एते हि सर्वे च सुरासुरा भृशं नमंति मां विप्रवरास्तथर्षयः ॥ कथं ह्यसौ दुर्जनवन्महामनास्त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥ १४ ॥
PADACHEDA
एते हि सर्वे च सुर-असुराः भृशम् नमंति माम् विप्र-वराः तथा ऋषयः ॥ कथम् हि असौ दुर्जन-वत् महामनाः तु अभूत् तु यः प्रेत-पिशाच-संवृतः ॥ १४ ॥
TRANSLITERATION
ete hi sarve ca sura-asurāḥ bhṛśam namaṃti mām vipra-varāḥ tathā ṛṣayaḥ .. katham hi asau durjana-vat mahāmanāḥ tu abhūt tu yaḥ preta-piśāca-saṃvṛtaḥ .. 14 ..
इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् ॥ शृण्वंत्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ॥ १७ ॥ ॥
PADACHEDA
इति एवम् उक्त्वा स महा-खलः तदा रुषा अन्वितः रुद्रम् इदम् हि अवोचत् ॥ शृण्वन्तु अमी विप्र-वराः तथा सुराः वध्यम् हि मे च अर्हथ कर्तुम् एतम् ॥ १७ ॥ ॥
TRANSLITERATION
iti evam uktvā sa mahā-khalaḥ tadā ruṣā anvitaḥ rudram idam hi avocat .. śṛṇvantu amī vipra-varāḥ tathā surāḥ vadhyam hi me ca arhatha kartum etam .. 17 .. ..
Participate in traditional Shiva Pūjā performed with authentic mantras, their meanings, and prescribed rituals for matrimony harmony, stability and longevity.