| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
एवं कृत्वा विहारं वै शंकरेण च सा सती ॥ संतुष्टा साभवच्चाति विरागा समजायत ॥ १ ॥
एवम् कृत्वा विहारम् वै शंकरेण च सा सती ॥ संतुष्टा सा अभवत् च अति विरागा समजायत ॥ १ ॥
evam kṛtvā vihāram vai śaṃkareṇa ca sā satī .. saṃtuṣṭā sā abhavat ca ati virāgā samajāyata .. 1 ..
एकस्मिन्दिवसे देवी सती रहसि संगता ॥ शिवं प्रणम्य सद्भक्त्या न्यस्योच्चैः सुकृतांजलिः ॥ २ ॥
एकस्मिन् दिवसे देवी सती रहसि संगता ॥ शिवम् प्रणम्य सत्-भक्त्या न्यस्य उच्चैस् सु कृतांजलिः ॥ २ ॥
ekasmin divase devī satī rahasi saṃgatā .. śivam praṇamya sat-bhaktyā nyasya uccais su kṛtāṃjaliḥ .. 2 ..
सुप्रसन्नं प्रभुं नत्वा सा दक्षतनया सती ॥ उवाच सांजलिर्भक्त्या विनयावनता ततः ॥ ३ ॥
सु प्रसन्नम् प्रभुम् नत्वा सा दक्ष-तनया सती ॥ उवाच स अंजलिः भक्त्या विनय-अवनता ततस् ॥ ३ ॥
su prasannam prabhum natvā sā dakṣa-tanayā satī .. uvāca sa aṃjaliḥ bhaktyā vinaya-avanatā tatas .. 3 ..
सत्युवाच ।।
देवदेव महादेव करुणा सागर प्रभो ॥ दीनोद्धर महायोगिन् कृपां कुरु ममोपरि ॥ ४॥
देवदेव महादेव करुणा-सागर प्रभो ॥ दीन उद्धर महायोगिन् कृपाम् कुरु मम उपरि ॥ ४॥
devadeva mahādeva karuṇā-sāgara prabho .. dīna uddhara mahāyogin kṛpām kuru mama upari .. 4..
त्वं परः पुरुषस्स्वामी रजस्सत्त्वतमः परः ॥ निर्गुणस्सगुणस्साक्षी निर्विकारी महाप्रभुः ॥ ५ ॥
त्वम् परः पुरुषः स्वामी रजः सत्त्व-तमः परः ॥ निर्गुणः स गुणः साक्षी निर्विकारी महा-प्रभुः ॥ ५ ॥
tvam paraḥ puruṣaḥ svāmī rajaḥ sattva-tamaḥ paraḥ .. nirguṇaḥ sa guṇaḥ sākṣī nirvikārī mahā-prabhuḥ .. 5 ..
धन्याहं ते प्रिया जाता कामिनी सुविहारिणी ॥ जातस्त्वं मे पतिस्स्वामिन्भक्तिवात्सल्यतो हर ॥ ६ ॥
धन्या अहम् ते प्रिया जाता कामिनी सु विहारिणी ॥ जातः त्वम् मे पतिः स्वामिन् भक्ति-वात्सल्यतः हर ॥ ६ ॥
dhanyā aham te priyā jātā kāminī su vihāriṇī .. jātaḥ tvam me patiḥ svāmin bhakti-vātsalyataḥ hara .. 6 ..
कृतो बहुसमा नाथ विहारः परमस्त्वया ॥ संतुष्टाहं महेशान निवृत्तं मे मनस्ततः ॥ ७॥
कृतः बहु-समाः नाथ विहारः परमः त्वया ॥ संतुष्टा अहम् महेशान निवृत्तम् मे मनः ततस् ॥ ७॥
kṛtaḥ bahu-samāḥ nātha vihāraḥ paramaḥ tvayā .. saṃtuṣṭā aham maheśāna nivṛttam me manaḥ tatas .. 7..
ज्ञातुमिच्छामि देवेश परं तत्त्वं सुखावहम् ॥ यं न संसारदुःखाद्वै तरेज्जीवोंजसा हर ॥ ८॥
ज्ञातुम् इच्छामि देवेश परम् तत्त्वम् सुख-आवहम् ॥ यम् न संसार-दुःखात् वै तरेत् जीव ओंजसा हर ॥ ८॥
jñātum icchāmi deveśa param tattvam sukha-āvaham .. yam na saṃsāra-duḥkhāt vai taret jīva oṃjasā hara .. 8..
यत्कृत्वा विषयी जीवस्स लभेत्परमं पदम् ॥ संसारी न भवेन्नाथ तत्त्वं वद कृपां कुरु ॥ ९॥
यत् कृत्वा विषयी जीवः स लभेत् परमम् पदम् ॥ संसारी न भवेत् नाथ तत्त्वम् वद कृपाम् कुरु ॥ ९॥
yat kṛtvā viṣayī jīvaḥ sa labhet paramam padam .. saṃsārī na bhavet nātha tattvam vada kṛpām kuru .. 9..
ब्रह्मोवाच।।
इत्यपृच्छत्स्म सद्भक्त्या शंकरं सा सती मुने ॥ आदिशक्तिर्महेशानी जीवोद्धाराय केवलम् ॥ 2.2.23.१०।
इति अपृच्छत् स्म सत्-भक्त्या शंकरम् सा सती मुने ॥ आदिशक्तिः महेशानी जीव-उद्धाराय केवलम् ॥ २।२।२३।१०।
iti apṛcchat sma sat-bhaktyā śaṃkaram sā satī mune .. ādiśaktiḥ maheśānī jīva-uddhārāya kevalam .. 2.2.23.10.
आकर्ण्य तच्छिवः स्वामी स्वेच्छयोपात्तविग्रहः ॥ अवोचत्परमप्रीतस्सतीं योगविरक्तधीः ॥ ११ ॥
आकर्ण्य तत् शिवः स्वामी स्व-इच्छया उपात्त-विग्रहः ॥ अवोचत् परम-प्रीतः सतीम् योग-विरक्त-धीः ॥ ११ ॥
ākarṇya tat śivaḥ svāmī sva-icchayā upātta-vigrahaḥ .. avocat parama-prītaḥ satīm yoga-virakta-dhīḥ .. 11 ..
।। शिव उवाच ।।
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ॥ परं तत्त्वं तदेवानुशयी मुक्तो भवेद्यतः ॥ १२ ।
शृणु देवि प्रवक्ष्यामि दाक्षायणि महेश्वरि ॥ परम् तत्त्वम् तत् एव अनुशयी मुक्तः भवेत् यतस् ॥ १२ ।
śṛṇu devi pravakṣyāmi dākṣāyaṇi maheśvari .. param tattvam tat eva anuśayī muktaḥ bhavet yatas .. 12 .
परतत्त्वं विजानीहि विज्ञानं परमेश्वरी ॥ द्वितीयं स्मरणं यत्र नाहं ब्रह्मेति शुद्धधीः ॥ १३॥
पर-तत्त्वम् विजानीहि विज्ञानम् परमेश्वरी ॥ द्वितीयम् स्मरणम् यत्र न अहम् ब्रह्म इति शुद्ध-धीः ॥ १३॥
para-tattvam vijānīhi vijñānam parameśvarī .. dvitīyam smaraṇam yatra na aham brahma iti śuddha-dhīḥ .. 13..
तद्दुर्लभं त्रिलोकेस्मिंस्तज्ज्ञाता विरलः प्रिये ॥ यादृशो यस्सदासोहं ब्रह्मसाक्षात्परात्परः ॥ १४ ॥
तत् दुर्लभम् त्रिलोके इस्मिन् तद्-ज्ञाता विरलः प्रिये ॥ यादृशः यः सदा सः उहम् ब्रह्म-साक्षात् परात्परः ॥ १४ ॥
tat durlabham triloke ismin tad-jñātā viralaḥ priye .. yādṛśaḥ yaḥ sadā saḥ uham brahma-sākṣāt parātparaḥ .. 14 ..
तन्माता मम भक्तिश्च भुक्तिमुक्तिफलप्रदा ॥ सुलभा मत्प्रसादाद्धि नवधा सा प्रकीर्तिता ॥ १५ ॥
तद्-माता मम भक्तिः च भुक्ति-मुक्ति-फल-प्रदा ॥ सुलभा मद्-प्रसादात् हि नवधा सा प्रकीर्तिता ॥ १५ ॥
tad-mātā mama bhaktiḥ ca bhukti-mukti-phala-pradā .. sulabhā mad-prasādāt hi navadhā sā prakīrtitā .. 15 ..
भक्तौ ज्ञाने न भेदो हि तत्कर्तुस्सर्वदा सुखम् ॥ विज्ञानं न भवत्येव सति भक्तिविरोधिनः ॥ १६ ॥
भक्तौ ज्ञाने न भेदः हि तद्-कर्तुः सर्वदा सुखम् ॥ विज्ञानम् न भवति एव सति भक्ति-विरोधिनः ॥ १६ ॥
bhaktau jñāne na bhedaḥ hi tad-kartuḥ sarvadā sukham .. vijñānam na bhavati eva sati bhakti-virodhinaḥ .. 16 ..
भक्त्या हीनस्सदाहं वै तत्प्रभावाद्गृहेष्वपि ॥ नीचानां जातिहीनानां यामि देवि न संशयः ॥ १७ ॥
भक्त्या हीनः सदा अहम् वै तद्-प्रभावात् गृहेषु अपि ॥ नीचानाम् जाति-हीनानाम् यामि देवि न संशयः ॥ १७ ॥
bhaktyā hīnaḥ sadā aham vai tad-prabhāvāt gṛheṣu api .. nīcānām jāti-hīnānām yāmi devi na saṃśayaḥ .. 17 ..
सा भक्तिर्द्विविधा देवि सगुणा निर्गुणा मता ॥ वैधी स्वाभाविकी या या वरा सा त्ववरा स्मृता ॥ १८ ॥
सा भक्तिः द्विविधा देवि सगुणा निर्गुणा मता ॥ वैधी स्वाभाविकी या या वरा सा तु अवरा स्मृता ॥ १८ ॥
sā bhaktiḥ dvividhā devi saguṇā nirguṇā matā .. vaidhī svābhāvikī yā yā varā sā tu avarā smṛtā .. 18 ..
नैष्ठिक्या नैष्ठिकी भेदाद्द्विविधे द्विविधे हि ते ॥ षड्विधा नैष्ठिकी ज्ञेया द्वितीयैकविधा स्मृता ॥ १९ ॥
नैष्ठिक्याः नैष्ठिकी भेदात् द्विविधे द्विविधे हि ते ॥ षड्विधा नैष्ठिकी ज्ञेया द्वितीया एकविधा स्मृता ॥ १९ ॥
naiṣṭhikyāḥ naiṣṭhikī bhedāt dvividhe dvividhe hi te .. ṣaḍvidhā naiṣṭhikī jñeyā dvitīyā ekavidhā smṛtā .. 19 ..
विहिताविहिताभेदात्तामनेकां विदुर्बुधाः ॥ तयोर्बहुविधत्वाच्च तत्त्वं त्वन्यत्र वर्णितम् ॥ 2.2.23.२० ॥
विहित-अ विहित-अभेदात् ताम् अनेकाम् विदुः बुधाः ॥ तयोः बहुविध-त्वात् च तत्त्वम् तु अन्यत्र वर्णितम् ॥ २।२।२३।२० ॥
vihita-a vihita-abhedāt tām anekām viduḥ budhāḥ .. tayoḥ bahuvidha-tvāt ca tattvam tu anyatra varṇitam .. 2.2.23.20 ..
ते नवांगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ॥ वर्णयामि नवांगानि प्रेमतः शृणु दक्षजे ॥ २१ ॥
ते नव-अंगे उभे ज्ञेये वर्णिते मुनिभिः प्रिये ॥ वर्णयामि नव-अंगानि प्रेमतः शृणु दक्ष-जे ॥ २१ ॥
te nava-aṃge ubhe jñeye varṇite munibhiḥ priye .. varṇayāmi nava-aṃgāni premataḥ śṛṇu dakṣa-je .. 21 ..
श्रवणं कीर्तनं चैव स्मरणं सेवनं तथा ॥ दास्यं तथार्चनं देवि वंदनं मम सर्वदा ॥ २२ ॥
श्रवणम् कीर्तनम् च एव स्मरणम् सेवनम् तथा ॥ दास्यम् तथा अर्चनम् देवि वंदनम् मम सर्वदा ॥ २२ ॥
śravaṇam kīrtanam ca eva smaraṇam sevanam tathā .. dāsyam tathā arcanam devi vaṃdanam mama sarvadā .. 22 ..
सख्यमात्मार्पणं चेति नवांगानि विदुर्बुधाः ॥ उपांगानि शिवे तस्या बहूनि कथितानि वै ॥ २३ ॥
सख्यम् आत्म-अर्पणम् च इति नव अंगानि विदुः बुधाः ॥ उपांगानि शिवे तस्याः बहूनि कथितानि वै ॥ २३ ॥
sakhyam ātma-arpaṇam ca iti nava aṃgāni viduḥ budhāḥ .. upāṃgāni śive tasyāḥ bahūni kathitāni vai .. 23 ..
शृणु देवि नवांगानां लक्षणानि पृथक्पृथक् ॥ मम भक्तेर्मनो दत्त्वा भक्ति मुक्तिप्रदानि हि ॥ २४ ॥
शृणु देवि नव-अंगानाम् लक्षणानि पृथक् पृथक् ॥ मम भक्तेः मनः दत्त्वा भक्ति मुक्ति-प्रदानि हि ॥ २४ ॥
śṛṇu devi nava-aṃgānām lakṣaṇāni pṛthak pṛthak .. mama bhakteḥ manaḥ dattvā bhakti mukti-pradāni hi .. 24 ..
कथादेर्नित्यसम्मानं कुर्वन्देहादिभिर्मुदा ॥ स्थिरासनेन तत्पानं यत्तच्छ्रवणमुच्यते ॥ २५ ॥
कथा-आदेः नित्य-सम्मानम् कुर्वन् देह-आदिभिः मुदा ॥ स्थिर-आसनेन तत् पानम् यत् तत् श्रवणम् उच्यते ॥ २५ ॥
kathā-ādeḥ nitya-sammānam kurvan deha-ādibhiḥ mudā .. sthira-āsanena tat pānam yat tat śravaṇam ucyate .. 25 ..
हृदाकाशेन संपश्यञ् जन्मकर्माणि वै मम ॥ प्रीत्याचोच्चारणं तेषामेतत्कीर्तनमुच्यते ॥ २६ ॥
हृद्-आकाशेन संपश्यन् जन्म-कर्माणि वै मम ॥ प्रीत्या च उच्चारणम् तेषाम् एतत् कीर्तनम् उच्यते ॥ २६ ॥
hṛd-ākāśena saṃpaśyan janma-karmāṇi vai mama .. prītyā ca uccāraṇam teṣām etat kīrtanam ucyate .. 26 ..
व्यापकं देवि मां दृष्ट्वा नित्यं सर्वत्र सर्वदा ॥ निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २७ ॥
व्यापकम् देवि माम् दृष्ट्वा नित्यम् सर्वत्र सर्वदा ॥ निर्भय-त्वम् सदा लोके स्मरणम् तत् उदाहृतम् ॥ २७ ॥
vyāpakam devi mām dṛṣṭvā nityam sarvatra sarvadā .. nirbhaya-tvam sadā loke smaraṇam tat udāhṛtam .. 27 ..
अरुणोदयमारभ्य सेवाकालेंचिता हृदा ॥ निर्भयत्वं सदा लोके स्मरणं तदुदाहृतम् ॥ २८ ॥
अरुण-उदयम् आरभ्य सेवा-काल-इंचिता हृदा ॥ निर्भय-त्वम् सदा लोके स्मरणम् तत् उदाहृतम् ॥ २८ ॥
aruṇa-udayam ārabhya sevā-kāla-iṃcitā hṛdā .. nirbhaya-tvam sadā loke smaraṇam tat udāhṛtam .. 28 ..
सदा सेव्यानुकूल्येन सेवनं तद्धि गोगणैः ॥ हृदयामृतभोगेन प्रियं दास्यमुदाहृतम् ॥ २९॥
सदा सेव्य-आनुकूल्येन सेवनम् तत् हि गो-गणैः ॥ हृदय-अमृत-भोगेन प्रियम् दास्यम् उदाहृतम् ॥ २९॥
sadā sevya-ānukūlyena sevanam tat hi go-gaṇaiḥ .. hṛdaya-amṛta-bhogena priyam dāsyam udāhṛtam .. 29..
सदा भृत्यानुकूल्येन विधिना मे परात्मने ॥ अर्पणं षोडशानां वै पाद्यादीनां तदर्चनम् ॥ 2.2.23.३०॥
सदा भृत्य-आनुकूल्येन विधिना मे परात्मने ॥ अर्पणम् षोडशानाम् वै पाद्य-आदीनाम् तद्-अर्चनम् ॥ २।२।२३।३०॥
sadā bhṛtya-ānukūlyena vidhinā me parātmane .. arpaṇam ṣoḍaśānām vai pādya-ādīnām tad-arcanam .. 2.2.23.30..
मंत्रोच्चारणध्यानाभ्यां मनसा वचसा क्रमात् ॥ यदष्टांगेन भूस्पर्शं तद्वै वंदनमुच्यते ॥ ३१॥
मंत्र-उच्चारण-ध्यानाभ्याम् मनसा वचसा क्रमात् ॥ यत् अष्टांगेन भू-स्पर्शम् तत् वै वंदनम् उच्यते ॥ ३१॥
maṃtra-uccāraṇa-dhyānābhyām manasā vacasā kramāt .. yat aṣṭāṃgena bhū-sparśam tat vai vaṃdanam ucyate .. 31..
मंगलामंगलं यद्यत्करोतीतीश्वरो हि मे ॥ सर्वं तन्मंगलायेति विश्वासः सख्यलक्षणम् ॥ ३२ ॥
मंगल-अमंगलम् यत् यत् करोति इति ईश्वरः हि मे ॥ सर्वम् तत् मंगलाय इति विश्वासः सख्य-लक्षणम् ॥ ३२ ॥
maṃgala-amaṃgalam yat yat karoti iti īśvaraḥ hi me .. sarvam tat maṃgalāya iti viśvāsaḥ sakhya-lakṣaṇam .. 32 ..
कृत्वा देहादिकं तस्य प्रीत्यै सर्वं तदर्पणम्॥ निर्वाहाय च शून्यत्वं यत्तदात्मसमर्पणम्॥ ३३॥
कृत्वा देह-आदिकम् तस्य प्रीत्यै सर्वम् तत् अर्पणम्॥ निर्वाहाय च शून्य-त्वम् यत् तत् आत्म-समर्पणम्॥ ३३॥
kṛtvā deha-ādikam tasya prītyai sarvam tat arpaṇam.. nirvāhāya ca śūnya-tvam yat tat ātma-samarpaṇam.. 33..
नवांगानीति मद्भक्तेर्भुक्तिमुक्तिप्रदानि च ॥ मम प्रियाणि चातीव ज्ञानोत्पत्तिकराणि च ॥ ३४॥
नवांगानि इति मद्-भक्तेः भुक्ति-मुक्ति-प्रदानि च ॥ मम प्रियाणि च अतीव ज्ञान-उत्पत्ति-कराणि च ॥ ३४॥
navāṃgāni iti mad-bhakteḥ bhukti-mukti-pradāni ca .. mama priyāṇi ca atīva jñāna-utpatti-karāṇi ca .. 34..
उपांगानि च मद्भक्तेर्बहूनि कथितानि वै ॥ बिल्वादिसेवनादीनि समू ह्यानि विचारतः ॥ ३५ ॥
उपांगानि च मद्-भक्तेः बहूनि कथितानि वै ॥ बिल्व-आदि-सेवन-आदीनि विचारतः ॥ ३५ ॥
upāṃgāni ca mad-bhakteḥ bahūni kathitāni vai .. bilva-ādi-sevana-ādīni vicārataḥ .. 35 ..
इत्थं सांगोपांगभक्तिर्मम सर्वोत्तमा प्रिये ॥ ज्ञानवैराग्यजननी मुक्तिदासी विराजते ॥ ३६॥
इत्थम् स अंग-उपांग-भक्तिः मम सर्व-उत्तमा प्रिये ॥ विराजते ॥ ३६॥
ittham sa aṃga-upāṃga-bhaktiḥ mama sarva-uttamā priye .. virājate .. 36..
सर्वकर्मफलोत्पत्तिस्सर्वदा त्वत्समप्रिया ॥ यच्चित्ते सा स्थिता नित्यं सर्वदा सोति मत्प्रियः ॥ ३७॥
सर्व-कर्म-फल-उत्पत्तिः सर्वदा त्वद्-सम-प्रिया ॥ यत् चित्ते सा स्थिता नित्यम् सर्वदा सा उति मद्-प्रियः ॥ ३७॥
sarva-karma-phala-utpattiḥ sarvadā tvad-sama-priyā .. yat citte sā sthitā nityam sarvadā sā uti mad-priyaḥ .. 37..
त्रैलोक्ये भक्तिसदृशः पंथा नास्ति सुखावहः ॥ चतुर्युगेषु देवेशि कलौ तु सुविशेषतः ॥ ३८ ॥
त्रैलोक्ये भक्ति-सदृशः पंथा न अस्ति सुख-आवहः ॥ चतुर्-युगेषु देवेशि कलौ तु सु विशेषतः ॥ ३८ ॥
trailokye bhakti-sadṛśaḥ paṃthā na asti sukha-āvahaḥ .. catur-yugeṣu deveśi kalau tu su viśeṣataḥ .. 38 ..
कलौ तु ज्ञानवैरागो वृद्धरूपौ निरुत्सवौ ॥ ग्राहकाभावतो देवि जातौ जर्जर तामति ॥ ३९ ॥
कलौ तु ज्ञान-वैरागः वृद्ध-रूपौ निरुत्सवौ ॥ ग्राहक-अभावतः देवि जातौ जर्जर ताम् अति ॥ ३९ ॥
kalau tu jñāna-vairāgaḥ vṛddha-rūpau nirutsavau .. grāhaka-abhāvataḥ devi jātau jarjara tām ati .. 39 ..
कलौ प्रत्यक्षफलदा भक्तिस्सर्वयुगेष्वपि ॥ तत्प्रभावादहं नित्यं तद्वशो नात्र संशयः ॥ 2.2.23.४० ॥
कलौ प्रत्यक्ष-फल-दा भक्तिः सर्व-युगेषु अपि ॥ तद्-प्रभावात् अहम् नित्यम् तद्-वशः न अत्र संशयः ॥ २।२।२३।४० ॥
kalau pratyakṣa-phala-dā bhaktiḥ sarva-yugeṣu api .. tad-prabhāvāt aham nityam tad-vaśaḥ na atra saṃśayaḥ .. 2.2.23.40 ..
यो भक्तिमान्पुमाँल्लोके सदाहं तत्सहायकृत् ॥ विघ्नहर्ता रिपुस्तस्य दंड्यो नात्र च संशयः ॥ ४१ ॥
यः भक्तिमान् पुमान् लोके सदा अहम् तद्-सहाय-कृत् ॥ विघ्न-हर्ता रिपुः तस्य दंड्यः न अत्र च संशयः ॥ ४१ ॥
yaḥ bhaktimān pumān loke sadā aham tad-sahāya-kṛt .. vighna-hartā ripuḥ tasya daṃḍyaḥ na atra ca saṃśayaḥ .. 41 ..
भक्तहेतोरहं देवि कालं क्रोधपरिप्लुतःअदहं वह्निना नेत्रभवेन निजरक्षकः ॥ ४२॥
भक्त-हेतोः अहम् देवि कालम् क्रोध-परिप्लुतः अत् अहम् वह्निना नेत्र-भवेन निज-रक्षकः ॥ ४२॥
bhakta-hetoḥ aham devi kālam krodha-pariplutaḥ at aham vahninā netra-bhavena nija-rakṣakaḥ .. 42..
भक्तहेतोरहं देवि रव्युपर्यभवं किल।अतिक्रोधान्वितः शूलं गृहीत्वाऽन्वजयं पुरा॥ ४३॥
भक्त-हेतोः अहम् देवि रवि-उपरि अभवम् किल।अति क्रोध-अन्वितः शूलम् गृहीत्वा अन्वजयम् पुरा॥ ४३॥
bhakta-hetoḥ aham devi ravi-upari abhavam kila.ati krodha-anvitaḥ śūlam gṛhītvā anvajayam purā.. 43..
भक्तहेतोरहं देवि रावणं सगणं क्रुधा ॥ त्यजति स्म कृतो नैव पक्षपातो हि तस्य वै॥ ४४॥
भक्त-हेतोः अहम् देवि रावणम् स गणम् क्रुधा ॥ त्यजति स्म कृतः ना एव पक्षपातः हि तस्य वै॥ ४४॥
bhakta-hetoḥ aham devi rāvaṇam sa gaṇam krudhā .. tyajati sma kṛtaḥ nā eva pakṣapātaḥ hi tasya vai.. 44..
भक्तहेतोरहं देवि व्यासं हि कुमतिग्रहम् ॥ काश्या न्यसारयत् क्रोधाद्दण्डयित्वा च नंदिना ॥ ४५॥
भक्त-हेतोः अहम् देवि व्यासम् हि कुमति-ग्रहम् ॥ काश्या न्यसारयत् क्रोधात् दण्डयित्वा च नंदिना ॥ ४५॥
bhakta-hetoḥ aham devi vyāsam hi kumati-graham .. kāśyā nyasārayat krodhāt daṇḍayitvā ca naṃdinā .. 45..
किं बहूक्तेन देवेशि भक्त्याधीनस्सदा ह्यहम् ॥ तत्कर्तुं पुरुषस्यातिवशगो नात्र संशयः ॥ ४६ ॥
किम् बहु-उक्तेन देवेशि भक्त्या अधीनः सदा हि अहम् ॥ तत् कर्तुम् पुरुषस्य अति वशगः न अत्र संशयः ॥ ४६ ॥
kim bahu-uktena deveśi bhaktyā adhīnaḥ sadā hi aham .. tat kartum puruṣasya ati vaśagaḥ na atra saṃśayaḥ .. 46 ..
ब्रह्मोवाच ।।
इत्थमाकर्ण्य भक्तेस्तु महत्त्वं दक्षजा सती ॥ जहर्षातीव मनसि प्रणनाम शिवं मुदा ॥ ४७ ॥
इत्थम् आकर्ण्य भक्तेः तु महत्-त्वम् दक्ष-जा सती ॥ जहर्ष अतीव मनसि प्रणनाम शिवम् मुदा ॥ ४७ ॥
ittham ākarṇya bhakteḥ tu mahat-tvam dakṣa-jā satī .. jaharṣa atīva manasi praṇanāma śivam mudā .. 47 ..
पुनः पप्रच्छ सद्भक्त्या तत्काण्डविषयं मुने ॥ शास्त्रं सुखकरं लोके जीवोद्धारपरायणम् ॥ ४८॥
पुनर् पप्रच्छ सत्-भक्त्या तद्-काण्ड-विषयम् मुने ॥ शास्त्रम् सुख-करम् लोके जीव-उद्धार-परायणम् ॥ ४८॥
punar papraccha sat-bhaktyā tad-kāṇḍa-viṣayam mune .. śāstram sukha-karam loke jīva-uddhāra-parāyaṇam .. 48..
सयंत्रमंत्रशास्त्रं च तन्माहात्म्यं विशेषतः ॥ अन्यानि धर्मवस्तूनि जीवोद्धारकराणि हि ॥ ४९ ॥
स यंत्र-मंत्र-शास्त्रम् च तद्-माहात्म्यम् विशेषतः ॥ अन्यानि धर्म-वस्तूनि जीव-उद्धार-कराणि हि ॥ ४९ ॥
sa yaṃtra-maṃtra-śāstram ca tad-māhātmyam viśeṣataḥ .. anyāni dharma-vastūni jīva-uddhāra-karāṇi hi .. 49 ..
शंकरोपि तदाकर्ण्य सतीं प्रश्नं प्रहृष्टधीः ॥ वर्णयामास सुप्रीत्या जीवोद्धाराय कृत्स्नशः ॥ 2.2.23.५० ॥
शंकरः उपि तत् आकर्ण्य सतीम् प्रश्नम् प्रहृष्ट-धीः ॥ वर्णयामास सु प्रीत्या जीव-उद्धाराय कृत्स्नशस् ॥ २।२।२३।५० ॥
śaṃkaraḥ upi tat ākarṇya satīm praśnam prahṛṣṭa-dhīḥ .. varṇayāmāsa su prītyā jīva-uddhārāya kṛtsnaśas .. 2.2.23.50 ..
तत्र शास्त्रं सयंत्रं हि सपंचाङ्गं महेश्वरः ॥ बभाषे महिमानं च तत्तद्दैववरस्य वै ॥ ५१ ॥
तत्र शास्त्रम् स यंत्रम् हि स पंचाङ्गम् महेश्वरः ॥ बभाषे महिमानम् च तत् तत् दैव-वरस्य वै ॥ ५१ ॥
tatra śāstram sa yaṃtram hi sa paṃcāṅgam maheśvaraḥ .. babhāṣe mahimānam ca tat tat daiva-varasya vai .. 51 ..
सेतिहासकथं तेषां भक्तमाहात्म्यमेव च ॥ सवर्णाश्रमधर्मांश्च नृपधर्मान् मुनीश्वर ॥ ५२ ॥
स इतिहास-कथम् तेषाम् भक्त-माहात्म्यम् एव च ॥ स वर्ण-आश्रम-धर्मान् च नृप-धर्मान् मुनि-ईश्वर ॥ ५२ ॥
sa itihāsa-katham teṣām bhakta-māhātmyam eva ca .. sa varṇa-āśrama-dharmān ca nṛpa-dharmān muni-īśvara .. 52 ..
सुतस्त्रीधर्ममाहात्म्यं वर्णाश्रममनश्वरम् ॥ वैद्यशास्त्रं तथा ज्योतिश्शास्त्रं जीवसुखावहम् ॥ ५३ ॥
सुत-स्त्री-धर्म-माहात्म्यम् वर्ण-आश्रमम् अनश्वरम् ॥ वैद्य-शास्त्रम् तथा ज्योतिः-शास्त्रम् जीव-सुख-आवहम् ॥ ५३ ॥
suta-strī-dharma-māhātmyam varṇa-āśramam anaśvaram .. vaidya-śāstram tathā jyotiḥ-śāstram jīva-sukha-āvaham .. 53 ..
सामुद्रिकं परं शास्त्रमन्यच्छास्त्राणि भूरिशः ॥ कृपां कृत्वा महे शानो वर्णयामास तत्त्वतः ॥ ५४ ॥
सामुद्रिकम् परम् शास्त्रम् अन्यत् शास्त्राणि भूरिशस् ॥ कृपाम् कृत्वा महे शानः वर्णयामास तत्त्वतः ॥ ५४ ॥
sāmudrikam param śāstram anyat śāstrāṇi bhūriśas .. kṛpām kṛtvā mahe śānaḥ varṇayāmāsa tattvataḥ .. 54 ..
इत्थं त्रिलोकसुखदौ सर्वज्ञौ च सतीशिवौ ॥ लोकोपकारकरणधृतसद्गुणविग्रहौ ॥ ५५ ॥
इत्थम् त्रिलोक-सुख-दौ सर्वज्ञौ च सती-शिवौ ॥ लोक-उपकार-करण-धृत-सत्-गुण-विग्रहौ ॥ ५५ ॥
ittham triloka-sukha-dau sarvajñau ca satī-śivau .. loka-upakāra-karaṇa-dhṛta-sat-guṇa-vigrahau .. 55 ..
चिक्रीडाते बहुविधे कैलासे हिमवद्गिरौ ॥ अन्यस्थलेषु च तदा परब्रह्मस्वरूपिणौ ॥ ५६ ॥
चिक्रीडाते बहुविधे कैलासे हिमवत्-गिरौ ॥ अन्य-स्थलेषु च तदा पर-ब्रह्म-स्वरूपिणौ ॥ ५६ ॥
cikrīḍāte bahuvidhe kailāse himavat-girau .. anya-sthaleṣu ca tadā para-brahma-svarūpiṇau .. 56 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखण्डे भक्तिप्रभाववर्णनं नाम त्रयोविंशोऽध्यायः ॥ २३ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे भक्तिप्रभाववर्णनम् नाम त्रयोविंशः अध्यायः ॥ २३ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe bhaktiprabhāvavarṇanam nāma trayoviṃśaḥ adhyāyaḥ .. 23 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In