ..
यथा नानाविधैर्भावैस्सत्त्वात्तेन व्रतेन च ॥ शंभुराराधितस्तेन तथैवाराध्यते सती ॥ ६८॥
यथा नानाविधैः भावैः सत्त्वात् तेन व्रतेन च ॥ शंभुः आराधितः तेन तथा एवा आराध्यते सती ॥ ६८॥
yathā nānāvidhaiḥ bhāvaiḥ sattvāt tena vratena ca .. śaṃbhuḥ ārādhitaḥ tena tathā evā ārādhyate satī .. 68..
तस्मात्तु दक्षतनयां शंभ्वर्थं परिकल्पिताम् ॥ तस्मै देह्यविलंबेन कृता ते कृतकृत्यता ॥ ६९ ॥
तस्मात् तु दक्ष-तनयाम् शंभु-अर्थम् परिकल्पिताम् ॥ तस्मै देहि अविलंबेन कृता ते कृतकृत्य-ता ॥ ६९ ॥
tasmāt tu dakṣa-tanayām śaṃbhu-artham parikalpitām .. tasmai dehi avilaṃbena kṛtā te kṛtakṛtya-tā .. 69 ..
अहं तमानयिष्यामि नारदेन त्वदालयम् ॥ तस्मै त्वमेनां संयच्छ तदर्थे परिकल्पिताम् ॥ 2.2.17.७० ॥
अहम् तम् आनयिष्यामि नारदेन त्वद्-आलयम् ॥ तस्मै त्वम् एनाम् संयच्छ तद्-अर्थे परिकल्पिताम् ॥ २।२।१७।७० ॥
aham tam ānayiṣyāmi nāradena tvad-ālayam .. tasmai tvam enām saṃyaccha tad-arthe parikalpitām .. 2.2.17.70 ..
ब्रह्मोवाच ।।
श्रुत्वा मम वचश्चेति स मे पुत्रोतिहर्षितः ॥ एवमेवेतिमां दक्ष उवाच परिहर्षितः ॥ ७१ ॥
श्रुत्वा मम वचः च इति स मे पुत्र उति हर्षितः ॥ एवम् एव इति माम् दक्षः उवाच परिहर्षितः ॥ ७१ ॥
śrutvā mama vacaḥ ca iti sa me putra uti harṣitaḥ .. evam eva iti mām dakṣaḥ uvāca pariharṣitaḥ .. 71 ..
ततस्सोहं मुने तत्रागममत्यंतहर्षितः ॥ उत्सुको लोकनिरतो गिरिशो यत्र संस्थितः ॥ ७२ ॥
ततस् सः उहम् मुने तत्र अगमम् अत्यंत-हर्षितः ॥ उत्सुकः लोक-निरतः गिरिशः यत्र संस्थितः ॥ ७२ ॥
tatas saḥ uham mune tatra agamam atyaṃta-harṣitaḥ .. utsukaḥ loka-nirataḥ giriśaḥ yatra saṃsthitaḥ .. 72 ..
गते नारद दक्षोपि सदार तनयो ह्यपि ॥ अभवत्पूर्णकामस्तु पीयूषैरिव पूरितः ॥ ७३ ॥ ॥
गते नारद दक्षः उपि स दार तनयः हि अपि ॥ अभवत् पूर्ण-कामः तु पीयूषैः इव पूरितः ॥ ७३ ॥ ॥
gate nārada dakṣaḥ upi sa dāra tanayaḥ hi api .. abhavat pūrṇa-kāmaḥ tu pīyūṣaiḥ iva pūritaḥ .. 73 .. ..
इति श्रीशैवे महापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवरलाभो नाम सप्तदशोऽध्यायः ॥ १७ ॥
इति श्री-शैवे महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे सतीवरलाभः नाम सप्तदशः अध्यायः ॥ १७ ॥
iti śrī-śaive mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe satīvaralābhaḥ nāma saptadaśaḥ adhyāyaḥ .. 17 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In