| |
|

This overlay will guide you through the buttons:

सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य नेमिषारण्यवासिनः ॥ पप्रच्छ च मुनिश्रेष्ठः कथां पापप्रणाशिनीम् ॥ १ ॥
इति आकर्ण्य वचः तस्य नेमिष-अरण्य-वासिनः ॥ पप्रच्छ च मुनि-श्रेष्ठः कथाम् पाप-प्रणाशिनीम् ॥ १ ॥
iti ākarṇya vacaḥ tasya nemiṣa-araṇya-vāsinaḥ .. papraccha ca muni-śreṣṭhaḥ kathām pāpa-praṇāśinīm .. 1 ..
विधेविधे महा भाग कथां शंभोश्शुभावहाम् ॥ शृण्वन् भवन्मुखांभोजान्न तृप्तोस्मि महाप्रभो ॥ २॥
विधेविधे महा-भाग कथाम् शंभोः शुभ-आवहाम् ॥ शृण्वन् भवत्-मुख-अंभोजात् न तृप्तः अस्मि महा-प्रभो ॥ २॥
vidhevidhe mahā-bhāga kathām śaṃbhoḥ śubha-āvahām .. śṛṇvan bhavat-mukha-aṃbhojāt na tṛptaḥ asmi mahā-prabho .. 2..
नारद उवाच ।।
अतः कथय तत्सर्वं शिवस्य चरितं शुभम् ॥ सतीकीर्त्यन्वितं दिव्यं श्रोतुमिच्छामि विश्वकृत् ॥ ३ ॥
अतस् कथय तत् सर्वम् शिवस्य चरितम् शुभम् ॥ सती-कीर्ति-अन्वितम् दिव्यम् श्रोतुम् इच्छामि विश्वकृत् ॥ ३ ॥
atas kathaya tat sarvam śivasya caritam śubham .. satī-kīrti-anvitam divyam śrotum icchāmi viśvakṛt .. 3 ..
सती हि कथमुत्पन्ना दक्षदारेषु शोभना ॥ कथं हरो मनश्चक्रे दाराहरणकर्मणि ॥ ४ ॥
सती हि कथम् उत्पन्ना दक्ष-दारेषु शोभना ॥ कथम् हरः मनः चक्रे दार-आहरण-कर्मणि ॥ ४ ॥
satī hi katham utpannā dakṣa-dāreṣu śobhanā .. katham haraḥ manaḥ cakre dāra-āharaṇa-karmaṇi .. 4 ..
कथं वा दक्षकोपेन त्यक्तदेहा सती पुरा ॥ हिमवत्तनया जाता भूयो वाकाशमागता ॥ ५ ॥
कथम् वा दक्ष-कोपेन त्यक्त-देहा सती पुरा ॥ हिमवत्-तनया जाता भूयस् वा आकाशम् आगता ॥ ५ ॥
katham vā dakṣa-kopena tyakta-dehā satī purā .. himavat-tanayā jātā bhūyas vā ākāśam āgatā .. 5 ..
पार्वत्याश्च तपोऽत्युग्रं विवाहश्च कथं त्वभूत् ॥ कथमर्द्धशरीरस्था बभूव स्मरनाशिनः ॥ ६ ॥
पार्वत्याः च तपः अति उग्रम् विवाहः च कथम् तु अभूत् ॥ कथम् अर्द्ध-शरीर-स्था बभूव स्मरनाशिनः ॥ ६ ॥
pārvatyāḥ ca tapaḥ ati ugram vivāhaḥ ca katham tu abhūt .. katham arddha-śarīra-sthā babhūva smaranāśinaḥ .. 6 ..
एतत्सर्वं समाचक्ष्व विस्तरेण महामते ॥ नान्योस्ति संशयच्छेत्ता त्वत्समो न भविष्यति ॥ ७ ॥
एतत् सर्वम् समाचक्ष्व विस्तरेण महामते ॥ न अन्यः अस्ति संशय-छेत्ता त्वद्-समः न भविष्यति ॥ ७ ॥
etat sarvam samācakṣva vistareṇa mahāmate .. na anyaḥ asti saṃśaya-chettā tvad-samaḥ na bhaviṣyati .. 7 ..
ब्रह्मोवाच ।।
शृणु त्वं च मुने सर्वं सतीशिवयशश्शुभम् ॥ पावनं परमं दिव्यं गुह्याद्गुह्यतमं परम् ॥ ८ ॥
शृणु त्वम् च मुने सर्वम् सती-शिव-यशः शुभम् ॥ पावनम् परमम् दिव्यम् गुह्यात् गुह्यतमम् परम् ॥ ८ ॥
śṛṇu tvam ca mune sarvam satī-śiva-yaśaḥ śubham .. pāvanam paramam divyam guhyāt guhyatamam param .. 8 ..
एतच्छंभुः पुरोवाच भक्तवर्याय विष्णवे ॥ पृष्टस्तेन महाभक्त्या परोपकृतये मुने ॥ ॥ ९ ॥
एतत् शंभुः पुरा उवाच भक्त-वर्याय विष्णवे ॥ पृष्टः तेन महा-भक्त्या पर-उपकृतये मुने ॥ ॥ ९ ॥
etat śaṃbhuḥ purā uvāca bhakta-varyāya viṣṇave .. pṛṣṭaḥ tena mahā-bhaktyā para-upakṛtaye mune .. .. 9 ..
ततस्सोपि मया पृष्टो विष्णुश्शैववरस्सुधीः ॥ प्रीत्या मह्यं समाचख्यौ विस्तरान्मुनिसत्तम ॥ 2.2.2.१० ॥
ततस् सः उपि मया पृष्टः विष्णुः शैव-वरः सुधीः ॥ प्रीत्या मह्यम् समाचख्यौ विस्तरात् मुनि-सत्तम ॥ २।२।२।१० ॥
tatas saḥ upi mayā pṛṣṭaḥ viṣṇuḥ śaiva-varaḥ sudhīḥ .. prītyā mahyam samācakhyau vistarāt muni-sattama .. 2.2.2.10 ..
अहं तत्कथयिष्यामि कथामेतां पुरातनीम् ॥ शिवाशिवयशोयुक्तां सर्वकामफलप्रदाम् ॥ ११ ॥
अहम् तत् कथयिष्यामि कथाम् एताम् पुरातनीम् ॥ शिव-अशिव-यशः-युक्ताम् सर्व-काम-फल-प्रदाम् ॥ ११ ॥
aham tat kathayiṣyāmi kathām etām purātanīm .. śiva-aśiva-yaśaḥ-yuktām sarva-kāma-phala-pradām .. 11 ..
पुरा यदा शिवो देवो निर्गुणो निर्विकल्पकः ॥ अरूपश्शक्तिरहितश्चिन्मात्रस्सदसत्परः ॥ १२ ॥
पुरा यदा शिवः देवः निर्गुणः निर्विकल्पकः ॥ अरूपः शक्ति-रहितः चित्-मात्रः सत्-असत्-परः ॥ १२ ॥
purā yadā śivaḥ devaḥ nirguṇaḥ nirvikalpakaḥ .. arūpaḥ śakti-rahitaḥ cit-mātraḥ sat-asat-paraḥ .. 12 ..
अभवत्सगुणस्सोपि द्विरूपश्शक्तिमान्प्रभुः ॥ सोमो दिव्याकृतिर्विप्र निर्वि कारी परात्परः ॥ १३ ॥
अभवत् स गुणः सः उपि द्विरूपः शक्तिमान् प्रभुः ॥ सोमः दिव्य-आकृतिः विप्र निः वि कारी परात्परः ॥ १३ ॥
abhavat sa guṇaḥ saḥ upi dvirūpaḥ śaktimān prabhuḥ .. somaḥ divya-ākṛtiḥ vipra niḥ vi kārī parātparaḥ .. 13 ..
तस्य वामांगजो विष्णुर्ब्रह्माहं दक्षिणांगजः ॥ रुद्रो हृदयतो जातोऽभवच्च मुनिसत्तम ॥ १४ ॥
तस्य वाम-अंग-जः विष्णुः ब्रह्मा अहम् दक्षिण-अंग-जः ॥ रुद्रः हृदयतः जातः अभवत् च मुनि-सत्तम ॥ १४ ॥
tasya vāma-aṃga-jaḥ viṣṇuḥ brahmā aham dakṣiṇa-aṃga-jaḥ .. rudraḥ hṛdayataḥ jātaḥ abhavat ca muni-sattama .. 14 ..
सृष्टिकर्ताभवं ब्रह्मा विष्णुः पालनकारकः ॥ लयकर्ता स्वयं रुद्रस्त्रिधाभूतस्सदाशिवः ॥ १५॥
सृष्टि-कर्ता अभवम् ब्रह्मा विष्णुः पालन-कारकः ॥ लय-कर्ता स्वयम् रुद्रः त्रिधा भूतः सदाशिवः ॥ १५॥
sṛṣṭi-kartā abhavam brahmā viṣṇuḥ pālana-kārakaḥ .. laya-kartā svayam rudraḥ tridhā bhūtaḥ sadāśivaḥ .. 15..
तमेवाहं समाराध्य ब्रह्मा लोकपितामहः॥ प्रजा ससर्ज सर्वास्तास्सुरासुरनरादिकाः ॥ १६ ॥
तम् एव अहम् समाराध्य ब्रह्मा लोकपितामहः॥ प्रजा ससर्ज सर्वाः ताः सुर-असुर-नर-आदिकाः ॥ १६ ॥
tam eva aham samārādhya brahmā lokapitāmahaḥ.. prajā sasarja sarvāḥ tāḥ sura-asura-nara-ādikāḥ .. 16 ..
सृष्ट्वा प्रजापतीन् दक्षप्रमुखान्सुरसत्तमान् ॥ अमन्यं सुप्रसन्नोहं निजं सर्वमहोन्नतम् ॥ १७॥
सृष्ट्वा प्रजापतीन् दक्ष-प्रमुखान् सुर-सत्तमान् ॥ अमन्यम् सु प्रसन्न-ऊहम् निजम् सर्व-महा-उन्नतम् ॥ १७॥
sṛṣṭvā prajāpatīn dakṣa-pramukhān sura-sattamān .. amanyam su prasanna-ūham nijam sarva-mahā-unnatam .. 17..
मरीचिमत्रिं पुलहं पुलस्त्यांगिरसौ क्रतुम् ॥ वसिष्ठं नारदं दक्षं भृगुं चेति महाप्रभून् ॥ १६॥
मरीचिम् अत्रिम् पुलहम् पुलस्त्य-अङ्गिरसौ क्रतुम् ॥ वसिष्ठम् नारदम् दक्षम् भृगुम् च इति महा-प्रभून् ॥ १६॥
marīcim atrim pulaham pulastya-aṅgirasau kratum .. vasiṣṭham nāradam dakṣam bhṛgum ca iti mahā-prabhūn .. 16..
ब्रह्माहं मानसान्पुत्रानसर्जं च यदा मुने ॥ तदा मन्मनसो जाता चारुरूपा वरांगना ॥ १९॥
ब्रह्मा अहम् मानसान् पुत्रान् असर्जम् च यदा मुने ॥ तदा मद्-मनसः जाता चारु-रूपा वर-अंगना ॥ १९॥
brahmā aham mānasān putrān asarjam ca yadā mune .. tadā mad-manasaḥ jātā cāru-rūpā vara-aṃganā .. 19..
नाम्ना संध्या दिवक्षांता सायं संध्या जपंतिका ॥ अतीव सुन्दरी सुभ्रूर्मुनिचेतोविमोहिनी॥ 2.2.2.२०॥
नाम्ना संध्या दिवक्षांता सायम् संध्या जपंतिका ॥ अतीव सुन्दरी सुभ्रूः मुनि-चेतः-विमोहिनी॥ २।२।२।२०॥
nāmnā saṃdhyā divakṣāṃtā sāyam saṃdhyā japaṃtikā .. atīva sundarī subhrūḥ muni-cetaḥ-vimohinī.. 2.2.2.20..
न तादृशी देवलोके न मर्त्ये न रसातले ॥ कालत्रयेपि वै नारी सम्पूर्णगुणशालिनी॥ २॥
न तादृशी देव-लोके न मर्त्ये न रसातले ॥ काल-त्रये अपि वै नारी सम्पूर्ण-गुण-शालिनी॥ २॥
na tādṛśī deva-loke na martye na rasātale .. kāla-traye api vai nārī sampūrṇa-guṇa-śālinī.. 2..
दृष्ट्वाहं तां समुत्थाय चिन्तयन्हृदि हृद्गतम्॥ दक्षादयश्च स्रष्टारो मरीच्याद्याश्च मत्सुताः ॥ २२॥
दृष्ट्वा अहम् ताम् समुत्थाय चिन्तयन् हृदि हृद्गतम्॥ दक्ष-आदयः च स्रष्टारः मरीचि-आद्याः च मद्-सुताः ॥ २२॥
dṛṣṭvā aham tām samutthāya cintayan hṛdi hṛdgatam.. dakṣa-ādayaḥ ca sraṣṭāraḥ marīci-ādyāḥ ca mad-sutāḥ .. 22..
एवं चिंतयतो मे हि ब्रह्मणो मुनिसत्तम ॥ मानसः पुरुषो मंजुराविर्भूतो महाद्भुतः ॥ २३ ॥
एवम् चिंतयतः मे हि ब्रह्मणः मुनि-सत्तम ॥ मानसः पुरुषः मंजुः आविर्भूतः महा-अद्भुतः ॥ २३ ॥
evam ciṃtayataḥ me hi brahmaṇaḥ muni-sattama .. mānasaḥ puruṣaḥ maṃjuḥ āvirbhūtaḥ mahā-adbhutaḥ .. 23 ..
कांचनीकृतजाताभः पीनोरस्कस्सुनासिकः ॥ सुवृत्तोरुकटीजंघो नीलवेलितकेसरः ॥ २४॥
कांचनीकृत-जात-आभः पीन-उरस्कः सु नासिकः ॥ ॥ २४॥
kāṃcanīkṛta-jāta-ābhaḥ pīna-uraskaḥ su nāsikaḥ .. .. 24..
लग्नभ्रूयुगलो लोलः पूर्णचन्द्रनिभाननः ॥ कपाटायतसद्वक्षो रोमराजीवराजितः ॥ २५॥
लग्न-भ्रू-युगलः लोलः पूर्ण-चन्द्र-निभ-आननः ॥ ॥ २५॥
lagna-bhrū-yugalaḥ lolaḥ pūrṇa-candra-nibha-ānanaḥ .. .. 25..
अभ्रमातंगकाकारः पीनो नीलसुवासकः ॥ आरक्तपाणिनयनमुखपादकरोद्भवः॥ २६॥
क्षीणमध्यश्चारुदन्तः प्रमत्तगजगंधनः॥ प्रफुल्लपद्मपत्राक्षः केसरघ्राणतर्पणः ॥ २७॥
क्षीण-मध्यः चारु-दन्तः प्रमत्त-गजगंधनः॥ ॥ २७॥
kṣīṇa-madhyaḥ cāru-dantaḥ pramatta-gajagaṃdhanaḥ.. .. 27..
कंबुग्रीवो मीनकेतुः प्रांशुर्मकरवाहनः ॥ पंचपुष्पायुधो वेगी पुष्पकोदंडमंडितः ॥ २८॥
कांतः कटाक्षपातेन भ्रामयन्नयनद्वयम् ॥ सुगंधिमारुतो तात शृंगाररससेवितः ॥ २९ ॥
कान्तः कटाक्ष-पातेन भ्रामयन् नयन-द्वयम् ॥ तात शृंगार-रस-सेवितः ॥ २९ ॥
kāntaḥ kaṭākṣa-pātena bhrāmayan nayana-dvayam .. tāta śṛṃgāra-rasa-sevitaḥ .. 29 ..
तं वीक्ष्य पुरुषं सर्वे दक्षाद्या मत्सुताश्च ते ॥ औत्सुक्यं परमं जग्मुर्विस्मयाविष्टमानसाः ॥ 2.2.2.३० ॥
तम् वीक्ष्य पुरुषम् सर्वे दक्ष-आद्याः मद्-सुताः च ते ॥ औत्सुक्यम् परमम् जग्मुः विस्मय-आविष्ट-मानसाः ॥ २।२।२।३० ॥
tam vīkṣya puruṣam sarve dakṣa-ādyāḥ mad-sutāḥ ca te .. autsukyam paramam jagmuḥ vismaya-āviṣṭa-mānasāḥ .. 2.2.2.30 ..
अभवद्विकृतं तेषां मत्सुतानां मनो द्रुतम् ॥ धैर्यं नैवालभत्तात कामाकुलितचेतसाम् ॥ ३१॥
अभवत् विकृतम् तेषाम् मद्-सुतानाम् मनः द्रुतम् ॥ धैर्यम् न एव अलभत् तात काम-आकुलित-चेतसाम् ॥ ३१॥
abhavat vikṛtam teṣām mad-sutānām manaḥ drutam .. dhairyam na eva alabhat tāta kāma-ākulita-cetasām .. 31..
मां सोपि वेधसं वीक्ष्य स्रष्टारं जगतां पतिम् ॥ प्रणम्य पुरुषः प्राह विनयानतकंधरः ॥ ३२ ॥
माम् सः अपि वेधसम् वीक्ष्य स्रष्टारम् जगताम् पतिम् ॥ प्रणम्य पुरुषः प्राह विनय-आनत-कंधरः ॥ ३२ ॥
mām saḥ api vedhasam vīkṣya sraṣṭāram jagatām patim .. praṇamya puruṣaḥ prāha vinaya-ānata-kaṃdharaḥ .. 32 ..
पुरुष उवाच ।।
किं करिष्याम्यहं कर्म ब्रह्मंस्तत्र नियोजय॥ मान्योद्य पुरुषो यस्मादुचितः शोभितो विधे ॥ ३३॥
किम् करिष्यामि अहम् कर्म ब्रह्मन् तत्र नियोजय॥ मान्य-उद्य पुरुषः यस्मात् उचितः शोभितः विधे ॥ ३३॥
kim kariṣyāmi aham karma brahman tatra niyojaya.. mānya-udya puruṣaḥ yasmāt ucitaḥ śobhitaḥ vidhe .. 33..
अभिमानं च योग्यं च स्थानं पत्नी च या मम ॥ तन्मे वद त्रिलोकेश त्वं स्रष्टा जगतां पतिः ॥ ३४॥
अभिमानम् च योग्यम् च स्थानम् पत्नी च या मम ॥ तत् मे वद त्रिलोक-ईश त्वम् स्रष्टा जगताम् पतिः ॥ ३४॥
abhimānam ca yogyam ca sthānam patnī ca yā mama .. tat me vada triloka-īśa tvam sraṣṭā jagatām patiḥ .. 34..
ब्रह्मोवाच ।।
एवं तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ॥ क्षणं न किंचित्प्रावोचत्स स्रष्टा चातिविस्मितः ॥ ३५॥
एवम् तस्य वचः श्रुत्वा पुरुषस्य महात्मनः ॥ क्षणम् न किंचिद् प्रावोचत् स स्रष्टा च अति विस्मितः ॥ ३५॥
evam tasya vacaḥ śrutvā puruṣasya mahātmanaḥ .. kṣaṇam na kiṃcid prāvocat sa sraṣṭā ca ati vismitaḥ .. 35..
अतो मनस्सुसंयम्य सम्यगुत्सृज्य विस्मयम् ॥ अवोचत्पुरुषं ब्रह्मा तत्कामं च समावहन् ॥ ३६॥
अतस् मनः सु संयम्य सम्यक् उत्सृज्य विस्मयम् ॥ अवोचत् पुरुषम् ब्रह्मा तद्-कामम् च समावहन् ॥ ३६॥
atas manaḥ su saṃyamya samyak utsṛjya vismayam .. avocat puruṣam brahmā tad-kāmam ca samāvahan .. 36..
।। ब्रह्मोवाच ।। ।।
अनेन त्वं स्वरूपेण पुष्पबाणैश्च पंचभिः ॥ मोहयन् पुरुषान् स्त्रीश्च कुरु सृष्टिं सनातनीम् ॥ ३७ ॥
अनेन त्वम् स्व-रूपेण पुष्प-बाणैः च पंचभिः ॥ मोहयन् पुरुषान् स्त्रीः च कुरु सृष्टिम् सनातनीम् ॥ ३७ ॥
anena tvam sva-rūpeṇa puṣpa-bāṇaiḥ ca paṃcabhiḥ .. mohayan puruṣān strīḥ ca kuru sṛṣṭim sanātanīm .. 37 ..
अस्मिञ्जीवाश्च देवाद्यास्त्रैलोक्ये सचराचरे ॥ एते सर्वे भविष्यन्ति न क्षमास्त्यवलंबने ॥ ३८ ॥
अस्मिन् जीवाः च देव-आद्याः त्रैलोक्ये स चराचरे ॥ एते सर्वे भविष्यन्ति न क्षमा अस्ति अवलंबने ॥ ३८ ॥
asmin jīvāḥ ca deva-ādyāḥ trailokye sa carācare .. ete sarve bhaviṣyanti na kṣamā asti avalaṃbane .. 38 ..
अहं वा वासुदेवो वा स्थाणुर्वा पुरुषोत्तमः ॥ भविष्यामस्तव वशे किमन्ये प्राणधारकाः ॥ ३९॥
अहम् वा वासुदेवः वा स्थाणुः वा पुरुषोत्तमः ॥ भविष्यामः तव वशे किम् अन्ये प्राण-धारकाः ॥ ३९॥
aham vā vāsudevaḥ vā sthāṇuḥ vā puruṣottamaḥ .. bhaviṣyāmaḥ tava vaśe kim anye prāṇa-dhārakāḥ .. 39..
प्रच्छन्नरूपो जंतूनां प्रविशन्हृदयं सदा ॥ सुखहेतुः स्वयं भूत्वा सृष्टिं कुरु सनातनीम् ॥ 2.2.2.४०॥
प्रच्छन्न-रूपः जंतूनाम् प्रविशन् हृदयम् सदा ॥ सुख-हेतुः स्वयम् भूत्वा सृष्टिम् कुरु सनातनीम् ॥ २।२।२।४०॥
pracchanna-rūpaḥ jaṃtūnām praviśan hṛdayam sadā .. sukha-hetuḥ svayam bhūtvā sṛṣṭim kuru sanātanīm .. 2.2.2.40..
त्वत्पुष्पबाणस्य सदा सुखलक्ष्यं मनोद्भुतम् ॥ सर्वेषां प्राणिनां नित्यं सदा मदकरो भवान् ॥ ४१॥
त्वद्-पुष्प-बाणस्य सदा सुख-लक्ष्यम् मना-उद्भुतम् ॥ सर्वेषाम् प्राणिनाम् नित्यम् सदा मद-करः भवान् ॥ ४१॥
tvad-puṣpa-bāṇasya sadā sukha-lakṣyam manā-udbhutam .. sarveṣām prāṇinām nityam sadā mada-karaḥ bhavān .. 41..
इति ते कर्म कथितं सृष्टिप्रावर्तकं पुनः ॥ नामान्येते वदिष्यंति सुता मे तव तत्त्वतः ॥ ४२ ॥
इति ते कर्म कथितम् सृष्टि-प्रावर्तकम् पुनर् ॥ नामानि एते वदिष्यन्ति सुताः मे तव तत्त्वतः ॥ ४२ ॥
iti te karma kathitam sṛṣṭi-prāvartakam punar .. nāmāni ete vadiṣyanti sutāḥ me tava tattvataḥ .. 42 ..
ब्रह्मोवाच ।।
इत्युक्त्वाहं सुरश्रेष्ठ स्वसुतानां मुखानि च॥ आलोक्य स्वासने पाद्मे प्रोपविष्टोऽभवं क्षणम् ॥ ४३॥
इति उक्त्वा अहम् सुरश्रेष्ठ स्व-सुतानाम् मुखानि च॥ आलोक्य स्व-आसने पाद्मे प्रोपविष्टः अभवम् क्षणम् ॥ ४३॥
iti uktvā aham suraśreṣṭha sva-sutānām mukhāni ca.. ālokya sva-āsane pādme propaviṣṭaḥ abhavam kṣaṇam .. 43..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे कामप्रादुर्भावो नाम द्वितीयोऽध्यायः ॥ २॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे कामप्रादुर्भावः नाम द्वितीयः अध्यायः ॥ २॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe kāmaprādurbhāvaḥ nāma dvitīyaḥ adhyāyaḥ .. 2..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In