| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
रुद्रपार्श्वे त्वयि गते किमभूच्चरितं ततः ॥ का वार्ता ह्यभवत्तात किं चकार हरः स्वयम् ॥ १ ॥
रुद्र-पार्श्वे त्वयि गते किम् अभूत् चरितम् ततस् ॥ का वार्ता हि अभवत् तात किम् चकार हरः स्वयम् ॥ १ ॥
rudra-pārśve tvayi gate kim abhūt caritam tatas .. kā vārtā hi abhavat tāta kim cakāra haraḥ svayam .. 1 ..
ब्रह्मोवाच ।।
अथाहं शिवमानेतुं प्रसन्नः परमेश्वरम् ॥ आसदं हि महादेवं हिमवद्गिरिसंस्थितम् ॥ २ ॥
अथ अहम् शिवम् आनेतुम् प्रसन्नः परमेश्वरम् ॥ आसदम् हि महादेवम् हिमवत्-गिरि-संस्थितम् ॥ २ ॥
atha aham śivam ānetum prasannaḥ parameśvaram .. āsadam hi mahādevam himavat-giri-saṃsthitam .. 2 ..
मां वीक्ष्य लोकस्रष्टारमायांतं वृषभध्वजः ॥ मनसा संशयं चक्रे सतीप्राप्तौ मुहुर्मुहुः ॥ ३ ॥
माम् वीक्ष्य लोक-स्रष्टारम् आयांतम् वृषभध्वजः ॥ मनसा संशयम् चक्रे सती-प्राप्तौ मुहुर् मुहुर् ॥ ३ ॥
mām vīkṣya loka-sraṣṭāram āyāṃtam vṛṣabhadhvajaḥ .. manasā saṃśayam cakre satī-prāptau muhur muhur .. 3 ..
अथ प्रीत्या हरो लोक गतिमाश्रित्य लीलया ॥ सत्या भक्त्या च मां क्षिप्रमुवाच प्राकृतो यथा ॥ ४ ॥
अथ प्रीत्या हरः लोक-गतिम् आश्रित्य लीलया ॥ सत्या भक्त्या च माम् क्षिप्रम् उवाच प्राकृतः यथा ॥ ४ ॥
atha prītyā haraḥ loka-gatim āśritya līlayā .. satyā bhaktyā ca mām kṣipram uvāca prākṛtaḥ yathā .. 4 ..
ईश्वर उवाच ।।
किमकार्षीत्सुरज्येष्ठ सत्यर्थे त्वत्सुतस्स माम् ॥ कथयस्व यथा स्वांतं न दीर्ये मन्मथेन हि ॥ ५ ॥
किम् अकार्षीत् सुरज्येष्ठ सति-अर्थे त्वद्-सुतः स माम् ॥ कथयस्व यथा स्वांतम् न दीर्ये मन्मथेन हि ॥ ५ ॥
kim akārṣīt surajyeṣṭha sati-arthe tvad-sutaḥ sa mām .. kathayasva yathā svāṃtam na dīrye manmathena hi .. 5 ..
धावमानो विप्रयोगो मामेव च सतीं प्रति ॥ अभिहंति सुरज्येष्ठ त्यक्त्वान्यां प्राणधारिणीम् ॥ ६ ॥
धावमानः विप्रयोगः माम् एव च सतीम् प्रति ॥ अभिहन्ति सुरज्येष्ठ त्यक्त्वा अन्याम् प्राण-धारिणीम् ॥ ६ ॥
dhāvamānaḥ viprayogaḥ mām eva ca satīm prati .. abhihanti surajyeṣṭha tyaktvā anyām prāṇa-dhāriṇīm .. 6 ..
सतीति सततं ब्रह्मन् वद कार्यं करोम्यहम् ॥ अभेदान्मम सा प्राप्या तद्विधे क्रियतां तथा ॥ ७ ॥
सती इति सततम् ब्रह्मन् वद कार्यम् करोमि अहम् ॥ अभेदात् मम सा प्राप्या तद्विधे क्रियताम् तथा ॥ ७ ॥
satī iti satatam brahman vada kāryam karomi aham .. abhedāt mama sā prāpyā tadvidhe kriyatām tathā .. 7 ..
ब्रह्मोवाच ।।
इति रुद्रोक्तवचनं लोकाचारसुगर्भितम् ॥ श्रुत्वाहं नारदमुने सांत्वयन्नगदं शिवम् ॥ ८ ॥
इति रुद्र-उक्त-वचनम् लोक-आचार-सु गर्भितम् ॥ श्रुत्वा अहम् नारद-मुने सांत्वयन् नगदम् शिवम् ॥ ८ ॥
iti rudra-ukta-vacanam loka-ācāra-su garbhitam .. śrutvā aham nārada-mune sāṃtvayan nagadam śivam .. 8 ..
ब्रह्मोवाच ।।
सत्यर्थं यन्मम सुतो वदति स्म वृषध्वज ॥ तच्छ्रणुष्व निजासाध्य सिद्धमित्यवधारय ॥ ९ ॥
सत्य-अर्थम् यत् मम सुतः वदति स्म वृषध्वज ॥ तत् श्रणुष्व निज-असाध्य सिद्धम् इति अवधारय ॥ ९ ॥
satya-artham yat mama sutaḥ vadati sma vṛṣadhvaja .. tat śraṇuṣva nija-asādhya siddham iti avadhāraya .. 9 ..
देया तस्मै मया पुत्री तदर्थं परिकल्पिता ॥ ममाभीष्टमिदं कार्यं त्वद्वाक्यादधिकं पुनः ॥ 2.2.18.१० ॥
देया तस्मै मया पुत्री तद्-अर्थम् परिकल्पिता ॥ मम अभीष्टम् इदम् कार्यम् त्वद्-वाक्यात् अधिकम् पुनर् ॥ २।२।१८।१० ॥
deyā tasmai mayā putrī tad-artham parikalpitā .. mama abhīṣṭam idam kāryam tvad-vākyāt adhikam punar .. 2.2.18.10 ..
मत्पुत्र्याराधितश्शंभुरेतदर्थं स्वयं पुनः ॥ सोप्यन्विष्यति मां यस्मात्तदा देया मया हरे ॥ ११ ॥
मद्-पुत्री-आराधितः शंभुः एतद्-अर्थम् स्वयम् पुनर् ॥ सः उपि अन्विष्यति माम् यस्मात् तदा देया मया हरे ॥ ११ ॥
mad-putrī-ārādhitaḥ śaṃbhuḥ etad-artham svayam punar .. saḥ upi anviṣyati mām yasmāt tadā deyā mayā hare .. 11 ..
शुभे लग्न सुमुहूर्ते समागच्छतु सोंतिकम् ॥ तदा दास्यामि तनयां भिक्षार्थं शंभवे विधे ॥ १२॥
शुभे लग्न-सु मुहूर्ते समागच्छतु स अन्तिकम् ॥ तदा दास्यामि तनयाम् भिक्षा-अर्थम् शंभवे विधे ॥ १२॥
śubhe lagna-su muhūrte samāgacchatu sa antikam .. tadā dāsyāmi tanayām bhikṣā-artham śaṃbhave vidhe .. 12..
इत्युवाच स मां दक्षस्तस्मात्त्वं वृषभध्वज ॥ शुभे मुहूर्ते तद्वेश्म गच्छ तामानयस्व च ॥ १ ३॥
इति उवाच स माम् दक्षः तस्मात् त्वम् वृषभध्वज ॥ शुभे मुहूर्ते तत् वेश्म गच्छ ताम् आनयस्व च ॥ १ ३॥
iti uvāca sa mām dakṣaḥ tasmāt tvam vṛṣabhadhvaja .. śubhe muhūrte tat veśma gaccha tām ānayasva ca .. 1 3..
ब्रह्मोवाच ।।
इति श्रुत्वा मम वचो लौकिकी गतिमाश्रितः ॥ उवाच विहसन्रुद्रो मुने मां भक्तवत्सलः॥ १४॥
इति श्रुत्वा मम वचः लौकिकी गतिम् आश्रितः ॥ उवाच विहसन् रुद्रः मुने माम् भक्त-वत्सलः॥ १४॥
iti śrutvā mama vacaḥ laukikī gatim āśritaḥ .. uvāca vihasan rudraḥ mune mām bhakta-vatsalaḥ.. 14..
रुद्र उवाच ।।
गमिष्ये भवता सार्द्धं नारदेन च तद्गृहम् ॥ अहमेव जगत्स्रष्टस्तस्मात्त्वं नारदं स्मर ॥ १५॥
गमिष्ये भवता सार्द्धम् नारदेन च तद्-गृहम् ॥ अहम् एव जगत्स्रष्टर् तस्मात् त्वम् नारदम् स्मर ॥ १५॥
gamiṣye bhavatā sārddham nāradena ca tad-gṛham .. aham eva jagatsraṣṭar tasmāt tvam nāradam smara .. 15..
मरीच्यादीन् स्वपुत्रांश्च मानसानपि संस्मर ॥ तैः सार्द्धं दक्षनिलयं गमिष्ये सगणो विधे ॥ १६ ॥
मरीचि-आदीन् स्व-पुत्रान् च मानसान् अपि संस्मर ॥ तैः सार्द्धम् दक्ष-निलयम् गमिष्ये स गणः विधे ॥ १६ ॥
marīci-ādīn sva-putrān ca mānasān api saṃsmara .. taiḥ sārddham dakṣa-nilayam gamiṣye sa gaṇaḥ vidhe .. 16 ..
ब्रह्मोवाच ।।
इत्याज्ञप्तोहमीशेन लोकाचारपरेण ह ॥ संस्मरं नारदं त्वां च मरीच्यदीन्सुतांस्तथा ॥ १७ ॥
इति आज्ञप्ता उहम् ईशेन लोक-आचार-परेण ह ॥ संस्मरम् नारदम् त्वाम् च मरीचि-अदीन् सुतान् तथा ॥ १७ ॥
iti ājñaptā uham īśena loka-ācāra-pareṇa ha .. saṃsmaram nāradam tvām ca marīci-adīn sutān tathā .. 17 ..
ततस्समागतास्सर्वे मानसास्तनयास्त्वया ॥ मम स्मरणमात्रेण हृष्टास्ते द्रुतमादरात् ॥ १८ ॥
ततस् समागताः सर्वे मानसाः तनयाः त्वया ॥ मम स्मरण-मात्रेण हृष्टाः ते द्रुतम् आदरात् ॥ १८ ॥
tatas samāgatāḥ sarve mānasāḥ tanayāḥ tvayā .. mama smaraṇa-mātreṇa hṛṣṭāḥ te drutam ādarāt .. 18 ..
विष्णुस्समागतस्तूर्णं स्मृतो रुद्रेण शैवराट् ॥ सस्वसैन्यः कमलया गरुडारूढं एव च ॥ १९॥
विष्णुः समागतः तूर्णम् स्मृतः रुद्रेण शैवराज् ॥ स स्व-सैन्यः कमलया गरुड-आरूढम् एव च ॥ १९॥
viṣṇuḥ samāgataḥ tūrṇam smṛtaḥ rudreṇa śaivarāj .. sa sva-sainyaḥ kamalayā garuḍa-ārūḍham eva ca .. 19..
अध चैत्रसिते पक्षे नक्षत्रे भगदैवते ॥ त्रयोदश्यां दिने भानौ निगच्छत्स महेश्वरः ॥ 2.2.18.२०॥
अध चैत्र-सिते पक्षे नक्षत्रे भग-दैवते ॥ त्रयोदश्याम् दिने भानौ निगच्छत् स महेश्वरः ॥ २।२।१८।२०॥
adha caitra-site pakṣe nakṣatre bhaga-daivate .. trayodaśyām dine bhānau nigacchat sa maheśvaraḥ .. 2.2.18.20..
सर्वैस्सुरगणैस्सार्द्धं ब्रह्मविष्णु पुरस्सरैः ॥ तथा तैर्मुनिभिर्गच्छन् स बभौ पथि शंकरः ॥ २१ ॥
सर्वैः सुर-गणैः सार्द्धम् ब्रह्म-विष्णु पुरस्सरैः ॥ तथा तैः मुनिभिः गच्छन् स बभौ पथि शंकरः ॥ २१ ॥
sarvaiḥ sura-gaṇaiḥ sārddham brahma-viṣṇu purassaraiḥ .. tathā taiḥ munibhiḥ gacchan sa babhau pathi śaṃkaraḥ .. 21 ..
मार्गे समुत्सवो जातो देवादीनां च गच्छताम् ॥ तथा हरगणानां च सानंदमनसामति ॥ २२ ॥
मार्गे समुत्सवः जातः देव-आदीनाम् च गच्छताम् ॥ तथा हर-गणानाम् च स आनंद-मनसाम् अति ॥ २२ ॥
mārge samutsavaḥ jātaḥ deva-ādīnām ca gacchatām .. tathā hara-gaṇānām ca sa ānaṃda-manasām ati .. 22 ..
गजगोव्याघ्रसर्पाश्च जटा चंद्रकला तथा ॥ जग्मुः सर्वे भूषणत्वं यथायोग्यं शिवेच्छया ॥ २० ॥
गज-गो-व्याघ्र-सर्पाः च जटा चंद्रकला तथा ॥ जग्मुः सर्वे भूषण-त्वम् यथायोग्यम् शिव-इच्छया ॥ २० ॥
gaja-go-vyāghra-sarpāḥ ca jaṭā caṃdrakalā tathā .. jagmuḥ sarve bhūṣaṇa-tvam yathāyogyam śiva-icchayā .. 20 ..
ततः क्षणेन बलिना बलीवर्देन योगिना ॥ स विष्णुप्रमुखः प्रीत्या प्राप दक्षालयं हरः ॥ २४ ॥
ततस् क्षणेन बलिना बलीवर्देन योगिना ॥ स विष्णु-प्रमुखः प्रीत्या प्राप दक्ष-आलयम् हरः ॥ २४ ॥
tatas kṣaṇena balinā balīvardena yoginā .. sa viṣṇu-pramukhaḥ prītyā prāpa dakṣa-ālayam haraḥ .. 24 ..
ततो दक्षो विनीतात्मा संप्रहृष्टतनूरुहः ॥ प्रययौ सन्मुखं तस्य संयुक्तस्सकलैर्निजैः ॥ २५॥
ततस् दक्षः विनीत-आत्मा संप्रहृष्ट-तनूरुहः ॥ प्रययौ सत्-मुखम् तस्य संयुक्तः सकलैः निजैः ॥ २५॥
tatas dakṣaḥ vinīta-ātmā saṃprahṛṣṭa-tanūruhaḥ .. prayayau sat-mukham tasya saṃyuktaḥ sakalaiḥ nijaiḥ .. 25..
सर्वे सुरगणास्तत्र स्वयं दक्षेण सत्कृताः ॥ पार्श्वे श्रेष्ठं च मुनिभिरुपविष्टा यथाक्रमम् ॥ २६ ॥
सर्वे सुर-गणाः तत्र स्वयम् दक्षेण सत्कृताः ॥ पार्श्वे श्रेष्ठम् च मुनिभिः उपविष्टाः यथाक्रमम् ॥ २६ ॥
sarve sura-gaṇāḥ tatra svayam dakṣeṇa satkṛtāḥ .. pārśve śreṣṭham ca munibhiḥ upaviṣṭāḥ yathākramam .. 26 ..
परिवार्याखिलान्देवान्गणांश्च मुनिभिर्यथा ॥ दक्षस्समानयामास गृहाभ्यंतरतश्शिवम् ॥ २७॥
परिवार्य अखिलान् देवान् गणान् च मुनिभिः यथा ॥ दक्षः समानयामास गृह-अभ्यंतरतः शिवम् ॥ २७॥
parivārya akhilān devān gaṇān ca munibhiḥ yathā .. dakṣaḥ samānayāmāsa gṛha-abhyaṃtarataḥ śivam .. 27..
अथ दक्षः प्रसन्नात्मा स्वयं सर्वेश्वरं हरम् ॥ समानर्च विधानेन दत्त्वासनमनुत्तमम् ॥ २८ ॥
अथ दक्षः प्रसन्न-आत्मा स्वयम् सर्व-ईश्वरम् हरम् ॥ विधानेन दत्त्वा आसनम् अनुत्तमम् ॥ २८ ॥
atha dakṣaḥ prasanna-ātmā svayam sarva-īśvaram haram .. vidhānena dattvā āsanam anuttamam .. 28 ..
ततो विष्णुं च मां विप्रान्सुरान्सर्वान्गणांस्तथा ॥ पूजयामास सद्भक्त्या यथोचितविधानतः ॥ २९ ॥
ततस् विष्णुम् च माम् विप्रान् सुरान् सर्वान् गणान् तथा ॥ पूजयामास सत्-भक्त्या यथोचित-विधानतः ॥ २९ ॥
tatas viṣṇum ca mām viprān surān sarvān gaṇān tathā .. pūjayāmāsa sat-bhaktyā yathocita-vidhānataḥ .. 29 ..
कृत्वा यथोचितां पूजां तेषां पूज्यादिभिस्तथा ॥ चकार संविदं दक्षो मुनिभिर्मानसैः पुनः ॥ ॥ 2.2.18.३० ॥
कृत्वा यथोचिताम् पूजाम् तेषाम् पूज्य-आदिभिः तथा ॥ चकार संविदम् दक्षः मुनिभिः मानसैः पुनर् ॥ ॥ २।२।१८।३० ॥
kṛtvā yathocitām pūjām teṣām pūjya-ādibhiḥ tathā .. cakāra saṃvidam dakṣaḥ munibhiḥ mānasaiḥ punar .. .. 2.2.18.30 ..
ततो मां पितरं प्राह दक्षः प्रीत्या हि मत्सुतः ॥ प्रणिपत्य त्वया कर्म कार्यं वैवाहिकं विभो ॥ ३१ ॥
ततस् माम् पितरम् प्राह दक्षः प्रीत्या हि मद्-सुतः ॥ प्रणिपत्य त्वया कर्म कार्यम् वैवाहिकम् विभो ॥ ३१ ॥
tatas mām pitaram prāha dakṣaḥ prītyā hi mad-sutaḥ .. praṇipatya tvayā karma kāryam vaivāhikam vibho .. 31 ..
बाढमित्यहमप्युक्त्वा प्रहृष्टैनांतरात्मना ॥ समुत्थाय ततोऽकार्षं तत्कार्यमखिलं तथा ॥ ३२॥
बाढम् इति अहम् अपि उक्त्वा प्रहृष्टा एना अन्तरात्मना ॥ समुत्थाय ततस् अकार्षम् तद्-कार्यम् अखिलम् तथा ॥ ३२॥
bāḍham iti aham api uktvā prahṛṣṭā enā antarātmanā .. samutthāya tatas akārṣam tad-kāryam akhilam tathā .. 32..
ततश्शुभे मुहूर्ते हि लग्ने ग्रहबलान्विते ॥ सती निजसुतां दक्षो ददौ हर्षेण शंभवे ॥ ३३ ॥
ततस् शुभे मुहूर्ते हि लग्ने ग्रह-बल-अन्विते ॥ सती निज-सुताम् दक्षः ददौ हर्षेण शंभवे ॥ ३३ ॥
tatas śubhe muhūrte hi lagne graha-bala-anvite .. satī nija-sutām dakṣaḥ dadau harṣeṇa śaṃbhave .. 33 ..
उद्वाहविधिना सोपि पाणिं जग्राह हर्षितः ॥ दाक्षायण्या वरतनोस्तदानीं वृषभध्वजः ॥ ३४ ॥
उद्वाह-विधिना सः उपि पाणिम् जग्राह हर्षितः ॥ दाक्षायण्याः वर-तनोः तदानीम् वृषभध्वजः ॥ ३४ ॥
udvāha-vidhinā saḥ upi pāṇim jagrāha harṣitaḥ .. dākṣāyaṇyāḥ vara-tanoḥ tadānīm vṛṣabhadhvajaḥ .. 34 ..
अहं हरिस्त्वदाद्या वै मुनयश्च सुरा गणाः ॥ नेमुस्सर्वे संस्तुतिभि स्तोषयामासुरीश्वरम् ॥ ३५ ॥
अहम् हरिः त्वद्-आद्याः वै मुनयः च सुराः गणाः ॥ नेमुः सर्वे संस्तुतिभिः स्तोषयामासुः ईश्वरम् ॥ ३५ ॥
aham hariḥ tvad-ādyāḥ vai munayaḥ ca surāḥ gaṇāḥ .. nemuḥ sarve saṃstutibhiḥ stoṣayāmāsuḥ īśvaram .. 35 ..
समुत्सवो महानासीन्नृत्यगानपुरस्सरः ॥ आनन्दं परमं जग्मुस्सर्वे मुनिगणाः सुराः ॥ ३६ ॥
समुत्सवः महान् आसीत् नृत्य-गान-पुरस्सरः ॥ आनन्दम् परमम् जग्मुः सर्वे मुनि-गणाः सुराः ॥ ३६ ॥
samutsavaḥ mahān āsīt nṛtya-gāna-purassaraḥ .. ānandam paramam jagmuḥ sarve muni-gaṇāḥ surāḥ .. 36 ..
कन्या दत्त्वा कृत्तार्थोऽभूत्तदा दक्षो हि मत्सुतः ॥ शिवाशिवौ प्रसन्नौ च निखिलं मंगलालयम् ॥ ३७॥
कन्याः दत्त्वा कृत्त-अर्थः अभूत् तदा दक्षः हि मद्-सुतः ॥ शिव-अशिवौ प्रसन्नौ च निखिलम् मंगल-आलयम् ॥ ३७॥
kanyāḥ dattvā kṛtta-arthaḥ abhūt tadā dakṣaḥ hi mad-sutaḥ .. śiva-aśivau prasannau ca nikhilam maṃgala-ālayam .. 37..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कन्यादानवर्णनो नामाष्टादशोऽध्यायः ॥ १८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे कन्यादानवर्णनः नाम अष्टादशः अध्यायः ॥ १८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe kanyādānavarṇanaḥ nāma aṣṭādaśaḥ adhyāyaḥ .. 18 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In