| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
कृत्वा दक्षस्तुतादानं यौतकं विविधं ददौ ॥ हराय सुप्रसन्नश्च द्विजेभ्यो विविधं धनम् ॥ १ ॥
कृत्वा दक्ष-स्तुता-दानम् यौतकम् विविधम् ददौ ॥ हराय सु प्रसन्नः च द्विजेभ्यः विविधम् धनम् ॥ १ ॥
kṛtvā dakṣa-stutā-dānam yautakam vividham dadau .. harāya su prasannaḥ ca dvijebhyaḥ vividham dhanam .. 1 ..
अथ शंभु मुदागत्य समुत्थाय कृतांजलिः ॥ सार्द्धं कमलया चेदमुवाच गरुडध्वजः ॥ २ ॥
अथ शंभु मुदा आगत्य समुत्थाय कृतांजलिः ॥ सार्द्धम् कमलया च इदम् उवाच गरुडध्वजः ॥ २ ॥
atha śaṃbhu mudā āgatya samutthāya kṛtāṃjaliḥ .. sārddham kamalayā ca idam uvāca garuḍadhvajaḥ .. 2 ..
।। विष्णुरुवाच ।। ।।
देवदेव महादेव करुणासागर प्रभो ॥ त्वं पिता जगतां तात सती माताखिलस्य च ॥ ३ ॥
देवदेव महादेव करुणा-सागर प्रभो ॥ त्वम् पिता जगताम् तात सती माता अखिलस्य च ॥ ३ ॥
devadeva mahādeva karuṇā-sāgara prabho .. tvam pitā jagatām tāta satī mātā akhilasya ca .. 3 ..
युवां लीलावतारौ द्वे सतां क्षेमाय सर्वदा ॥ खलानां निग्रहार्थाय श्रुतिरेषा सनातनी ॥ ४ ॥
युवाम् लीलावतारौ द्वे सताम् क्षेमाय सर्वदा ॥ खलानाम् निग्रह-अर्थाय श्रुतिः एषा सनातनी ॥ ४ ॥
yuvām līlāvatārau dve satām kṣemāya sarvadā .. khalānām nigraha-arthāya śrutiḥ eṣā sanātanī .. 4 ..
स्निग्धनीलांजनश्यामशोभया शोभसे हर॥ दाक्षायण्या यथा चाहं प्रतिलोमेन पद्मया ॥ ५॥
स्निग्ध-नीलांजन-श्याम-शोभया शोभसे हर॥ दाक्षायण्या यथा च अहम् प्रतिलोमेन पद्मया ॥ ५॥
snigdha-nīlāṃjana-śyāma-śobhayā śobhase hara.. dākṣāyaṇyā yathā ca aham pratilomena padmayā .. 5..
देवानां वा नृणां रक्षां कुरु सत्याऽनया सताम् ॥ संसारसारिणां शम्भो मंगलं सर्वदा तथा ॥ ॥ ६ ॥
देवानाम् वा नृणाम् रक्षाम् कुरु सत्या अनया सताम् ॥ संसार-सारिणाम् शम्भो मंगलम् सर्वदा तथा ॥ ॥ ६ ॥
devānām vā nṛṇām rakṣām kuru satyā anayā satām .. saṃsāra-sāriṇām śambho maṃgalam sarvadā tathā .. .. 6 ..
य एनां साभिलाषो वै दृष्ट्वा श्रुत्वाथवा भवेत् ॥ तं हन्यास्सर्वभूतेश विज्ञप्तिरिति मे प्रभो ॥ ७ ॥
यः एनाम् स अभिलाषः वै दृष्ट्वा श्रुत्वा अथवा भवेत् ॥ तम् हन्याः सर्व-भूत-ईश विज्ञप्तिः इति मे प्रभो ॥ ७ ॥
yaḥ enām sa abhilāṣaḥ vai dṛṣṭvā śrutvā athavā bhavet .. tam hanyāḥ sarva-bhūta-īśa vijñaptiḥ iti me prabho .. 7 ..
।। ब्रह्मोवाच ।। ।।
इति श्रुत्वा वचो विष्णोर्विहस्य परमेश्वरः ॥ एवमस्त्विति सर्वज्ञः प्रोवाच मधुसूदनम् ॥ ८ ॥
इति श्रुत्वा वचः विष्णोः विहस्य परमेश्वरः ॥ एवम् अस्तु इति सर्व-ज्ञः प्रोवाच मधुसूदनम् ॥ ८ ॥
iti śrutvā vacaḥ viṣṇoḥ vihasya parameśvaraḥ .. evam astu iti sarva-jñaḥ provāca madhusūdanam .. 8 ..
स्वस्थानं हरिरागत्य स्थित आसीन्मुनीश्वर ॥ उत्सवं कारयामास जुगोप चरितं च तत् ॥ ९॥
स्व-स्थानम् हरिः आगत्य स्थितः आसीत् मुनि-ईश्वर ॥ उत्सवम् कारयामास जुगोप चरितम् च तत् ॥ ९॥
sva-sthānam hariḥ āgatya sthitaḥ āsīt muni-īśvara .. utsavam kārayāmāsa jugopa caritam ca tat .. 9..
अहं देवीं समागत्य गृह्योक्तविधिनाऽखिलम् ॥ अग्निकार्यं यथोद्दिष्टमकार्षं च सुविस्तरम् ॥ 2.2.19.१०॥
अहम् देवीम् समागत्य गृह्य-उक्त-विधिना अखिलम् ॥ अग्नि-कार्यम् यथा उद्दिष्टम् अकार्षम् च सु विस्तरम् ॥ २।२।१९।१०॥
aham devīm samāgatya gṛhya-ukta-vidhinā akhilam .. agni-kāryam yathā uddiṣṭam akārṣam ca su vistaram .. 2.2.19.10..
ततश्शिवा शिवश्चैव यथाविधि प्रहृष्टवत् ॥ अग्नेः प्रदक्षिणं चक्रे मदाचार्यद्विजाज्ञया ॥ ११॥
ततस् शिवा शिवः च एव यथाविधि प्रहृष्ट-वत् ॥ अग्नेः प्रदक्षिणम् चक्रे मद्-आचार्य-द्विज-आज्ञया ॥ ११॥
tatas śivā śivaḥ ca eva yathāvidhi prahṛṣṭa-vat .. agneḥ pradakṣiṇam cakre mad-ācārya-dvija-ājñayā .. 11..
तदा महोत्सवस्तत्राद्भुतोभूद्द्विजसत्तम ॥ सर्वेषां सुखदं वाद्यं गीतनृत्यपुरस्सरम् ॥ १२॥
तदा महा-उत्सवः तत्र अद्भुतः भूत् द्विजसत्तम ॥ सर्वेषाम् सुख-दम् वाद्यम् गीत-नृत्य-पुरस्सरम् ॥ १२॥
tadā mahā-utsavaḥ tatra adbhutaḥ bhūt dvijasattama .. sarveṣām sukha-dam vādyam gīta-nṛtya-purassaram .. 12..
तदानीमद्भुतं तत्र चरितं समभूदति ॥ सुविस्मयकरं तात तच्छृणु त्वं वदामि ते ॥ १३ ॥
तदानीम् अद्भुतम् तत्र चरितम् समभूत् अति ॥ सु विस्मय-करम् तात तत् शृणु त्वम् वदामि ते ॥ १३ ॥
tadānīm adbhutam tatra caritam samabhūt ati .. su vismaya-karam tāta tat śṛṇu tvam vadāmi te .. 13 ..
दुर्ज्ञेया शांभवी माया तया संमोहितं जगत् ॥ सचराचरमत्यंतं सदेवासुरमानुषम् ॥ १४ ॥
दुर्ज्ञेया शांभवी माया तया संमोहितम् जगत् ॥ सचराचरम् अत्यन्तम् स देव-असुर-मानुषम् ॥ १४ ॥
durjñeyā śāṃbhavī māyā tayā saṃmohitam jagat .. sacarācaram atyantam sa deva-asura-mānuṣam .. 14 ..
योऽहं शंभुं मोहयितुं पुरैच्छं कपटेन ह ॥ मां च तं शंकरस्तात मोहयामास लीलया ॥ १५ ॥
यः अहम् शंभुम् मोहयितुम् पुरा ऐच्छम् कपटेन ह ॥ माम् च तम् शंकरः तात मोहयामास लीलया ॥ १५ ॥
yaḥ aham śaṃbhum mohayitum purā aiccham kapaṭena ha .. mām ca tam śaṃkaraḥ tāta mohayāmāsa līlayā .. 15 ..
इच्छेत्परापकारं यस्स तस्यैव भवेद्ध्रुवम् ॥ इति मत्वाऽपकारं नो कुर्यादन्यस्य पूरुषः ॥ १६॥
इच्छेत् पर-अपकारम् यः स तस्य एव भवेत् ध्रुवम् ॥ इति मत्वा अपकारम् नो कुर्यात् अन्यस्य पूरुषः ॥ १६॥
icchet para-apakāram yaḥ sa tasya eva bhavet dhruvam .. iti matvā apakāram no kuryāt anyasya pūruṣaḥ .. 16..
प्रदक्षिणां प्रकुर्वंत्या वह्नेस्सत्याः पदद्वयम्॥ आविर्बभूव वसनात्तदद्राक्षमहं मुने ॥ १७ ॥
प्रदक्षिणाम् प्रकुर्वंत्याः वह्नेः सत्याः पद-द्वयम्॥ आविस् बभूव वसनात् तत् अद्राक्षम् अहम् मुने ॥ १७ ॥
pradakṣiṇām prakurvaṃtyāḥ vahneḥ satyāḥ pada-dvayam.. āvis babhūva vasanāt tat adrākṣam aham mune .. 17 ..
मदनाविष्टचेताश्च भूत्वांगानि व्यलोकयम् ॥ अहं सत्या द्विजश्रेष्ठ शिवमायाविमोहितः ॥ १८॥
मदन-आविष्ट-चेताः च भूत्वा अंगानि व्यलोकयम् ॥ अहम् सत्या द्विजश्रेष्ठ शिव-माया-विमोहितः ॥ १८॥
madana-āviṣṭa-cetāḥ ca bhūtvā aṃgāni vyalokayam .. aham satyā dvijaśreṣṭha śiva-māyā-vimohitaḥ .. 18..
यथा यथाहं रम्याणि व्यैक्षमंगानि कौतुकात् ॥ सत्या बभूव संहृष्टः कामार्तो हि तथा तथा ॥ १९॥
यथा यथा अहम् रम्याणि व्यैक्षम् अंगानि कौतुकात् ॥ सत्या बभूव संहृष्टः काम-आर्तः हि तथा तथा ॥ १९॥
yathā yathā aham ramyāṇi vyaikṣam aṃgāni kautukāt .. satyā babhūva saṃhṛṣṭaḥ kāma-ārtaḥ hi tathā tathā .. 19..
अहमेवं तथा दृष्ट्वा दक्षजां च पतिव्रताम् ॥ स्मराविष्टमना वक्त्रं द्रष्टुकामोभवं मुने ॥ 2.2.19.२० ॥
अहम् एवम् तथा दृष्ट्वा दक्षजाम् च पतिव्रताम् ॥ स्मर-आविष्ट-मनाः वक्त्रम् द्रष्टु-कामः भवम् मुने ॥ २।२।१९।२० ॥
aham evam tathā dṛṣṭvā dakṣajām ca pativratām .. smara-āviṣṭa-manāḥ vaktram draṣṭu-kāmaḥ bhavam mune .. 2.2.19.20 ..
न शंभोर्लज्जया वक्त्रं प्रत्यक्षं च विलोकितम् ॥ न च सा लज्जयाविष्टा करोति प्रगटं मुखम् ॥ २१ ॥
न शंभोः लज्जया वक्त्रम् प्रत्यक्षम् च विलोकितम् ॥ न च सा लज्जया आविष्टा करोति प्रगटम् मुखम् ॥ २१ ॥
na śaṃbhoḥ lajjayā vaktram pratyakṣam ca vilokitam .. na ca sā lajjayā āviṣṭā karoti pragaṭam mukham .. 21 ..
ततस्तद्दर्शनार्थाय सदुपायं विचारयन् ॥ धूम्रघोरेण कामार्तोऽकार्षं तच्च ततः परम् ॥ २२ ॥
ततस् तद्-दर्शन-अर्थाय सत्-उपायम् विचारयन् ॥ धूम्रघोरेण काम-आर्तः अकार्षम् तत् च ततस् परम् ॥ २२ ॥
tatas tad-darśana-arthāya sat-upāyam vicārayan .. dhūmraghoreṇa kāma-ārtaḥ akārṣam tat ca tatas param .. 22 ..
आर्द्रेंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ॥ स्वल्पाज्याहुतिविन्यासादार्द्रद्रव्योद्भवस्तथा ॥ २३ ॥
आर्द्र-इंधनानि भूरीणि क्षिप्त्वा तत्र विभावसौ ॥ सु अल्प-आज्य-आहुति-विन्यासात् आर्द्र-द्रव्य-उद्भवः तथा ॥ २३ ॥
ārdra-iṃdhanāni bhūrīṇi kṣiptvā tatra vibhāvasau .. su alpa-ājya-āhuti-vinyāsāt ārdra-dravya-udbhavaḥ tathā .. 23 ..
प्रादुर्भूतस्ततो धूमो भूयांस्तत्र समंततः॥ तादृग् येन तमो भूतं वेदीभूमिविनिर्मितम् ॥ २४ ॥
प्रादुर्भूतः ततस् धूमः भूयान् तत्र समंततः॥ तादृश् येन तमः भूतम् वेदी-भूमि-विनिर्मितम् ॥ २४ ॥
prādurbhūtaḥ tatas dhūmaḥ bhūyān tatra samaṃtataḥ.. tādṛś yena tamaḥ bhūtam vedī-bhūmi-vinirmitam .. 24 ..
ततो धूमाकुले नेत्रे महेशः परमेश्वरः ॥ हस्ताभ्यां छादयामास बहुलीलाकरः प्रभुः ॥ २५॥
ततस् धूम-आकुले नेत्रे महेशः परमेश्वरः ॥ हस्ताभ्याम् छादयामास बहु-लीला-करः प्रभुः ॥ २५॥
tatas dhūma-ākule netre maheśaḥ parameśvaraḥ .. hastābhyām chādayāmāsa bahu-līlā-karaḥ prabhuḥ .. 25..
ततो वस्त्रं समुत्क्षिप्य सतीवक्त्रमहं मुने ॥ अवेक्षं किल कामार्तः प्रहृष्टेनांतरात्मना ॥ २६ ॥
ततस् वस्त्रम् समुत्क्षिप्य सती-वक्त्रम् अहम् मुने ॥ अवेक्षम् किल काम-आर्तः प्रहृष्टेन अंतरात्मना ॥ २६ ॥
tatas vastram samutkṣipya satī-vaktram aham mune .. avekṣam kila kāma-ārtaḥ prahṛṣṭena aṃtarātmanā .. 26 ..
मुहुर्मुहुरहं तात पश्यामि स्म सतीमुखम् ॥ अथेन्द्रियविकारं च प्राप्तवानस्मि सोऽवशः ॥ २७ ॥
मुहुर् मुहुर् अहम् तात पश्यामि स्म सती-मुखम् ॥ अथा इन्द्रिय-विकारम् च प्राप्तवान् अस्मि सः अवशः ॥ २७ ॥
muhur muhur aham tāta paśyāmi sma satī-mukham .. athā indriya-vikāram ca prāptavān asmi saḥ avaśaḥ .. 27 ..
मम रेतः प्रचस्कंद ततस्तद्वीक्षणाद्द्रुतम्॥ चतुर्बिन्दुमित भूमौ तुषारचयसंनिभम् ॥ २८॥
मम रेतः प्रचस्कंद ततस् तद्-वीक्षणात् द्रुतम्॥ भूमौ तुषार-चय-संनिभम् ॥ २८॥
mama retaḥ pracaskaṃda tatas tad-vīkṣaṇāt drutam.. bhūmau tuṣāra-caya-saṃnibham .. 28..
ततोहं शंकितो मौनी तत्क्षणं विस्मितो मुने ॥ आच्छादयेस्म तद्रेतो यथा कश्चिद्बुबोध न॥ २९॥
ततस् हम् शंकितः मौनी तद्-क्षणम् विस्मितः मुने ॥ आच्छादयेस्म तत् रेतः यथा कश्चिद् बुबोध न॥ २९॥
tatas ham śaṃkitaḥ maunī tad-kṣaṇam vismitaḥ mune .. ācchādayesma tat retaḥ yathā kaścid bubodha na.. 29..
अथ तद्भगवाञ्छंभुर्ज्ञात्वा दिव्येन चक्षुषा ॥ रेतोवस्कंदनात्तस्य कोपादेतदुवाच ह ॥ 2.2.19.३० ॥
अथ तत् भगवान् शंभुः ज्ञात्वा दिव्येन चक्षुषा ॥ रेतः-वस्कंदनात् तस्य कोपात् एतत् उवाच ह ॥ २।२।१९।३० ॥
atha tat bhagavān śaṃbhuḥ jñātvā divyena cakṣuṣā .. retaḥ-vaskaṃdanāt tasya kopāt etat uvāca ha .. 2.2.19.30 ..
रुद्र उवाच ।।
किमेतद्विहितं पाप त्वया कर्म विगर्हितम् ॥ विवाहे मम कांताया वक्त्रं दृष्टं न रागतः ॥ ३१ ॥
किम् एतत् विहितम् पाप त्वया कर्म विगर्हितम् ॥ विवाहे मम कांतायाः वक्त्रम् दृष्टम् न रागतः ॥ ३१ ॥
kim etat vihitam pāpa tvayā karma vigarhitam .. vivāhe mama kāṃtāyāḥ vaktram dṛṣṭam na rāgataḥ .. 31 ..
त्वं वेत्सि शंकरेणैतत्कर्म ज्ञातं न किंचन ॥ त्रैलोक्येपि न मेऽज्ञातं गूढं तस्मात्कथं विधे ॥ ३२ ॥
त्वम् वेत्सि शंकरेण एतत् कर्म ज्ञातम् न किंचन ॥ त्रैलोक्ये अपि न मे अज्ञातम् गूढम् तस्मात् कथम् विधे ॥ ३२ ॥
tvam vetsi śaṃkareṇa etat karma jñātam na kiṃcana .. trailokye api na me ajñātam gūḍham tasmāt katham vidhe .. 32 ..
यत्किंचित्त्रिषु लोकेषु जंगमं स्थावरं तथा ॥ तस्याहं मध्यगो मूढ तैलं यद्वत्तिलांति कम् ॥ ३३ ॥
यत् किंचिद् त्रिषु लोकेषु जंगमम् स्थावरम् तथा ॥ तस्य अहम् मध्य-गः मूढ तैलम् यद्वत् तिलान्ति कम् ॥ ३३ ॥
yat kiṃcid triṣu lokeṣu jaṃgamam sthāvaram tathā .. tasya aham madhya-gaḥ mūḍha tailam yadvat tilānti kam .. 33 ..
ब्रह्मोवाच ।।
इत्युक्त्वा प्रिय विष्णुर्मां तदा विष्णुवचः स्मरन् ॥ इयेष हंतुं ब्रह्माणं शूलमुद्यम्य शंकरः ॥ ३४ ॥
इति उक्त्वा प्रिय विष्णुः माम् तदा विष्णु-वचः स्मरन् ॥ इयेष हंतुम् ब्रह्माणम् शूलम् उद्यम्य शंकरः ॥ ३४ ॥
iti uktvā priya viṣṇuḥ mām tadā viṣṇu-vacaḥ smaran .. iyeṣa haṃtum brahmāṇam śūlam udyamya śaṃkaraḥ .. 34 ..
शभुंनोद्यमिते शूले मां च हंतुं द्विजोत्तम ॥ मरीचिप्रमुखास्ते वै हाहाकारं च चक्रिरे ॥ ३५ ॥
शभुंन-उद्यमिते शूले माम् च हंतुम् द्विजोत्तम ॥ मरीचि-प्रमुखाः ते वै हाहाकारम् च चक्रिरे ॥ ३५ ॥
śabhuṃna-udyamite śūle mām ca haṃtum dvijottama .. marīci-pramukhāḥ te vai hāhākāram ca cakrire .. 35 ..
ततो देवगणास्सर्वे मुनयश्चाखिलास्तथा ॥ तुष्टुवुश्शंकरं तत्र प्रज्वलंतं भयातुराः ॥ ३६ ॥
ततस् देव-गणाः सर्वे मुनयः च अखिलाः तथा ॥ तुष्टुवुः शंकरम् तत्र प्रज्वलंतम् भय-आतुराः ॥ ३६ ॥
tatas deva-gaṇāḥ sarve munayaḥ ca akhilāḥ tathā .. tuṣṭuvuḥ śaṃkaram tatra prajvalaṃtam bhaya-āturāḥ .. 36 ..
देवा ऊचुः ।।
देव देव महादेव शरणागतवत्सल ॥ ब्रह्माणं रक्ष रक्षेश कृपां कुरु महेश्वर ॥ ३७ ॥
देव देव महादेव शरण-आगत-वत्सल ॥ ब्रह्माणम् रक्ष रक्ष ईश कृपाम् कुरु महेश्वर ॥ ३७ ॥
deva deva mahādeva śaraṇa-āgata-vatsala .. brahmāṇam rakṣa rakṣa īśa kṛpām kuru maheśvara .. 37 ..
जगत्पिता महेश त्वं जगन्माता सती मता ॥ हरिब्रह्मादयस्सर्वे तव दासास्सुरप्रभो ॥ ३८॥ ॥
जगत्-पिता महेश त्वम् जगन्माता सती मता ॥ हरि-ब्रह्म-आदयः सर्वे तव दासाः सुर-प्रभो ॥ ३८॥ ॥
jagat-pitā maheśa tvam jaganmātā satī matā .. hari-brahma-ādayaḥ sarve tava dāsāḥ sura-prabho .. 38.. ..
अद्भुताकृतिलीलस्त्वं तव मायाद्भुता प्रभो ॥ तया विमोहितं सर्वं विना त्वद्भक्तिमीश्वर ॥ ३९ ॥
अद्भुत-आकृति-लीलः त्वम् तव माया अद्भुता प्रभो ॥ तया विमोहितम् सर्वम् विना त्वद्-भक्तिम् ईश्वर ॥ ३९ ॥
adbhuta-ākṛti-līlaḥ tvam tava māyā adbhutā prabho .. tayā vimohitam sarvam vinā tvad-bhaktim īśvara .. 39 ..
ब्रह्मोवाच ।।
इत्थं बहुतरं दीना निर्जरा मुनयश्च ते ॥ तुष्टुवुर्देवदेवेशं क्रोधाविष्टं महेश्वरम् ॥ 2.2.19.४० ॥
इत्थम् बहुतरम् दीनाः निर्जराः मुनयः च ते ॥ तुष्टुवुः देवदेवेशम् क्रोध-आविष्टम् महेश्वरम् ॥ २।२।१९।४० ॥
ittham bahutaram dīnāḥ nirjarāḥ munayaḥ ca te .. tuṣṭuvuḥ devadeveśam krodha-āviṣṭam maheśvaram .. 2.2.19.40 ..
दक्षो मैवं मैवमिति पाणिमुद्यम्य शंकितः ॥ वारयामास भूतेशं क्षिप्रमेत्य पुरोगतः ॥ ४१ ॥
दक्षः मा एवम् मा एवम् इति पाणिम् उद्यम्य शंकितः ॥ वारयामास भूतेशम् क्षिप्रम् एत्य पुरोगतः ॥ ४१ ॥
dakṣaḥ mā evam mā evam iti pāṇim udyamya śaṃkitaḥ .. vārayāmāsa bhūteśam kṣipram etya purogataḥ .. 41 ..
अथाग्रे संगतं वीक्ष्य तदा दक्षं महेश्वरः ॥ प्रत्युवाचाप्रियमिदं संस्मरन्प्रार्थनां हरेः ॥ ४२ ॥
अथ अग्रे संगतम् वीक्ष्य तदा दक्षम् महेश्वरः ॥ प्रत्युवाच अप्रियम् इदम् संस्मरन् प्रार्थनाम् हरेः ॥ ४२ ॥
atha agre saṃgatam vīkṣya tadā dakṣam maheśvaraḥ .. pratyuvāca apriyam idam saṃsmaran prārthanām hareḥ .. 42 ..
महेश्वर उवाच ।।
विष्णुना मेतिभक्तेन यदिदानीमुदीरितम् ॥ मयाप्यंगीकृतं कर्तुं तदिहैव प्रजापते ॥ ४३ ॥
विष्णुना मा इति भक्तेन यत् इदानीम् उदीरितम् ॥ मया अपि अंगीकृतम् कर्तुम् तत् इह एव प्रजापते ॥ ४३ ॥
viṣṇunā mā iti bhaktena yat idānīm udīritam .. mayā api aṃgīkṛtam kartum tat iha eva prajāpate .. 43 ..
सतीं यस्याभिलाषस्सन् वीक्षेत वध तं प्रभो ॥ इति विष्णुवचस्सत्यं विधिं हत्वा करोम्यहम् ॥ ४४ ॥
सतीम् यस्य अभिलाषः सन् वीक्षेत वध तम् प्रभो ॥ इति विष्णु-वचः सत्यम् विधिम् हत्वा करोमि अहम् ॥ ४४ ॥
satīm yasya abhilāṣaḥ san vīkṣeta vadha tam prabho .. iti viṣṇu-vacaḥ satyam vidhim hatvā karomi aham .. 44 ..
साभिलाषः कथं ब्रह्मा सतीं समवलोकयत् ॥ अभवत्त्यक्तरेतास्तु ततो हन्मि कृतागसम् ॥ ४५ ॥
स अभिलाषः कथम् ब्रह्मा सतीम् समवलोकयत् ॥ अभवत् त्यक्त-रेताः तु ततस् हन्मि कृत-आगसम् ॥ ४५ ॥
sa abhilāṣaḥ katham brahmā satīm samavalokayat .. abhavat tyakta-retāḥ tu tatas hanmi kṛta-āgasam .. 45 ..
इत्युक्तवति देवेश महेशे क्रोधसंकुले ॥ चकंपिरे जनाः सर्वे सदेवमुनिमानुषाः ॥ ४६॥
इति उक्तवति देवेश महेशे क्रोध-संकुले ॥ चकंपिरे जनाः सर्वे स देव-मुनि-मानुषाः ॥ ४६॥
iti uktavati deveśa maheśe krodha-saṃkule .. cakaṃpire janāḥ sarve sa deva-muni-mānuṣāḥ .. 46..
ब्रह्मोवाच ।।
हाहाकारो महानासीदौदासीन्यं च सर्वशः ॥ अभूवम्बिकलोऽतीव तदाहं तद्विमोहकः ॥ ४७॥
हाहाकारः महान् आसीत् औदासीन्यम् च सर्वशस् ॥ अभूव अम्बिकलः अतीव तदा अहम् तद्-विमोहकः ॥ ४७॥
hāhākāraḥ mahān āsīt audāsīnyam ca sarvaśas .. abhūva ambikalaḥ atīva tadā aham tad-vimohakaḥ .. 47..
अथ विष्णुर्महेशातिप्रियः कार्यविचक्षणः ॥ तमेवंवादिनं रुद्रं तुष्टाव प्रणतस्सुधीः ॥ ४८॥
अथ विष्णुः महेश-अति प्रियः कार्य-विचक्षणः ॥ तम् एवम् वादिनम् रुद्रम् तुष्टाव प्रणतः सुधीः ॥ ४८॥
atha viṣṇuḥ maheśa-ati priyaḥ kārya-vicakṣaṇaḥ .. tam evam vādinam rudram tuṣṭāva praṇataḥ sudhīḥ .. 48..
स्तुत्वा च विविधैः स्तोत्रैश्शंकरं भक्तवत्सलम् ॥ इदमूचे वारयंस्तं क्षिप्रं भूत्वा पुरस्सरः ॥ ४९॥
स्तुत्वा च विविधैः स्तोत्रैः शंकरम् भक्त-वत्सलम् ॥ इदम् ऊचे वारयन् तम् क्षिप्रम् भूत्वा पुरस्सरः ॥ ४९॥
stutvā ca vividhaiḥ stotraiḥ śaṃkaram bhakta-vatsalam .. idam ūce vārayan tam kṣipram bhūtvā purassaraḥ .. 49..
विष्णुरुवाच ।।
विधिन्न जहि भूतेश स्रष्टारं जगतां प्रभुम्॥ अयं शरणगस्तेद्य शरणागतवत्सलः ॥ 2.2.19.५०॥
विधिन् न जहि भूतेश स्रष्टारम् जगताम् प्रभुम्॥ अयम् शरण-गः तेद्य शरण-आगत-वत्सलः ॥ २।२।१९।५०॥
vidhin na jahi bhūteśa sraṣṭāram jagatām prabhum.. ayam śaraṇa-gaḥ tedya śaraṇa-āgata-vatsalaḥ .. 2.2.19.50..
अहं तेऽतिप्रियो भक्तो भक्तराज इतीरितः ॥ विज्ञप्तिं हृदि मे मत्त्वा कृपां कुरु ममोपरि ॥ ५१॥
अहम् ते अति प्रियः भक्तः भक्त-राजः इति ईरितः ॥ विज्ञप्तिम् हृदि मे कृपाम् कुरु मम उपरि ॥ ५१॥
aham te ati priyaḥ bhaktaḥ bhakta-rājaḥ iti īritaḥ .. vijñaptim hṛdi me kṛpām kuru mama upari .. 51..
अन्यच्च शृणु मे नाथ वचनं हेतुगर्भितम् ॥ तन्मनुष्व महेशान कृपां कृत्वा ममोपरि ॥ ५२ ॥
अन्यत् च शृणु मे नाथ वचनम् हेतु-गर्भितम् ॥ तत् मनुष्व महेशान कृपाम् कृत्वा मम उपरि ॥ ५२ ॥
anyat ca śṛṇu me nātha vacanam hetu-garbhitam .. tat manuṣva maheśāna kṛpām kṛtvā mama upari .. 52 ..
प्रजास्स्रष्टुमयं शंभो प्रादुर्भूतश्चतुर्मुखः ॥ अस्मिन्हते प्रजास्रष्टा नास्त्यन्यः प्राकृतोऽधुना ॥ ५३॥
प्रजाः स्रष्टुम् अयम् शंभो प्रादुर्भूतः चतुर्मुखः ॥ अस्मिन् हते प्रजा-स्रष्टा न अस्ति अन्यः प्राकृतः अधुना ॥ ५३॥
prajāḥ sraṣṭum ayam śaṃbho prādurbhūtaḥ caturmukhaḥ .. asmin hate prajā-sraṣṭā na asti anyaḥ prākṛtaḥ adhunā .. 53..
सृष्टिस्थित्यंतकर्माणि करिष्यामः पुनः पुनः ॥ त्रयो देवा वयं नाथ शिवरूप त्वदाज्ञया ॥ ५४॥
सृष्टि-स्थिति-अन्त-कर्माणि करिष्यामः पुनर् पुनर् ॥ त्रयः देवाः वयम् नाथ शिव-रूप त्वद्-आज्ञया ॥ ५४॥
sṛṣṭi-sthiti-anta-karmāṇi kariṣyāmaḥ punar punar .. trayaḥ devāḥ vayam nātha śiva-rūpa tvad-ājñayā .. 54..
एतस्मिन्निहते शम्भो कस्त्वत्कर्म करिष्यति ॥ तस्मान्न वध्यो भवता सृष्टिकृल्लयकृद्विभो ॥ ५५॥
एतस्मिन् निहते शम्भो कः त्वद्-कर्म करिष्यति ॥ तस्मात् न वध्यः भवता सृष्टि-कृत् लय-कृत् विभो ॥ ५५॥
etasmin nihate śambho kaḥ tvad-karma kariṣyati .. tasmāt na vadhyaḥ bhavatā sṛṣṭi-kṛt laya-kṛt vibho .. 55..
अनेनैव सती कन्या दक्षस्य च शिवा विभो ॥ सदुपायेन वै भार्या भवदर्थे प्रकल्पिता ॥ ५६ ॥
अनेन एव सती कन्या दक्षस्य च शिवा विभो ॥ सत्-उपायेन वै भार्या भवत्-अर्थे प्रकल्पिता ॥ ५६ ॥
anena eva satī kanyā dakṣasya ca śivā vibho .. sat-upāyena vai bhāryā bhavat-arthe prakalpitā .. 56 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य महेशस्तु विज्ञप्तिं विष्णुना कृताम् ॥ प्रत्युवाचाखिलांस्तांश्च श्रावयंश्च दृढव्रतः ॥ ५७ ॥
इति आकर्ण्य महेशः तु विज्ञप्तिम् विष्णुना कृताम् ॥ प्रत्युवाच अखिलान् तान् च श्रावयन् च दृढ-व्रतः ॥ ५७ ॥
iti ākarṇya maheśaḥ tu vijñaptim viṣṇunā kṛtām .. pratyuvāca akhilān tān ca śrāvayan ca dṛḍha-vrataḥ .. 57 ..
महेश उवाच ।।
देव देव रमेशान विष्णो मत्प्राणवल्लभ ॥ न निवारय मां तात वधादस्य खलस्त्वयम् ॥ ५८॥
देव देव रम ईशान विष्णो मद्-प्राण-वल्लभ ॥ न निवारय माम् तात वधात् अस्य खलः तु अयम् ॥ ५८॥
deva deva rama īśāna viṣṇo mad-prāṇa-vallabha .. na nivāraya mām tāta vadhāt asya khalaḥ tu ayam .. 58..
पूरयिष्यामि विज्ञप्तिं पूर्वान्तेंगीकृतां मया ॥ महापापकरं दुष्टं हन्म्येनं चतुराननम् ॥ ५९॥
पूरयिष्यामि विज्ञप्तिम् पूर्व-अन्त-इंगीकृताम् मया ॥ महा-पाप-करम् दुष्टम् हन्मि एनम् चतुराननम् ॥ ५९॥
pūrayiṣyāmi vijñaptim pūrva-anta-iṃgīkṛtām mayā .. mahā-pāpa-karam duṣṭam hanmi enam caturānanam .. 59..
अहमेव प्रजास्स्रक्ष्ये सर्वाः स्थिरचरा अपि ॥ अन्यं स्रक्ष्ये सृष्टिकरमथवाहं स्वतेजसा॥ 2.2.19.६०॥
अहम् एव प्रजाः स्रक्ष्ये सर्वाः स्थिर-चराः अपि ॥ अन्यम् स्रक्ष्ये सृष्टि-करम् अथवा अहम् स्व-तेजसा॥ २।२।१९।६०॥
aham eva prajāḥ srakṣye sarvāḥ sthira-carāḥ api .. anyam srakṣye sṛṣṭi-karam athavā aham sva-tejasā.. 2.2.19.60..
हत्वैनं विधिमेवाहं स्वपणं पूरयन् कृतम् ॥ स्रष्टारमेकं स्रक्ष्यामि न निवारय मेश माम् ॥ ६१॥
हत्वा एनम् विधिम् एव अहम् स्व-पणम् पूरयन् कृतम् ॥ स्रष्टारम् एकम् स्रक्ष्यामि न निवारय मा ईश माम् ॥ ६१॥
hatvā enam vidhim eva aham sva-paṇam pūrayan kṛtam .. sraṣṭāram ekam srakṣyāmi na nivāraya mā īśa mām .. 61..
ब्रह्मोवाच।।
इति तस्य वचश्श्रुत्वा गिरीश स्याह चाच्युतः ॥ स्मितप्रभिन्नहृदयः पुनर्मैवमितीरयन् ॥ ६२॥
इति तस्य वचः श्रुत्वा गिरीश च अच्युतः ॥ स्मित-प्रभिन्न-हृदयः पुनर् मा एवम् इति ईरयन् ॥ ६२॥
iti tasya vacaḥ śrutvā girīśa ca acyutaḥ .. smita-prabhinna-hṛdayaḥ punar mā evam iti īrayan .. 62..
अच्युत उवाच।।
प्रतिज्ञापूरणं योग्यं परस्मिन्पुरुषेस्ति वै॥ विचारयस्व वध्येश भवत्यात्मनि न प्रभो ॥ ६३॥
प्रतिज्ञा-पूरणम् योग्यम् परस्मिन् पुरुषे इस्ति वै॥ विचारयस्व वध्य-ईश भवति आत्मनि न प्रभो ॥ ६३॥
pratijñā-pūraṇam yogyam parasmin puruṣe isti vai.. vicārayasva vadhya-īśa bhavati ātmani na prabho .. 63..
त्रयो देवा वयं शंभो त्वदात्मानः परा नहि ॥ एकरूपा न भिन्नाश्च तत्त्वतस्सुविचारय ॥ ॥ ६४॥
त्रयः देवाः वयम् शंभो त्वद्-आत्मानः पराः नहि ॥ एक-रूपाः न भिन्नाः च तत्त्वतः सु विचारय ॥ ॥ ६४॥
trayaḥ devāḥ vayam śaṃbho tvad-ātmānaḥ parāḥ nahi .. eka-rūpāḥ na bhinnāḥ ca tattvataḥ su vicāraya .. .. 64..
ततस्तद्वचनं श्रुत्वा विष्णोस्स्वातिप्रियस्य सः ॥ शंभुरूचे पुनस्तं वै ख्यापयन्नात्मनो गतिम् ॥ ६५॥
ततस् तत् वचनम् श्रुत्वा विष्णोः स्वातिप्रियस्य सः ॥ शंभुः ऊचे पुनर् तम् वै ख्यापयन् आत्मनः गतिम् ॥ ६५॥
tatas tat vacanam śrutvā viṣṇoḥ svātipriyasya saḥ .. śaṃbhuḥ ūce punar tam vai khyāpayan ātmanaḥ gatim .. 65..
।। शम्भुरुवाच ।।
हे विष्णो सर्वभक्तेश कथमात्मा विधिर्मम ॥ लक्ष्यते भिन्न एवायं प्रत्यक्षेणाग्रतः स्थितः ॥ ६६ ॥
हे विष्णो सर्व-भक्त-ईश कथम् आत्मा विधिः मम ॥ लक्ष्यते भिन्नः एव अयम् प्रत्यक्षेण अग्रतस् स्थितः ॥ ६६ ॥
he viṣṇo sarva-bhakta-īśa katham ātmā vidhiḥ mama .. lakṣyate bhinnaḥ eva ayam pratyakṣeṇa agratas sthitaḥ .. 66 ..
।। ब्रह्मोवाच ।।
इत्याज्ञप्तो महेशेन सर्वेषां पुरतस्तदा ॥ इदमूचे महादेवं तोषयन् गरुडध्वजः ॥ ६७ ॥
इति आज्ञप्तः महेशेन सर्वेषाम् पुरतस् तदा ॥ इदम् ऊचे महादेवम् तोषयन् गरुडध्वजः ॥ ६७ ॥
iti ājñaptaḥ maheśena sarveṣām puratas tadā .. idam ūce mahādevam toṣayan garuḍadhvajaḥ .. 67 ..
विष्णुरुवाच ।।
न ब्रह्मा भवतो भिन्नो न त्वं तस्मात्सदाशिव ॥ न वाहं भवतो भिन्नो न मत्त्वं परमेश्वर ॥ ६८ ॥
न ब्रह्मा भवतः भिन्नः न त्वम् तस्मात् सदाशिव ॥ न वा अहम् भवतः भिन्नः न मद्-त्वम् परमेश्वर ॥ ६८ ॥
na brahmā bhavataḥ bhinnaḥ na tvam tasmāt sadāśiva .. na vā aham bhavataḥ bhinnaḥ na mad-tvam parameśvara .. 68 ..
सर्वं जानासि सर्वज्ञ परमेश सदाशिव ॥ मन्मुखादखिलान्सर्वं संश्रावयितुमिच्छसि ॥ ६९ ॥
सर्वम् जानासि सर्वज्ञ परमेश सदाशिव ॥ मद्-मुखात् अखिलान् सर्वम् संश्रावयितुम् इच्छसि ॥ ६९ ॥
sarvam jānāsi sarvajña parameśa sadāśiva .. mad-mukhāt akhilān sarvam saṃśrāvayitum icchasi .. 69 ..
त्वदाज्ञया वदामीश शृण्वंतु निखिलास्सुराः ॥ मुनयश्चापरे शैवं तत्त्वं संधार्य स्वं मनः ॥ 2.2.19.७० ॥
त्वद्-आज्ञया वदामि ईश शृण्वंतु निखिलाः सुराः ॥ मुनयः च अपरे शैवम् तत्त्वम् संधार्य स्वम् मनः ॥ २।२।१९।७० ॥
tvad-ājñayā vadāmi īśa śṛṇvaṃtu nikhilāḥ surāḥ .. munayaḥ ca apare śaivam tattvam saṃdhārya svam manaḥ .. 2.2.19.70 ..
प्रधानस्याऽप्रधानस्य भागाभागस्य रूपिणः ॥ ज्योतिर्मयस्य भागास्ते वयं देवाः प्रभोस्त्रयः ॥ ७१॥
प्रधानस्य अ अप्रधानस्य भाग-अभागस्य रूपिणः ॥ ज्योतिः-मयस्य भागाः ते वयम् देवाः प्रभोः त्रयः ॥ ७१॥
pradhānasya a apradhānasya bhāga-abhāgasya rūpiṇaḥ .. jyotiḥ-mayasya bhāgāḥ te vayam devāḥ prabhoḥ trayaḥ .. 71..
कस्त्वं कोहं च को ब्रह्मा तवैव परमात्मनः ॥ अंशत्रयमिदं भिन्नं सृष्टिस्थित्यंतकारणम् ॥ ७२॥
कः त्वम् कः हम् च कः ब्रह्मा तव एव परमात्मनः ॥ अंश-त्रयम् इदम् भिन्नम् सृष्टि-स्थिति-अन्त-कारणम् ॥ ७२॥
kaḥ tvam kaḥ ham ca kaḥ brahmā tava eva paramātmanaḥ .. aṃśa-trayam idam bhinnam sṛṣṭi-sthiti-anta-kāraṇam .. 72..
चिंतयस्वात्मनात्मानं स्वलीलाधृतविग्रहः ॥ एकस्त्वं ब्रह्म सगुणो ह्यंशभूता वयं त्रयः ॥ ७३ ॥
चिंतयस्व आत्मना आत्मानम् स्व-लीला-धृत-विग्रहः ॥ एकः त्वम् ब्रह्म सगुणः हि अंश-भूताः वयम् त्रयः ॥ ७३ ॥
ciṃtayasva ātmanā ātmānam sva-līlā-dhṛta-vigrahaḥ .. ekaḥ tvam brahma saguṇaḥ hi aṃśa-bhūtāḥ vayam trayaḥ .. 73 ..
शिरोग्रीवादिभेदेन यथैकस्यैव वर्ष्मणः ॥ अंगानि ते तथेशस्य तस्य भगत्रयं हर ॥ ७४ ॥
शिरः-ग्रीवा-आदि-भेदेन यथा एकस्य एव वर्ष्मणः ॥ अंगानि ते तथा ईशस्य तस्य भग-त्रयम् हर ॥ ७४ ॥
śiraḥ-grīvā-ādi-bhedena yathā ekasya eva varṣmaṇaḥ .. aṃgāni te tathā īśasya tasya bhaga-trayam hara .. 74 ..
यज्ज्योतिरभ्रं स्वपुरं पुराणं कूटस्थमव्यक्तमनंतरूपम् ॥ नित्यं च दीर्घादिविशेषणाद्यैर्हीनं शिवस्त्वं तत एव सर्वम् ॥ ७५॥
यत् ज्योतिः अभ्रम् स्व-पुरम् पुराणम् कूटस्थम् अव्यक्तम् अनंत-रूपम् ॥ नित्यम् च दीर्घ-आदि-विशेषण-आद्यैः हीनम् शिवः त्वम् ततस् एव सर्वम् ॥ ७५॥
yat jyotiḥ abhram sva-puram purāṇam kūṭastham avyaktam anaṃta-rūpam .. nityam ca dīrgha-ādi-viśeṣaṇa-ādyaiḥ hīnam śivaḥ tvam tatas eva sarvam .. 75..
ब्रह्मोवाच ॥ एतच्छ्रुत्वा वचस्तस्य महादेवो मुनीश्वर ॥ बभूव सुप्रसन्नश्च न जघान स मां ततः ॥ ७६ ॥
ब्रह्मा उवाच ॥ एतत् श्रुत्वा वचः तस्य महादेवः मुनि-ईश्वर ॥ बभूव सु प्रसन्नः च न जघान स माम् ततस् ॥ ७६ ॥
brahmā uvāca .. etat śrutvā vacaḥ tasya mahādevaḥ muni-īśvara .. babhūva su prasannaḥ ca na jaghāna sa mām tatas .. 76 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीविवाहशिवलीलावर्णनं नामैकोनविंशोऽध्यायः ॥ १९ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे सतीविवाहशिवलीलावर्णनम् नाम एकोनविंशः अध्यायः ॥ १९ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe satīvivāhaśivalīlāvarṇanam nāma ekonaviṃśaḥ adhyāyaḥ .. 19 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In