| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
ब्रह्मन् विधे महाभाग शिवभक्तवर प्रभो ॥ श्रावितं चरितं शंभोरद्भुतं मंगलायनम् ॥ १॥
ब्रह्मन् विधे महाभाग शिव-भक्त-वर प्रभो ॥ श्रावितम् चरितम् शंभोः अद्भुतम् मंगलायनम् ॥ १॥
brahman vidhe mahābhāga śiva-bhakta-vara prabho .. śrāvitam caritam śaṃbhoḥ adbhutam maṃgalāyanam .. 1..
ततः किमभवत्तात कथ्यतां शशिमौलिनःसत्याश्च चरितं दिव्यं सर्वाघौघविनाशनम् ॥ २ ॥
ततस् किम् अभवत् तात कथ्यताम् शशिमौलिनः सत्याः च चरितम् दिव्यम् सर्व-अघ-ओघ-विनाशनम् ॥ २ ॥
tatas kim abhavat tāta kathyatām śaśimaulinaḥ satyāḥ ca caritam divyam sarva-agha-ogha-vināśanam .. 2 ..
।। ब्रह्मोवाच ।।
निवृत्ते शंकरे चास्मद्वधाद्भक्तानुकंपिनि ॥ अभवन्निर्भयास्सर्वे सुखिनस्तु प्रसन्नकाः ॥ ३ ॥
निवृत्ते शंकरे च अस्मद्-वधात् भक्त-अनुकंपिनि ॥ अभवन् निर्भयाः सर्वे सुखिनः तु प्रसन्नकाः ॥ ३ ॥
nivṛtte śaṃkare ca asmad-vadhāt bhakta-anukaṃpini .. abhavan nirbhayāḥ sarve sukhinaḥ tu prasannakāḥ .. 3 ..
नतस्कंधास्सांजलयः प्रणेमुर्निखिलाश्च ते ॥ तुष्टुवुश्शंकरं भक्त्या चक्रुर्जयरवं मुदा ॥ ४ ॥
नत-स्कंधाः स अंजलयः प्रणेमुः निखिलाः च ते ॥ तुष्टुवुः शंकरम् भक्त्या चक्रुः जय-रवम् मुदा ॥ ४ ॥
nata-skaṃdhāḥ sa aṃjalayaḥ praṇemuḥ nikhilāḥ ca te .. tuṣṭuvuḥ śaṃkaram bhaktyā cakruḥ jaya-ravam mudā .. 4 ..
तस्मिन्नेव कालेऽहं प्रसन्नो निर्भयो मुने ॥ अस्तवं शंकरं भक्त्या विविधैश्च शुभस्तवैः ॥ ५ ॥
तस्मिन् एव काले अहम् प्रसन्नः निर्भयः मुने ॥ अस्तवम् शंकरम् भक्त्या विविधैः च शुभ-स्तवैः ॥ ५ ॥
tasmin eva kāle aham prasannaḥ nirbhayaḥ mune .. astavam śaṃkaram bhaktyā vividhaiḥ ca śubha-stavaiḥ .. 5 ..
ततस्तुष्टमनाश्शंभुर्बहुलीलाकरः प्रभुः ॥ मुने मां समुवाचेदं सर्वेषां शृण्वतां तदा ॥ ६ ॥
ततस् तुष्ट-मनाः शंभुः बहु-लीला-करः प्रभुः ॥ मुने माम् समुवाच इदम् सर्वेषाम् शृण्वताम् तदा ॥ ६ ॥
tatas tuṣṭa-manāḥ śaṃbhuḥ bahu-līlā-karaḥ prabhuḥ .. mune mām samuvāca idam sarveṣām śṛṇvatām tadā .. 6 ..
।। रुद्र उवाच ।।
ब्रह्मन् तात प्रसन्नोहं निर्भयस्त्वं भवाधुना ॥ स्वशीर्षं स्पृश हस्तेन मदाज्ञां कुर्वसंशयम् ॥ ७ ॥
ब्रह्मन् तात प्रसन्ना उहम् निर्भयः त्वम् भव अधुना ॥ स्व-शीर्षम् स्पृश हस्तेन मद्-आज्ञाम् कुरु असंशयम् ॥ ७ ॥
brahman tāta prasannā uham nirbhayaḥ tvam bhava adhunā .. sva-śīrṣam spṛśa hastena mad-ājñām kuru asaṃśayam .. 7 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचश्शम्भोर्बहुलीलाकृतः प्रभोः ॥ स्पृशन् स्वं कं तथा भूत्वा प्राणमं वृषभध्वजम् ॥ ८ ॥
इति आकर्ण्य वचः शम्भोः बहु-लीला-कृतः प्रभोः ॥ स्पृशन् स्वम् कम् तथा भूत्वा प्राणमम् वृषभध्वजम् ॥ ८ ॥
iti ākarṇya vacaḥ śambhoḥ bahu-līlā-kṛtaḥ prabhoḥ .. spṛśan svam kam tathā bhūtvā prāṇamam vṛṣabhadhvajam .. 8 ..
यावदेवमहं स्वं कं स्पृशामि निजपाणिना ॥ तावत्तत्र स्थितं सद्यस्तद्रूपवृषवाहनम् ॥ ९ ॥
यावत् एवम् अहम् स्वम् कम् स्पृशामि निज-पाणिना ॥ तावत् तत्र स्थितम् सद्यस् तद्-रूप-वृष-वाहनम् ॥ ९ ॥
yāvat evam aham svam kam spṛśāmi nija-pāṇinā .. tāvat tatra sthitam sadyas tad-rūpa-vṛṣa-vāhanam .. 9 ..
ततो लज्जापरीतांगस्स्थितश्चाहमधोमुखः ॥ इन्द्राद्यैरमरैस्सर्वैस्सुदृष्टस्सर्वतस्स्थितैः ॥ 2.2.20.१०॥
ततस् लज्जा-परीत-अंगः स्थितः च अहम् अधोमुखः ॥ इन्द्र-आद्यैः अमरैः सर्वैः सु दृष्टः सर्वतस् स्थितैः ॥ २।२।२०।१०॥
tatas lajjā-parīta-aṃgaḥ sthitaḥ ca aham adhomukhaḥ .. indra-ādyaiḥ amaraiḥ sarvaiḥ su dṛṣṭaḥ sarvatas sthitaiḥ .. 2.2.20.10..
अथाहं लज्जयाविष्टः प्रणिपत्य महेश्वरम् ॥ प्रवोचं संस्तुतिं कृत्वा क्षम्यतां क्षम्यतामिति ॥ ११॥
अथ अहम् लज्जया आविष्टः प्रणिपत्य महेश्वरम् ॥ प्रवोचम् संस्तुतिम् कृत्वा क्षम्यताम् क्षम्यताम् इति ॥ ११॥
atha aham lajjayā āviṣṭaḥ praṇipatya maheśvaram .. pravocam saṃstutim kṛtvā kṣamyatām kṣamyatām iti .. 11..
अस्य पापस्य शुध्यर्थं प्रायश्चित्तं वद प्रभो॥ निग्रहं च तथान्यायं येन पापं प्रयातु मे ॥ १२॥
अस्य पापस्य शुधि-अर्थम् प्रायश्चित्तम् वद प्रभो॥ निग्रहम् च तथा अन्यायम् येन पापम् प्रयातु मे ॥ १२॥
asya pāpasya śudhi-artham prāyaścittam vada prabho.. nigraham ca tathā anyāyam yena pāpam prayātu me .. 12..
इत्युक्तस्तु मया शंभुरुवाच प्रणतं हि तम् ॥ सुप्रसन्नतरो भूत्वा सर्वेशो भक्तवत्सलः ॥ १३ ॥
इति उक्तः तु मया शंभुः उवाच प्रणतम् हि तम् ॥ सुप्रसन्नतरः भूत्वा सर्व-ईशः भक्त-वत्सलः ॥ १३ ॥
iti uktaḥ tu mayā śaṃbhuḥ uvāca praṇatam hi tam .. suprasannataraḥ bhūtvā sarva-īśaḥ bhakta-vatsalaḥ .. 13 ..
शंभुरुवाच ।।
अनेनैव स्वरूपेण मदधिष्ठितकेन हि ॥ तपः कुरु प्रसन्नात्मा मदाराधनतत्परः॥ १४ ॥
अनेन एव स्व-रूपेण मद्-अधिष्ठितकेन हि ॥ तपः कुरु प्रसन्न-आत्मा मद्-आराधन-तत्परः॥ १४ ॥
anena eva sva-rūpeṇa mad-adhiṣṭhitakena hi .. tapaḥ kuru prasanna-ātmā mad-ārādhana-tatparaḥ.. 14 ..
ख्यातिं यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ॥ साधकः सर्वकृत्यानां तेजोभाजां द्विजन्मनाम् ॥ १५॥
ख्यातिम् यास्यसि सर्वत्र नाम्ना रुद्रशिरः क्षितौ॥ साधकः सर्व-कृत्यानाम् तेजः-भाजाम् द्विजन्मनाम् ॥ १५॥
khyātim yāsyasi sarvatra nāmnā rudraśiraḥ kṣitau.. sādhakaḥ sarva-kṛtyānām tejaḥ-bhājām dvijanmanām .. 15..
मनुष्याणामिदं कृत्यं यस्माद्वीर्य्यं त्वयाऽधुना ॥ तस्मात्त्वं मानुषो भूत्वा विचरिष्यसि भूतले ॥ १६॥
मनुष्याणाम् इदम् कृत्यम् यस्मात् वीर्यम् त्वया अधुना ॥ तस्मात् त्वम् मानुषः भूत्वा विचरिष्यसि भू-तले ॥ १६॥
manuṣyāṇām idam kṛtyam yasmāt vīryam tvayā adhunā .. tasmāt tvam mānuṣaḥ bhūtvā vicariṣyasi bhū-tale .. 16..
यस्त्वां चानेन रूपेण दृष्ट्वा कौ विचरिष्यति ॥ किमेतद्ब्रह्मणो मूर्ध्नि वदन्निति पुरान्तकः ॥ १७॥
यः त्वाम् च अनेन रूपेण दृष्ट्वा कौ विचरिष्यति ॥ किम् एतत् ब्रह्मणः मूर्ध्नि वदन् इति पुर-अन्तकः ॥ १७॥
yaḥ tvām ca anena rūpeṇa dṛṣṭvā kau vicariṣyati .. kim etat brahmaṇaḥ mūrdhni vadan iti pura-antakaḥ .. 17..
ततस्ते चेष्टितं सर्वं कौतुकाच्छ्रोष्यतीति यः ॥ परदारकृतात्त्यागान्मुक्तिं सद्यस्स यास्यति ॥ १८ ॥
ततस् ते चेष्टितम् सर्वम् कौतुकात् श्रोष्यति इति यः ॥ पर-दार-कृतात् त्यागात् मुक्तिम् सद्यस् स यास्यति ॥ १८ ॥
tatas te ceṣṭitam sarvam kautukāt śroṣyati iti yaḥ .. para-dāra-kṛtāt tyāgāt muktim sadyas sa yāsyati .. 18 ..
यथा यथा जनश्चैतत्कृत्यन्ते कीर्तयिष्यति ॥ तथा तथा विशुद्धिस्ते पापस्यास्य भविष्यति ॥ १९॥
यथा यथा जनः च एतत् कृत्य-अन्ते कीर्तयिष्यति ॥ तथा तथा विशुद्धिः ते पापस्य अस्य भविष्यति ॥ १९॥
yathā yathā janaḥ ca etat kṛtya-ante kīrtayiṣyati .. tathā tathā viśuddhiḥ te pāpasya asya bhaviṣyati .. 19..
एतदेव हि ते ब्रह्मन् प्रायश्चित्तं मयेरितम् ॥ जनहास्यकरं लोके तव गर्हाकरं परम् ॥ 2.2.20.२०॥
एतत् एव हि ते ब्रह्मन् प्रायश्चित्तम् मया ईरितम् ॥ जन-हास्य-करम् लोके तव गर्हा-करम् परम् ॥ २।२।२०।२०॥
etat eva hi te brahman prāyaścittam mayā īritam .. jana-hāsya-karam loke tava garhā-karam param .. 2.2.20.20..
एतच्च तव वीर्य्यं हि पतितं वेदिमध्यगम् ॥ कामार्तस्य मया दृष्टं नैतद्धार्यं भविष्यति ॥ २१ ॥
एतत् च तव वीर्य्यम् हि पतितम् वेदि-मध्य-गम् ॥ काम-आर्तस्य मया दृष्टम् न एतत् धार्यम् भविष्यति ॥ २१ ॥
etat ca tava vīryyam hi patitam vedi-madhya-gam .. kāma-ārtasya mayā dṛṣṭam na etat dhāryam bhaviṣyati .. 21 ..
चतुर्बिन्दुमितं रेतः पतितं यत्क्षितौ तव ॥ तन्मितास्तोयदा व्योम्नि भवेयुः प्रलयंकराः ॥ २२ ॥
चतुर्-बिन्दु-मितम् रेतः पतितम् यत् क्षितौ तव ॥ तद्-मिताः तोयदाः व्योम्नि भवेयुः प्रलयंकराः ॥ २२ ॥
catur-bindu-mitam retaḥ patitam yat kṣitau tava .. tad-mitāḥ toyadāḥ vyomni bhaveyuḥ pralayaṃkarāḥ .. 22 ..
एतस्मिन्नंतरे तत्र देवर्षीणां पुरो द्रुतम् ॥ तद्रेतसस्समभवंस्तन्मिताश्च बलाहका ॥ २३ ॥
एतस्मिन् अन्तरे तत्र देवर्षीणाम् पुरस् द्रुतम् ॥ तद्-रेतसः समभवन् तद्-मिताः च बलाहका ॥ २३ ॥
etasmin antare tatra devarṣīṇām puras drutam .. tad-retasaḥ samabhavan tad-mitāḥ ca balāhakā .. 23 ..
संवर्तकस्तथावर्त्तः पुष्करो द्रोण एव च ॥ एते चतुर्विधास्तात महामेघा लयंकराः ॥ २४ ॥
संवर्तकः तथा आवर्त्तः पुष्करः द्रोणः एव च ॥ एते चतुर्विधाः तात महा-मेघाः लयंकराः ॥ २४ ॥
saṃvartakaḥ tathā āvarttaḥ puṣkaraḥ droṇaḥ eva ca .. ete caturvidhāḥ tāta mahā-meghāḥ layaṃkarāḥ .. 24 ..
गर्जंतश्चाथ मुचंतस्तोयानीषच्छिवेच्छया ॥ फेलुर्व्योम्नि मुनिश्रेष्ठ तोयदास्ते कदारवाः ॥ २५ ॥
गर्जंतः च अथ मुचन्तः तोयानि ईषत् शिव-इच्छया ॥ फेलुः व्योम्नि मुनि-श्रेष्ठ तोय-दाः ते कदारवाः ॥ २५ ॥
garjaṃtaḥ ca atha mucantaḥ toyāni īṣat śiva-icchayā .. pheluḥ vyomni muni-śreṣṭha toya-dāḥ te kadāravāḥ .. 25 ..
तैस्तु संछादिते व्योम्नि सुगर्जद्भिश्च शंकरः॥ प्रशान्दाक्षायणी देवी भृशं शांतोऽभवद्द्रुतम् ॥ २६॥
तैः तु संछादिते व्योम्नि सु गर्जद्भिः च शंकरः॥ देवी भृशम् शान्तः अभवत् द्रुतम् ॥ २६॥
taiḥ tu saṃchādite vyomni su garjadbhiḥ ca śaṃkaraḥ.. devī bhṛśam śāntaḥ abhavat drutam .. 26..
अथ चाहं वीतभयश्शंकरस्या ज्ञया तदा ॥ शेषं वैवाहिकं कर्म समाप्तिमनयं मुने ॥ २७ ॥
अथ च अहम् वीत-भयः शंकरस्या ज्ञया तदा ॥ शेषम् वैवाहिकम् कर्म समाप्तिम् अनयम् मुने ॥ २७ ॥
atha ca aham vīta-bhayaḥ śaṃkarasyā jñayā tadā .. śeṣam vaivāhikam karma samāptim anayam mune .. 27 ..
पपात पुष्पवृष्टिश्च शिवाशिवशिरस्कयोः ॥ सर्वत्र च मुनिश्रेष्ठ मुदा देवगणोज्झिता ॥ २८॥
पपात पुष्प-वृष्टिः च शिव-अशिव-शिरस्कयोः ॥ सर्वत्र च मुनि-श्रेष्ठ मुदा देव-गण-उज्झिता ॥ २८॥
papāta puṣpa-vṛṣṭiḥ ca śiva-aśiva-śiraskayoḥ .. sarvatra ca muni-śreṣṭha mudā deva-gaṇa-ujjhitā .. 28..
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ॥ पठत्सु विप्रवर्येषु वादान् भक्त्यान्वितेषु च ॥ २९॥
वाद्यमानेषु वाद्येषु गायमानेषु तेषु च ॥ पठत्सु विप्र-वर्येषु वादान् भक्त्या अन्वितेषु च ॥ २९॥
vādyamāneṣu vādyeṣu gāyamāneṣu teṣu ca .. paṭhatsu vipra-varyeṣu vādān bhaktyā anviteṣu ca .. 29..
रंभादिषु पुरंध्रीषु नृत्यमानासु सादरम् ॥ महोत्सवो महानासीद्देवपत्नीषु नारद ॥ 2.2.20.३० ॥
रंभा-आदिषु पुरंध्रीषु नृत्यमानासु सादरम् ॥ महा-उत्सवः महान् आसीत् देव-पत्नीषु नारद ॥ २।२।२०।३० ॥
raṃbhā-ādiṣu puraṃdhrīṣu nṛtyamānāsu sādaram .. mahā-utsavaḥ mahān āsīt deva-patnīṣu nārada .. 2.2.20.30 ..
अथ कर्मवितानेशः प्रसन्नः परमेश्वरः ॥ प्राह मां प्रांजलिं प्रीत्या लौकिकीं गतिमाश्रितः ॥ ३१ ॥
अथ कर्म-वितान-ईशः प्रसन्नः परमेश्वरः ॥ प्राह माम् प्रांजलिम् प्रीत्या लौकिकीम् गतिम् आश्रितः ॥ ३१ ॥
atha karma-vitāna-īśaḥ prasannaḥ parameśvaraḥ .. prāha mām prāṃjalim prītyā laukikīm gatim āśritaḥ .. 31 ..
ईश्वर उवाच ।।
हे ब्रह्मन् सुकृतं कर्म सर्वं वैवाहिकं च यत् ॥ प्रसन्नोस्मि त्वमाचार्यो दद्यां ते दक्षिणां च काम् ॥ ३२ ॥
हे ब्रह्मन् सु कृतम् कर्म सर्वम् वैवाहिकम् च यत् ॥ प्रसन्नः अस्मि त्वम् आचार्यः दद्याम् ते दक्षिणाम् च काम् ॥ ३२ ॥
he brahman su kṛtam karma sarvam vaivāhikam ca yat .. prasannaḥ asmi tvam ācāryaḥ dadyām te dakṣiṇām ca kām .. 32 ..
याचस्व तां सुरज्येष्ठ यद्यपि स्यात्सुदुर्लभा ॥ ब्रूहि शीघ्रं महाभाग नादेयं विद्यते मम ॥ ३३ ॥
याचस्व ताम् सुरज्येष्ठ यदि अपि स्यात् सु दुर्लभा ॥ ब्रूहि शीघ्रम् महाभाग न आदेयम् विद्यते मम ॥ ३३ ॥
yācasva tām surajyeṣṭha yadi api syāt su durlabhā .. brūhi śīghram mahābhāga na ādeyam vidyate mama .. 33 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्सोहं शंकरस्य कृतांजलिः ॥ मुनेऽवोचं विनीतात्मा प्रणम्येशं मुहुर्मुहुः ॥ ३४ ॥
इति आकर्ण्य वचः सः ऊहम् शंकरस्य कृतांजलिः ॥ मुने अवोचम् विनीत-आत्मा प्रणम्य ईशम् मुहुर् मुहुर् ॥ ३४ ॥
iti ākarṇya vacaḥ saḥ ūham śaṃkarasya kṛtāṃjaliḥ .. mune avocam vinīta-ātmā praṇamya īśam muhur muhur .. 34 ..
ब्रह्मोवाच ।।
यदि प्रसन्नो देवेश वरयोग्योस्म्यहं यदि ॥ तत्कुरु त्वं महेशान सुप्रीत्या यद्वदाम्यहम् ॥ ३५॥
यदि प्रसन्नः देवेश वर-योग्यः अस्मि अहम् यदि ॥ तत् कुरु त्वम् महेशान सु प्रीत्या यत् वदामि अहम् ॥ ३५॥
yadi prasannaḥ deveśa vara-yogyaḥ asmi aham yadi .. tat kuru tvam maheśāna su prītyā yat vadāmi aham .. 35..
अनेनैव तु रूपेण वेद्यामस्यां महेश्वर ॥ त्वया स्थेयं सदैवात्र नृणां पापविशुद्धये ॥ ३६ ॥
अनेन एव तु रूपेण वेद्याम् अस्याम् महेश्वर ॥ त्वया स्थेयम् सदा एव अत्र नृणाम् पाप-विशुद्धये ॥ ३६ ॥
anena eva tu rūpeṇa vedyām asyām maheśvara .. tvayā stheyam sadā eva atra nṛṇām pāpa-viśuddhaye .. 36 ..
येनास्य संनिधौ कृत्वा स्वाश्रमं शशि शेखर ॥ तपः कुर्या विनाशाय स्वपापस्यास्य शंकर ॥ ३७ ॥
येन अस्य संनिधौ कृत्वा स्व-आश्रमम् शशि शेखर ॥ तपः कुर्याः विनाशाय स्व-पापस्य अस्य शंकर ॥ ३७ ॥
yena asya saṃnidhau kṛtvā sva-āśramam śaśi śekhara .. tapaḥ kuryāḥ vināśāya sva-pāpasya asya śaṃkara .. 37 ..
चैत्रशुक्लत्रयोदश्यां नक्षत्रे भगदैवते ॥ सूर्यवारे च यो भक्त्या वीक्षेत भुवि मानवः ॥ ३८ ॥
चैत्र-शुक्ल-त्रयोदश्याम् नक्षत्रे भग-दैवते ॥ सूर्यवारे च यः भक्त्या वीक्षेत भुवि मानवः ॥ ३८ ॥
caitra-śukla-trayodaśyām nakṣatre bhaga-daivate .. sūryavāre ca yaḥ bhaktyā vīkṣeta bhuvi mānavaḥ .. 38 ..
तदैव तस्य पापानि प्रयांतु हर संक्षयम् ॥ वर्द्धते विपुलं पुण्यं रोगा नश्यंतु सर्वशः ॥ ३९॥
तदा एव तस्य पापानि प्रयांतु हर संक्षयम् ॥ वर्द्धते विपुलम् पुण्यम् रोगाः नश्यंतु सर्वशस् ॥ ३९॥
tadā eva tasya pāpāni prayāṃtu hara saṃkṣayam .. varddhate vipulam puṇyam rogāḥ naśyaṃtu sarvaśas .. 39..
या नारी दुर्भगा वंध्या काणा रूपविवर्जिता ॥ सापि त्वद्दर्शनादेव निर्दोषा संभवेद्ध्रुवम् ॥ 2.2.20.४० ॥
या नारी दुर्भगा वंध्या काणा रूप-विवर्जिता ॥ सा अपि त्वद्-दर्शनात् एव निर्दोषा संभवेत् ध्रुवम् ॥ २।२।२०।४० ॥
yā nārī durbhagā vaṃdhyā kāṇā rūpa-vivarjitā .. sā api tvad-darśanāt eva nirdoṣā saṃbhavet dhruvam .. 2.2.20.40 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचो मे हि स्वात्मसर्वसुखावहम् ॥ तथाऽस्त्विति शिवः प्राह सुप्रसन्नेन चेतसा ॥ ४१ ॥
इति आकर्ण्य वचः मे हि स्व-आत्म-सर्व-सुख-आवहम् ॥ तथा अस्तु इति शिवः प्राह सु प्रसन्नेन चेतसा ॥ ४१ ॥
iti ākarṇya vacaḥ me hi sva-ātma-sarva-sukha-āvaham .. tathā astu iti śivaḥ prāha su prasannena cetasā .. 41 ..
शिव उवाच ।।
हिताय सर्वलोकस्य वेद्यां तस्यां व्यवस्थितः ॥ स्थास्यामि सहितः पत्न्या सत्या त्वद्वचनाद्विधे ॥ ४२ ॥
हिताय सर्व-लोकस्य वेद्याम् तस्याम् व्यवस्थितः ॥ स्थास्यामि सहितः पत्न्या सत्या त्वद्-वचनात् विधे ॥ ४२ ॥
hitāya sarva-lokasya vedyām tasyām vyavasthitaḥ .. sthāsyāmi sahitaḥ patnyā satyā tvad-vacanāt vidhe .. 42 ..
ब्रह्मोवाच ।।
इत्युक्त्वा भगवांस्तत्र सभार्यो वृषभध्वजः ॥ उवाच वेदिमध्यस्थो मूर्तिं कृत्वांशरूपिणीम् ॥ ४३ ॥
इति उक्त्वा भगवान् तत्र स भार्यः वृषभध्वजः ॥ उवाच वेदि-मध्य-स्थः मूर्तिम् कृत्वा अंश-रूपिणीम् ॥ ४३ ॥
iti uktvā bhagavān tatra sa bhāryaḥ vṛṣabhadhvajaḥ .. uvāca vedi-madhya-sthaḥ mūrtim kṛtvā aṃśa-rūpiṇīm .. 43 ..
ततो दक्षं समामंत्र्य शंकरः परमेश्वरः ॥ पत्न्या सत्या गंतुमना अभूत्स्वजनवत्सलः ॥ ४४ ॥
ततस् दक्षम् समामंत्र्य शंकरः परमेश्वरः ॥ पत्न्या सत्या गंतु-मनाः अभूत् स्व-जन-वत्सलः ॥ ४४ ॥
tatas dakṣam samāmaṃtrya śaṃkaraḥ parameśvaraḥ .. patnyā satyā gaṃtu-manāḥ abhūt sva-jana-vatsalaḥ .. 44 ..
एतस्मिन्नंतरे दक्षो विनयावनतस्सुधीः ॥ सांजलिर्नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥ ॥ ४५॥
एतस्मिन् अंतरे दक्षः विनय-अवनतः सुधीः ॥ स अंजलिः नतकः प्रीत्या तुष्टाव वृषभध्वजम् ॥ ॥ ४५॥
etasmin aṃtare dakṣaḥ vinaya-avanataḥ sudhīḥ .. sa aṃjaliḥ natakaḥ prītyā tuṣṭāva vṛṣabhadhvajam .. .. 45..
विष्ण्वादयस्सुरास्सर्वे मुनयश्च गणास्तदा ॥ नत्वा संस्तूय विविधं चक्रुर्जयरवं मुदा ॥ ४६॥
विष्णु-आदयः सुराः सर्वे मुनयः च गणाः तदा ॥ नत्वा संस्तूय विविधम् चक्रुः जय-रवम् मुदा ॥ ४६॥
viṣṇu-ādayaḥ surāḥ sarve munayaḥ ca gaṇāḥ tadā .. natvā saṃstūya vividham cakruḥ jaya-ravam mudā .. 46..
आरोप्य वृषभे शंभुस्सतीं दक्षाज्ञया मुदा ॥ जगाम हिमवत्प्रस्थं वृषभस्थस्स्वयं प्रभुः॥ ४७॥
आरोप्य वृषभे शंभुः सतीम् दक्ष-आज्ञया मुदा ॥ जगाम हिमवत्-प्रस्थम् वृषभ-स्थः स्वयम् प्रभुः॥ ४७॥
āropya vṛṣabhe śaṃbhuḥ satīm dakṣa-ājñayā mudā .. jagāma himavat-prastham vṛṣabha-sthaḥ svayam prabhuḥ.. 47..
अथ सा शंकराभ्यासे सुदती चारुहासिनी ॥ विरेजे वृषभस्था वै चन्द्रांते कालिका यथा ॥ ४८ ॥
अथ सा शंकर-अभ्यासे सुदती चारु-हासिनी ॥ विरेजे वृषभ-स्था वै चन्द्र-अंते कालिका यथा ॥ ४८ ॥
atha sā śaṃkara-abhyāse sudatī cāru-hāsinī .. vireje vṛṣabha-sthā vai candra-aṃte kālikā yathā .. 48 ..
विष्ण्वादयस्सुरास्सर्वे मरीच्याद्यास्तथर्षयः ॥ दक्षोपि मोहितश्चासीत्तथान्ये निश्चला जनाः ॥ ४९॥
विष्णु-आदयः सुराः सर्वे मरीचि-आद्याः तथा ऋषयः ॥ दक्षः उपि मोहितः च आसीत् तथा अन्ये निश्चलाः जनाः ॥ ४९॥
viṣṇu-ādayaḥ surāḥ sarve marīci-ādyāḥ tathā ṛṣayaḥ .. dakṣaḥ upi mohitaḥ ca āsīt tathā anye niścalāḥ janāḥ .. 49..
केचिद्वाद्यान्वादयन्तो गायंतस्सुस्वरं परे ॥ शिवं शिवयशश्शुद्धमनुजग्मुः शिवं मुदा ॥ 2.2.20.५०॥
केचिद् वाद्यान् वादयन्तः गायंतः सु स्वरम् परे ॥ शिवम् शिव-यशः शुद्धम् अनुजग्मुः शिवम् मुदा ॥ २।२।२०।५०॥
kecid vādyān vādayantaḥ gāyaṃtaḥ su svaram pare .. śivam śiva-yaśaḥ śuddham anujagmuḥ śivam mudā .. 2.2.20.50..
मध्यमार्गाद्विसृष्टो हि दक्षः प्रीत्याथ शम्भुना ॥ वधाम प्राप सगणः शम्भुः प्रेमसमाकुलः ॥ ५१ ॥
मध्य-मार्गात् विसृष्टः हि दक्षः प्रीत्या अथ शम्भुना ॥ वध-आम प्राप स गणः शम्भुः प्रेम-समाकुलः ॥ ५१ ॥
madhya-mārgāt visṛṣṭaḥ hi dakṣaḥ prītyā atha śambhunā .. vadha-āma prāpa sa gaṇaḥ śambhuḥ prema-samākulaḥ .. 51 ..
विसृष्टा अपि विष्ण्वाद्याश्शम्भुना पुनरेव ते ॥ अनुजग्मुश्शिवं भक्त्या सुराः परमया मुदा ॥ ५२॥
विसृष्टाः अपि विष्णु-आद्याः शम्भुना पुनर् एव ते ॥ अनुजग्मुः शिवम् भक्त्या सुराः परमया मुदा ॥ ५२॥
visṛṣṭāḥ api viṣṇu-ādyāḥ śambhunā punar eva te .. anujagmuḥ śivam bhaktyā surāḥ paramayā mudā .. 52..
तैस्सर्वैस्सगणैश्शंभुस्सत्यः च स्वस्त्रिया युतः ॥ प्राप स्वं धाम संहृष्टो हिमवद्गिरि शोभितम् ॥ ५३ ॥
तैः सर्वैः स गणैः शंभुः सत्यः च स्व-स्त्रिया युतः ॥ प्राप स्वम् धाम संहृष्टः हिमवत्-गिरि शोभितम् ॥ ५३ ॥
taiḥ sarvaiḥ sa gaṇaiḥ śaṃbhuḥ satyaḥ ca sva-striyā yutaḥ .. prāpa svam dhāma saṃhṛṣṭaḥ himavat-giri śobhitam .. 53 ..
तत्र गत्वाखिलान्देवान्मुनीनपि परांस्तथा ॥ मुदा विसर्जयामास बहु सम्मान्य सादरम् ॥ ५४ ॥
तत्र गत्वा अखिलान् देवान् मुनीन् अपि परान् तथा ॥ मुदा विसर्जयामास बहु सम्मान्य स आदरम् ॥ ५४ ॥
tatra gatvā akhilān devān munīn api parān tathā .. mudā visarjayāmāsa bahu sammānya sa ādaram .. 54 ..
शंभुमाभाष्य ते सर्वे विष्ण्वाद्या मुदितानना ॥ स्वंस्वं धाम ययुर्नत्वा स्तुत्वा च मुनयस्सुराः ॥ ५५ ॥
शंभुम् आभाष्य ते सर्वे विष्णु-आद्याः मुदित-आनना ॥ स्वम् स्वम् धाम ययुः नत्वा स्तुत्वा च मुनयः सुराः ॥ ५५ ॥
śaṃbhum ābhāṣya te sarve viṣṇu-ādyāḥ mudita-ānanā .. svam svam dhāma yayuḥ natvā stutvā ca munayaḥ surāḥ .. 55 ..
शिवोपि मुदितोत्यर्थं स्वपत्न्या दक्षकन्यया ॥ हिमवत्प्रस्थसंस्थो हि विजहार भवानुगः ॥ ५६ ॥
शिवः अपि मुदिता उत्यर्थम् स्व-पत्न्या दक्षकन्यया ॥ हिमवत्-प्रस्थ-संस्थः हि विजहार भव-अनुगः ॥ ५६ ॥
śivaḥ api muditā utyartham sva-patnyā dakṣakanyayā .. himavat-prastha-saṃsthaḥ hi vijahāra bhava-anugaḥ .. 56 ..
ततस्स शंकरस्सत्या सगणस्सूतिकृन्मुने ॥ प्राप स्वं धाम संहृष्टः कैलाशं पर्वतोत्तमम् ॥ ५७ ॥
ततस् स शंकरः सत्या स गणः सूतिकृत् मुने ॥ प्राप स्वम् धाम संहृष्टः कैलाशम् पर्वत-उत्तमम् ॥ ५७ ॥
tatas sa śaṃkaraḥ satyā sa gaṇaḥ sūtikṛt mune .. prāpa svam dhāma saṃhṛṣṭaḥ kailāśam parvata-uttamam .. 57 ..
एतद्वस्सर्वमाख्यातं यथा तस्य पुराऽभवत् ॥ विवाहो वृषयानस्य मनुस्वायंभुवान्तक ॥ ५८ ॥
एतत् वः सर्वम् आख्यातम् यथा तस्य पुरा अभवत् ॥ विवाहः वृष-यानस्य मनु-स्वायंभुव-अन्तक ॥ ५८ ॥
etat vaḥ sarvam ākhyātam yathā tasya purā abhavat .. vivāhaḥ vṛṣa-yānasya manu-svāyaṃbhuva-antaka .. 58 ..
विवाहसमये यज्ञे प्रारंभे वा शृणोति यः ॥ एतदाख्यानमव्यग्रस्संपूज्य वृषभध्वजम् ॥ ५९ ॥
विवाह-समये यज्ञे प्रारंभे वा शृणोति यः ॥ एतत् आख्यानम् अव्यग्रः संपूज्य वृषभध्वजम् ॥ ५९ ॥
vivāha-samaye yajñe prāraṃbhe vā śṛṇoti yaḥ .. etat ākhyānam avyagraḥ saṃpūjya vṛṣabhadhvajam .. 59 ..
तस्याऽविघ्नं भवेत्सर्वं कर्म वैवाहिकं च यत् ॥ शुभाख्यमपरं कर्म निर्विघ्नं सर्वदा भवेत् ॥ 2.2.20.६०॥
तस्य अ विघ्नम् भवेत् सर्वम् कर्म वैवाहिकम् च यत् ॥ शुभ-आख्यम् अपरम् कर्म निर्विघ्नम् सर्वदा भवेत् ॥ २।२।२०।६०॥
tasya a vighnam bhavet sarvam karma vaivāhikam ca yat .. śubha-ākhyam aparam karma nirvighnam sarvadā bhavet .. 2.2.20.60..
कन्या च सुखसौभण्यशीलाचारगुणान्विता॥ साध्वी स्यात्पुत्रिणी प्रीत्या श्रुत्वाख्यानमिदं शुभम् ॥ ६१॥
कन्या च सुख-सौभण्य-शील-आचार-गुण-अन्विता॥ साध्वी स्यात् पुत्रिणी प्रीत्या श्रुत्वा आख्यानम् इदम् शुभम् ॥ ६१॥
kanyā ca sukha-saubhaṇya-śīla-ācāra-guṇa-anvitā.. sādhvī syāt putriṇī prītyā śrutvā ākhyānam idam śubham .. 61..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे सती विवाहवर्णनं नाम विंशोऽध्यायः ॥ २० ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे सती-विवाहवर्णनम् नाम विंशः अध्यायः ॥ २० ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe satī-vivāhavarṇanam nāma viṃśaḥ adhyāyaḥ .. 20 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In