| |
|

This overlay will guide you through the buttons:

एकदा हि पुरा देवि शंभुः परमसूतिकृत् ॥ विश्वकर्माणमाहूय स्वलोके परतः परे ॥ १॥
एकदा हि पुरा देवि शंभुः परम-सूतिकृत् ॥ विश्वकर्माणम् आहूय स्व-लोके परतस् परे ॥ १॥
ekadā hi purā devi śaṃbhuḥ parama-sūtikṛt .. viśvakarmāṇam āhūya sva-loke paratas pare .. 1..
राम उवाच ।।
स्वधेनुशालायां रम्यं कारयामास तेन च ॥ भवनं विस्तृतं सम्यक् तत्र सिंहासनं वरम् ॥ २ ॥
स्व-धेनु-शालायाम् रम्यम् कारयामास तेन च ॥ भवनम् विस्तृतम् सम्यक् तत्र सिंहासनम् वरम् ॥ २ ॥
sva-dhenu-śālāyām ramyam kārayāmāsa tena ca .. bhavanam vistṛtam samyak tatra siṃhāsanam varam .. 2 ..
तत्रच्छत्रं महादिव्यं सर्वदाद्भुत मुत्तमम् ॥ कारयामास विघ्नार्थं शंकरो विश्वकर्मणा ॥ ३ ॥
तत्र छत्रम् महा-दिव्यम् सर्वदा अद्भुत उत्तमम् ॥ कारयामास विघ्न-अर्थम् शंकरः विश्वकर्मणा ॥ ३ ॥
tatra chatram mahā-divyam sarvadā adbhuta uttamam .. kārayāmāsa vighna-artham śaṃkaraḥ viśvakarmaṇā .. 3 ..
शक्रादीनां जुहावाशु समस्तान्देवतागणान् ॥ सिद्धगंधर्वनागानुपदे शांश्च कृत्स्नशः ॥ ४॥
शक्र-आदीनाम् जुहाव आशु समस्तान् देवता-गणान् ॥ सिद्ध-गंधर्व-नाग-अनुपदे शान् च कृत्स्नशस् ॥ ४॥
śakra-ādīnām juhāva āśu samastān devatā-gaṇān .. siddha-gaṃdharva-nāga-anupade śān ca kṛtsnaśas .. 4..
देवान् सर्वानागमांश्च विधिं पुत्रैर्मुनीनपि ॥ देवीः सर्वा अप्सरोभिर्नानावस्तुसमन्विताः ॥ ५ ॥
देवान् सर्वान् आगमान् च विधिम् पुत्रैः मुनीन् अपि ॥ देवीः सर्वाः अप्सरोभिः नाना वस्तु-समन्विताः ॥ ५ ॥
devān sarvān āgamān ca vidhim putraiḥ munīn api .. devīḥ sarvāḥ apsarobhiḥ nānā vastu-samanvitāḥ .. 5 ..
देवानां च तथर्षीणां सिद्धानां फणिनामपि॥ आनयन्मंगलकराः कन्याः षोडशषोडश॥ ६॥
देवानाम् च तथा ऋषीणाम् सिद्धानाम् फणिनाम् अपि॥ आनयत्-मंगल-कराः कन्याः षोडश-षोडश॥ ६॥
devānām ca tathā ṛṣīṇām siddhānām phaṇinām api.. ānayat-maṃgala-karāḥ kanyāḥ ṣoḍaśa-ṣoḍaśa.. 6..
वीणामृदंगप्रमुखवाद्यान्नानाविधान्मुने॥ उत्सवं कारयामास वादयित्वा सुगायनैः ॥ ७॥
वीणा-मृदंग-प्रमुख-वाद्यान् नानाविधान् मुने॥ उत्सवम् कारयामास वादयित्वा सुगायनैः ॥ ७॥
vīṇā-mṛdaṃga-pramukha-vādyān nānāvidhān mune.. utsavam kārayāmāsa vādayitvā sugāyanaiḥ .. 7..
राजाभिषेकयोग्यानि द्रव्याणि सकलौषधैःप्रत्यक्षतीर्थपाथोभिः पंचकुभांश्च पूरितान् ॥ ८॥
राज-अभिषेक-योग्यानि द्रव्याणि सकल-औषधैः प्रत्यक्ष-तीर्थ-पाथोभिः पूरितान् ॥ ८॥
rāja-abhiṣeka-yogyāni dravyāṇi sakala-auṣadhaiḥ pratyakṣa-tīrtha-pāthobhiḥ pūritān .. 8..
तथान्यास्संविधा दिव्या आनयत्स्वगणैस्तदा ॥ ब्रह्मघोषं महारावं कारयामास शंकरः ॥ ९॥
तथा अन्याः संविधाः दिव्याः आनयत् स्व-गणैः तदा ॥ ब्रह्मघोषम् महा-रावम् कारयामास शंकरः ॥ ९॥
tathā anyāḥ saṃvidhāḥ divyāḥ ānayat sva-gaṇaiḥ tadā .. brahmaghoṣam mahā-rāvam kārayāmāsa śaṃkaraḥ .. 9..
अथो हरिं समाहूय वैकुंठात्प्रीतमानसः॥ तद्भक्त्या पूर्णया देवि मोदतिस्म महेश्वरः ॥ 2.2.25.१० ॥
अथो हरिम् समाहूय वैकुंठात् प्रीत-मानसः॥ तद्-भक्त्या पूर्णया देवि मोदति स्म महेश्वरः ॥ २।२।२५।१० ॥
atho harim samāhūya vaikuṃṭhāt prīta-mānasaḥ.. tad-bhaktyā pūrṇayā devi modati sma maheśvaraḥ .. 2.2.25.10 ..
सुमुहूर्ते महादेवस्तत्र सिंहासने वरे ॥ उपवेश्य हरिं प्रीत्या भूषयामास सर्वशः ॥ ११॥
सु मुहूर्ते महादेवः तत्र सिंहासने वरे ॥ उपवेश्य हरिम् प्रीत्या भूषयामास सर्वशस् ॥ ११॥
su muhūrte mahādevaḥ tatra siṃhāsane vare .. upaveśya harim prītyā bhūṣayāmāsa sarvaśas .. 11..
आबद्धरम्यमुकुटं कृतकौतुकमंगलम् ॥ अभ्यषिंचन्महेशस्तु स्वयं ब्रह्मांडमंडपे ॥ १२ ॥
आबद्ध-रम्य-मुकुटम् कृत-कौतुकमंगलम् ॥ अभ्यषिंचत् महेशः तु स्वयम् ब्रह्मांड-मंडपे ॥ १२ ॥
ābaddha-ramya-mukuṭam kṛta-kautukamaṃgalam .. abhyaṣiṃcat maheśaḥ tu svayam brahmāṃḍa-maṃḍape .. 12 ..
दत्तवान्निखिलैश्वर्यं यन्नैजं नान्यगामि यत् ॥ ततस्तुष्टाव तं शंभुस्स्वतंत्रो भक्तवत्सलः ॥ १३ ॥
दत्तवान् निखिल-ऐश्वर्यम् यत् नैजम् न अन्य-गामि यत् ॥ ततस् तुष्टाव तम् शंभुः स्वतंत्रः भक्त-वत्सलः ॥ १३ ॥
dattavān nikhila-aiśvaryam yat naijam na anya-gāmi yat .. tatas tuṣṭāva tam śaṃbhuḥ svataṃtraḥ bhakta-vatsalaḥ .. 13 ..
ब्रह्माणं लोककर्तारमवोचद्वचनं त्विदम् ॥ व्यापयन्स्वं वराधीनं स्वतंत्रं भक्तवत्सलः ॥ १४॥
ब्रह्माणम् लोककर्तारम् अवोचत् वचनम् तु इदम् ॥ व्यापयन् स्वम् वर-अधीनम् स्वतंत्रम् भक्त-वत्सलः ॥ १४॥
brahmāṇam lokakartāram avocat vacanam tu idam .. vyāpayan svam vara-adhīnam svataṃtram bhakta-vatsalaḥ .. 14..
महेश उवाच ।।
अतः प्रभृति लोकेश मन्निदेशादयं हरिः ॥ मम वंद्य स्वयं विष्णुर्जातस्सर्वश्शृणोति हि ॥ १५ ॥
अतस् प्रभृति लोकेश मद्-निदेशात् अयम् हरिः ॥ मम वंद्य स्वयम् विष्णुः जातः सर्वः शृणोति हि ॥ १५ ॥
atas prabhṛti lokeśa mad-nideśāt ayam hariḥ .. mama vaṃdya svayam viṣṇuḥ jātaḥ sarvaḥ śṛṇoti hi .. 15 ..
सर्वैर्देवादिभिस्तात प्रणमत्वममुं हरिम् ॥ वर्णयंतु हरिं वेदा ममैते मामिवाज्ञया ॥ १६ ।
सर्वैः देव-आदिभिः तात प्रणमतु अमुम् हरिम् ॥ वर्णयंतु हरिम् वेदाः मम एते माम् इव आज्ञया ॥ १६ ।
sarvaiḥ deva-ādibhiḥ tāta praṇamatu amum harim .. varṇayaṃtu harim vedāḥ mama ete mām iva ājñayā .. 16 .
राम उवाच ।।
इत्युक्त्वाथ स्वयं रुद्रोऽनमद्वै गरुडध्वजम् ॥ विष्णुभक्तिप्रसन्नात्मा वरदो भक्तवत्सलः ॥ १७॥
इति उक्त्वा अथ स्वयम् रुद्रः अनमत् वै गरुडध्वजम् ॥ ॥ १७॥
iti uktvā atha svayam rudraḥ anamat vai garuḍadhvajam .. .. 17..
ततो ब्रह्मादिभिर्देवैः सर्वरूपसुरैस्तथा ॥ मुनिसिद्धादिभिश्चैवं वंदितोभूद्धरिस्तदा ॥ १८ ॥
ततस् ब्रह्म-आदिभिः देवैः सर्व-रूप-सुरैः तथा ॥ मुनि-सिद्ध-आदिभिः च एवम् वंदितः अभूत् हरिः तदा ॥ १८ ॥
tatas brahma-ādibhiḥ devaiḥ sarva-rūpa-suraiḥ tathā .. muni-siddha-ādibhiḥ ca evam vaṃditaḥ abhūt hariḥ tadā .. 18 ..
ततो महेशो हरयेशंसद्दिविषदां तदा ॥ महावरान् सुप्रसन्नो धृतवान्भक्तवत्सलः ॥ १९ ॥
ततस् महेशः तदा ॥ महा-वरान् सु प्रसन्नः धृतवान् भक्त-वत्सलः ॥ १९ ॥
tatas maheśaḥ tadā .. mahā-varān su prasannaḥ dhṛtavān bhakta-vatsalaḥ .. 19 ..
महेश उवाच ।।
त्वं कर्ता सर्वलोकानां भर्ता हर्ता मदाज्ञया ॥ दाता धर्मार्थकामानां शास्ता दुर्नयकारिणाम् ॥ 2.2.25.२० ॥
त्वम् कर्ता सर्व-लोकानाम् भर्ता हर्ता मद्-आज्ञया ॥ दाता धर्म-अर्थ-कामानाम् शास्ता दुर्नय-कारिणाम् ॥ २।२।२५।२० ॥
tvam kartā sarva-lokānām bhartā hartā mad-ājñayā .. dātā dharma-artha-kāmānām śāstā durnaya-kāriṇām .. 2.2.25.20 ..
जगदीशो जगत्पूज्यो महाबलपराक्रमः ॥ अजेयस्त्वं रणे क्वापि ममापि हि भविष्यसि ॥ २१ ॥
॥ अजेयः त्वम् रणे क्वापि मम अपि हि भविष्यसि ॥ २१ ॥
.. ajeyaḥ tvam raṇe kvāpi mama api hi bhaviṣyasi .. 21 ..
शक्तित्रयं गृहाण त्वमिच्छादि प्रापितं मया ॥ नानालीलाप्रभावत्वं स्वतंत्रत्वं भवत्रये ॥ २२ ॥
शक्ति-त्रयम् गृहाण त्वम् इच्छा-आदि प्रापितम् मया ॥ ॥ २२ ॥
śakti-trayam gṛhāṇa tvam icchā-ādi prāpitam mayā .. .. 22 ..
त्वद्द्वेष्टारो हरे नूनं मया शास्याः प्रयत्नतः ॥ त्वद्भक्तानां मया विष्णो देयं निर्वाणमुत्तमम् ॥ २३ ॥
त्वद्-द्वेष्टारः हरे नूनम् मया शास्याः प्रयत्नतः ॥ त्वद्-भक्तानाम् मया विष्णो देयम् निर्वाणम् उत्तमम् ॥ २३ ॥
tvad-dveṣṭāraḥ hare nūnam mayā śāsyāḥ prayatnataḥ .. tvad-bhaktānām mayā viṣṇo deyam nirvāṇam uttamam .. 23 ..
मायां चापि गृहाणेमां दुःप्रणोद्यां सुरादिभिः ॥ यया संमोहितं विश्वमचिद्रूपं भविष्यति ॥ २४ ॥
मायाम् च अपि गृहाण इमाम् दुःप्रणोद्याम् सुर-आदिभिः ॥ यया संमोहितम् विश्वम् अचित्-रूपम् भविष्यति ॥ २४ ॥
māyām ca api gṛhāṇa imām duḥpraṇodyām sura-ādibhiḥ .. yayā saṃmohitam viśvam acit-rūpam bhaviṣyati .. 24 ..
मम बाहुर्मदीयस्तं दक्षिणोऽसौ विधिर्हरे ॥ अस्यापि हि विधेः पाता जनितापि भविष्यसि ॥ २५ ॥
मम बाहुः मदीयः तम् दक्षिणः असौ विधिः हरे ॥ अस्य अपि हि विधेः पाता जनिता अपि भविष्यसि ॥ २५ ॥
mama bāhuḥ madīyaḥ tam dakṣiṇaḥ asau vidhiḥ hare .. asya api hi vidheḥ pātā janitā api bhaviṣyasi .. 25 ..
हृदयं मम यो रुद्रस्स एवाहं न संशयः ॥ पूज्यस्तव सदा सोपि ब्रह्मादीनामपि ध्रुवम् ॥ २६ ॥
हृदयम् मम यः रुद्रः सः एव अहम् न संशयः ॥ पूज्यः तव सदा सः उपि ब्रह्म-आदीनाम् अपि ध्रुवम् ॥ २६ ॥
hṛdayam mama yaḥ rudraḥ saḥ eva aham na saṃśayaḥ .. pūjyaḥ tava sadā saḥ upi brahma-ādīnām api dhruvam .. 26 ..
अत्र स्थित्वा जगत्सर्वं पालय त्वं विशेषतः ॥ नानावतारभेदैश्च सदा नानोति कर्तृभिः ॥ २७ ॥
अत्र स्थित्वा जगत् सर्वम् पालय त्वम् विशेषतः ॥ नाना अवतार-भेदैः च सदा नानोति ति कर्तृभिः ॥ २७ ॥
atra sthitvā jagat sarvam pālaya tvam viśeṣataḥ .. nānā avatāra-bhedaiḥ ca sadā nānoti ti kartṛbhiḥ .. 27 ..
मम लोके तवेदं व स्थानं च परमर्द्धिमत् ॥ गोलोक इति विख्यातं भविष्यति महोज्ज्वलम् ॥ २८ ॥
मम लोके तव इदम् वः स्थानम् च परम-ऋद्धिमत् ॥ गोलोकः इति विख्यातम् भविष्यति महा-उज्ज्वलम् ॥ २८ ॥
mama loke tava idam vaḥ sthānam ca parama-ṛddhimat .. golokaḥ iti vikhyātam bhaviṣyati mahā-ujjvalam .. 28 ..
भविष्यंति हरे ये तेऽवतारा भुवि रक्षकाः ॥ मद्भक्तास्तान् ध्रुवं द्रक्ष्ये प्रीतानथ निजाद्वरात ॥ २९ ॥
भविष्यन्ति हरे ये ते अवताराः भुवि रक्षकाः ॥ मद्-भक्ताः तान् ध्रुवम् द्रक्ष्ये प्रीतान् अथ निजात् वरात ॥ २९ ॥
bhaviṣyanti hare ye te avatārāḥ bhuvi rakṣakāḥ .. mad-bhaktāḥ tān dhruvam drakṣye prītān atha nijāt varāta .. 29 ..
राम उवाच ।।
अखंडैश्वर्यमासाद्य हरेरित्थं हरस्स्वयम् ॥ कैलासे स्वगणैस्तस्मिन् स्वैरं क्रीडत्युमापतिः ॥ 2.2.25.३० ॥
अखंड-ऐश्वर्यम् आसाद्य हरेः इत्थम् हरः स्वयम् ॥ कैलासे स्व-गणैः तस्मिन् स्वैरम् क्रीडति उमापतिः ॥ २।२।२५।३० ॥
akhaṃḍa-aiśvaryam āsādya hareḥ ittham haraḥ svayam .. kailāse sva-gaṇaiḥ tasmin svairam krīḍati umāpatiḥ .. 2.2.25.30 ..
तदाप्रभृति लक्ष्मीशो गोपवेषोभवत्तथा ॥ अयासीत्तत्र सुप्रीत्या गोपगोपोगवां पतिः ॥ ३१ ॥
तदा प्रभृति लक्ष्मीशः गोप-वेषः भवत् तथा ॥ अयासीत् तत्र सु प्रीत्या गोप-गोपः गवाम् पतिः ॥ ३१ ॥
tadā prabhṛti lakṣmīśaḥ gopa-veṣaḥ bhavat tathā .. ayāsīt tatra su prītyā gopa-gopaḥ gavām patiḥ .. 31 ..
सोपि विष्णुः प्रसन्नात्मा जुगोप निखिलं जगत् ॥ नानावतारस्संधर्ता वनकर्ता शिवाज्ञया ॥ ३२ ॥
सः उपि विष्णुः प्रसन्न-आत्मा जुगोप निखिलम् जगत् ॥ ॥ ३२ ॥
saḥ upi viṣṇuḥ prasanna-ātmā jugopa nikhilam jagat .. .. 32 ..
इदानीं स चतुर्द्धात्रावातरच्छंकराज्ञया ॥ रामोहं तत्र भरतो लक्ष्मणश्शत्रुहेति च ॥ ३३ ॥
इदानीम् स चतुर्द्धात्रौ आतरत् शंकर-आज्ञया ॥ रामः उहम् तत्र भरतः लक्ष्मणः शत्रु-हा इति च ॥ ३३ ॥
idānīm sa caturddhātrau ātarat śaṃkara-ājñayā .. rāmaḥ uham tatra bharataḥ lakṣmaṇaḥ śatru-hā iti ca .. 33 ..
अथ पित्राज्ञया देवि ससीतालक्ष्मणस्सति ॥ आगतोहं वने चाद्य दुःखितौ दैवतो ऽभवम् ॥ ३४ ॥
अथ पितृ-आज्ञया देवि स सीता-लक्ष्मणः सति ॥ आगतः उहम् वने च अद्य दुःखितौ दैवतः अभवम् ॥ ३४ ॥
atha pitṛ-ājñayā devi sa sītā-lakṣmaṇaḥ sati .. āgataḥ uham vane ca adya duḥkhitau daivataḥ abhavam .. 34 ..
निशाचरेण मे जाया हृता सीतेति केनचित् ॥ अन्वेष्यामि प्रियां चात्र विरही बंधुना वने ॥ ३५ ॥
निशाचरेण मे जाया हृता सीता इति केनचिद् ॥ अन्वेष्यामि प्रियाम् च अत्र विरही बंधुना वने ॥ ३५ ॥
niśācareṇa me jāyā hṛtā sītā iti kenacid .. anveṣyāmi priyām ca atra virahī baṃdhunā vane .. 35 ..
दर्शनं ते यदि प्राप्तं सर्वथा कुशलं मम ॥ भविष्यति न संदेहो मातस्ते कृपया सति ॥ ३६ ॥
दर्शनम् ते यदि प्राप्तम् सर्वथा कुशलम् मम ॥ भविष्यति न संदेहः मातर् ते कृपया सति ॥ ३६ ॥
darśanam te yadi prāptam sarvathā kuśalam mama .. bhaviṣyati na saṃdehaḥ mātar te kṛpayā sati .. 36 ..
सीताप्राप्तिवरो देवि भविष्यति न संशयः ॥ तं हत्वा दुःखदं पापं राक्षसं त्वदनुग्रहात् ॥ ३७ ॥
सीता-प्राप्ति-वरः देवि भविष्यति न संशयः ॥ तम् हत्वा दुःख-दम् पापम् राक्षसम् त्वद्-अनुग्रहात् ॥ ३७ ॥
sītā-prāpti-varaḥ devi bhaviṣyati na saṃśayaḥ .. tam hatvā duḥkha-dam pāpam rākṣasam tvad-anugrahāt .. 37 ..
महद्भाग्यं ममाद्यैव यद्यकार्ष्टां कृपां युवाम् ॥ यस्मिन् सकरुणौ स्यातां स धन्यः पुरुषो वरः ॥ ३८ ॥
महत् भाग्यम् मम अद्य एव यदि अकार्ष्टाम् कृपाम् युवाम् ॥ यस्मिन् स करुणौ स्याताम् स धन्यः पुरुषः वरः ॥ ३८ ॥
mahat bhāgyam mama adya eva yadi akārṣṭām kṛpām yuvām .. yasmin sa karuṇau syātām sa dhanyaḥ puruṣaḥ varaḥ .. 38 ..
इत्थमाभाष्य बहुधा सुप्रणम्य सतीं शिवाम् ॥ तदाज्ञया वने तस्मिन् विचचार रघूद्वहः ॥ ३९ ॥
इत्थम् आभाष्य बहुधा सु प्रणम्य सतीम् शिवाम् ॥ तद्-आज्ञया वने तस्मिन् विचचार रघूद्वहः ॥ ३९ ॥
ittham ābhāṣya bahudhā su praṇamya satīm śivām .. tad-ājñayā vane tasmin vicacāra raghūdvahaḥ .. 39 ..
अथाकर्ण्य सती वाक्यं रामस्य प्रयतात्मनः ॥ हृष्टाभूत्सा प्रशंसन्ती शिवभक्तिरतं हृदि ॥ 2.2.25.४० ॥
अथ आकर्ण्य सती वाक्यम् रामस्य प्रयत-आत्मनः ॥ हृष्टा अभूत् सा प्रशंसन्ती शिव-भक्ति-रतम् हृदि ॥ २।२।२५।४० ॥
atha ākarṇya satī vākyam rāmasya prayata-ātmanaḥ .. hṛṣṭā abhūt sā praśaṃsantī śiva-bhakti-ratam hṛdi .. 2.2.25.40 ..
स्मृत्वा स्वकर्म मनसाकार्षीच्छोकं सुविस्तरम् ॥ प्रत्यागच्छदुदासीना विवर्णा शिवसन्निधौ॥ ४१॥
स्मृत्वा स्व-कर्म मनसा अकार्षीत् शोकम् सु विस्तरम् ॥ प्रत्यागच्छत् उदासीना विवर्णा शिव-सन्निधौ॥ ४१॥
smṛtvā sva-karma manasā akārṣīt śokam su vistaram .. pratyāgacchat udāsīnā vivarṇā śiva-sannidhau.. 41..
अचिंतयत्पथि सा देवी संचलंती पुनः पुनः ॥ नांगीकृतं शिवोक्तं मे रामं प्रति कुधीः कृता ॥ ४२॥
अचिंतयत् पथि सा देवी संचलन्ती पुनर् पुनर् ॥ न अंगीकृतम् शिव-उक्तम् मे रामम् प्रति कुधीः कृता ॥ ४२॥
aciṃtayat pathi sā devī saṃcalantī punar punar .. na aṃgīkṛtam śiva-uktam me rāmam prati kudhīḥ kṛtā .. 42..
किमुत्तरमहं दास्ये गत्वा शंकरसन्निधौ ॥ इति संचिंत्य बहुधा पश्चात्तापोऽभवत्तदा ॥ ४३॥
किम् उत्तरम् अहम् दास्ये गत्वा शंकर-सन्निधौ ॥ इति संचिंत्य बहुधा पश्चात्तापः अभवत् तदा ॥ ४३॥
kim uttaram aham dāsye gatvā śaṃkara-sannidhau .. iti saṃciṃtya bahudhā paścāttāpaḥ abhavat tadā .. 43..
गत्वा शंभुसमीपं च प्रणनाम शिवं हृदा ॥ विषण्णवदना शोकव्याकुला विगतप्रभा॥ ४४॥
गत्वा शंभु-समीपम् च प्रणनाम शिवम् हृदा ॥ विषण्ण-वदना शोक-व्याकुला विगत-प्रभा॥ ४४॥
gatvā śaṃbhu-samīpam ca praṇanāma śivam hṛdā .. viṣaṇṇa-vadanā śoka-vyākulā vigata-prabhā.. 44..
अथ तां दुःखितां दृष्ट्वा पप्रच्छ कुशलं हरः ॥ प्रोवाच वचनं प्रीत्या तत्परीक्षा कृता कथम् ॥ ४५ ॥
अथ ताम् दुःखिताम् दृष्ट्वा पप्रच्छ कुशलम् हरः ॥ प्रोवाच वचनम् प्रीत्या तद्-परीक्षा कृता कथम् ॥ ४५ ॥
atha tām duḥkhitām dṛṣṭvā papraccha kuśalam haraḥ .. provāca vacanam prītyā tad-parīkṣā kṛtā katham .. 45 ..
श्रुत्वा शिववचो नाहं किमपि प्रणतानना ॥ सती शोकविषण्णा सा तस्थौ तत्र समीपतः ॥ ४६ ॥
श्रुत्वा शिव-वचः न अहम् किम् अपि प्रणत-आनना ॥ सती शोक-विषण्णा सा तस्थौ तत्र समीपतस् ॥ ४६ ॥
śrutvā śiva-vacaḥ na aham kim api praṇata-ānanā .. satī śoka-viṣaṇṇā sā tasthau tatra samīpatas .. 46 ..
अथ ध्यात्वा महेशस्तु बुबोध चरितं हृदा ॥ दक्षजाया महायोगी नानालीला विशारदः ॥ ४७ ॥
अथ ध्यात्वा महेशः तु बुबोध चरितम् हृदा ॥ दक्ष-जाया महा-योगी नाना लीलाः विशारदः ॥ ४७ ॥
atha dhyātvā maheśaḥ tu bubodha caritam hṛdā .. dakṣa-jāyā mahā-yogī nānā līlāḥ viśāradaḥ .. 47 ..
सस्मार स्वपणं पूर्वं यत्कृतं हरिकोपतः ॥ तत्प्रार्थितोथ रुद्रोसौ मर्यादा प्रतिपालकः ॥ ४८ ॥
सस्मार स्व-पणम् पूर्वम् यत् कृतम् हरि-कोपतः ॥ तद्-प्रार्थिता उथ रुद्रा असौ मर्यादा प्रतिपालकः ॥ ४८ ॥
sasmāra sva-paṇam pūrvam yat kṛtam hari-kopataḥ .. tad-prārthitā utha rudrā asau maryādā pratipālakaḥ .. 48 ..
विषादोभूत्प्रभोस्तत्र मनस्येवमुवाच ह ॥ धर्मवक्ता धर्मकर्त्ता धर्मावनकरस्सदा ॥ ४९ ॥
विषादः भूत् प्रभोः तत्र मनसि एवम् उवाच ह ॥ ॥ ४९ ॥
viṣādaḥ bhūt prabhoḥ tatra manasi evam uvāca ha .. .. 49 ..
शिव उवाच ।।
कुर्यां चेद्दक्षजायां हि स्नेहं पूर्वं यथा महान् ॥ नश्येन्मम पणः शुद्धो लोकलीलानुसारिणः ॥ 2.2.25.५० ॥
कुर्याम् चेद् दक्ष-जायाम् हि स्नेहम् पूर्वम् यथा महान् ॥ नश्येत् मम पणः शुद्धः लोक-लीला-अनुसारिणः ॥ २।२।२५।५० ॥
kuryām ced dakṣa-jāyām hi sneham pūrvam yathā mahān .. naśyet mama paṇaḥ śuddhaḥ loka-līlā-anusāriṇaḥ .. 2.2.25.50 ..
ब्रह्मोवाच ।।
इत्थं विचार्य बहुधा हृदा तामत्यजत्सतीम् ॥ पणं न नाशयामास वेदधर्मप्रपालकः ॥ ५१ ॥
इत्थम् विचार्य बहुधा हृदा ताम् अत्यजत् सतीम् ॥ पणम् न नाशयामास वेद-धर्म-प्रपालकः ॥ ५१ ॥
ittham vicārya bahudhā hṛdā tām atyajat satīm .. paṇam na nāśayāmāsa veda-dharma-prapālakaḥ .. 51 ..
ततो विहाय मनसा सतीं तां परमेश्वरः ॥ जगाम स्वगिरि भेदं जगावद्धा स हि प्रभुः ॥ ५२ ॥
ततस् विहाय मनसा सतीम् ताम् परमेश्वरः ॥ जगाम स्व-गिरि भेदम् जगौ अद्धा स हि प्रभुः ॥ ५२ ॥
tatas vihāya manasā satīm tām parameśvaraḥ .. jagāma sva-giri bhedam jagau addhā sa hi prabhuḥ .. 52 ..
चलंतं पथि तं व्योमवाण्युवाच महेश्वरम् ॥ सर्वान् संश्रावयन् तत्र दक्षजां च विशेषतः ॥ ५३ ॥
चलन्तम् पथि तम् व्योमवाणी उवाच महेश्वरम् ॥ सर्वान् संश्रावयन् तत्र दक्षजाम् च विशेषतः ॥ ५३ ॥
calantam pathi tam vyomavāṇī uvāca maheśvaram .. sarvān saṃśrāvayan tatra dakṣajām ca viśeṣataḥ .. 53 ..
व्योमवाण्युवाच ।।
धन्यस्त्वं परमेशान त्वत्त्समोद्य तथा पणः ॥ न कोप्यन्यस्त्रिलोकेस्मिन् महायोगी महाप्रभुः ॥ ५४ ॥
धन्यः त्वम् परमेशान तथा पणः ॥ न कः अपि अन्यः त्रिलोके इस्मिन् महा-योगी महा-प्रभुः ॥ ५४ ॥
dhanyaḥ tvam parameśāna tathā paṇaḥ .. na kaḥ api anyaḥ triloke ismin mahā-yogī mahā-prabhuḥ .. 54 ..
ब्रह्मोवाच ।।
श्रुत्वा व्योमवचो देवी शिवं पप्रच्छ विप्रभा॥ कं पणं कृतवान्नाथ ब्रूहि मे परमेश्वर ॥ ५५ ॥
श्रुत्वा व्योम-वचः देवी शिवम् पप्रच्छ विप्रभा॥ कम् पणम् कृतवान् नाथ ब्रूहि मे परमेश्वर ॥ ५५ ॥
śrutvā vyoma-vacaḥ devī śivam papraccha viprabhā.. kam paṇam kṛtavān nātha brūhi me parameśvara .. 55 ..
इति पृष्टोपि गिरिशस्सत्या हितकरः प्रभुः ॥ नोद्वाहे स्वपणं तस्यै कहर्यग्रेऽकरोत्पुरा॥ ५६॥
इति पृष्टः अपि गिरिशः सत्या हित-करः प्रभुः ॥ न उद्वाहे स्व-पणम् तस्यै कहरी-अग्रे अकरोत् पुरा॥ ५६॥
iti pṛṣṭaḥ api giriśaḥ satyā hita-karaḥ prabhuḥ .. na udvāhe sva-paṇam tasyai kaharī-agre akarot purā.. 56..
तदा सती शिवं ध्यात्वा स्वपतिं प्राणवल्लभम्॥ सर्वं बुबोध हेतुं तं प्रियत्यागमयं मुने ॥ ५७॥
तदा सती शिवम् ध्यात्वा स्व-पतिम् प्राण-वल्लभम्॥ सर्वम् बुबोध हेतुम् तम् प्रिय-त्याग-मयम् मुने ॥ ५७॥
tadā satī śivam dhyātvā sva-patim prāṇa-vallabham.. sarvam bubodha hetum tam priya-tyāga-mayam mune .. 57..
ततोऽतीव शुशोचाशु बुध्वा सा त्यागमात्मनः ॥ शंभुना दक्षजा तस्मान्निश्वसंती मुहुर्मुहुः ॥ ५८॥
ततस् अतीव शुशोच आशु बुध्वा सा त्यागम् आत्मनः ॥ शंभुना दक्ष-जा तस्मात् निश्वसंती मुहुर् मुहुर् ॥ ५८॥
tatas atīva śuśoca āśu budhvā sā tyāgam ātmanaḥ .. śaṃbhunā dakṣa-jā tasmāt niśvasaṃtī muhur muhur .. 58..
शिवस्तस्याः समाज्ञाय गुप्तं चक्रे मनोभवम् ॥ सत्ये पणं स्वकीयं हि कथा बह्वीर्वदन्प्रभुः॥ ५९॥
शिवः तस्याः समाज्ञाय गुप्तम् चक्रे मनोभवम् ॥ सत्ये पणम् स्वकीयम् हि कथाः बह्वीः वदन् प्रभुः॥ ५९॥
śivaḥ tasyāḥ samājñāya guptam cakre manobhavam .. satye paṇam svakīyam hi kathāḥ bahvīḥ vadan prabhuḥ.. 59..
सत्या प्राप स कैलासं कथयन् विविधाः कथा ॥ वरे स्थित्वा निजं रूपं दधौ योगी समाधिभृत् ॥ 2.2.25.६०॥
सत्या प्राप स कैलासम् कथयन् विविधाः कथाः ॥ वरे स्थित्वा निजम् रूपम् योगी समाधि-भृत् ॥ २।२।२५।६०॥
satyā prāpa sa kailāsam kathayan vividhāḥ kathāḥ .. vare sthitvā nijam rūpam yogī samādhi-bhṛt .. 2.2.25.60..
तत्र तस्थौ सती धाम्नि महाविषण्णमानसा ॥ न बुबोध चरित्रं तत्कश्चिच्च शिवयोर्मुने ॥ ६१॥
तत्र तस्थौ सती धाम्नि महा-विषण्ण-मानसा ॥ न बुबोध चरित्रम् तत् कश्चिद् च शिवयोः मुने ॥ ६१॥
tatra tasthau satī dhāmni mahā-viṣaṇṇa-mānasā .. na bubodha caritram tat kaścid ca śivayoḥ mune .. 61..
महान्कालो व्यतीयाय तयोरित्थं महामुने ॥ स्वोपात्तदेहयोः प्रभ्वोर्लोकलीलानुसारिणोः ॥ ६२ ॥
महान् कालः व्यतीयाय तयोः इत्थम् महा-मुने ॥ स्व-उपात्त-देहयोः प्रभ्वोः लोक-लीला-अनुसारिणोः ॥ ६२ ॥
mahān kālaḥ vyatīyāya tayoḥ ittham mahā-mune .. sva-upātta-dehayoḥ prabhvoḥ loka-līlā-anusāriṇoḥ .. 62 ..
ध्यानं तत्याज गिरिशस्ततस्स परमार्तिहृत् ॥ तज्ज्ञात्वा जगदंबा हि सती तत्राजगाम सा ॥ ६३ ॥
ध्यानम् तत्याज गिरिशः ततस् स परम-आर्ति-हृत् ॥ तत् ज्ञात्वा जगदंबा हि सती तत्र आजगाम सा ॥ ६३ ॥
dhyānam tatyāja giriśaḥ tatas sa parama-ārti-hṛt .. tat jñātvā jagadaṃbā hi satī tatra ājagāma sā .. 63 ..
ननामाथ शिवं देवी हृदयेन विदूयता ॥ आसनं दत्तवाञ्शंभुः स्वसन्मुख उदारधीः ॥ ६४ ॥
ननाम अथ शिवम् देवी हृदयेन विदूयता ॥ आसनम् दत्तवान् शंभुः स्व-सन्मुखः उदार-धीः ॥ ६४ ॥
nanāma atha śivam devī hṛdayena vidūyatā .. āsanam dattavān śaṃbhuḥ sva-sanmukhaḥ udāra-dhīḥ .. 64 ..
कथयामास सुप्रीत्या कथा बह्वीर्मनोरमाः ॥ निश्शोका कृतवान्सद्यो लीलां कृत्वा च तादृशीम् ॥ ६५॥
कथयामास सु प्रीत्या कथाः बह्वीः मनोरमाः ॥ निश्शोका कृतवान् सद्यस् लीलाम् कृत्वा च तादृशीम् ॥ ६५॥
kathayāmāsa su prītyā kathāḥ bahvīḥ manoramāḥ .. niśśokā kṛtavān sadyas līlām kṛtvā ca tādṛśīm .. 65..
पूर्ववत्सा सुखं लेभे तत्याज स्वपणं न सः ॥ नेत्याश्चर्यं शिवे तात मंतव्यं परमेश्वरे ॥ ६६॥
पूर्ववत् सा सुखम् लेभे तत्याज स्व-पणम् न सः ॥ न इति आश्चर्यम् शिवे तात मंतव्यम् परमेश्वरे ॥ ६६॥
pūrvavat sā sukham lebhe tatyāja sva-paṇam na saḥ .. na iti āścaryam śive tāta maṃtavyam parameśvare .. 66..
इत्थं शिवाशिवकथां वदन्ति मुनयो मुने ॥ किल केचिदविद्वांसो वियोगश्च कथं तयोः ॥ ६७॥
इत्थम् शिव-अशिव-कथाम् वदन्ति मुनयः मुने ॥ किल केचिद् अविद्वांसः वियोगः च कथम् तयोः ॥ ६७॥
ittham śiva-aśiva-kathām vadanti munayaḥ mune .. kila kecid avidvāṃsaḥ viyogaḥ ca katham tayoḥ .. 67..
शिवाशिवचरित्रं को जानाति परमार्थतः ॥ स्वेच्छया क्रीडतस्तो हि चरितं कुरुतस्सदा ॥ ६८ ॥
शिव-अशिव-चरित्रम् कः जानाति परमार्थतः ॥ स्व-इच्छया क्रीडतः तः हि चरितम् कुरुतः सदा ॥ ६८ ॥
śiva-aśiva-caritram kaḥ jānāti paramārthataḥ .. sva-icchayā krīḍataḥ taḥ hi caritam kurutaḥ sadā .. 68 ..
वागर्थाविव संपृक्तौ सदा खलु सतीशिवौ॥ तयोर्वियोगस्संभाव्यस्संभवेदिच्छया तयोः॥ ६९॥
वाच्-अर्थौ इव संपृक्तौ सदा खलु सती-शिवौ॥ तयोः वियोगः संभाव्यः संभवेत् इच्छया तयोः॥ ६९॥
vāc-arthau iva saṃpṛktau sadā khalu satī-śivau.. tayoḥ viyogaḥ saṃbhāvyaḥ saṃbhavet icchayā tayoḥ.. 69..
इति श्रीशिवमहापुराणे द्द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीवियोगो नाम पंचविंशोऽध्यायः॥ २५॥
इति श्री-शिव-महापुराणे द्द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सतीखण्डे सतीवियोगः नाम पंचविंशः अध्यायः॥ २५॥
iti śrī-śiva-mahāpurāṇe ddvitīyāyām rudrasaṃhitāyām dvitīye satīkhaṇḍe satīviyogaḥ nāma paṃcaviṃśaḥ adhyāyaḥ.. 25..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In