| |
|

This overlay will guide you through the buttons:

।। नारद उवाच ।।
ब्रह्मन् विधे प्रजानाथ महाप्राज्ञ कृपाकर ॥ श्रावितं शंकरयशस्सतीशंकरयोः शुभम् ॥ १ ॥
ब्रह्मन् विधे प्रजानाथ महा-प्राज्ञ कृपा-कर ॥ श्रावितम् शंकर-यशः सती-शंकरयोः शुभम् ॥ १ ॥
brahman vidhe prajānātha mahā-prājña kṛpā-kara .. śrāvitam śaṃkara-yaśaḥ satī-śaṃkarayoḥ śubham .. 1 ..
इदानीं ब्रूहि सत्प्रीत्या परं तद्यश उत्तमम् ॥ किमकार्ष्टां हि तत्स्थौ वै चरितं दंपती शिवौ ॥ २ ॥
इदानीम् ब्रूहि सत्-प्रीत्या परम् तत् यशः उत्तमम् ॥ किम् अकार्ष्टाम् हि तद्-स्थौ वै चरितम् दंपती शिवौ ॥ २ ॥
idānīm brūhi sat-prītyā param tat yaśaḥ uttamam .. kim akārṣṭām hi tad-sthau vai caritam daṃpatī śivau .. 2 ..
ब्रह्मोवाच ।।
सतीशिवचरित्रं च शृणु मे प्रेमतो मुने ॥ लौकिकीं गतिमाश्रित्य चिक्रीडाते सदान्वहम् ॥ ३ ॥
सतीशिव-चरित्रम् च शृणु मे प्रेमतः मुने ॥ लौकिकीम् गतिम् आश्रित्य चिक्रीडाते सदा अन्वहम् ॥ ३ ॥
satīśiva-caritram ca śṛṇu me premataḥ mune .. laukikīm gatim āśritya cikrīḍāte sadā anvaham .. 3 ..
ततस्सती महादेवी वियोगमलभन्मुने ॥ स्वपतश्शंकरस्येति वदंत्येके सुबुद्धयः ॥ ४ ॥
ततस् सती महादेवी वियोगम् अलभत् मुने ॥ स्वपतः शंकरस्य इति वदंति एके सुबुद्धयः ॥ ४ ॥
tatas satī mahādevī viyogam alabhat mune .. svapataḥ śaṃkarasya iti vadaṃti eke subuddhayaḥ .. 4 ..
वागर्थाविव संपृक्तौ शक्तोशौ सर्वदा चितौ ॥ कथं घटेत च तयोर्वियोगस्तत्त्वतो मुने ॥ ५॥
वाच्-अर्थौ इव संपृक्तौ शक्त-ऊशौ सर्वदा चितौ ॥ कथम् घटेत च तयोः वियोगः तत्त्वतः मुने ॥ ५॥
vāc-arthau iva saṃpṛktau śakta-ūśau sarvadā citau .. katham ghaṭeta ca tayoḥ viyogaḥ tattvataḥ mune .. 5..
लीलारुचित्वादथ वा संघटेताऽखिलं च तत् ॥ कुरुते यद्यदीशश्च सती च भवरीतिगौ ॥ ६ ॥
लीला-रुचि-त्वात् अथ वा संघटेत अ खिलम् च तत् ॥ कुरुते यत् यत् ईशः च सती च भव-रीति-गौ ॥ ६ ॥
līlā-ruci-tvāt atha vā saṃghaṭeta a khilam ca tat .. kurute yat yat īśaḥ ca satī ca bhava-rīti-gau .. 6 ..
सा त्यक्ता दक्षजा दृष्ट्वा पतिना जनकाध्वरे ॥ शंभोरनादरात्तत्र देहं तत्याज संगता ॥ ७ ॥
सा त्यक्ता दक्ष-जा दृष्ट्वा पतिना जनकाध्वरे ॥ शंभोः अनादरात् तत्र देहम् तत्याज संगता ॥ ७ ॥
sā tyaktā dakṣa-jā dṛṣṭvā patinā janakādhvare .. śaṃbhoḥ anādarāt tatra deham tatyāja saṃgatā .. 7 ..
पुनर्हिमालये सैवाविर्भूता नामतस्सती ॥ पार्वतीति शिवं प्राप तप्त्वा भूरि विवाहतः ॥ ८ ॥
पुनर् हिमालये सा एव आविर्भूता नामतः सती ॥ पार्वती इति शिवम् प्राप तप्त्वा भूरि विवाहतः ॥ ८ ॥
punar himālaye sā eva āvirbhūtā nāmataḥ satī .. pārvatī iti śivam prāpa taptvā bhūri vivāhataḥ .. 8 ..
सूत उवाच ।।
इत्याकर्ण्य वचस्तस्य ब्रह्मणस्स तु नारदः ॥ पप्रच्छ च विधातारं शिवाशिवमहद्यशः ॥ ९॥
इति आकर्ण्य वचः तस्य ब्रह्मणः स तु नारदः ॥ पप्रच्छ च विधातारम् शिव-अशिव-महत्-यशः ॥ ९॥
iti ākarṇya vacaḥ tasya brahmaṇaḥ sa tu nāradaḥ .. papraccha ca vidhātāram śiva-aśiva-mahat-yaśaḥ .. 9..
नारद उवाच ।।
विष्णुशिष्य महाभाग विधे मे वद विस्तरात् ॥ शिवाशिवचरित्रं तद्भवाचारपरानुगम् ॥ 2.2.24.१० ॥
विष्णु-शिष्य महाभाग विधे मे वद विस्तरात् ॥ शिव-अशिव-चरित्रम् तद्-भव-आचार-पर-अनुगम् ॥ २।२।२४।१० ॥
viṣṇu-śiṣya mahābhāga vidhe me vada vistarāt .. śiva-aśiva-caritram tad-bhava-ācāra-para-anugam .. 2.2.24.10 ..
किमर्थं शंकरो जायां तत्याज प्राणतः प्रियाम् ॥ तस्मादाचक्ष्व मे तात विचित्रमिति मन्महे ॥ ११ ॥
किमर्थम् शंकरः जायाम् तत्याज प्राणतः प्रियाम् ॥ तस्मात् आचक्ष्व मे तात विचित्रम् इति मन्महे ॥ ११ ॥
kimartham śaṃkaraḥ jāyām tatyāja prāṇataḥ priyām .. tasmāt ācakṣva me tāta vicitram iti manmahe .. 11 ..
कुतोऽह्यध्वरजः पुत्रां नादरोभूच्छिवस्य ते ॥ कथं तत्याज सा देहं गत्वा तत्र पितृक्रतौ ॥ १२ ॥
कुतस् अहि-अध्वर-जः न आदरः भूत् शिवस्य ते ॥ कथम् तत्याज सा देहम् गत्वा तत्र पितृ-क्रतौ ॥ १२ ॥
kutas ahi-adhvara-jaḥ na ādaraḥ bhūt śivasya te .. katham tatyāja sā deham gatvā tatra pitṛ-kratau .. 12 ..
ततः किमभवत्तत्र किमकार्षीन्महेश्वरः ॥ तत्सर्वं मे समाचक्ष्व श्रद्धायुक् तच्छुतावहम् ॥ १३ ॥
ततस् किम् अभवत् तत्र किम् अकार्षीत् महेश्वरः ॥ तत् सर्वम् मे समाचक्ष्व श्रद्धा-युज् तत् शुत-आवहम् ॥ १३ ॥
tatas kim abhavat tatra kim akārṣīt maheśvaraḥ .. tat sarvam me samācakṣva śraddhā-yuj tat śuta-āvaham .. 13 ..
ब्रह्मोवाच ।। ।।
शृणु तात परप्रीत्या मुनिभिस्सह नारद ॥ सुतवर्य महाप्राज्ञ चरितं शशिमौलिनः ॥ १४ ॥
शृणु तात पर-प्रीत्या मुनिभिः सह नारद ॥ सुत-वर्य महा-प्राज्ञ चरितम् शशिमौलिनः ॥ १४ ॥
śṛṇu tāta para-prītyā munibhiḥ saha nārada .. suta-varya mahā-prājña caritam śaśimaulinaḥ .. 14 ..
नमस्कृत्य महेशानं हर्यादिसुरसेवितम् ॥ परब्रह्म प्रवक्ष्यामि तच्चरित्रं महाद्भुतम् ॥ १५ ॥
नमस्कृत्य महेशानम् हरि-आदि-सुर-सेवितम् ॥ पर-ब्रह्म प्रवक्ष्यामि तत् चरित्रम् महा-अद्भुतम् ॥ १५ ॥
namaskṛtya maheśānam hari-ādi-sura-sevitam .. para-brahma pravakṣyāmi tat caritram mahā-adbhutam .. 15 ..
सर्वेयं शिवलीला हि बहुलीलाकरः प्रभुः ॥ स्वतंत्रो निर्विकारी च सती सापि हि तद्विधा ॥ १६ ॥
सर्वा इयम् शिव-लीला हि बहु-लीला-करः प्रभुः ॥ स्वतंत्रः निर्विकारी च सती सा अपि हि तद्विधा ॥ १६ ॥
sarvā iyam śiva-līlā hi bahu-līlā-karaḥ prabhuḥ .. svataṃtraḥ nirvikārī ca satī sā api hi tadvidhā .. 16 ..
अन्यथा कस्समर्थो हि तत्कर्मकरणे मुने ॥ परमात्मा परब्रह्म स एव परमेश्वरः ॥ १७ ॥
अन्यथा कः समर्थः हि तद्-कर्म-करणे मुने ॥ परमात्मा पर-ब्रह्म सः एव परमेश्वरः ॥ १७ ॥
anyathā kaḥ samarthaḥ hi tad-karma-karaṇe mune .. paramātmā para-brahma saḥ eva parameśvaraḥ .. 17 ..
यं सदा भजते श्रीशोऽहं चापि सकलाः सुराः ॥ मुनयश्च महात्मानः सिद्धाश्च सनकादयः ॥ १८ ॥
यम् सदा भजते श्रीशः अहम् च अपि सकलाः सुराः ॥ मुनयः च महात्मानः सिद्धाः च सनक-आदयः ॥ १८ ॥
yam sadā bhajate śrīśaḥ aham ca api sakalāḥ surāḥ .. munayaḥ ca mahātmānaḥ siddhāḥ ca sanaka-ādayaḥ .. 18 ..
शेषस्सदा यशो यस्य मुदा गायति नित्यशः ॥ पारं न लभते तात स प्रभुश्शंकरः शिवः ॥ १९ ॥
शेषः सदा यशः यस्य मुदा गायति नित्यशस् ॥ पारम् न लभते तात स प्रभुः शंकरः शिवः ॥ १९ ॥
śeṣaḥ sadā yaśaḥ yasya mudā gāyati nityaśas .. pāram na labhate tāta sa prabhuḥ śaṃkaraḥ śivaḥ .. 19 ..
तस्यैव लीलया सर्वोयमिति तत्त्वविभ्रमः ॥ तत्र दोषो न कस्यापि सर्वव्यापी स प्रेरकः ॥ 2.2.24.२० ॥
तस्य एव लीलया सर्वः इयम् इति तत्त्व-विभ्रमः ॥ तत्र दोषः न कस्य अपि सर्वव्यापी स प्रेरकः ॥ २।२।२४।२० ॥
tasya eva līlayā sarvaḥ iyam iti tattva-vibhramaḥ .. tatra doṣaḥ na kasya api sarvavyāpī sa prerakaḥ .. 2.2.24.20 ..
एकस्मिन्समये रुद्रस्सत्या त्रिभुवने भवः ॥ वृषमारुह्य पर्याटद्रसां लीलाविशारदः ॥ २१ ॥
एकस्मिन् समये रुद्रः सत्या त्रिभुवने भवः ॥ वृषम् आरुह्य पर्याटत्-रसाम् लीला-विशारदः ॥ २१ ॥
ekasmin samaye rudraḥ satyā tribhuvane bhavaḥ .. vṛṣam āruhya paryāṭat-rasām līlā-viśāradaḥ .. 21 ..
आगत्य दण्डकारण्यं पर्यटन् सागरांबराम् ॥ दर्शयन् तत्र गां शोभां सत्यै सत्यपणः प्रभुः ॥ २२ ॥
आगत्य दण्डक-अरण्यम् पर्यटन् सागरांबराम् ॥ दर्शयन् तत्र गाम् शोभाम् सत्यै सत्य-पणः प्रभुः ॥ २२ ॥
āgatya daṇḍaka-araṇyam paryaṭan sāgarāṃbarām .. darśayan tatra gām śobhām satyai satya-paṇaḥ prabhuḥ .. 22 ..
तत्र रामं ददर्शासौ लक्ष्मणेनान्वितं हरः ॥ अन्विष्यंतं प्रियां सीतां रावणेन हृता छलात् ॥ २३ ॥
तत्र रामम् ददर्श असौ लक्ष्मणेन अन्वितम् हरः ॥ अन्विष्यन्तम् प्रियाम् सीताम् रावणेन हृता छलात् ॥ २३ ॥
tatra rāmam dadarśa asau lakṣmaṇena anvitam haraḥ .. anviṣyantam priyām sītām rāvaṇena hṛtā chalāt .. 23 ..
हा सीतेति प्रोच्चरंतं विरहाविष्टमानसम् ॥ यतस्ततश्च पश्यंतं रुदंतं हि मुहुर्मुहुः ॥ २४ ॥
हा सीता इति प्रोच्चरन्तम् विरह-आविष्ट-मानसम् ॥ यतस् ततस् च पश्यंतम् रुदंतम् हि मुहुर् मुहुर् ॥ २४ ॥
hā sītā iti proccarantam viraha-āviṣṭa-mānasam .. yatas tatas ca paśyaṃtam rudaṃtam hi muhur muhur .. 24 ..
समिच्छंतं च तत्प्राप्तिं पृच्छंतं तद्गतिं हृदा॥ कुजादिभ्यो नष्टधियमत्रपं शोकविह्वलम्॥ २५॥
समिच्छंतम् च तद्-प्राप्तिम् पृच्छंतम् तद्-गतिम् हृदा॥ कुज-आदिभ्यः नष्ट-धियम् अत्रपम् शोक-विह्वलम्॥ २५॥
samicchaṃtam ca tad-prāptim pṛcchaṃtam tad-gatim hṛdā.. kuja-ādibhyaḥ naṣṭa-dhiyam atrapam śoka-vihvalam.. 25..
सूर्यवंशोद्भवं वीरं भूपं दशरथात्मजम्॥ भरताग्रजमानंदरहितं विगतप्रभम्॥ २६॥
सूर्य-वंश-उद्भवम् वीरम् भूपम् दशरथ-आत्मजम्॥ भरत-अग्रजम् आनंद-रहितम् विगत-प्रभम्॥ २६॥
sūrya-vaṃśa-udbhavam vīram bhūpam daśaratha-ātmajam.. bharata-agrajam ānaṃda-rahitam vigata-prabham.. 26..
पूर्णकामो वराधीनं प्राणमत्स्म मुदा हरः ॥ रामं भ्रमन्तं विपिने सलक्ष्मणमुदारधीः॥ २७॥
पूर्ण-कामः वर-अधीनम् प्राणमत्स्म मुदा हरः ॥ रामम् भ्रमन्तम् विपिने स लक्ष्मणम् उदार-धीः॥ २७॥
pūrṇa-kāmaḥ vara-adhīnam prāṇamatsma mudā haraḥ .. rāmam bhramantam vipine sa lakṣmaṇam udāra-dhīḥ.. 27..
जयेत्युक्त्वाऽन्यतो गच्छन्नदात्तस्मै स्वदर्शनम्॥ रामाय विपिने तस्मिच्छंकरो भक्तवत्सलः॥ २८॥
जय इति उक्त्वा अन्यतस् गच्छन् अदात् तस्मै स्व-दर्शनम्॥ रामाय विपिने तस्मिन् शंकरः भक्त-वत्सलः॥ २८॥
jaya iti uktvā anyatas gacchan adāt tasmai sva-darśanam.. rāmāya vipine tasmin śaṃkaraḥ bhakta-vatsalaḥ.. 28..
इतीदृशीं सतीं दृष्ट्वा शिवलीलां विमोहनीम्॥ सुविस्मिता शिवं प्राह शिवमायाविमोहिता॥ २९॥
इति ईदृशीम् सतीम् दृष्ट्वा शिव-लीलाम् विमोहनीम्॥ सु विस्मिता शिवम् प्राह शिव-माया-विमोहिता॥ २९॥
iti īdṛśīm satīm dṛṣṭvā śiva-līlām vimohanīm.. su vismitā śivam prāha śiva-māyā-vimohitā.. 29..
ब्रह्मोवाच ।। ।।
देव देव परब्रह्म सर्वेश परमेश्वर॥ सेवंते त्वां सदा सर्वे हरिब्रह्मादयस्सुराः ॥ 2.2.24.३०॥
देव देव पर-ब्रह्म सर्व-ईश परमेश्वर॥ सेवंते त्वाम् सदा सर्वे हरि-ब्रह्म-आदयः सुराः ॥ २।२।२४।३०॥
deva deva para-brahma sarva-īśa parameśvara.. sevaṃte tvām sadā sarve hari-brahma-ādayaḥ surāḥ .. 2.2.24.30..
त्वं प्रणम्यो हि सर्वेषां सेव्यो ध्येयश्च सर्वदा ॥ वेदांतवेद्यो यत्नेन निर्विकारी परप्रभुः ॥ ३१॥
त्वम् प्रणम्यः हि सर्वेषाम् सेव्यः ध्येयः च सर्वदा ॥ वेदांत-वेद्यः यत्नेन निर्विकारी पर-प्रभुः ॥ ३१॥
tvam praṇamyaḥ hi sarveṣām sevyaḥ dhyeyaḥ ca sarvadā .. vedāṃta-vedyaḥ yatnena nirvikārī para-prabhuḥ .. 31..
काविमौ पुरुषौ नाथ विरहव्याकुलाकृती ॥ विचरंतौ वने क्लिष्टौ दीनौ वीरौ धनुर्धरौ ॥ ३२॥
कौ इमौ पुरुषौ नाथ विरह-व्याकुल-आकृती ॥ विचरन्तौ वने क्लिष्टौ दीनौ वीरौ धनुः-धरौ ॥ ३२॥
kau imau puruṣau nātha viraha-vyākula-ākṛtī .. vicarantau vane kliṣṭau dīnau vīrau dhanuḥ-dharau .. 32..
तयोर्ज्येष्ठं कंजश्यामं दृष्ट्वा वै केन हेतुना ॥ सुदितस्सुप्रसन्नात्माऽभवो भक्त इवाऽधुना ॥ ३३॥
तयोः ज्येष्ठम् कंज-श्यामम् दृष्ट्वा वै केन हेतुना ॥ सुदितः सु प्रसन्न-आत्मा अभवः भक्तः इव अ अधुना ॥ ३३॥
tayoḥ jyeṣṭham kaṃja-śyāmam dṛṣṭvā vai kena hetunā .. suditaḥ su prasanna-ātmā abhavaḥ bhaktaḥ iva a adhunā .. 33..
इति मे संशयं स्वामिञ्शंकर छेत्तुमर्हसि ॥ सेव्यस्य सेवकेनैव घटते प्रणतिः प्रभो ॥ ३४॥
इति मे संशयम् स्वामिन् शंकर छेत्तुम् अर्हसि ॥ सेव्यस्य सेवकेन एव घटते प्रणतिः प्रभो ॥ ३४॥
iti me saṃśayam svāmin śaṃkara chettum arhasi .. sevyasya sevakena eva ghaṭate praṇatiḥ prabho .. 34..
ब्रह्मोवाच ।।
आदिशक्तिस्सती देवी शिवा सा परमेश्वरी ॥ शिवमायावशीभूत्वा पप्रच्छेत्थं शिवं प्रभुम् ॥ ३५ ॥
आदिशक्तिः सती देवी शिवा सा परमेश्वरी ॥ शिव-माया-वशीभूत्वा पप्रच्छ इत्थम् शिवम् प्रभुम् ॥ ३५ ॥
ādiśaktiḥ satī devī śivā sā parameśvarī .. śiva-māyā-vaśībhūtvā papraccha ittham śivam prabhum .. 35 ..
तदाकर्ण्य वचस्सत्याश्शंकरः परमेश्वरः ॥ तदा विहस्य स प्राह सतीं लीलाविशारदः ॥ ३६
तत् आकर्ण्य वचः सत्याः शंकरः परमेश्वरः ॥ तदा विहस्य स प्राह सतीम् लीला-विशारदः ॥ ३६
tat ākarṇya vacaḥ satyāḥ śaṃkaraḥ parameśvaraḥ .. tadā vihasya sa prāha satīm līlā-viśāradaḥ .. 36
शृणु देवि सति प्रीत्या यथार्थं वच्मि नच्छलम् ॥ वरदानप्रभावात्तु प्रणामं चैवमादरात् ॥ ३७॥
शृणु देवि सति प्रीत्या यथार्थम् वच्मि न छलम् ॥ वर-दान-प्रभावात् तु प्रणामम् च एवम् आदरात् ॥ ३७॥
śṛṇu devi sati prītyā yathārtham vacmi na chalam .. vara-dāna-prabhāvāt tu praṇāmam ca evam ādarāt .. 37..
परमेश्वर उवाच ।।
रामलक्ष्मणनामानौ भ्रातरौ वीरसम्मतौ॥ सूर्यवंशोद्भवौ देवि प्राज्ञौ दशरथात्मजौ ॥ ३८॥
राम-लक्ष्मण-नामानौ भ्रातरौ वीर-सम्मतौ॥ सूर्य-वंश-उद्भवौ देवि प्राज्ञौ दशरथ-आत्मजौ ॥ ३८॥
rāma-lakṣmaṇa-nāmānau bhrātarau vīra-sammatau.. sūrya-vaṃśa-udbhavau devi prājñau daśaratha-ātmajau .. 38..
गौरवर्णौ लघुर्बंधुश्शेषेशो लक्ष्मणाभिधः ॥ ज्येष्ठो रामाभिधो विष्णुः पूर्णांशो निरुपद्रवः ॥ ३९॥
गौर-वर्णौ लघुः बंधुः शेष-ईशः लक्ष्मण-अभिधः ॥ ॥ ३९॥
gaura-varṇau laghuḥ baṃdhuḥ śeṣa-īśaḥ lakṣmaṇa-abhidhaḥ .. .. 39..
अवतीर्णं क्षितौ साधुरक्षणाय भवाय नः ॥ इत्युक्त्वा विररामाऽसौ शंभुस्मृतिकरः प्रभुः ॥ 2.2.24.४० ॥
अवतीर्णम् क्षितौ साधु-रक्षणाय भवाय नः ॥ इति उक्त्वा विरराम असौ शंभु-स्मृति-करः प्रभुः ॥ २।२।२४।४० ॥
avatīrṇam kṣitau sādhu-rakṣaṇāya bhavāya naḥ .. iti uktvā virarāma asau śaṃbhu-smṛti-karaḥ prabhuḥ .. 2.2.24.40 ..
श्रुत्वापीत्थं वचश्शम्भोर्न विशश्वास तन्मनः ॥ शिवमाया बलवती सैव त्रैलोक्यमोहिनी ॥ ४१ ॥
श्रुत्वा अपि इत्थम् वचः शम्भोः न विशश्वास तद्-मनः ॥ शिव-माया बलवती सा एव त्रैलोक्य-मोहिनी ॥ ४१ ॥
śrutvā api ittham vacaḥ śambhoḥ na viśaśvāsa tad-manaḥ .. śiva-māyā balavatī sā eva trailokya-mohinī .. 41 ..
अविश्वस्तं मनो ज्ञात्वा तस्याश्शंभुस्सनातनः ॥ अवोचद्वचनं चेति प्रभुलीलाविशारदः ॥ ४२ ॥
अविश्वस्तम् मनः ज्ञात्वा तस्याः शंभुः सनातनः ॥ अवोचत् वचनम् च इति प्रभु-लीला-विशारदः ॥ ४२ ॥
aviśvastam manaḥ jñātvā tasyāḥ śaṃbhuḥ sanātanaḥ .. avocat vacanam ca iti prabhu-līlā-viśāradaḥ .. 42 ..
शिव उवाच ।।
शृणु मद्वचनं देवि न विश्वसिति चेन्मनः ॥ तव रामपरिक्षां हि कुरु तत्र स्वया धिया ॥ ४३ ॥
शृणु मद्-वचनम् देवि न विश्वसिति चेद् मनः ॥ तव राम-परिक्षाम् हि कुरु तत्र स्वया धिया ॥ ४३ ॥
śṛṇu mad-vacanam devi na viśvasiti ced manaḥ .. tava rāma-parikṣām hi kuru tatra svayā dhiyā .. 43 ..
विनश्यति यथा मोहस्तत्कुरु त्वं सति प्रिये ॥ गत्वा तत्र स्थितस्तावद्वटे भव परीक्षिका । ४४ ॥
विनश्यति यथा मोहः तत् कुरु त्वम् सति प्रिये ॥ गत्वा तत्र स्थितः तावत् वटे भव परीक्षिका । ४४ ॥
vinaśyati yathā mohaḥ tat kuru tvam sati priye .. gatvā tatra sthitaḥ tāvat vaṭe bhava parīkṣikā . 44 ..
ब्रह्मोवाच ।।
शिवाज्ञया सती तत्र गत्वाचिंतयदीश्वरी ॥ कुर्यां परीक्षां च कथं रामस्य वनचारिणः ॥ ४५॥
शिव-आज्ञया सती तत्र गत्वा अचिंतयत् ईश्वरी ॥ कुर्याम् परीक्षाम् च कथम् रामस्य वन-चारिणः ॥ ४५॥
śiva-ājñayā satī tatra gatvā aciṃtayat īśvarī .. kuryām parīkṣām ca katham rāmasya vana-cāriṇaḥ .. 45..
सीतारूपमहं धृत्वा गच्छेयं रामसन्निधौ ॥ यदि रामो हरिस्सर्वं विज्ञास्यति न चान्यथा ॥ ४६॥
सीता-रूपम् अहम् धृत्वा गच्छेयम् राम-सन्निधौ ॥ यदि रामः हरिः सर्वम् विज्ञास्यति न च अन्यथा ॥ ४६॥
sītā-rūpam aham dhṛtvā gaccheyam rāma-sannidhau .. yadi rāmaḥ hariḥ sarvam vijñāsyati na ca anyathā .. 46..
इत्थं विचार्य सीता सा भूत्वा रामसमीपतः ॥ आगमत्तत्परीक्षार्थं सती मोहपरायणा ॥ ४७ ॥
इत्थम् विचार्य सीता सा भूत्वा राम-समीपतः ॥ आगमत् तद्-परीक्षा-अर्थम् सती मोह-परायणा ॥ ४७ ॥
ittham vicārya sītā sā bhūtvā rāma-samīpataḥ .. āgamat tad-parīkṣā-artham satī moha-parāyaṇā .. 47 ..
सीतारूपां सतीं दृष्ट्वा जपन्नाम शिवेति च ॥ विहस्य तत्प्रविज्ञाय नत्वावोचद्रघूद्वहः ॥ ४८॥
सीता-रूपाम् सतीम् दृष्ट्वा जपन् नाम शिवा इति च ॥ विहस्य तत् प्रविज्ञाय नत्वा अवोचत् रघूद्वहः ॥ ४८॥
sītā-rūpām satīm dṛṣṭvā japan nāma śivā iti ca .. vihasya tat pravijñāya natvā avocat raghūdvahaḥ .. 48..
राम उवाच ।।
प्रेमतस्त्वं सति ब्रूहि क्व शंभुस्ते नमोगतः ॥ एका हि विपिने कस्मादागता पतिना विना ॥ ४९ ॥
प्रेमतः त्वम् सति ब्रूहि क्व शंभुः ते नमः-गतः ॥ एका हि विपिने कस्मात् आगता पतिना विना ॥ ४९ ॥
premataḥ tvam sati brūhi kva śaṃbhuḥ te namaḥ-gataḥ .. ekā hi vipine kasmāt āgatā patinā vinā .. 49 ..
त्यक्त्वा स्वरूपं कस्मात्ते धृतं रूपमिदं सति ॥ ब्रूहि तत्कारणं देवि कृपां कृत्वा ममोपरि॥ 2.2.24.५०॥
त्यक्त्वा स्व-रूपम् कस्मात् ते धृतम् रूपम् इदम् सति ॥ ब्रूहि तद्-कारणम् देवि कृपाम् कृत्वा मम उपरि॥ २।२।२४।५०॥
tyaktvā sva-rūpam kasmāt te dhṛtam rūpam idam sati .. brūhi tad-kāraṇam devi kṛpām kṛtvā mama upari.. 2.2.24.50..
ब्रह्मोवाच ।।
इति रामवचः श्रुत्वा चकितासीत्सती तदा ॥ स्मृत्वा शिवोक्तं मत्वा चावितथं लज्जिता भृशम् ॥ ५१ ॥
इति राम-वचः श्रुत्वा चकिता आसीत् सती तदा ॥ स्मृत्वा शिव-उक्तम् मत्वा च अवितथम् लज्जिता भृशम् ॥ ५१ ॥
iti rāma-vacaḥ śrutvā cakitā āsīt satī tadā .. smṛtvā śiva-uktam matvā ca avitatham lajjitā bhṛśam .. 51 ..
रामं विज्ञाय विष्णुं तं स्वरूपं संविधाय च ॥ स्मृत्वा शिवपदं चित्ते सत्युवाच प्रसन्नधीः ॥ ५२ ॥
रामम् विज्ञाय विष्णुम् तम् स्व-रूपम् संविधाय च ॥ स्मृत्वा शिव-पदम् चित्ते सती उवाच प्रसन्न-धीः ॥ ५२ ॥
rāmam vijñāya viṣṇum tam sva-rūpam saṃvidhāya ca .. smṛtvā śiva-padam citte satī uvāca prasanna-dhīḥ .. 52 ..
शिवो मया गणैश्चैव पर्यटन् वसुधां प्रभुः ॥ इहागच्छच्च विपिने स्वतंत्रः परमेश्वरः ॥ ५३ ॥
शिवः मया गणैः च एव पर्यटन् वसुधाम् प्रभुः ॥ इह अगच्छत् च विपिने स्वतंत्रः परमेश्वरः ॥ ५३ ॥
śivaḥ mayā gaṇaiḥ ca eva paryaṭan vasudhām prabhuḥ .. iha agacchat ca vipine svataṃtraḥ parameśvaraḥ .. 53 ..
अपश्यदत्र स त्वां हि सीतान्वेषणतत्परम् ॥ सलक्ष्मणं विरहिणं सीतया श्लिष्टमानसम् ॥ ५४ ॥
अपश्यत् अत्र स त्वाम् हि सीता-अन्वेषण-तत्परम् ॥ स लक्ष्मणम् विरहिणम् सीतया श्लिष्ट-मानसम् ॥ ५४ ॥
apaśyat atra sa tvām hi sītā-anveṣaṇa-tatparam .. sa lakṣmaṇam virahiṇam sītayā śliṣṭa-mānasam .. 54 ..
नत्वा त्वां स गतो मूले वटस्य स्थित एव हि ॥ प्रशंसन् महिमानं ते वैष्णवं परमं मुदा ॥ ५५ ॥
नत्वा त्वाम् स गतः मूले वटस्य स्थितः एव हि ॥ प्रशंसन् महिमानम् ते वैष्णवम् परमम् मुदा ॥ ५५ ॥
natvā tvām sa gataḥ mūle vaṭasya sthitaḥ eva hi .. praśaṃsan mahimānam te vaiṣṇavam paramam mudā .. 55 ..
चतुर्भुजं हरिं त्वां नो दृष्ट्वेव मुदितोऽभवत् ॥ यथेदं रूपममलं पश्यन्नानंदमाप्तवान् ॥ ५६॥
चतुर्भुजम् हरिम् त्वाम् नः दृष्ट्वा इव मुदितः अभवत् ॥ यथा इदम् रूपम् अमलम् पश्यन् आनंदम् आप्तवान् ॥ ५६॥
caturbhujam harim tvām naḥ dṛṣṭvā iva muditaḥ abhavat .. yathā idam rūpam amalam paśyan ānaṃdam āptavān .. 56..
तच्छ्रुत्वा वचनं शंभौर्भ्रममानीय चेतसि॥ तदाज्ञया परीक्षां ते कृतवत्य स्मि राघव ॥ ५७ ॥
तत् श्रुत्वा वचनम् शंभौः भ्रमम् आनीय चेतसि॥ तद्-आज्ञया परीक्षाम् ते स्मि राघव ॥ ५७ ॥
tat śrutvā vacanam śaṃbhauḥ bhramam ānīya cetasi.. tad-ājñayā parīkṣām te smi rāghava .. 57 ..
ज्ञातं मे राम विष्णुस्त्वं दृष्टा ते प्रभुताऽखिला ॥ निःसशंया तदापि तच्छृणु त्वं च महामते॥ ५८ ॥
ज्ञातम् मे राम विष्णुः त्वम् दृष्टा ते प्रभु-ता अखिला ॥ निःसशंया तदा अपि तत् शृणु त्वम् च महामते॥ ५८ ॥
jñātam me rāma viṣṇuḥ tvam dṛṣṭā te prabhu-tā akhilā .. niḥsaśaṃyā tadā api tat śṛṇu tvam ca mahāmate.. 58 ..
कथं प्रणम्यस्त्वं तस्य सत्यं ब्रूहि ममाग्रतः ॥ कुरु निस्संशयां त्वं मां शमलं प्राप्नुहि द्रुतम्॥ ५९॥
कथम् प्रणम्यः त्वम् तस्य सत्यम् ब्रूहि मम अग्रतस् ॥ कुरु निस्संशयाम् त्वम् माम् शमलम् प्राप्नुहि द्रुतम्॥ ५९॥
katham praṇamyaḥ tvam tasya satyam brūhi mama agratas .. kuru nissaṃśayām tvam mām śamalam prāpnuhi drutam.. 59..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्या रामश्चोत्फुल्ललोचनः ॥ अस्मरत्स्वं प्रभुं शंभुं प्रेमाभूद्धृदि चाधिकम्॥ 2.2.24.६०॥
इति आकर्ण्य वचः तस्याः रामः च उत्फुल्ल-लोचनः ॥ अस्मरत् स्वम् प्रभुम् शंभुम् प्रेम् अभूत् हृदि च अधिकम्॥ २।२।२४।६०॥
iti ākarṇya vacaḥ tasyāḥ rāmaḥ ca utphulla-locanaḥ .. asmarat svam prabhum śaṃbhum prem abhūt hṛdi ca adhikam.. 2.2.24.60..
सत्या विनाज्ञया शंभुसमीपं नागमन्मुने ॥ संवर्ण्य महिमानं च प्रावोचद्राघवस्सतीम् ॥ ६१ ॥
सत्या विना आज्ञया शंभु-समीपम् ना अगमत् मुने ॥ संवर्ण्य महिमानम् च प्रावोचत् राघवः सतीम् ॥ ६१ ॥
satyā vinā ājñayā śaṃbhu-samīpam nā agamat mune .. saṃvarṇya mahimānam ca prāvocat rāghavaḥ satīm .. 61 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे रामपरीक्षावर्णनं नाम चतुर्विंशोऽध्यायः ॥ २४॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे रामपरीक्षावर्णनम् नाम चतुर्विंशः अध्यायः ॥ २४॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe rāmaparīkṣāvarṇanam nāma caturviṃśaḥ adhyāyaḥ .. 24..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In