| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
पुराभवच्च सर्वेषामध्वरो विधिना महान् ॥ प्रयागे समवेतानां मुनीनां च महा त्मनाम् ॥ १॥
पुरा भवत् च सर्वेषाम् अध्वरः विधिना महान् ॥ प्रयागे समवेतानाम् मुनीनाम् च महा-त्मनाम् ॥ १॥
purā bhavat ca sarveṣām adhvaraḥ vidhinā mahān .. prayāge samavetānām munīnām ca mahā-tmanām .. 1..
तत्र सिद्धास्समायातास्सनकाद्यास्सुरर्षयः ॥ सप्रजापतयो देवा ज्ञानिनो ब्रह्मदर्शिनः ॥ २॥
तत्र सिद्धाः समायाताः सनक-आद्याः सुरर्षयः ॥ स प्रजापतयः देवाः ज्ञानिनः ब्रह्म-दर्शिनः ॥ २॥
tatra siddhāḥ samāyātāḥ sanaka-ādyāḥ surarṣayaḥ .. sa prajāpatayaḥ devāḥ jñāninaḥ brahma-darśinaḥ .. 2..
अहं समागतस्तत्र परिवारसमन्वितः ॥ निगमैरागमैर्युक्तो मूर्तिमद्भिर्महाप्रभैः ॥ ३॥
अहम् समागतः तत्र परिवार-समन्वितः ॥ निगमैः आगमैः युक्तः मूर्तिमद्भिः महा-प्रभैः ॥ ३॥
aham samāgataḥ tatra parivāra-samanvitaḥ .. nigamaiḥ āgamaiḥ yuktaḥ mūrtimadbhiḥ mahā-prabhaiḥ .. 3..
समाजोभूद्विचित्रो हि तेषामुत्सवसंयुः ॥ ज्ञानवादोऽभवत्तत्र नानाशास्त्रस मुद्भवः ॥ ४॥
समाजः भूत् विचित्रः हि तेषाम् उत्सव-संयुः ॥ ज्ञान-वादः अभवत् तत्र नाना शास्त्र-समुद्भवः ॥ ४॥
samājaḥ bhūt vicitraḥ hi teṣām utsava-saṃyuḥ .. jñāna-vādaḥ abhavat tatra nānā śāstra-samudbhavaḥ .. 4..
तस्मिन्नवसरे रुद्रस्सभवानीगणः प्रभुः ॥ त्रिलोकहितकृत्स्वामी तत्रागात्सूक्तिकृन्मुने॥ ५॥
तस्मिन् अवसरे रुद्रः स भवानी-गणः प्रभुः ॥ त्रिलोक-हित-कृत् स्वामी तत्र अगात् सूक्तिकृत् मुने॥ ५॥
tasmin avasare rudraḥ sa bhavānī-gaṇaḥ prabhuḥ .. triloka-hita-kṛt svāmī tatra agāt sūktikṛt mune.. 5..
दृष्ट्वा शिवं सुरास्सर्वे सिद्धाश्च मुनयस्तथा ॥ अनमंस्तं प्रभुं भक्त्या तुष्टुवुश्च तथा ह्यहम् ॥ ६॥
दृष्ट्वा शिवम् सुराः सर्वे सिद्धाः च मुनयः तथा ॥ अनमन् तम् प्रभुम् भक्त्या तुष्टुवुः च तथा हि अहम् ॥ ६॥
dṛṣṭvā śivam surāḥ sarve siddhāḥ ca munayaḥ tathā .. anaman tam prabhum bhaktyā tuṣṭuvuḥ ca tathā hi aham .. 6..
तस्थुश्शिवाज्ञया सर्वे यथास्थानं मुदान्विताः ॥ प्रभुदर्शनसंतुष्टाः वर्णयन्तो निजं विधिम् ॥ ७ ॥
तस्थुः शिव-आज्ञया सर्वे यथास्थानम् मुदा अन्विताः ॥ प्रभु-दर्शन-संतुष्टाः वर्णयन्तः निजम् विधिम् ॥ ७ ॥
tasthuḥ śiva-ājñayā sarve yathāsthānam mudā anvitāḥ .. prabhu-darśana-saṃtuṣṭāḥ varṇayantaḥ nijam vidhim .. 7 ..
तस्मिन्नवसरे दक्षः प्रजापतिपतिः प्रभुः ॥ आगमत्तत्र सुप्रीतस्सुवर्चस्वी यदृच्छया ॥ ८ ॥
तस्मिन् अवसरे दक्षः प्रजापति-पतिः प्रभुः ॥ आगमत् तत्र सु प्रीतः सु वर्चस्वी यदृच्छया ॥ ८ ॥
tasmin avasare dakṣaḥ prajāpati-patiḥ prabhuḥ .. āgamat tatra su prītaḥ su varcasvī yadṛcchayā .. 8 ..
मां प्रणम्य स दक्षो हि न्युष्टस्तत्र मदाज्ञया ॥ ब्रह्माण्डाधिपतिर्मान्यो मानी तत्त्वबहिर्मुखः ॥ ९ ॥
माम् प्रणम्य स दक्षः हि न्युष्टः तत्र मद्-आज्ञया ॥ ॥ ९ ॥
mām praṇamya sa dakṣaḥ hi nyuṣṭaḥ tatra mad-ājñayā .. .. 9 ..
स्तुतिभिः प्रणिपातैश्च दक्षस्सर्वैस्सुरर्षिभिः ॥ पूजितो वरतेजस्वी करौ बध्वा विनम्रकैः ॥ 2.2.26.१० ॥
स्तुतिभिः प्रणिपातैः च दक्षः सर्वैः सुर-ऋषिभिः ॥ पूजितः वर-तेजस्वी करौ बध्वा विनम्रकैः ॥ २।२।२६।१० ॥
stutibhiḥ praṇipātaiḥ ca dakṣaḥ sarvaiḥ sura-ṛṣibhiḥ .. pūjitaḥ vara-tejasvī karau badhvā vinamrakaiḥ .. 2.2.26.10 ..
नानाविहारकृन्नाथस्स्वतंत्र परमोतिकृत् ॥ नानामत्तं तदा दक्षं स्वासनस्थो महेश्वरः ॥ ११ ॥
कृत् ॥ नाना मत्तम् तदा दक्षम् स्व-आसन-स्थः महेश्वरः ॥ ११ ॥
kṛt .. nānā mattam tadā dakṣam sva-āsana-sthaḥ maheśvaraḥ .. 11 ..
दृष्टाऽनतं हरं तत्र स मे पुत्रोऽप्रसन्नधीः ॥ अकुपत्सहसा रुद्रे तदा दक्षः प्रजापतिः ॥ १२ ॥
दृष्टा आनतम् हरम् तत्र स मे पुत्रः अप्रसन्न-धीः ॥ अकुपत् सहसा रुद्रे तदा दक्षः प्रजापतिः ॥ १२ ॥
dṛṣṭā ānatam haram tatra sa me putraḥ aprasanna-dhīḥ .. akupat sahasā rudre tadā dakṣaḥ prajāpatiḥ .. 12 ..
क्रूरदृष्ट्या महागर्वो दृष्ट्वा रुद्रं महाप्रभुम् ॥ सर्वान्संश्रावयन्नुच्चैरवोचज्ज्ञानवर्जितः ॥ १३ ॥
क्रूर-दृष्ट्या महा-गर्वः दृष्ट्वा रुद्रम् महा-प्रभुम् ॥ सर्वान् संश्रावयन् उच्चैस् अवोचत् ज्ञान-वर्जितः ॥ १३ ॥
krūra-dṛṣṭyā mahā-garvaḥ dṛṣṭvā rudram mahā-prabhum .. sarvān saṃśrāvayan uccais avocat jñāna-varjitaḥ .. 13 ..
एते हि सर्वे च सुरासुरा भृशं नमंति मां विप्रवरास्तथर्षयः ॥ कथं ह्यसौ दुर्जनवन्महामनास्त्वभूत्तु यः प्रेतपिशाचसंवृतः ॥ १४ ॥
एते हि सर्वे च सुर-असुराः भृशम् नमंति माम् विप्र-वराः तथा ऋषयः ॥ कथम् हि असौ दुर्जन-वत् महामनाः तु अभूत् तु यः प्रेत-पिशाच-संवृतः ॥ १४ ॥
ete hi sarve ca sura-asurāḥ bhṛśam namaṃti mām vipra-varāḥ tathā ṛṣayaḥ .. katham hi asau durjana-vat mahāmanāḥ tu abhūt tu yaḥ preta-piśāca-saṃvṛtaḥ .. 14 ..
श्मशानवासी निरपत्रपो ह्ययं कथं प्रणामं न करोति मेऽधुना ॥ लुप्तक्रियो भूतपिशाचसेवितो मत्तोऽविधो नीतिविदूषकस्सदा ॥ १५॥
श्मशान-वासी निरपत्रपः हि अयम् कथम् प्रणामम् न करोति मे अधुना ॥ लुप्त-क्रियः भूत-पिशाच-सेवितः मत्तः अविधः नीति-विदूषकः सदा ॥ १५॥
śmaśāna-vāsī nirapatrapaḥ hi ayam katham praṇāmam na karoti me adhunā .. lupta-kriyaḥ bhūta-piśāca-sevitaḥ mattaḥ avidhaḥ nīti-vidūṣakaḥ sadā .. 15..
पाखंडिनो दुर्जनपाप शीला दृष्ट्वा द्विजं प्रोद्धतनिंदकाश्च ॥ वध्वां सदासक्तरतिप्रवीणस्तस्मादमुं शप्तुमहं प्रवृत्तः ॥ १६ ॥
पाखंडिनः दुर्जन-पाप-शीलाः दृष्ट्वा द्विजम् प्रोद्धत-निंदकाः च ॥ वध्वाम् सदा आसक्त-रति-प्रवीणः तस्मात् अमुम् शप्तुम् अहम् प्रवृत्तः ॥ १६ ॥
pākhaṃḍinaḥ durjana-pāpa-śīlāḥ dṛṣṭvā dvijam proddhata-niṃdakāḥ ca .. vadhvām sadā āsakta-rati-pravīṇaḥ tasmāt amum śaptum aham pravṛttaḥ .. 16 ..
ब्रह्मोवाच ।।
इत्येवमुक्त्वा स महाखलस्तदा रुषान्वितो रुद्रमिदं ह्यवोचत् ॥ शृण्वंत्वमी विप्रवरास्तथा सुरा वध्यं हि मे चार्हथ कर्तुमेतम् ॥ १७ ॥ ॥
इति एवम् उक्त्वा स महा-खलः तदा रुषा अन्वितः रुद्रम् इदम् हि अवोचत् ॥ शृण्वन्तु अमी विप्र-वराः तथा सुराः वध्यम् हि मे च अर्हथ कर्तुम् एतम् ॥ १७ ॥ ॥
iti evam uktvā sa mahā-khalaḥ tadā ruṣā anvitaḥ rudram idam hi avocat .. śṛṇvantu amī vipra-varāḥ tathā surāḥ vadhyam hi me ca arhatha kartum etam .. 17 .. ..
दक्ष उवाच ।। ।।
रुद्रो ह्ययं यज्ञबहिष्कृतो मे वर्णेष्वतीतोथ विवर्णरूपः ॥ देवैर्न भागं लभतां सहैव श्मशानवासी कुलजन्म हीनः ॥ १८ ॥
रुद्रः हि अयम् यज्ञ-बहिष्कृतः मे वर्णेषु अतीतः उथ विवर्ण-रूपः ॥ देवैः न भागम् लभताम् सह एव श्मशान-वासी कुल-जन्म हीनः ॥ १८ ॥
rudraḥ hi ayam yajña-bahiṣkṛtaḥ me varṇeṣu atītaḥ utha vivarṇa-rūpaḥ .. devaiḥ na bhāgam labhatām saha eva śmaśāna-vāsī kula-janma hīnaḥ .. 18 ..
।। ब्रह्मोवाच ।। ।।
इति दक्षोक्तमाकर्ण्य भृग्वाद्या बहवो जनाः ॥ अगर्हयन् दुष्टसत्त्वं रुद्रं मत्त्वामरैस्समम्। १९॥
इति दक्ष-उक्तम् आकर्ण्य भृगु-आद्याः बहवः जनाः ॥ अगर्हयन् दुष्ट-सत्त्वम् रुद्रम् मत्त्वा अमरैः समम्। १९॥
iti dakṣa-uktam ākarṇya bhṛgu-ādyāḥ bahavaḥ janāḥ .. agarhayan duṣṭa-sattvam rudram mattvā amaraiḥ samam. 19..
नन्दी निशम्य तद्वाक्यं लालाक्षोतिरुषान्वितः ॥ अब्रवीत्त्वरितं दक्षं शापं दातुमना गणः ॥ 2.2.26.२०॥
नन्दी निशम्य तद्-वाक्यम् लाला-क्षोति-रुषा-अन्वितः ॥ अब्रवीत् त्वरितम् दक्षम् शापम् दातु-मनाः गणः ॥ २।२।२६।२०॥
nandī niśamya tad-vākyam lālā-kṣoti-ruṣā-anvitaḥ .. abravīt tvaritam dakṣam śāpam dātu-manāḥ gaṇaḥ .. 2.2.26.20..
नन्दीश्वर उवाच ।।
रेरे शठ महा मूढ दक्ष दुष्टमते त्वया ॥ यज्ञबाह्यो हि मे स्वामी महेशो हि कृतः कथम् ॥ २१ ॥
रे रे शठ महा मूढ दक्ष दुष्ट-मते त्वया ॥ यज्ञ-बाह्यः हि मे स्वामी महेशः हि कृतः कथम् ॥ २१ ॥
re re śaṭha mahā mūḍha dakṣa duṣṭa-mate tvayā .. yajña-bāhyaḥ hi me svāmī maheśaḥ hi kṛtaḥ katham .. 21 ..
यस्य स्मरणमात्रेण भवंति सफला मखाः ॥ तीर्थानि च पवित्राणि सोयं शप्तो हरः कथम् ॥ २२ ॥
यस्य स्मरण-मात्रेण भवन्ति स फलाः मखाः ॥ तीर्थानि च पवित्राणि सः उयम् शप्तः हरः कथम् ॥ २२ ॥
yasya smaraṇa-mātreṇa bhavanti sa phalāḥ makhāḥ .. tīrthāni ca pavitrāṇi saḥ uyam śaptaḥ haraḥ katham .. 22 ..
वृथा ते ब्रह्मचापल्याच्छप्तोयं दक्ष दुर्मते ॥ वृथोपहसितश्चैवादुष्टो रुद्रो महा प्रभुः ॥ २३ ॥
वृथा ते ब्रह्म-चापल्यात् शप्ता उयम् दक्ष दुर्मते ॥ वृथा उपहसितः च एव अदुष्टः रुद्रः महा-प्रभुः ॥ २३ ॥
vṛthā te brahma-cāpalyāt śaptā uyam dakṣa durmate .. vṛthā upahasitaḥ ca eva aduṣṭaḥ rudraḥ mahā-prabhuḥ .. 23 ..
येनेदं पाल्यते विश्वं सृष्टमंते विनाशितम् ॥ शप्तोयं स कथं रुद्रो महेशो ब्राह्मणाधम ॥ २४ ॥
येन इदम् पाल्यते विश्वम् सृष्टम् अन्ते विनाशितम् ॥ शप्तः यम् स कथम् रुद्रः महेशः ब्राह्मण-अधम ॥ २४ ॥
yena idam pālyate viśvam sṛṣṭam ante vināśitam .. śaptaḥ yam sa katham rudraḥ maheśaḥ brāhmaṇa-adhama .. 24 ..
एवं निर्भत्सितस्तेन नन्दिना हि प्रजापतिः ॥ नन्दिनं च शशापाथ दक्षो रोषसमन्वितः ॥ २५॥
एवम् निर्भत्सितः तेन नन्दिना हि प्रजापतिः ॥ नन्दिनम् च शशाप अथ दक्षः रोष-समन्वितः ॥ २५॥
evam nirbhatsitaḥ tena nandinā hi prajāpatiḥ .. nandinam ca śaśāpa atha dakṣaḥ roṣa-samanvitaḥ .. 25..
दक्ष उवाच ।।
यूयं सर्वे रुद्रगणा वेदबाह्या भवंतु वै ॥ वेदमार्गपरित्यक्तास्तथा त्यक्ता महर्षिभिः ॥ २६॥
यूयम् सर्वे रुद्र-गणाः वेद-बाह्याः भवन्तु वै ॥ वेद-मार्ग-परित्यक्ताः तथा त्यक्ताः महा-ऋषिभिः ॥ २६॥
yūyam sarve rudra-gaṇāḥ veda-bāhyāḥ bhavantu vai .. veda-mārga-parityaktāḥ tathā tyaktāḥ mahā-ṛṣibhiḥ .. 26..
पाखंडवादनिरताः शिष्टाचारबहिष्कृताः ॥ मदिरापाननिरता जटा भस्मास्थिधारिणः ॥ २७ ॥
पाखंड-वाद-निरताः शिष्ट-आचार-बहिष्कृताः ॥ मदिरा-पान-निरताः जटा-भस्म-अस्थि-धारिणः ॥ २७ ॥
pākhaṃḍa-vāda-niratāḥ śiṣṭa-ācāra-bahiṣkṛtāḥ .. madirā-pāna-niratāḥ jaṭā-bhasma-asthi-dhāriṇaḥ .. 27 ..
ब्रह्मोवाच ।।
इति शप्तास्तथा तेन दक्षेण शिवकिंकराः ॥ तच्छ्रुत्वातिरुषाविष्टोभवन्नंदी शिवप्रियः॥ । ॥ २८॥
इति शप्ताः तथा तेन दक्षेण शिव-किंकराः ॥ तत् श्रुत्वा अति रुषा आविष्टः भवत्-नंदी शिवप्रियः॥ । ॥ २८॥
iti śaptāḥ tathā tena dakṣeṇa śiva-kiṃkarāḥ .. tat śrutvā ati ruṣā āviṣṭaḥ bhavat-naṃdī śivapriyaḥ.. . .. 28..
प्रत्युवाच द्रुतं पक्षं गर्वितं तं महाखलम् ॥ शिलादतनयो नंदी तेजस्वी शिववल्लभः ॥ २९ ॥
प्रत्युवाच द्रुतम् पक्षम् गर्वितम् तम् महा-खलम् ॥ शिलाद-तनयः नंदी तेजस्वी शिववल्लभः ॥ २९ ॥
pratyuvāca drutam pakṣam garvitam tam mahā-khalam .. śilāda-tanayaḥ naṃdī tejasvī śivavallabhaḥ .. 29 ..
नन्दीश्वर उवाच।।
रे दक्ष शठ दुर्बुद्धे वृथैव शिवकिंकराः ॥ शप्तास्ते ब्रह्मचापल्याच्छिवतत्त्वमजानता ॥ 2.2.26.३०॥
रे दक्ष शठ दुर्बुद्धे वृथा एव शिव-किंकराः ॥ शप्ताः ते ब्रह्म-चापल्यात् शिव-तत्त्वम् अ जानता ॥ २।२।२६।३०॥
re dakṣa śaṭha durbuddhe vṛthā eva śiva-kiṃkarāḥ .. śaptāḥ te brahma-cāpalyāt śiva-tattvam a jānatā .. 2.2.26.30..
भृग्वाद्यैर्दुष्टचित्तैश्च मूढैस्स उपहासितः॥ महा प्रभुर्महेशानो ब्राह्मणत्वादहंमते॥ ३१॥
भृगु-आद्यैः दुष्ट-चित्तैः च मूढैः सः उपहासितः॥ महा प्रभुः महेशानः ब्राह्मण-त्वात् अहंमते॥ ३१॥
bhṛgu-ādyaiḥ duṣṭa-cittaiḥ ca mūḍhaiḥ saḥ upahāsitaḥ.. mahā prabhuḥ maheśānaḥ brāhmaṇa-tvāt ahaṃmate.. 31..
ये रुद्रविमुखाश्चात्र ब्राह्मणास्त्वादृशाः खलाः॥ रुद्रतेजःप्रभावत्वात्तेषां शापं ददाम्यहम्॥ ३२॥
ये रुद्र-विमुखाः च अत्र ब्राह्मणाः त्वादृशाः खलाः॥ रुद्र-तेजः-प्रभाव-त्वात् तेषाम् शापम् ददामि अहम्॥ ३२॥
ye rudra-vimukhāḥ ca atra brāhmaṇāḥ tvādṛśāḥ khalāḥ.. rudra-tejaḥ-prabhāva-tvāt teṣām śāpam dadāmi aham.. 32..
वेदवादरता यूयं वेदतत्त्वबहिर्मुखाः ॥ भवंतु सततं विप्रा नान्यदस्तीति वादिनः ॥ ३३ ॥
वेद-वाद-रताः यूयम् वेद-तत्त्व-बहिर्मुखाः ॥ भवन्तु सततम् विप्राः न अन्यत् अस्ति इति वादिनः ॥ ३३ ॥
veda-vāda-ratāḥ yūyam veda-tattva-bahirmukhāḥ .. bhavantu satatam viprāḥ na anyat asti iti vādinaḥ .. 33 ..
कामात्मानर्स्स्वर्गपराः क्रोधलोभमदान्विताः॥ भवंतु सततं विप्रा भिक्षुका निरपत्रपाः॥ ३४॥
क्रोध-लोभ-मद-अन्विताः॥ भवन्तु सततम् विप्राः भिक्षुकाः निरपत्रपाः॥ ३४॥
krodha-lobha-mada-anvitāḥ.. bhavantu satatam viprāḥ bhikṣukāḥ nirapatrapāḥ.. 34..
वेदमार्गं पुरस्कृत्य ब्राह्मणाश्शूद्रयाजिनः ॥ दरिद्रा वै भविष्यंति प्रतिग्रहरता स्सदा॥ ३५॥
वेद-मार्गम् पुरस्कृत्य ब्राह्मणाः शूद्र-याजिनः ॥ दरिद्राः वै भविष्यन्ति प्रतिग्रह-रताः स्सदा॥ ३५॥
veda-mārgam puraskṛtya brāhmaṇāḥ śūdra-yājinaḥ .. daridrāḥ vai bhaviṣyanti pratigraha-ratāḥ ssadā.. 35..
असत्प्रतिग्रहाश्चैव सर्वे निरयगामिनः ॥ भविष्यंति सदा दक्ष केचिद्वै ब्रह्मराक्षसाः ॥ ३६॥
असत्-प्रतिग्रहाः च एव सर्वे निरय-गामिनः ॥ भविष्यन्ति सदा दक्ष केचिद् वै ब्रह्मराक्षसाः ॥ ३६॥
asat-pratigrahāḥ ca eva sarve niraya-gāminaḥ .. bhaviṣyanti sadā dakṣa kecid vai brahmarākṣasāḥ .. 36..
यश्शिवं सुरसामान्यमुद्दिश्य परमेश्वरम् ॥ द्रुह्यत्यजो दुष्टमतिस्तत्त्वतो विमुखो भवेत् ॥ ३७ ॥
यः शिवम् सुर-सामान्यम् उद्दिश्य परमेश्वरम् ॥ द्रुह्यति अजः दुष्ट-मतिः तत्त्वतः विमुखः भवेत् ॥ ३७ ॥
yaḥ śivam sura-sāmānyam uddiśya parameśvaram .. druhyati ajaḥ duṣṭa-matiḥ tattvataḥ vimukhaḥ bhavet .. 37 ..
कूटधर्मेषु गेहेषु सदा ग्राम्यसुखेच्छया ॥ कर्मतंत्रं वितनुता वेदवादं च शाश्वतम् ॥ ३८ ॥
कूट-धर्मेषु गेहेषु सदा ग्राम्य-सुख-इच्छया ॥ कर्मतंत्रम् वितनुता वेद-वादम् च शाश्वतम् ॥ ३८ ॥
kūṭa-dharmeṣu geheṣu sadā grāmya-sukha-icchayā .. karmataṃtram vitanutā veda-vādam ca śāśvatam .. 38 ..
विनष्टानंदकमुखो विस्मृतात्मगतिः पशुः ॥ भ्रष्टकर्मानयसदा दक्षो बस्तमुखोऽचिरात् ॥ ३९॥
विनष्ट-आनंदक-मुखः विस्मृत-आत्म-गतिः पशुः ॥ भ्रष्ट-कर्मा अनय-सदाः दक्षः बस्त-मुखः अचिरात् ॥ ३९॥
vinaṣṭa-ānaṃdaka-mukhaḥ vismṛta-ātma-gatiḥ paśuḥ .. bhraṣṭa-karmā anaya-sadāḥ dakṣaḥ basta-mukhaḥ acirāt .. 39..
शप्तास्ते कोपिना तत्र नंदिना ब्राह्मणा यदा॥ हाहाकारो महानासीच्छप्तो दक्षेण चेश्वरः॥ 2.2.26.४०॥
शप्ताः ते कोपिना तत्र नंदिना ब्राह्मणाः यदा॥ हाहाकारः महान् आसीत् शप्तः दक्षेण च ईश्वरः॥ २।२।२६।४०॥
śaptāḥ te kopinā tatra naṃdinā brāhmaṇāḥ yadā.. hāhākāraḥ mahān āsīt śaptaḥ dakṣeṇa ca īśvaraḥ.. 2.2.26.40..
तदाकर्ण्यामहत्यंतमनिंदंतं मुहुर्मुहुः॥ भृग्वादीनपि विप्रांश्च वेदसृट् शिव तत्त्ववित् ॥ ४१॥
तत् आकर्ण्य अ महत्यंतम् अ निंदंतम् मुहुर् मुहुर्॥ भृगु-आदीन् अपि विप्रान् च वेद-सृज् शिव तत्त्व-विद् ॥ ४१॥
tat ākarṇya a mahatyaṃtam a niṃdaṃtam muhur muhur.. bhṛgu-ādīn api viprān ca veda-sṛj śiva tattva-vid .. 41..
ईश्वरोपि वचः श्रुत्वा नंदिनः प्रहसन्निव ॥ उवाच मधुरं वाक्यं बोधयंस्तं सदाशिवः ॥ ४२॥
ईश्वरः उपि वचः श्रुत्वा नंदिनः प्रहसन् इव ॥ उवाच मधुरम् वाक्यम् बोधयन् तम् सदाशिवः ॥ ४२॥
īśvaraḥ upi vacaḥ śrutvā naṃdinaḥ prahasan iva .. uvāca madhuram vākyam bodhayan tam sadāśivaḥ .. 42..
सदाशिव उवाच ।।
शृणु नंदिन् महाप्राज्ञ न कर्तुं क्रोधमर्हसि॥ वृथा शप्तो ब्रह्मकुलो मत्वा शप्तं च मां भ्रमात् ॥ ४३ ॥
शृणु नंदिन् महा-प्राज्ञ न कर्तुम् क्रोधम् अर्हसि॥ वृथा शप्तः ब्रह्म-कुलः मत्वा शप्तम् च माम् भ्रमात् ॥ ४३ ॥
śṛṇu naṃdin mahā-prājña na kartum krodham arhasi.. vṛthā śaptaḥ brahma-kulaḥ matvā śaptam ca mām bhramāt .. 43 ..
वेदो मंत्राक्षरमयस्साक्षात्सूक्तमयो भृशम् ॥ सूक्ते प्रतिष्ठितो ह्यात्मा सर्वेषामपि देहिनाम् ॥ ४४ ॥
वेदः मंत्र-अक्षर-मयः साक्षात् सूक्त-मयः भृशम् ॥ सूक्ते प्रतिष्ठितः हि आत्मा सर्वेषाम् अपि देहिनाम् ॥ ४४ ॥
vedaḥ maṃtra-akṣara-mayaḥ sākṣāt sūkta-mayaḥ bhṛśam .. sūkte pratiṣṭhitaḥ hi ātmā sarveṣām api dehinām .. 44 ..
तस्मादात्मविदो नित्यं त्वं मा शप रुषान्वितः ॥ शप्या न वेदाः केनापि दुर्द्धियापि कदाचन ॥ ४५॥
तस्मात् आत्म-विदः नित्यम् त्वम् मा शप रुषा अन्वितः ॥ शप्याः न वेदाः केन अपि कदाचन ॥ ४५॥
tasmāt ātma-vidaḥ nityam tvam mā śapa ruṣā anvitaḥ .. śapyāḥ na vedāḥ kena api kadācana .. 45..
अहं शप्तो न चेदानीं तत्त्वतो बोद्धुमर्हसि॥ शान्तो भव महाधीमन्सनकादिविबोधकः ॥ ४६ ॥
अहम् शप्तः न च इदानीम् तत्त्वतः बोद्धुम् अर्हसि॥ शान्तः भव महा-धीमन् सनक-आदि-विबोधकः ॥ ४६ ॥
aham śaptaḥ na ca idānīm tattvataḥ boddhum arhasi.. śāntaḥ bhava mahā-dhīman sanaka-ādi-vibodhakaḥ .. 46 ..
यज्ञोहं यज्ञकर्माहं यज्ञांगानि च सर्वशः ॥ यतात्मा यज्ञनिरतो यज्ञबाह्योहमेव वै ॥ ४७ ॥
यज्ञः हम् यज्ञ-कर्मा अहम् यज्ञ-अंगानि च सर्वशस् ॥ यत-आत्मा यज्ञ-निरतः यज्ञ-बाह्यः उहम् एव वै ॥ ४७ ॥
yajñaḥ ham yajña-karmā aham yajña-aṃgāni ca sarvaśas .. yata-ātmā yajña-nirataḥ yajña-bāhyaḥ uham eva vai .. 47 ..
कोयं कस्त्वमिमे के हि सर्वोहमपि तत्त्वतः ॥ इति बुद्ध्या हि विमृश वृथा शप्तास्त्वया द्विजाः ॥ ४८ ॥
कः अयम् कः त्वम् इमे के हि सर्वः हम् अपि तत्त्वतः ॥ इति बुद्ध्या हि विमृश वृथा शप्ताः त्वया द्विजाः ॥ ४८ ॥
kaḥ ayam kaḥ tvam ime ke hi sarvaḥ ham api tattvataḥ .. iti buddhyā hi vimṛśa vṛthā śaptāḥ tvayā dvijāḥ .. 48 ..
तत्त्वज्ञानेन निर्हृत्य प्रपंचरचनो भव ॥ बुधस्स्वस्थो महाबुद्धे नन्दिन् क्रोधादिवर्जितः ॥ ४९ ॥
तत्त्व-ज्ञानेन निर्हृत्य प्रपंच-रचनः भव ॥ बुधः स्वस्थः महाबुद्धे नन्दिन् क्रोध-आदि-वर्जितः ॥ ४९ ॥
tattva-jñānena nirhṛtya prapaṃca-racanaḥ bhava .. budhaḥ svasthaḥ mahābuddhe nandin krodha-ādi-varjitaḥ .. 49 ..
ब्रह्मोवाच ।।
एवं प्रबोधितस्तेन शम्भुना नन्दिकेश्वरः ॥ विवेकपरमो भूत्वा शांतोऽभूत्क्रोधवर्जितः ॥ 2.2.26.५०॥
एवम् प्रबोधितः तेन शम्भुना नन्दिकेश्वरः ॥ विवेक-परमः भूत्वा शांतः अभूत् क्रोध-वर्जितः ॥ २।२।२६।५०॥
evam prabodhitaḥ tena śambhunā nandikeśvaraḥ .. viveka-paramaḥ bhūtvā śāṃtaḥ abhūt krodha-varjitaḥ .. 2.2.26.50..
शिवोपि तं प्रबोध्याशु स्वगणं प्राणवल्लभम् ॥ सगणस्स ययौ तस्मात्स्वस्थानं प्रमुदान्वितः ॥ ५१ ॥
शिवः उपि तम् प्रबोध्य आशु स्व-गणम् प्राण-वल्लभम् ॥ स गणः स ययौ तस्मात् स्व-स्थानम् प्रमुदा अन्वितः ॥ ५१ ॥
śivaḥ upi tam prabodhya āśu sva-gaṇam prāṇa-vallabham .. sa gaṇaḥ sa yayau tasmāt sva-sthānam pramudā anvitaḥ .. 51 ..
दक्षोपि स रुषाविष्टस्तैर्द्धिजैः परिवारितः ॥ स्वस्थानं च ययौ चित्ते शिवद्रो हपरायणः ॥ ५२ ॥
दक्षः अपि स रुषा आविष्टः तैः ऋद्धिजैः परिवारितः ॥ स्व-स्थानम् च ययौ चित्ते शिवद्रः ह-परायणः ॥ ५२ ॥
dakṣaḥ api sa ruṣā āviṣṭaḥ taiḥ ṛddhijaiḥ parivāritaḥ .. sva-sthānam ca yayau citte śivadraḥ ha-parāyaṇaḥ .. 52 ..
रुद्रं तदानीं परिशप्यमानं संस्मृत्य दक्षः परया रुषान्वितः ॥ श्रद्धां विहायैव स मूढबुद्धिर्निंदापरोभूच्छिवपूजकानाम् ॥ ५३ ॥
रुद्रम् तदानीम् परिशप्यमानम् संस्मृत्य दक्षः परया रुषा अन्वितः ॥ श्रद्धाम् विहाय एव स मूढ-बुद्धिः निंदा-परः भूत् शिव-पूजकानाम् ॥ ५३ ॥
rudram tadānīm pariśapyamānam saṃsmṛtya dakṣaḥ parayā ruṣā anvitaḥ .. śraddhām vihāya eva sa mūḍha-buddhiḥ niṃdā-paraḥ bhūt śiva-pūjakānām .. 53 ..
इत्युक्तो दक्षदुर्बुद्धिश्शंभुना परमात्मना ॥ परां दुर्धिषणां तस्य शृणु तात वदाम्यहम् ॥ ५४ ॥ ॥
इति उक्तः दक्ष-दुर्बुद्धिः शंभुना परमात्मना ॥ पराम् दुर्धिषणाम् तस्य शृणु तात वदामि अहम् ॥ ५४ ॥ ॥
iti uktaḥ dakṣa-durbuddhiḥ śaṃbhunā paramātmanā .. parām durdhiṣaṇām tasya śṛṇu tāta vadāmi aham .. 54 .. ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीयखण्डे सत्युपाख्याने शिवेन दक्षविरोधो नाम षड्विंशोऽध्यायः ॥ २६ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीय-खण्डे सति उपाख्याने शिवेन दक्षविरोधः नाम षड्विंशः अध्यायः ॥ २६ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīya-khaṇḍe sati upākhyāne śivena dakṣavirodhaḥ nāma ṣaḍviṃśaḥ adhyāyaḥ .. 26 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In