| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
कदाचिदथ दक्षस्य तनया जलदागमे ॥ कैलासक्ष्माभृतः प्राह प्रस्थस्थं वृषभध्वजम् ॥ १॥
कदाचिद् अथ दक्षस्य तनया जलदागमे ॥ कैलास-क्ष्माभृतः प्राह प्रस्थ-स्थम् वृषभध्वजम् ॥ १॥
kadācid atha dakṣasya tanayā jaladāgame .. kailāsa-kṣmābhṛtaḥ prāha prastha-stham vṛṣabhadhvajam .. 1..
सत्युवाच ।।
देव देव महादेव शंभो मत्प्राणवल्लभ ॥ शृणु मे वचनं नाथ श्रुत्वा तत्कुरु मानद ॥ २॥
देव देव महादेव शंभो मद्-प्राण-वल्लभ ॥ शृणु मे वचनम् नाथ श्रुत्वा तत् कुरु मानद ॥ २॥
deva deva mahādeva śaṃbho mad-prāṇa-vallabha .. śṛṇu me vacanam nātha śrutvā tat kuru mānada .. 2..
घनागमोयं संप्राप्तः कालः परमदुस्सहः ॥ अनेकवर्णमेघौघास्संगीतांबरदिक्चयाः ॥ ३॥
घनागमः इयम् संप्राप्तः कालः परम-दुस्सहः ॥ अनेक-वर्ण-मेघ-ओघाः संगीत-अंबर-दिश्-चयाः ॥ ३॥
ghanāgamaḥ iyam saṃprāptaḥ kālaḥ parama-dussahaḥ .. aneka-varṇa-megha-oghāḥ saṃgīta-aṃbara-diś-cayāḥ .. 3..
विवांति वाता हृदयं हारयंतीत वेगिनः ॥ कदंबरजसा धौताः पाथोबिन्दुविकर्षणाः ॥ ४ ॥
विवांति वाताः हृदयम् हारयंति इत वेगिनः ॥ ॥ ४ ॥
vivāṃti vātāḥ hṛdayam hārayaṃti ita veginaḥ .. .. 4 ..
मेघानां गर्जितैरुच्चैर्धारासारं विमुंचताम् ॥ विद्युत्पताकिनां तीव्रः क्षुब्धं स्यात्कस्य नो मनः ॥ ५॥
मेघानाम् गर्जितैः उच्चैस् धारा-सारम् विमुंचताम् ॥ विद्युत्-पताकिनाम् तीव्रः क्षुब्धम् स्यात् कस्य नः मनः ॥ ५॥
meghānām garjitaiḥ uccais dhārā-sāram vimuṃcatām .. vidyut-patākinām tīvraḥ kṣubdham syāt kasya naḥ manaḥ .. 5..
न सूर्यो दृश्यते नापि मेघच्छन्नो निशापतिः ॥ दिवापि रात्रिवद्भाति विरहि व्यसनाकरः ॥ ६ ॥
न सूर्यः दृश्यते ना अपि मेघ-छन्नः निशापतिः ॥ दिवा अपि रात्रि-वत् भाति विरहि व्यसन-आकरः ॥ ६ ॥
na sūryaḥ dṛśyate nā api megha-channaḥ niśāpatiḥ .. divā api rātri-vat bhāti virahi vyasana-ākaraḥ .. 6 ..
मेघानैकत्र तिष्ठंतो ध्वनन्त पवनेरिताः ॥ पतंत इव लोकानां दृश्यंते मूर्ध्नि शंकर ॥ ७ ॥
मेघान् आ एकत्र तिष्ठन्तः ध्वनन्त पवन-ईरिताः ॥ पतन्तः इव लोकानाम् दृश्यंते मूर्ध्नि शंकर ॥ ७ ॥
meghān ā ekatra tiṣṭhantaḥ dhvananta pavana-īritāḥ .. patantaḥ iva lokānām dṛśyaṃte mūrdhni śaṃkara .. 7 ..
वाताहता महावृक्षा नर्तंत इव चांबरे ॥ दृश्यंते हर भीरूणां त्रासदाः कामुकेप्सिता ॥ ८ ॥
वात-आहताः महा-वृक्षाः नर्तंतः इव च अंबरे ॥ दृश्यते ते हर भीरूणाम् त्रास-दाः कामुका-ईप्सिता ॥ ८ ॥
vāta-āhatāḥ mahā-vṛkṣāḥ nartaṃtaḥ iva ca aṃbare .. dṛśyate te hara bhīrūṇām trāsa-dāḥ kāmukā-īpsitā .. 8 ..
स्निग्धनीलांजनस्याशु सदिवौघस्य पृष्ठतः ॥ बलाकराजी वात्युच्चैर्यमुनापृष्ठफेनवत् ॥ ९ ॥
स्निग्ध-नीलांजनस्य आशु स दिवा ओघस्य पृष्ठतस् ॥ बलाक-राजी वा अति उच्चैस् यमुना-पृष्ठ-फेन-वत् ॥ ९ ॥
snigdha-nīlāṃjanasya āśu sa divā oghasya pṛṣṭhatas .. balāka-rājī vā ati uccais yamunā-pṛṣṭha-phena-vat .. 9 ..
क्षपाक्षयेषवलयं दृश्यते कालिकागता ॥ अंबुधाविव संदीप्तपावको वडवामुखः ॥ 2.2.22.१० ॥
क्षपा-क्षय-इष-वलयम् दृश्यते कालिका-आगता ॥ अंबुधौ इव संदीप्त-पावकः वडवामुखः ॥ २।२।२२।१० ॥
kṣapā-kṣaya-iṣa-valayam dṛśyate kālikā-āgatā .. aṃbudhau iva saṃdīpta-pāvakaḥ vaḍavāmukhaḥ .. 2.2.22.10 ..
प्रारोहंतीह सस्यानि मंदिरं प्राङ्गणेष्वपि ॥ किमन्यत्र विरूपाक्ष सस्यौद्भूतिं वदाम्यहम् ॥ ११ ॥
प्रारोहन्ति इह सस्यानि मंदिरम् प्राङ्गणेषु अपि ॥ किम् अन्यत्र विरूपाक्ष सस्य-औद्भूतिम् वदामि अहम् ॥ ११ ॥
prārohanti iha sasyāni maṃdiram prāṅgaṇeṣu api .. kim anyatra virūpākṣa sasya-audbhūtim vadāmi aham .. 11 ..
श्यामलै राजतैरक्तैर्विशदोयं हिमाचलः ॥ मंदराश्रयमेघौघः पत्रैर्दुग्धांबुधिर्यथा ॥ १२॥
श्यामलैः राजतैः अक्तैः विशदः यम् हिमाचलः ॥ मंदर-आश्रय-मेघ-ओघः पत्रैः दुग्ध-अंबुधिः यथा ॥ १२॥
śyāmalaiḥ rājataiḥ aktaiḥ viśadaḥ yam himācalaḥ .. maṃdara-āśraya-megha-oghaḥ patraiḥ dugdha-aṃbudhiḥ yathā .. 12..
असमश्रीश्च कुटिलं भेजे यस्याथ किंशुकान् ॥ उच्चावचान् कलौ लक्ष्मीर्गन्ता संत्यज्य सज्जनान् ॥ १३ ॥
असम-श्रीः च कुटिलम् भेजे यस्य अथ किंशुकान् ॥ उच्चावचान् कलौ लक्ष्मीः गन्ता संत्यज्य सत्-जनान् ॥ १३ ॥
asama-śrīḥ ca kuṭilam bheje yasya atha kiṃśukān .. uccāvacān kalau lakṣmīḥ gantā saṃtyajya sat-janān .. 13 ..
मंदारस्तन पीलूनां शब्देन हृषिता मुहुः ॥ केकायंते प्रतिवने सततं पृष्ठसूचकम् ॥ १४ ॥
मंदारः तन पीलूनाम् शब्देन हृषिताः मुहुर् ॥ केकायंते प्रतिवने सततम् पृष्ठ-सूचकम् ॥ १४ ॥
maṃdāraḥ tana pīlūnām śabdena hṛṣitāḥ muhur .. kekāyaṃte prativane satatam pṛṣṭha-sūcakam .. 14 ..
मेघोत्सुकानां मधुरश्चातकानां मनोहरः ॥ धारासारशरैस्तापं पेतुः प्रतिपथोद्गतम् ॥ १५ ॥
मेघ-उत्सुकानाम् मधुरः चातकानाम् मनोहरः ॥ धारा-सार-शरैः तापम् पेतुः प्रतिपथ-उद्गतम् ॥ १५ ॥
megha-utsukānām madhuraḥ cātakānām manoharaḥ .. dhārā-sāra-śaraiḥ tāpam petuḥ pratipatha-udgatam .. 15 ..
मेघानां पश्य मद्देहे दुर्नयं करकोत्करैः ॥ ये छादयंत्यनुगते मयूरांश्चातकांस्तथा ॥ १६ ॥
मेघानाम् पश्य मद्-देहे दुर्नयम् करक-उत्करैः ॥ ये छादयंति अनुगते मयूरान् चातकान् तथा ॥ १६ ॥
meghānām paśya mad-dehe durnayam karaka-utkaraiḥ .. ye chādayaṃti anugate mayūrān cātakān tathā .. 16 ..
शिखसारंगयोर्दृष्ट्वा मित्रादपि पराभवम् ॥ हर्षं गच्छंति गिरिशं विदूरमपि मानसम् ॥ १७ ॥
शिख-सारंगयोः दृष्ट्वा मित्रात् अपि पराभवम् ॥ हर्षम् गच्छन्ति गिरिशम् विदूरम् अपि मानसम् ॥ १७ ॥
śikha-sāraṃgayoḥ dṛṣṭvā mitrāt api parābhavam .. harṣam gacchanti giriśam vidūram api mānasam .. 17 ..
एतस्मिन्विषमे काले नीलं काकाश्चकोरकाः ॥ कुर्वंति त्वां विना गेहान् कथं शांतिमवाप्स्यसि ॥ ॥ १८ ॥
एतस्मिन् विषमे काले नीलम् काकाः चकोरकाः ॥ कुर्वंति त्वाम् विना गेहान् कथम् शांतिम् अवाप्स्यसि ॥ ॥ १८ ॥
etasmin viṣame kāle nīlam kākāḥ cakorakāḥ .. kurvaṃti tvām vinā gehān katham śāṃtim avāpsyasi .. .. 18 ..
महतीवाद्य नो भीतिर्मा मेघोत्था पिनाकधृक् ॥ यतस्व यस्माद्वासाय माचिरं वचनान्मम ॥ १९ ॥
महती इव अद्य नः भीतिः मा मेघ-उत्था पिनाकधृक् ॥ यतस्व यस्मात् वासाय माचिरम् वचनात् मम ॥ १९ ॥
mahatī iva adya naḥ bhītiḥ mā megha-utthā pinākadhṛk .. yatasva yasmāt vāsāya māciram vacanāt mama .. 19 ..
कैलासे वा हिमाद्रौ वा महाकाश्यामथ क्षितौ ॥ तत्रोपयोग्यं संवासं कुरु त्वं वृषभध्वज ॥ 2.2.22.२० ॥
कैलासे वा हिमाद्रौ वा महाकाश्याम् अथ क्षितौ ॥ तत्र उपयोग्यम् संवासम् कुरु त्वम् वृषभध्वज ॥ २।२।२२।२० ॥
kailāse vā himādrau vā mahākāśyām atha kṣitau .. tatra upayogyam saṃvāsam kuru tvam vṛṣabhadhvaja .. 2.2.22.20 ..
।। ब्रह्मोवाच ।।
एवमुक्तस्तया शंभुर्दाक्षायण्या तथाऽसकृत ॥ संजहास च शीर्षस्थचन्द्ररश्मिस्मितालयम् ॥ २१ ॥
एवम् उक्तः तया शंभुः दाक्षायण्या तथा असकृत ॥ संजहास च शीर्ष-स्थ-चन्द्र-रश्मि-स्मित-आलयम् ॥ २१ ॥
evam uktaḥ tayā śaṃbhuḥ dākṣāyaṇyā tathā asakṛta .. saṃjahāsa ca śīrṣa-stha-candra-raśmi-smita-ālayam .. 21 ..
अथोवाच सतीं देवीं स्मितभिन्नौष्ठसंपुटः ॥ ।महात्मा सर्वतत्त्वज्ञस्तोषयन्परमेश्वरः ॥ २२ ॥
अथा उवाच सतीम् देवीम् स्मित-भिन्न-ओष्ठ-संपुटः ॥ ।महात्मा सर्व-तत्त्व-ज्ञः तोषयन् परमेश्वरः ॥ २२ ॥
athā uvāca satīm devīm smita-bhinna-oṣṭha-saṃpuṭaḥ .. .mahātmā sarva-tattva-jñaḥ toṣayan parameśvaraḥ .. 22 ..
यत्र प्रीत्यै मया कार्यो वासस्तव मनोहरे ॥ मेघास्तत्र न गंतारः कदाचिदपि मत्प्रिये ॥ २३ ॥
यत्र प्रीत्यै मया कार्यः वासः तव मनोहरे ॥ मेघाः तत्र न गंतारः कदाचिद् अपि मद्-प्रिये ॥ २३ ॥
yatra prītyai mayā kāryaḥ vāsaḥ tava manohare .. meghāḥ tatra na gaṃtāraḥ kadācid api mad-priye .. 23 ..
ईश्वरः उवाच ।।
मेघा नितंबपर्यंतं संचरंति महीभृतः ॥ सदा प्रालेयसानोस्तु वर्षास्वपि मनोहरे । ॥ २४ ॥
मेघाः नितंब-पर्यंतम् संचरंति महीभृतः ॥ सदा प्रालेय-सानोः तु वर्षासु अपि मनोहरे । ॥ २४ ॥
meghāḥ nitaṃba-paryaṃtam saṃcaraṃti mahībhṛtaḥ .. sadā prāleya-sānoḥ tu varṣāsu api manohare . .. 24 ..
कैलासस्य तथा देवि पादगाः प्रायशो घनाः ॥ संचरंति न गच्छंति तत ऊर्द्ध्वं कदाचन ॥ २५ ॥
कैलासस्य तथा देवि पाद-गाः प्रायशस् घनाः ॥ संचरंति न गच्छंति ततस् ऊर्द्ध्वम् कदाचन ॥ २५ ॥
kailāsasya tathā devi pāda-gāḥ prāyaśas ghanāḥ .. saṃcaraṃti na gacchaṃti tatas ūrddhvam kadācana .. 25 ..
सुमेरोर्वा गिरेरूर्द्ध्वं न गच्छंति बलाहकाः ॥ जम्बूमूलं समासाद्य पुष्करावर्तकादयः ॥ २६ ॥
सुमेरोः वा गिरेः ऊर्द्ध्वम् न गच्छन्ति बलाहकाः ॥ जम्बू-मूलम् समासाद्य पुष्करावर्तक-आदयः ॥ २६ ॥
sumeroḥ vā gireḥ ūrddhvam na gacchanti balāhakāḥ .. jambū-mūlam samāsādya puṣkarāvartaka-ādayaḥ .. 26 ..
इत्युक्तेषु गिरीन्द्रेषु यस्योपरि भवेद्धि ते ॥ मनोरुचिर्निवासाय तमाचक्ष्व द्रुतं हि मे ॥ २७ ॥
इति उक्तेषु गिरि-इन्द्रेषु यस्य उपरि भवेत् हि ते ॥ मनोरुचिः निवासाय तम् आचक्ष्व द्रुतम् हि मे ॥ २७ ॥
iti ukteṣu giri-indreṣu yasya upari bhavet hi te .. manoruciḥ nivāsāya tam ācakṣva drutam hi me .. 27 ..
स्वेच्छाविहारैस्तव कौतुकानि सुवर्णपक्षानिलवृन्दवृन्दैः ॥ शब्दोत्तरंगैर्मधुरस्वनैस्तैर्मुदोपगेयानि गिरौ हिमोत्थे ॥ २८ ॥
स्वेच्छा-विहारैः तव कौतुकानि सुवर्ण-पक्ष-अनिल-वृन्द-वृन्दैः ॥ शब्द-उत्तरंगैः मधुर-स्वनैः तैः मुदा उपगेयानि गिरौ हिम-उत्थे ॥ २८ ॥
svecchā-vihāraiḥ tava kautukāni suvarṇa-pakṣa-anila-vṛnda-vṛndaiḥ .. śabda-uttaraṃgaiḥ madhura-svanaiḥ taiḥ mudā upageyāni girau hima-utthe .. 28 ..
सिद्धाङ्गनास्ते रचितासना भुवमिच्छंति चैवोपहृतं सकौतुकम् ॥ स्वेच्छाविहारे मणिकुट्टिमे गिरौ कुर्वन्ति चेष्यंति फलादिदानकैः ॥ २९ ॥
सिद्ध-अङ्गनाः ते रचित-आसनाः भुवम् इच्छन्ति च एव उपहृतम् स कौतुकम् ॥ स्वेच्छा-विहारे मणि-कुट्टिमे गिरौ कुर्वन्ति चेष्यन्ति फल-आदि-दानकैः ॥ २९ ॥
siddha-aṅganāḥ te racita-āsanāḥ bhuvam icchanti ca eva upahṛtam sa kautukam .. svecchā-vihāre maṇi-kuṭṭime girau kurvanti ceṣyanti phala-ādi-dānakaiḥ .. 29 ..
फणीन्द्रकन्या गिरिकन्यकाश्च या नागकन्याश्च तुरंगमुख्याः ॥ सर्वास्तु तास्ते सततं सहायतां समाचरिष्यंत्यनुमोदविभ्रमैः ॥ 2.2.22.३० ॥
फणि-इन्द्र-कन्याः गिरि-कन्यकाः च याः नाग-कन्याः च तुरंग-मुख्याः ॥ सर्वाः तु ताः ते सततम् सहाय-ताम् समाचरिष्यंति अनुमोद-विभ्रमैः ॥ २।२।२२।३० ॥
phaṇi-indra-kanyāḥ giri-kanyakāḥ ca yāḥ nāga-kanyāḥ ca turaṃga-mukhyāḥ .. sarvāḥ tu tāḥ te satatam sahāya-tām samācariṣyaṃti anumoda-vibhramaiḥ .. 2.2.22.30 ..
रूपं तदेवमतुलं वदनं सुचारु दृष्ट्वांगना निजवपुर्निजकांतिसह्यम् ॥ हेला निजे वपुषि रूपगणेषु नित्यं कर्तार इत्यनिमिषेक्षणचारुरूपाः ॥ ३१ ॥
रूपम् तत् एवम् अतुलम् वदनम् सु चारु दृष्ट्वा अंगना निज-वपुः निज-कांति-सह्यम् ॥ हेला निजे वपुषि रूप-गणेषु नित्यम् कर्तारः इति अनिमिष-ईक्षण-चारु-रूपाः ॥ ३१ ॥
rūpam tat evam atulam vadanam su cāru dṛṣṭvā aṃganā nija-vapuḥ nija-kāṃti-sahyam .. helā nije vapuṣi rūpa-gaṇeṣu nityam kartāraḥ iti animiṣa-īkṣaṇa-cāru-rūpāḥ .. 31 ..
या मेनका पर्वतराज जाया रूपैर्गुणैः ख्यातवती त्रिलोके ॥ सा चापि ते तत्र मनोनुमोदं नित्यं करिष्यत्यनुनाथनाद्यैः ॥ ३२ ॥
या मेनका पर्वतराज जाया रूपैः गुणैः ख्यातवती त्रिलोके ॥ सा च अपि ते तत्र मनः-नुमोदम् नित्यम् करिष्यति अनुनाथन-आद्यैः ॥ ३२ ॥
yā menakā parvatarāja jāyā rūpaiḥ guṇaiḥ khyātavatī triloke .. sā ca api te tatra manaḥ-numodam nityam kariṣyati anunāthana-ādyaiḥ .. 32 ..
पुरं हि वर्गैर्गिंरिराजवंद्यैः प्रीतिं विचिन्वद्भिरुदाररूपा ॥ शिक्षा सदा ते खलु शोचितापि कार्याऽन्वहं प्रीतियुता गुणाद्यैः ॥ ३३ ॥
पुरम् हि वर्गैः गिंरि-राज-वंद्यैः प्रीतिम् विचिन्वद्भिः उदार-रूपा ॥ शिक्षा सदा ते खलु शोचिता अपि कार्या अन्वहम् प्रीति-युता गुण-आद्यैः ॥ ३३ ॥
puram hi vargaiḥ giṃri-rāja-vaṃdyaiḥ prītim vicinvadbhiḥ udāra-rūpā .. śikṣā sadā te khalu śocitā api kāryā anvaham prīti-yutā guṇa-ādyaiḥ .. 33 ..
विचित्रैः कोकिलालापमोदैः कुंजगणावृतम् ॥ सदा वसंतप्रभवं गंतुमिच्छसि किं प्रिये ॥ ३४ ॥
विचित्रैः कोकिल-आलाप-मोदैः कुंज-गण-आवृतम् ॥ सदा वसंतप्रभवम् गंतुम् इच्छसि किम् प्रिये ॥ ३४ ॥
vicitraiḥ kokila-ālāpa-modaiḥ kuṃja-gaṇa-āvṛtam .. sadā vasaṃtaprabhavam gaṃtum icchasi kim priye .. 34 ..
नानाबहुजलापूर्णसरश्शीत समावृतम् ॥ पद्मिनीशतशोयुक्तमचलेन्द्रं हिमालयम् ॥ ३५ ॥
नाना बहु-जल-आपूर्ण-सरः-शीत समावृतम् ॥ पद्मिनी-शतशस् युक्तम् अचल-इन्द्रम् हिमालयम् ॥ ३५ ॥
nānā bahu-jala-āpūrṇa-saraḥ-śīta samāvṛtam .. padminī-śataśas yuktam acala-indram himālayam .. 35 ..
सर्वकामप्रदैर्वृक्षैश्शाद्वलैः कल्पसंज्ञकैः ॥ सक्षणं पश्य कुसुमान्यथाश्वकरि गोव्रजे ॥ ३६ ॥
सर्व-काम-प्रदैः वृक्षैः शाद्वलैः कल्प-संज्ञकैः ॥ सक्षणम् पश्य कुसुमानि अथ अश्वकरि गोव्रजे ॥ ३६ ॥
sarva-kāma-pradaiḥ vṛkṣaiḥ śādvalaiḥ kalpa-saṃjñakaiḥ .. sakṣaṇam paśya kusumāni atha aśvakari govraje .. 36 ..
प्रशांतश्वापदगणं मुनिभिर्यतिभिर्वृतम् ॥ देवालयं महामाये नानामृगगणैर्युतम् ॥ ३७ ॥
प्रशांत-श्वापद-गणम् मुनिभिः यतिभिः वृतम् ॥ देवालयम् महामाये नाना मृग-गणैः युतम् ॥ ३७ ॥
praśāṃta-śvāpada-gaṇam munibhiḥ yatibhiḥ vṛtam .. devālayam mahāmāye nānā mṛga-gaṇaiḥ yutam .. 37 ..
स्फटिक स्वर्णवप्राद्यै राजतैश्च विराजितम् ॥ मानसादिसरोरंगैरभितः परिशोभितम् ॥ ३८ ॥
राजतैः च विराजितम् ॥ मानस-आदि-सरोरंगैः अभितस् परिशोभितम् ॥ ३८ ॥
rājataiḥ ca virājitam .. mānasa-ādi-saroraṃgaiḥ abhitas pariśobhitam .. 38 ..
हिरण्मयै रत्ननालैः पंकजैर्मुकुलैर्वृतम् ॥ शिशुमारैस्तथासंख्यैः कच्छपैर्मकरैः करैः ॥ ३९ ॥
रत्न-नालैः पंकजैः मुकुलैः वृतम् ॥ शिशुमारैः तथा असंख्यैः कच्छपैः मकरैः करैः ॥ ३९ ॥
ratna-nālaiḥ paṃkajaiḥ mukulaiḥ vṛtam .. śiśumāraiḥ tathā asaṃkhyaiḥ kacchapaiḥ makaraiḥ karaiḥ .. 39 ..
निषेवितं मंजुलैश्च तथा नीलोत्पलादिभिः ॥ देवेशि तस्मान्मुक्तैश्च सर्वगंधैश्च कुंकुमैः ॥ 2.2.22.४० ॥
निषेवितम् मंजुलैः च तथा नीलोत्पल-आदिभिः ॥ देवेशि तस्मात् मुक्तैः च सर्व-गंधैः च कुंकुमैः ॥ २।२।२२।४० ॥
niṣevitam maṃjulaiḥ ca tathā nīlotpala-ādibhiḥ .. deveśi tasmāt muktaiḥ ca sarva-gaṃdhaiḥ ca kuṃkumaiḥ .. 2.2.22.40 ..
लसद्गंधजलैः शुभ्रैरापूर्णैः स्वच्छकांतिभिः ॥ शाद्वलैस्तरुणैस्तुंगैस्तीरस्थैरुपशोभितम् ॥ ४१ ॥
लसत्-गंध-जलैः शुभ्रैः आपूर्णैः सु अच्छ-कांतिभिः ॥ शाद्वलैः तरुणैः तुंगैः तीर-स्थैः उपशोभितम् ॥ ४१ ॥
lasat-gaṃdha-jalaiḥ śubhraiḥ āpūrṇaiḥ su accha-kāṃtibhiḥ .. śādvalaiḥ taruṇaiḥ tuṃgaiḥ tīra-sthaiḥ upaśobhitam .. 41 ..
नृत्यद्भिरिव शाखोटैर्वर्जयंतं स्वसंभवम् ॥ कामदेवैस्सारसैश्च मत्तचक्रांगशोभितैः ॥ ४२ ॥
नृत्यद्भिः इव शाखोटैः वर्जयंतम् स्व-संभवम् ॥ कामदेवैः सारसैः च मत्त-चक्र-अंग-शोभितैः ॥ ४२ ॥
nṛtyadbhiḥ iva śākhoṭaiḥ varjayaṃtam sva-saṃbhavam .. kāmadevaiḥ sārasaiḥ ca matta-cakra-aṃga-śobhitaiḥ .. 42 ..
मधुराराविभिर्मोदकारिभिर्भ्रमरादिभिः ॥ शब्दायमानं च मुदा कामोद्दीपनकारकम् ॥ ४३ ॥
मधुर-आराविभिः मोद-कारिभिः भ्रमर-आदिभिः ॥ शब्दायमानम् च मुदा काम-उद्दीपन-कारकम् ॥ ४३ ॥
madhura-ārāvibhiḥ moda-kāribhiḥ bhramara-ādibhiḥ .. śabdāyamānam ca mudā kāma-uddīpana-kārakam .. 43 ..
वासवस्य कुबेरस्य यमस्य वरुणस्य च ॥ अग्नेः कोणपराजस्य मारुतस्य परस्य च ॥ ४४ ॥
वासवस्य कुबेरस्य यमस्य वरुणस्य च ॥ अग्नेः कोणप-राजस्य मारुतस्य परस्य च ॥ ४४ ॥
vāsavasya kuberasya yamasya varuṇasya ca .. agneḥ koṇapa-rājasya mārutasya parasya ca .. 44 ..
पुरीभिश्शोभिशिखरं मेरोरुच्चैस्सुरालयम् ॥ रंभाशचीमेनकादिरंभोरुगणसेवितम् ॥ ॥ ४५ ॥
पुरीभिः शोभि-शिखरम् मेरोः उच्चैस् सुरालयम् ॥ ॥ ॥ ४५ ॥
purībhiḥ śobhi-śikharam meroḥ uccais surālayam .. .. .. 45 ..
किं त्वमिच्छसि सर्वेषां पर्वतानां हि भूभृताम् ॥ सारभूते महारम्ये संविहर्तुं महागिरौ ॥ ४६ ॥
किम् त्वम् इच्छसि सर्वेषाम् पर्वतानाम् हि भूभृताम् ॥ सार-भूते महा-रम्ये संविहर्तुम् महा-गिरौ ॥ ४६ ॥
kim tvam icchasi sarveṣām parvatānām hi bhūbhṛtām .. sāra-bhūte mahā-ramye saṃvihartum mahā-girau .. 46 ..
तत्र देवी सखियुता साप्सरोगणमंडिता ॥ नित्यं करिष्यति शची तव योग्यां सहायताम्॥ ४७॥
तत्र देवी सखि-युता स अप्सरः-गण-मंडिता ॥ नित्यम् करिष्यति शची तव योग्याम् सहाय-ताम्॥ ४७॥
tatra devī sakhi-yutā sa apsaraḥ-gaṇa-maṃḍitā .. nityam kariṣyati śacī tava yogyām sahāya-tām.. 47..
अथवा मम कैलासे पर्वतेंद्रे सदाश्रये ॥ स्थानमिच्छसि वित्तेशपुरीपरिविराजिते ॥ ४८॥
अथवा मम कैलासे पर्वत-इंद्रे सत्-आश्रये ॥ स्थानम् इच्छसि वित्तेश-पुरी-परिविराजिते ॥ ४८॥
athavā mama kailāse parvata-iṃdre sat-āśraye .. sthānam icchasi vitteśa-purī-parivirājite .. 48..
गंगाजलौघप्रयते पूर्णचन्द्रसमप्रभे ॥ दरीषु सानुषु सदा ब्रह्मकन्याभ्युदीरिते ॥ ४९॥
गंगा-जल-ओघ-प्रयते पूर्ण-चन्द्र-सम-प्रभे ॥ दरीषु सानुषु सदा ब्रह्म-कन्या-अभ्युदीरिते ॥ ४९॥
gaṃgā-jala-ogha-prayate pūrṇa-candra-sama-prabhe .. darīṣu sānuṣu sadā brahma-kanyā-abhyudīrite .. 49..
नानामृगगणैर्युक्ते पद्माकरशतावृते ॥ सर्वैर्गुणैश्च सद्वस्तुसुमेरोरपि सुंदरि ॥ 2.2.22.५०॥
नाना मृग-गणैः युक्ते पद्म-आकर-शत-आवृते ॥ सर्वैः गुणैः च सत्-वस्तु-सुमेरोः अपि सुंदरि ॥ २।२।२२।५०॥
nānā mṛga-gaṇaiḥ yukte padma-ākara-śata-āvṛte .. sarvaiḥ guṇaiḥ ca sat-vastu-sumeroḥ api suṃdari .. 2.2.22.50..
स्थानेष्वेतेषु यत्रापि तवांतःकरणे स्पृहा ॥ तं द्रुतं मे समाचक्ष्व वासकर्तास्मि तत्र ते ॥ ५१ ॥
स्थानेषु एतेषु यत्र अपि तव अंतःकरणे स्पृहा ॥ तम् द्रुतम् मे समाचक्ष्व वास-कर्तास्मि तत्र ते ॥ ५१ ॥
sthāneṣu eteṣu yatra api tava aṃtaḥkaraṇe spṛhā .. tam drutam me samācakṣva vāsa-kartāsmi tatra te .. 51 ..
ब्रह्मोवाच ।।
इतीरिते शंकरेण तदा दाक्षायणी शनैः ॥ इदमाह महादेवं लक्षणं स्वप्रकाशनम् ॥ ५२ ॥
इति ईरिते शंकरेण तदा दाक्षायणी शनैस् ॥ इदम् आह महादेवम् लक्षणम् स्व-प्रकाशनम् ॥ ५२ ॥
iti īrite śaṃkareṇa tadā dākṣāyaṇī śanais .. idam āha mahādevam lakṣaṇam sva-prakāśanam .. 52 ..
।। सत्युवाच ।।
हिमाद्रावेव वसितुमहमिच्छे त्वया सह ॥ न चिरात्कुरु संवासं तस्मिन्नेव महागिरौ ॥ ५३ ॥
हिमाद्रवे एव वसितुम् अहम् इच्छे त्वया सह ॥ न चिरात् कुरु संवासम् तस्मिन् एव महा-गिरौ ॥ ५३ ॥
himādrave eva vasitum aham icche tvayā saha .. na cirāt kuru saṃvāsam tasmin eva mahā-girau .. 53 ..
ब्रह्मोवाच ।।
अथ तद्वाक्यमाकर्ण्य हरः परममोहितः ॥ हिमाद्रिशिखरं तुंगं दाक्षायण्या समं ययौ ॥ ५४ ॥
अथ तद्-वाक्यम् आकर्ण्य हरः परम-मोहितः ॥ हिमाद्रि-शिखरम् तुंगम् दाक्षायण्या समम् ययौ ॥ ५४ ॥
atha tad-vākyam ākarṇya haraḥ parama-mohitaḥ .. himādri-śikharam tuṃgam dākṣāyaṇyā samam yayau .. 54 ..
सिद्धांगनागणयुतमगम्यं चैव पक्षिभिः ॥ अगमच्छिखरं रम्यं सरसीवनराजितम् ॥ ५५ ॥
सिद्ध-अंगना-गण-युतम् अगम्यम् च एव पक्षिभिः ॥ अगमत् शिखरम् रम्यम् सरसी-वन-राजितम् ॥ ५५ ॥
siddha-aṃganā-gaṇa-yutam agamyam ca eva pakṣibhiḥ .. agamat śikharam ramyam sarasī-vana-rājitam .. 55 ..
विचित्ररूपैः कमलैः शिखरं रत्नकर्बुरम्॥ बालार्कसदृशं शंभुराससाद सतीसखः॥ ५६॥
विचित्र-रूपैः कमलैः शिखरम् रत्न-कर्बुरम्॥ बाल-अर्क-सदृशम् शंभुः आससाद सती-सखः॥ ५६॥
vicitra-rūpaiḥ kamalaiḥ śikharam ratna-karburam.. bāla-arka-sadṛśam śaṃbhuḥ āsasāda satī-sakhaḥ.. 56..
स्फटिकाभ्रमये तस्मिन् शादवलद्रुमराजितेविचित्रपुष्पावलिभिस्सरसोभिश्च संयुते॥ ५७॥
स्फटिक-अभ्र-मये तस्मिन् संयुते॥ ५७॥
sphaṭika-abhra-maye tasmin saṃyute.. 57..
प्रफुल्लतरुशाखाग्रं गुंजद्भ्रमरसेवितम्।पंकेरुहैः प्रफुल्लैश्च नीलोत्पलचयैस्तथा॥ ५८॥
प्रफुल्ल-तरु-शाखा-अग्रम् गुंजत्-भ्रमर-सेवितम्।पंकेरुहैः प्रफुल्लैः च नीलोत्पल-चयैः तथा॥ ५८॥
praphulla-taru-śākhā-agram guṃjat-bhramara-sevitam.paṃkeruhaiḥ praphullaiḥ ca nīlotpala-cayaiḥ tathā.. 58..
शोभितं चक्रवाकाद्यैः कादंबैर्हंसशंकुभिः॥ प्रमत्तसारसैः क्रौंचैर्नीलस्कंधैश्च शब्दितैः॥ ५९॥
शोभितम् चक्रवाक-आद्यैः कादंबैः हंस-शंकुभिः॥ प्रमत्त-सारसैः क्रौंचैः नीलस्कंधैः च शब्दितैः॥ ५९॥
śobhitam cakravāka-ādyaiḥ kādaṃbaiḥ haṃsa-śaṃkubhiḥ.. pramatta-sārasaiḥ krauṃcaiḥ nīlaskaṃdhaiḥ ca śabditaiḥ.. 59..
पुंस्कोकिलानां निनदैर्मधुरैर्गणसेवितैः॥ तुरंगवदनैस्सिद्धैरप्सरोभिश्च गुह्यकैः॥ 2.2.22.६०॥
पुंस्कोकिलानाम् निनदैः मधुरैः गण-सेवितैः॥ तुरंग-वदनैः सिद्धैः अप्सरोभिः च गुह्यकैः॥ २।२।२२।६०॥
puṃskokilānām ninadaiḥ madhuraiḥ gaṇa-sevitaiḥ.. turaṃga-vadanaiḥ siddhaiḥ apsarobhiḥ ca guhyakaiḥ.. 2.2.22.60..
विद्याधरीभिर्देवीभिः किन्नरीभिर्विहारितम्॥ पुरंध्रीभिः पार्वतीभिः कन्याभिरभिसंगतम्॥ ६१॥
विद्याधरीभिः देवीभिः किन्नरीभिः विहारितम्॥ पुरंध्रीभिः पार्वतीभिः कन्याभिः अभिसंगतम्॥ ६१॥
vidyādharībhiḥ devībhiḥ kinnarībhiḥ vihāritam.. puraṃdhrībhiḥ pārvatībhiḥ kanyābhiḥ abhisaṃgatam.. 61..
विपंचीतांत्रिकामत्तमृदंगपटहस्वनैः।नृत्यद्भिरप्सरोभिश्च कौतुकोत्थैश्च शोभितम् ॥ ६२ ॥
विपंची-तांत्रिका-मत्त-मृदंग-पटह-स्वनैः।नृत्यद्भिः अप्सरोभिः च कौतुक-उत्थैः च शोभितम् ॥ ६२ ॥
vipaṃcī-tāṃtrikā-matta-mṛdaṃga-paṭaha-svanaiḥ.nṛtyadbhiḥ apsarobhiḥ ca kautuka-utthaiḥ ca śobhitam .. 62 ..
देविकाभिर्दीर्घिकाभिर्गंधिभिस्सुसमावृतम् ॥ प्रफुल्लकुसुमैर्नित्यं सकुंजैरुपशोभितम् ॥ ६३॥
देविकाभिः दीर्घिकाभिः गंधिभिः सु समावृतम् ॥ प्रफुल्ल-कुसुमैः नित्यम् स कुंजैः उपशोभितम् ॥ ६३॥
devikābhiḥ dīrghikābhiḥ gaṃdhibhiḥ su samāvṛtam .. praphulla-kusumaiḥ nityam sa kuṃjaiḥ upaśobhitam .. 63..
शैलराजपुराभ्यर्णे शिखरे वृषभध्वजः ॥ सह सत्या चिरं रेमे एवंभूतेषु शोभनम् ॥ ॥ ६४ ॥
शैलराज-पुर-अभ्यर्णे शिखरे वृषभध्वजः ॥ सह सत्या चिरम् रेमे एवंभूतेषु शोभनम् ॥ ॥ ६४ ॥
śailarāja-pura-abhyarṇe śikhare vṛṣabhadhvajaḥ .. saha satyā ciram reme evaṃbhūteṣu śobhanam .. .. 64 ..
तस्मिन्स्वर्गसमे स्थाने दिव्यमानेन शंकरः ॥ दशवर्षसहस्राणि रेमे सत्या समं मुदा ॥ ६५ ॥
तस्मिन् स्वर्ग-समे स्थाने दिव्य-मानेन शंकरः ॥ दश-वर्ष-सहस्राणि रेमे सत्या समम् मुदा ॥ ६५ ॥
tasmin svarga-same sthāne divya-mānena śaṃkaraḥ .. daśa-varṣa-sahasrāṇi reme satyā samam mudā .. 65 ..
स कदाचित्ततस्स्थानादन्यद्याति स्थलं हरः ॥ कदाचिन्मेरुशिखरं देवी देववृतं सदा ॥ ६६॥
स कदाचिद् ततस् स्थानात् अन्यत् याति स्थलम् हरः ॥ कदाचिद् मेरु-शिखरम् देवी देव-वृतम् सदा ॥ ६६॥
sa kadācid tatas sthānāt anyat yāti sthalam haraḥ .. kadācid meru-śikharam devī deva-vṛtam sadā .. 66..
द्वीपान्नाना तथोद्यानवनानि वसुधातलम्॥ गत्वागत्वा पुनस्तत्राभ्येत्य रेमे सतीसुखम् ॥ ६७॥
द्वीपान् नाना तथा उद्यान-वनानि वसुधा-तलम्॥ गत्वा अ गत्वा पुनर् तत्र अभ्येत्य रेमे सती-सुखम् ॥ ६७॥
dvīpān nānā tathā udyāna-vanāni vasudhā-talam.. gatvā a gatvā punar tatra abhyetya reme satī-sukham .. 67..
न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपस्समम् ॥ सत्यां हि मनसा शंभुः प्रीतिमेव चकार ह ॥ ६८॥
न जज्ञे स दिवा रात्रौ न ब्रह्मणि तपः समम् ॥ सत्याम् हि मनसा शंभुः प्रीतिम् एव चकार ह ॥ ६८॥
na jajñe sa divā rātrau na brahmaṇi tapaḥ samam .. satyām hi manasā śaṃbhuḥ prītim eva cakāra ha .. 68..
एवं महादेवमुखं सत्यपश्यत्स्म सर्वदा ॥ महादेवोऽपि सर्वत्र सदाद्राक्षीत्सतीमुखम् ॥ ६९॥
एवम् महादेव-मुखम् सती अपश्यत् स्म सर्वदा ॥ महादेवः अपि सर्वत्र सदा अद्राक्षीत् सती-मुखम् ॥ ६९॥
evam mahādeva-mukham satī apaśyat sma sarvadā .. mahādevaḥ api sarvatra sadā adrākṣīt satī-mukham .. 69..
एवमन्योन्यसंसर्गादनुरागमहीरुहम् ॥ वर्द्धयामासतुः कालीशिवौ भावांबुसेचनैः ॥ 2.2.22.७० ॥
एवम् अन्योन्य-संसर्गात् अनुराग-महीरुहम् ॥ वर्द्धयामासतुः काली-शिवौ भाव-अंबु-सेचनैः ॥ २।२।२२।७० ॥
evam anyonya-saṃsargāt anurāga-mahīruham .. varddhayāmāsatuḥ kālī-śivau bhāva-aṃbu-secanaiḥ .. 2.2.22.70 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे शिवाशिवविहारवर्णनं नाम द्वाविंशोऽध्यायः ॥ २२॥
इति श्री-शिवमहापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे शिवाशिवविहारवर्णनम् नाम द्वाविंशः अध्यायः ॥ २२॥
iti śrī-śivamahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe śivāśivavihāravarṇanam nāma dvāviṃśaḥ adhyāyaḥ .. 22..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In