| |
|

This overlay will guide you through the buttons:

नारद उवाच ।।
समीचीनं वचस्तात सर्वज्ञस्य तवाऽनघ ॥ महाद्भुतं श्रुतं नो वै चरितं शिवयोश्शुभम् ॥ १ ॥
समीचीनम् वचः तात सर्वज्ञस्य तव अ अनघ ॥ महा-अद्भुतम् श्रुतम् नः वै चरितम् शिवयोः शुभम् ॥ १ ॥
samīcīnam vacaḥ tāta sarvajñasya tava a anagha .. mahā-adbhutam śrutam naḥ vai caritam śivayoḥ śubham .. 1 ..
विवाहश्च श्रुतस्सम्यक् सर्वमोहापहारकः ॥ परमज्ञानसंपन्नो मंगलालय उत्तमः ॥ २॥
विवाहः च श्रुतः सम्यक् सर्व-मोह-अपहारकः ॥ परम-ज्ञान-संपन्नः मंगल-आलयः उत्तमः ॥ २॥
vivāhaḥ ca śrutaḥ samyak sarva-moha-apahārakaḥ .. parama-jñāna-saṃpannaḥ maṃgala-ālayaḥ uttamaḥ .. 2..
भूय एव विवित्सा मे चरितं शिवयोश्शुभम् ॥ तद्वर्णय महाप्राज्ञ कृपां कृत्वाऽतुलामरम् ॥ ३ ॥
भूयस् एव विवित्सा मे चरितम् शिवयोः शुभम् ॥ तत् वर्णय महा-प्राज्ञ कृपाम् कृत्वा अतुल-अमरम् ॥ ३ ॥
bhūyas eva vivitsā me caritam śivayoḥ śubham .. tat varṇaya mahā-prājña kṛpām kṛtvā atula-amaram .. 3 ..
ब्रह्मोवाच ।।
सम्यक्कारुणिकस्यैव मुने ते विचिकित्सितम् ॥ यदहं नोदितस्सौम्य शिवलीलानुवर्णने ॥ ४ ॥
सम्यक् कारुणिकस्य एव मुने ते विचिकित्सितम् ॥ यत् अहम् न उदितः सौम्य शिव-लीला-अनुवर्णने ॥ ४ ॥
samyak kāruṇikasya eva mune te vicikitsitam .. yat aham na uditaḥ saumya śiva-līlā-anuvarṇane .. 4 ..
विवाह्य दक्षजां देवीं सतीं त्रैलोक्यमातरम् ॥ गत्वा स्वधाम सुप्रीत्या यदकार्षीन्निबोध मे ॥ ५ ॥
विवाह्य दक्षजाम् देवीम् सतीम् त्रैलोक्य-मातरम् ॥ गत्वा स्व-धाम सु प्रीत्या यत् अकार्षीत् निबोध मे ॥ ५ ॥
vivāhya dakṣajām devīm satīm trailokya-mātaram .. gatvā sva-dhāma su prītyā yat akārṣīt nibodha me .. 5 ..
ततो हरस्स स्वगणस्स्वस्थानं प्राप्य मोदनम ॥ देवर्षे तत्र वृषभादवातरदतिप्रियात् ॥ ६ ॥
ततस् हरः स स्व-गणः स्व-स्थानम् प्राप्य ॥ देव-ऋषे तत्र वृषभात् अवातरत् अति प्रियात् ॥ ६ ॥
tatas haraḥ sa sva-gaṇaḥ sva-sthānam prāpya .. deva-ṛṣe tatra vṛṣabhāt avātarat ati priyāt .. 6 ..
यथायोग्यं निजस्थानं प्रविश्य स सतीसखः ॥ मुमुदेऽतीव देवर्षे भवाचारकरश्शिवः॥ ७॥
यथायोग्यम् निज-स्थानम् प्रविश्य स सती-सखः ॥ मुमुदे अतीव देव-ऋषे भव-आचार-करः शिवः॥ ७॥
yathāyogyam nija-sthānam praviśya sa satī-sakhaḥ .. mumude atīva deva-ṛṣe bhava-ācāra-karaḥ śivaḥ.. 7..
ततो विरूपाक्ष इमां प्राप्य दाक्षायणीं गणान् ॥ स्वीयानिर्यापयामास नद्यादीन् गिरिकंदरात् ॥ ८॥
ततस् विरूपाक्षः इमाम् प्राप्य दाक्षायणीम् गणान् ॥ नदी-आदीन् गिरि-कंदरात् ॥ ८॥
tatas virūpākṣaḥ imām prāpya dākṣāyaṇīm gaṇān .. nadī-ādīn giri-kaṃdarāt .. 8..
उवाच चैतास्तान् सर्वान्नंद्यादीनतिसूनृतम् ॥ लौकिकीं रीतिमाश्रित्य करुणासागरः प्रभुः ॥ ९ ॥
उवाच च एताः तान् सर्वान् नंदि-आदीन् अति सूनृतम् ॥ लौकिकीम् रीतिम् आश्रित्य करुणा-सागरः प्रभुः ॥ ९ ॥
uvāca ca etāḥ tān sarvān naṃdi-ādīn ati sūnṛtam .. laukikīm rītim āśritya karuṇā-sāgaraḥ prabhuḥ .. 9 ..
यदाहं च स्मराम्यत्र स्मरणादरमानसाः ॥ समागमिष्यथ तदा मत्पार्श्वं मे गणा द्रुतम् ॥ 2.2.21.१० ॥
यदा अहम् च स्मरामि अत्र स्मरण-आदर-मानसाः ॥ समागमिष्यथ तदा मद्-पार्श्वम् मे गणाः द्रुतम् ॥ २।२।२१।१० ॥
yadā aham ca smarāmi atra smaraṇa-ādara-mānasāḥ .. samāgamiṣyatha tadā mad-pārśvam me gaṇāḥ drutam .. 2.2.21.10 ..
महेश उवाच ।।
इत्युक्ते वामदेवेन नद्याद्यास्स्वगणाश्च ते ॥ महावेगा महावीरा नानास्थानेषु संययुः ॥ ११ ॥
इति उक्ते वामदेवेन नदी-आद्याः स्व-गणाः च ते ॥ महा-वेगाः महा-वीराः नाना स्थानेषु संययुः ॥ ११ ॥
iti ukte vāmadevena nadī-ādyāḥ sva-gaṇāḥ ca te .. mahā-vegāḥ mahā-vīrāḥ nānā sthāneṣu saṃyayuḥ .. 11 ..
ईश्वरोपि तया सार्द्धं तेषु यातेषु विभ्रमी ॥ दाक्षायण्या समं रेमे रहस्ये मुदितो भृशम् ॥ १२ ॥
ईश्वरा उपि तया सार्द्धम् तेषु यातेषु विभ्रमी ॥ दाक्षायण्या समम् रेमे रहस्ये मुदितः भृशम् ॥ १२ ॥
īśvarā upi tayā sārddham teṣu yāteṣu vibhramī .. dākṣāyaṇyā samam reme rahasye muditaḥ bhṛśam .. 12 ..
कदाचिद्वन्य पुष्पाणि समाहृत्य मनोहराम् ॥ मालां विधाय सत्यास्तु हारस्थाने स योजयत्॥ ३॥
कदाचिद् वन्य-पुष्पाणि समाहृत्य मनोहराम् ॥ मालाम् विधाय सत्याः तु हारस्थाने स योजयत्॥ ३॥
kadācid vanya-puṣpāṇi samāhṛtya manoharām .. mālām vidhāya satyāḥ tu hārasthāne sa yojayat.. 3..
कदाचिद्दर्पणे चैव वीक्षतीमात्मनस्सतीम् ॥ अनुगम्य हरो वक्त्रम् स्वीयमप्यवलोकयत ॥ १४ ॥
कदाचिद् दर्पणे च एव वीक्षतीम् आत्मनः सतीम् ॥ अनुगम्य हरः वक्त्रम् स्वीयम् अपि अवलोकयत ॥ १४ ॥
kadācid darpaṇe ca eva vīkṣatīm ātmanaḥ satīm .. anugamya haraḥ vaktram svīyam api avalokayata .. 14 ..
कदाचित्कुंडलं तस्या उल्लास्योल्लास्य संगतः॥ बध्नाति मोचयत्येव सा स्वयं मार्जयत्यपि ॥ १५॥
कदाचिद् कुंडलम् तस्याः उल्लास्य उल्लास्य संगतः॥ बध्नाति मोचयति एव सा स्वयम् मार्जयति अपि ॥ १५॥
kadācid kuṃḍalam tasyāḥ ullāsya ullāsya saṃgataḥ.. badhnāti mocayati eva sā svayam mārjayati api .. 15..
सरागौ चरणावस्याः पावकेनोज्ज्वलेन च ॥ निसर्गरक्तौ कुरुते पूर्णरागौ वृषध्वजः ॥ १६॥
स रागौ चरणौ अस्याः पावकेन उज्ज्वलेन च ॥ निसर्ग-रक्तौ कुरुते पूर्ण-रागौ वृषध्वजः ॥ १६॥
sa rāgau caraṇau asyāḥ pāvakena ujjvalena ca .. nisarga-raktau kurute pūrṇa-rāgau vṛṣadhvajaḥ .. 16..
उच्चैरपि यदाख्येयमन्येषां पुरतो बहु ॥ तत कर्णे कथयत्त्यस्याहरो द्रष्टुं तदाननम् ॥ १७॥
उच्चैस् अपि यत् आख्येयम् अन्येषाम् पुरतस् बहु ॥ तत कर्णे द्रष्टुम् तद्-आननम् ॥ १७॥
uccais api yat ākhyeyam anyeṣām puratas bahu .. tata karṇe draṣṭum tad-ānanam .. 17..
न दूरमपि गन्तासौ समागत्य प्रयत्नतः॥ अनुबध्नाति नामाक्षी पृष्ठदेशेन्यमानसाम्॥ १८॥
न दूरम् अपि गन्ता असौ समागत्य प्रयत्नतः॥ अनुबध्नाति नाम अक्षी पृष्ठ-देशेन्य-मानसाम्॥ १८॥
na dūram api gantā asau samāgatya prayatnataḥ.. anubadhnāti nāma akṣī pṛṣṭha-deśenya-mānasām.. 18..
अंतर्हितस्तु तत्रैव मायया वृषभध्वजः ॥ तामालिलिंग भीत्या स्वं चकिता व्याकुलाऽभवत्॥ १९॥
अंतर्हितः तु तत्र एव मायया वृषभध्वजः ॥ ताम् आलिलिंग भीत्या स्वम् चकिता व्याकुला अभवत्॥ १९॥
aṃtarhitaḥ tu tatra eva māyayā vṛṣabhadhvajaḥ .. tām āliliṃga bhītyā svam cakitā vyākulā abhavat.. 19..
सौवर्णपद्मकलिकातुल्ये तस्या कुचद्वये ॥ चकार भ्रमराकारं मृगनाभिविशेषकम् ॥ 2.2.21.२० ॥
सौवर्ण-पद्म-कलिका-तुल्ये तस्याः कुच-द्वये ॥ चकार भ्रमर-आकारम् मृगनाभि-विशेषकम् ॥ २।२।२१।२० ॥
sauvarṇa-padma-kalikā-tulye tasyāḥ kuca-dvaye .. cakāra bhramara-ākāram mṛganābhi-viśeṣakam .. 2.2.21.20 ..
हारमस्याः कुचयुगाद्वियोज्य सहसा हरः ॥ न्ययोजयच्च तत्रैव स्वकरस्पर्शनं मुहुः ॥ २१॥
हारम् अस्याः कुच-युगात् वियोज्य सहसा हरः ॥ न्ययोजयत् च तत्र एव स्व-कर-स्पर्शनम् मुहुर् ॥ २१॥
hāram asyāḥ kuca-yugāt viyojya sahasā haraḥ .. nyayojayat ca tatra eva sva-kara-sparśanam muhur .. 21..
अंगदान्वलयानूर्मान्विश्लेष्य च पुनः पुनः॥ तत्स्थानात्पुनरेवासौ तत्स्थाने प्रत्ययोजयत् ॥ २२ ॥
अंगदान् वलयान् ऊर्मान् विश्लेष्य च पुनर् पुनर्॥ तद्-स्थानात् पुनर् एव असौ तद्-स्थाने प्रत्ययोजयत् ॥ २२ ॥
aṃgadān valayān ūrmān viśleṣya ca punar punar.. tad-sthānāt punar eva asau tad-sthāne pratyayojayat .. 22 ..
कालिकेति समायाति सवर्णा ते सखी त्विमाम् ॥ यास्यत्वस्यास्तथेक्षंत्याः प्रोत्तुंगौ साहसं कुचौ ॥ २३ ॥
कालिका इति समायाति सवर्णा ते सखी तु इमाम् ॥ या अस्य तु अस्याः तथा ईक्षंत्याः प्रोत्तुंगौ साहसम् कुचौ ॥ २३ ॥
kālikā iti samāyāti savarṇā te sakhī tu imām .. yā asya tu asyāḥ tathā īkṣaṃtyāḥ prottuṃgau sāhasam kucau .. 23 ..
कदाचिन्मदनोन्मादचेतनः प्रमथाधिपः ॥ चकार नर्म शर्माणि तथाकृत्प्रियया मुदा ॥ २४ ॥
कदाचिद् मदन-उन्माद-चेतनः प्रमथाधिपः ॥ चकार नर्म शर्माणि तथा अकृत् प्रियया मुदा ॥ २४ ॥
kadācid madana-unmāda-cetanaḥ pramathādhipaḥ .. cakāra narma śarmāṇi tathā akṛt priyayā mudā .. 24 ..
आहृत्य पद्मपुष्पाणि रम्यपुष्पाणि शंकरः ॥ सर्वांगेषु करोति स्म पुष्पाभरणमादरात् ॥ २५ ॥
आहृत्य पद्म-पुष्पाणि रम्य-पुष्पाणि शंकरः ॥ सर्व-अंगेषु करोति स्म पुष्प-आभरणम् आदरात् ॥ २५ ॥
āhṛtya padma-puṣpāṇi ramya-puṣpāṇi śaṃkaraḥ .. sarva-aṃgeṣu karoti sma puṣpa-ābharaṇam ādarāt .. 25 ..
गिरिकुंजेषु रम्येषु सत्या सह महेश्वरः ॥ विजहार समस्तेषु प्रियया भक्तवत्सलः ॥ २६ ॥
गिरि-कुंजेषु रम्येषु सत्या सह महेश्वरः ॥ विजहार समस्तेषु प्रियया भक्त-वत्सलः ॥ २६ ॥
giri-kuṃjeṣu ramyeṣu satyā saha maheśvaraḥ .. vijahāra samasteṣu priyayā bhakta-vatsalaḥ .. 26 ..
तया विना स्म नो याति नास्थितो न स्म चेष्टते ॥ तया विना क्षममपि शर्म लेभे न शंकरः ॥ २७॥
तया विना स्म नो याति न आस्थितः न स्म चेष्टते ॥ तया विना क्षमम् अपि शर्म लेभे न शंकरः ॥ २७॥
tayā vinā sma no yāti na āsthitaḥ na sma ceṣṭate .. tayā vinā kṣamam api śarma lebhe na śaṃkaraḥ .. 27..
विहृत्य सुचिरं कालं कैलासगिरिकुंजरे ॥ अगमद्धिमवत्प्रस्थं सस्मार स्वेच्छया स्मरन् ॥ २८ ॥
विहृत्य सु चिरम् कालम् कैलास-गिरि-कुंजरे ॥ अगमत् हिमवत्प्रस्थम् सस्मार स्व-इच्छया स्मरन् ॥ २८ ॥
vihṛtya su ciram kālam kailāsa-giri-kuṃjare .. agamat himavatprastham sasmāra sva-icchayā smaran .. 28 ..
तस्मिन्प्रविष्टे कामे तु वसंतश्शंकरांतिके ॥ वितस्तार निजं भावं हार्दं विज्ञाय यत्प्रभो ॥ २९॥
तस्मिन् प्रविष्टे कामे तु वसंतः शंकर-अन्तिके ॥ वितस्तार निजम् भावम् हार्दम् विज्ञाय यत् प्रभो ॥ २९॥
tasmin praviṣṭe kāme tu vasaṃtaḥ śaṃkara-antike .. vitastāra nijam bhāvam hārdam vijñāya yat prabho .. 29..
सर्वे च पुष्पिता वृक्षा लताश्चान्याश्च पुष्पिताः।अंभांसि फुल्लपद्मानि पद्मास्सभ्रमरास्तथा॥ 2.2.21.३०॥
सर्वे च पुष्पिताः वृक्षाः लताः च अन्याः च पुष्पिताः।अंभांसि फुल्ल-पद्मानि पद्माः स भ्रमराः तथा॥ २।२।२१।३०॥
sarve ca puṣpitāḥ vṛkṣāḥ latāḥ ca anyāḥ ca puṣpitāḥ.aṃbhāṃsi phulla-padmāni padmāḥ sa bhramarāḥ tathā.. 2.2.21.30..
प्रविष्टे तत्र सदृतौ ववौ स मलयो मरुत् ॥ सुगंधिगंधपुष्पेण मोदकश्च सुगंधियुक् ॥ ३१॥
प्रविष्टे तत्र स दृतौ ववौ स मलयः मरुत् ॥ सुगंधि-गंध-पुष्पेण मोदकः च सुगंधि-युज् ॥ ३१॥
praviṣṭe tatra sa dṛtau vavau sa malayaḥ marut .. sugaṃdhi-gaṃdha-puṣpeṇa modakaḥ ca sugaṃdhi-yuj .. 31..
संध्यार्द्रचन्द्रसंकाशाः पलाशाश्च विरेजिरे ॥ कामास्त्रवत्सुमनसः प्रमोदात्पादपाधरः ॥ ३२॥
संध्या-आर्द्र-चन्द्र-संकाशाः पलाशाः च विरेजिरे ॥ काम-अस्त्र-वत् सुमनसः प्रमोदात् पादप-अधरः ॥ ३२॥
saṃdhyā-ārdra-candra-saṃkāśāḥ palāśāḥ ca virejire .. kāma-astra-vat sumanasaḥ pramodāt pādapa-adharaḥ .. 32..
बभुः पंकजपुष्पाणि सरस्सु संकलाञ्जनान् ॥ संमोहयितुमुद्युक्ता सुमुखी वायुदेवता ॥ ३३ ॥
बभुः पंकज-पुष्पाणि सरस्सु संकल-अञ्जनान् ॥ संमोहयितुम् उद्युक्ता सु मुखी वायुदेवता ॥ ३३ ॥
babhuḥ paṃkaja-puṣpāṇi sarassu saṃkala-añjanān .. saṃmohayitum udyuktā su mukhī vāyudevatā .. 33 ..
नागकेशरवृक्षाश्च स्वर्णवर्णैः प्रसूनकैः ॥ बभुर्मदनकेत्वाभा मनोज्ञाश्शंकरांतिके ॥ ३४ ॥
नागकेशर-वृक्षाः च स्वर्ण-वर्णैः प्रसूनकैः ॥ बभुः मदन-केतु-आभाः मनोज्ञाः शंकर-अंतिके ॥ ३४ ॥
nāgakeśara-vṛkṣāḥ ca svarṇa-varṇaiḥ prasūnakaiḥ .. babhuḥ madana-ketu-ābhāḥ manojñāḥ śaṃkara-aṃtike .. 34 ..
लवंगवल्लीसुरभिगंधेनोद्वास्य मारुतम् ॥ मोहयामास चेतांसि भृशं कामिजने पुरा ॥ ३५ ॥
लवंगवल्ली-सुरभि-गंधेन उद्वास्य मारुतम् ॥ मोहयामास चेतांसि भृशम् कामि-जने पुरा ॥ ३५ ॥
lavaṃgavallī-surabhi-gaṃdhena udvāsya mārutam .. mohayāmāsa cetāṃsi bhṛśam kāmi-jane purā .. 35 ..
चारु पावकचर्चित्सु सुस्वराश्चूतशालिनः ॥ बभुर्मदनबाणौघपर्यंकमदनावृताः ॥ ३६ ॥
चारु पावक-चर्चित्सु सु स्वराः चूत-शालिनः ॥ बभुः मदन-बाण-ओघ-पर्यंक-मदन-आवृताः ॥ ३६ ॥
cāru pāvaka-carcitsu su svarāḥ cūta-śālinaḥ .. babhuḥ madana-bāṇa-ogha-paryaṃka-madana-āvṛtāḥ .. 36 ..
अंभांसि मलहीनानि रेजुः फुल्लकुशाशयाः ॥ मुनीनामिव चेतांसि प्रव्यक्तज्योतिरुद्गमम् ॥ ३७ ॥
अंभांसि मल-हीनानि रेजुः फुल्ल-कुश-आशयाः ॥ मुनीनाम् इव चेतांसि प्रव्यक्त-ज्योतिः-उद्गमम् ॥ ३७ ॥
aṃbhāṃsi mala-hīnāni rejuḥ phulla-kuśa-āśayāḥ .. munīnām iva cetāṃsi pravyakta-jyotiḥ-udgamam .. 37 ..
तुषारास्सूर्यरश्मीनां संगमादगमन् बहिः ॥ प्रमत्वानीक्ष्यतेक्षाश्च सलिलीहृदयास्तदा ॥ ३८ ॥
तुषाराः सूर्य-रश्मीनाम् संगमात् अगमन् बहिस् ॥ प्रमत्वा अन् ईक्ष्य-अ ईक्ष्य-ईक्षाः च सलिली-हृदयाः तदा ॥ ३८ ॥
tuṣārāḥ sūrya-raśmīnām saṃgamāt agaman bahis .. pramatvā an īkṣya-a īkṣya-īkṣāḥ ca salilī-hṛdayāḥ tadā .. 38 ..
प्रसन्नास्सह चन्द्रेण ननिषारास्तदाऽभवन् ॥ विभावर्यः प्रियेणैवं कामिन्यस्तु मनोहराः ॥ ३९ ॥
प्रसन्नाः सह चन्द्रेण ननिषाराः तदा अभवन् ॥ विभावर्यः प्रियेण एवम् कामिन्यः तु मनोहराः ॥ ३९ ॥
prasannāḥ saha candreṇa naniṣārāḥ tadā abhavan .. vibhāvaryaḥ priyeṇa evam kāminyaḥ tu manoharāḥ .. 39 ..
तस्मिन्काले महादेवस्सह सत्या धरोत्तमे ॥ रेमे स सुचिरं छन्दं निकुंजेषु नदीषु च ॥ 2.2.21.४० ॥
तस्मिन् काले महादेवः सह सत्या धरोत्तमे ॥ रेमे स सु चिरम् छन्दम् निकुंजेषु नदीषु च ॥ २।२।२१।४० ॥
tasmin kāle mahādevaḥ saha satyā dharottame .. reme sa su ciram chandam nikuṃjeṣu nadīṣu ca .. 2.2.21.40 ..
तथा तेन समं रेजे तदा दाक्षायिणि मुने ॥ यथा हरः क्षणमपि शांतिमाप तया विना ॥ ४१ ॥
तथा तेन समम् रेजे तदा दाक्षायिणि मुने ॥ यथा हरः क्षणम् अपि शांतिम् आप तया विना ॥ ४१ ॥
tathā tena samam reje tadā dākṣāyiṇi mune .. yathā haraḥ kṣaṇam api śāṃtim āpa tayā vinā .. 41 ..
संभोगविषये देवी सती तस्य मनः प्रिया ॥ विशतीव हरस्यांगे पाययन्निव तद्रसम् ॥ ४२ ॥
संभोग-विषये देवी सती तस्य मनः प्रिया ॥ विशति इव हरस्य अंगे पाययन् इव तद्-रसम् ॥ ४२ ॥
saṃbhoga-viṣaye devī satī tasya manaḥ priyā .. viśati iva harasya aṃge pāyayan iva tad-rasam .. 42 ..
तस्या कुसुममालाभिर्भूषयन्सकलां तनुम् ॥ स्वहस्तरचिताभिस्तु नवशर्माकरोच्च सः ॥ ४३ ॥
कुसुम-मालाभिः भूषयन् सकलाम् तनुम् ॥ स्व-हस्त-रचिताभिः तु नव-शर्म अकरोत् च सः ॥ ४३ ॥
kusuma-mālābhiḥ bhūṣayan sakalām tanum .. sva-hasta-racitābhiḥ tu nava-śarma akarot ca saḥ .. 43 ..
आलापैर्वीक्षितैर्हास्यैस्तथा संभाषणैर्हरः ॥ तस्यादिदेश गिरिजां सपतीवात्मसंविदम् ॥ ४४ ॥
आलापैः वीक्षितैः हास्यैः तथा संभाषणैः हरः ॥ तस्य आदिदेश गिरिजाम् सपति-इव आत्म-संविदम् ॥ ४४ ॥
ālāpaiḥ vīkṣitaiḥ hāsyaiḥ tathā saṃbhāṣaṇaiḥ haraḥ .. tasya ādideśa girijām sapati-iva ātma-saṃvidam .. 44 ..
तद्वक्त्रचंद्र पीयूषपानस्थिरतनुर्हरः ॥ नानावैशेषिकीं तन्वीमवस्थां स कदाचन ॥ ४५ ॥
तद्-वक्त्र-चंद्र पीयूष-पान-स्थिर-तनुः हरः ॥ नाना वैशेषिकीम् तन्वीम् अवस्थाम् स कदाचन ॥ ४५ ॥
tad-vaktra-caṃdra pīyūṣa-pāna-sthira-tanuḥ haraḥ .. nānā vaiśeṣikīm tanvīm avasthām sa kadācana .. 45 ..
तद्वक्त्राम्बुजवासेन तत्सौन्दर्य्यैश्च नर्मभिः ॥ गुणैरिव महादंती बद्धो नान्यविचेष्टितः ॥ ४६ ॥
तद्-वक्त्र-अम्बुज-वासेन तद्-सौन्दर्यैः च नर्मभिः ॥ गुणैः इव महा-दंती बद्धः न अन्य-विचेष्टितः ॥ ४६ ॥
tad-vaktra-ambuja-vāsena tad-saundaryaiḥ ca narmabhiḥ .. guṇaiḥ iva mahā-daṃtī baddhaḥ na anya-viceṣṭitaḥ .. 46 ..
इति हिमगिरिकुंजप्रस्थभागे दरीषु प्रतिदिनमभिरेमे दक्षपुत्र्या महेशः ॥ क्रतुभुजपरिमाणैः क्रीडतस्तस्य जाता दश दश च सुरर्षे वत्सराः पंच चान्ये ॥ ४७ ॥
इति हिमगिरि-कुंजप्रस्थ-भागे दरीषु प्रतिदिनम् अभिरेमे दक्ष-पुत्र्या महेशः ॥ क्रतु-भुज-परिमाणैः क्रीडतः तस्य जाताः दश दश च सुर-ऋषे वत्सराः पंच च अन्ये ॥ ४७ ॥
iti himagiri-kuṃjaprastha-bhāge darīṣu pratidinam abhireme dakṣa-putryā maheśaḥ .. kratu-bhuja-parimāṇaiḥ krīḍataḥ tasya jātāḥ daśa daśa ca sura-ṛṣe vatsarāḥ paṃca ca anye .. 47 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहि तायां द्वितीये सतीखंडे सतीशिवक्रीडावर्णनं नामैकविंशोध्यायः ॥ २१ ॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसंहि-तायाम् द्वितीये सतीखण्डे सतीशिवक्रीडावर्णनम् नाम एकविंशः उध्यायः ॥ २१ ॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃhi-tāyām dvitīye satīkhaṇḍe satīśivakrīḍāvarṇanam nāma ekaviṃśaḥ udhyāyaḥ .. 21 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In