| |
|

This overlay will guide you through the buttons:

।। ब्रह्मोवाच ।।
एकदा तु मुने तेन यज्ञः प्रारंभितो महान् ॥ तत्राहूतास्तदा सर्वे दीक्षितेन सुरर्षयः ॥ १ ॥
एकदा तु मुने तेन यज्ञः प्रारंभितः महान् ॥ तत्र आहूताः तदा सर्वे दीक्षितेन सुर-ऋषयः ॥ १ ॥
ekadā tu mune tena yajñaḥ prāraṃbhitaḥ mahān .. tatra āhūtāḥ tadā sarve dīkṣitena sura-ṛṣayaḥ .. 1 ..
महर्षयोऽखिलास्तत्र निर्जराश्च समागताः ॥ यद्यज्ञकरणार्थं हि शिवमायाविमोहितः ॥ २ ॥
महा-ऋषयः अखिलाः तत्र निर्जराः च समागताः ॥ यद्-यज्ञ-करण-अर्थम् हि शिव-माया-विमोहितः ॥ २ ॥
mahā-ṛṣayaḥ akhilāḥ tatra nirjarāḥ ca samāgatāḥ .. yad-yajña-karaṇa-artham hi śiva-māyā-vimohitaḥ .. 2 ..
अगस्त्यः कश्यपोत्रिश्च वामदेवस्तथा भृगुः ॥ दधीचिर्भगवान् व्यासो भारद्वाजोऽथ गौतमः ॥ ३ ॥
अगस्त्यः कश्यपः उत्रिः च वामदेवः तथा भृगुः ॥ दधीचिः भगवान् व्यासः भारद्वाजः अथ गौतमः ॥ ३ ॥
agastyaḥ kaśyapaḥ utriḥ ca vāmadevaḥ tathā bhṛguḥ .. dadhīciḥ bhagavān vyāsaḥ bhāradvājaḥ atha gautamaḥ .. 3 ..
पैलः पराशरो गर्गो भार्गवः ककुपस्सितः ॥ सुमंतुत्रिककंकाश्च वैशंपायन एव च ॥ ४ ॥
पैलः पराशरः गर्गः भार्गवः ककुपः सितः ॥ सुमंतु-त्रिक-कंकाः च वैशंपायनः एव च ॥ ४ ॥
pailaḥ parāśaraḥ gargaḥ bhārgavaḥ kakupaḥ sitaḥ .. sumaṃtu-trika-kaṃkāḥ ca vaiśaṃpāyanaḥ eva ca .. 4 ..
एते चान्ये च बहवो मुनयो हर्षिता ययु ॥ मम पुत्रस्य दक्षस्य सदारास्ससुता मखम् ॥ ५ ॥
एते च अन्ये च बहवः मुनयः हर्षिताः ययु ॥ मम पुत्रस्य दक्षस्य स दाराः स सुताः मखम् ॥ ५ ॥
ete ca anye ca bahavaḥ munayaḥ harṣitāḥ yayu .. mama putrasya dakṣasya sa dārāḥ sa sutāḥ makham .. 5 ..
तथा सर्वे सुरगणा लोकपाला महोदयाः ॥ तथोपनिर्जरास्सर्वे स्वापकारबलान्विताः ॥ ६ ॥
तथा सर्वे सुर-गणाः लोकपालाः महोदयाः ॥ तथा उपनिर्जराः सर्वे स्वापकार-बल-अन्विताः ॥ ६ ॥
tathā sarve sura-gaṇāḥ lokapālāḥ mahodayāḥ .. tathā upanirjarāḥ sarve svāpakāra-bala-anvitāḥ .. 6 ..
सत्यलोकात्समानीतो नुतोहं विश्वकारकः॥ ससुतस्स परीवारो मूर्तवेदापिसंयुतः ॥ ७ ॥
सत्य-लोकात् समानीतः नुत उहम् विश्व-कारकः॥ परीवारः मूर्त-वेद-अपि-संयुतः ॥ ७ ॥
satya-lokāt samānītaḥ nuta uham viśva-kārakaḥ.. parīvāraḥ mūrta-veda-api-saṃyutaḥ .. 7 ..
वैकुंठाच्च तथा विष्णुस्संप्रार्थ्य विविधादरात् ॥ सपार्षदपरीवारस्समानीतो मखं प्रति ॥ ८॥
वैकुंठात् च तथा विष्णुः संप्रार्थ्य विविध-आदरात् ॥ स पार्षद-परीवारः समानीतः मखम् प्रति ॥ ८॥
vaikuṃṭhāt ca tathā viṣṇuḥ saṃprārthya vividha-ādarāt .. sa pārṣada-parīvāraḥ samānītaḥ makham prati .. 8..
एवमन्ये समायाता दक्षयज्ञं विमोहिताः ॥ सत्कृतास्तेन दक्षेन सर्वे ते हि दुरात्मना ॥ ९ ॥
एवम् अन्ये समायाताः दक्ष-यज्ञम् विमोहिताः ॥ सत्कृताः तेन दक्षेन सर्वे ते हि दुरात्मना ॥ ९ ॥
evam anye samāyātāḥ dakṣa-yajñam vimohitāḥ .. satkṛtāḥ tena dakṣena sarve te hi durātmanā .. 9 ..
भवनानि महार्हाणि सुप्रभाणि महांति च ॥ त्वष्ट्रा कृतानि दिव्यानि तेभ्यो दत्तानि तेन वै ॥ 2.2.27.१० ॥
भवनानि महार्हाणि सु प्रभाणि महान्ति च ॥ त्वष्ट्रा कृतानि दिव्यानि तेभ्यः दत्तानि तेन वै ॥ २।२।२७।१० ॥
bhavanāni mahārhāṇi su prabhāṇi mahānti ca .. tvaṣṭrā kṛtāni divyāni tebhyaḥ dattāni tena vai .. 2.2.27.10 ..
तेषु सर्वेषु धिष्ण्येषु यथायोग्यं च संस्थिताः ॥ सन्मानिता अराजंस्ते सकला विष्णुना मया ॥ ११ ॥
तेषु सर्वेषु धिष्ण्येषु यथायोग्यम् च संस्थिताः ॥ सत्-मानिताः अराजन् ते सकलाः विष्णुना मया ॥ ११ ॥
teṣu sarveṣu dhiṣṇyeṣu yathāyogyam ca saṃsthitāḥ .. sat-mānitāḥ arājan te sakalāḥ viṣṇunā mayā .. 11 ..
वर्त्तमाने महायज्ञे तीर्थे कनखले तदा ॥ ऋत्विजश्च कृतास्तेन भृग्वाद्याश्च तपोधनाः ॥ १२ ॥
वर्त्तमाने महा-यज्ञे तीर्थे कनखले तदा ॥ ऋत्विजः च कृताः तेन भृगु-आद्याः च तपोधनाः ॥ १२ ॥
varttamāne mahā-yajñe tīrthe kanakhale tadā .. ṛtvijaḥ ca kṛtāḥ tena bhṛgu-ādyāḥ ca tapodhanāḥ .. 12 ..
अधिष्ठाता स्वयं विष्णुस्सह सर्वमरुद्गणैः ॥ अहं तत्राऽभवं ब्रह्मा त्रयीविधिनिदर्शकः ॥ १३ ॥
अधिष्ठाता स्वयम् विष्णुः सह सर्व-मरुत्-गणैः ॥ अहम् तत्र अभवम् ब्रह्मा त्रयी-विधि-निदर्शकः ॥ १३ ॥
adhiṣṭhātā svayam viṣṇuḥ saha sarva-marut-gaṇaiḥ .. aham tatra abhavam brahmā trayī-vidhi-nidarśakaḥ .. 13 ..
तथैव सर्वदिक्पाला द्वारपालाश्च रक्षकाः ॥ सायुधास्सपरीवाराः कुतूहलकरास्सदा ॥ १४ ॥
तथा एव सर्व-दिक्पालाः द्वारपालाः च रक्षकाः ॥ स आयुधाः स परीवाराः कुतूहल-कराः सदा ॥ १४ ॥
tathā eva sarva-dikpālāḥ dvārapālāḥ ca rakṣakāḥ .. sa āyudhāḥ sa parīvārāḥ kutūhala-karāḥ sadā .. 14 ..
उपतस्थे स्वयं यज्ञस्सुरूपस्तस्य चाध्वरे॥ सर्वे महामुनिश्रेष्ठाः स्वयं वेदधराऽभवन् ॥ १५॥
उपतस्थे स्वयम् यज्ञः सुरूपः तस्य च अध्वरे॥ सर्वे महा-मुनि-श्रेष्ठाः स्वयम् वेद-धराः अभवन् ॥ १५॥
upatasthe svayam yajñaḥ surūpaḥ tasya ca adhvare.. sarve mahā-muni-śreṣṭhāḥ svayam veda-dharāḥ abhavan .. 15..
तनूनपादपि निजं चक्रे रूपं सहस्रशः ॥ हविषा ग्रहणायाशु तस्मिन् यज्ञे महोत्सवे ॥ १६ ॥
तनूनपात् अपि निजम् चक्रे रूपम् सहस्रशस् ॥ हविषा ग्रहणाय आशु तस्मिन् यज्ञे महा-उत्सवे ॥ १६ ॥
tanūnapāt api nijam cakre rūpam sahasraśas .. haviṣā grahaṇāya āśu tasmin yajñe mahā-utsave .. 16 ..
अष्टाशीतिसहस्राणि जुह्वति सह ऋत्विजः ॥ उद्गातारश्चतुषष्टि सहस्राणि सुरर्षयः ॥ १७॥
अष्टाशीति-सहस्राणि जुह्वति सह ऋत्विजः ॥ उद्गातारः चतुषष्टि सहस्राणि सुरर्षयः ॥ १७॥
aṣṭāśīti-sahasrāṇi juhvati saha ṛtvijaḥ .. udgātāraḥ catuṣaṣṭi sahasrāṇi surarṣayaḥ .. 17..
अध्वर्यवोथ होतारस्तावन्तो नारदादयः ॥ सप्तर्षयस्समा गाथाः कुर्वंति स्म पृथक्पृथक् ॥ १८॥
अध्वर्यवः उथ होतारः तावन्तः नारद-आदयः ॥ सप्तर्षयः समाः गाथाः कुर्वंति स्म पृथक् पृथक् ॥ १८॥
adhvaryavaḥ utha hotāraḥ tāvantaḥ nārada-ādayaḥ .. saptarṣayaḥ samāḥ gāthāḥ kurvaṃti sma pṛthak pṛthak .. 18..
गंधर्वविद्याधरसिद्धसंघानादित्यसंघान् सगणान् सयज्ञान् ॥ संख्यावरान्नागचरान् समस्तान् वव्रे स दक्षो हि महाध्वरे स्वे ॥ १९ ॥
गंधर्व-विद्याधर-सिद्ध-संघान् आदित्य-संघान् स गणान् स यज्ञान् ॥ संख्या-वरान् नाग-चरान् समस्तान् वव्रे स दक्षः हि महा-अध्वरे स्वे ॥ १९ ॥
gaṃdharva-vidyādhara-siddha-saṃghān āditya-saṃghān sa gaṇān sa yajñān .. saṃkhyā-varān nāga-carān samastān vavre sa dakṣaḥ hi mahā-adhvare sve .. 19 ..
द्विजर्षिराजर्षिसुरर्षिसंघा नृपास्समित्राः सचिवास्स सैन्याः ॥ वसुप्रमुख्या गणदेवताश्च सर्वे वृतास्तेन मखोपवेत्त्राः ॥ 2.2.27.२० ॥
द्विजर्षि-राजर्षि-सुरर्षि-संघाः नृपाः स मित्राः सचिवाः स सैन्याः ॥ वसु-प्रमुख्याः गणदेवताः च सर्वे वृताः तेन मख-उपवेत्त्राः ॥ २।२।२७।२० ॥
dvijarṣi-rājarṣi-surarṣi-saṃghāḥ nṛpāḥ sa mitrāḥ sacivāḥ sa sainyāḥ .. vasu-pramukhyāḥ gaṇadevatāḥ ca sarve vṛtāḥ tena makha-upavettrāḥ .. 2.2.27.20 ..
दीक्षायुक्तस्तदा दक्षः कृतकौतुकमंगलः ॥ भार्यया सहितो रेजे कृतस्वस्त्ययनो भृशम् ॥ २१ ॥
दीक्षा-युक्तः तदा दक्षः कृत-कौतुकमंगलः ॥ भार्यया सहितः रेजे कृत-स्वस्त्ययनः भृशम् ॥ २१ ॥
dīkṣā-yuktaḥ tadā dakṣaḥ kṛta-kautukamaṃgalaḥ .. bhāryayā sahitaḥ reje kṛta-svastyayanaḥ bhṛśam .. 21 ..
तस्मिन् यज्ञे वृतश्शंभुर्न दक्षेण दुरात्मना ॥ कपालीति विनिश्चित्य तस्य यज्ञार्हता न हि ॥ २२ ॥
तस्मिन् यज्ञे वृतः शंभुः न दक्षेण दुरात्मना ॥ कपाली इति विनिश्चित्य तस्य यज्ञ-अर्ह-ता न हि ॥ २२ ॥
tasmin yajñe vṛtaḥ śaṃbhuḥ na dakṣeṇa durātmanā .. kapālī iti viniścitya tasya yajña-arha-tā na hi .. 22 ..
कपालिभार्येति सती दयिता स्वसुतापि च ॥ नाहूता यज्ञविषये दक्षेणागुणदर्शिना ॥ २३ ॥
कपालि-भार्या इति सती दयिता स्व-सुता अपि च ॥ न आहूताः यज्ञ-विषये दक्षेण अ गुण-दर्शिना ॥ २३ ॥
kapāli-bhāryā iti satī dayitā sva-sutā api ca .. na āhūtāḥ yajña-viṣaye dakṣeṇa a guṇa-darśinā .. 23 ..
एवं प्रवर्तमाने हि दक्षयज्ञे महोत्सवे ॥ स्वकार्यलग्नास्तत्रासन् सर्वे तेऽध्वरसंमताः ॥ २४ ॥
एवम् प्रवर्तमाने हि दक्ष-यज्ञे महा-उत्सवे ॥ स्व-कार्य-लग्नाः तत्र आसन् सर्वे ते अध्वर-संमताः ॥ २४ ॥
evam pravartamāne hi dakṣa-yajñe mahā-utsave .. sva-kārya-lagnāḥ tatra āsan sarve te adhvara-saṃmatāḥ .. 24 ..
एतस्मिन्नंतरेऽदृष्ट्वा तत्र वै शंकरं प्रभुम् ॥ प्रोद्विग्नमानसश्शैवो दधीचो वाक्यमब्रवीत् ॥ २५ ॥
एतस्मिन् अन्तरे अ दृष्ट्वा तत्र वै शंकरम् प्रभुम् ॥ प्रोद्विग्न-मानसः शैवः दधीचः वाक्यम् अब्रवीत् ॥ २५ ॥
etasmin antare a dṛṣṭvā tatra vai śaṃkaram prabhum .. prodvigna-mānasaḥ śaivaḥ dadhīcaḥ vākyam abravīt .. 25 ..
दधीच उवाच ।। ।।
सर्वे शृणुत मद्वाक्यं देवर्षिप्रमुखा मुदा ॥ कस्मान्नैवागतश्शंभुरस्मिन् यज्ञे महोत्सवे ॥ २६॥
सर्वे शृणुत मद्-वाक्यम् देवर्षि-प्रमुखाः मुदा ॥ कस्मात् न एव आगतः शंभुः अस्मिन् यज्ञे महा-उत्सवे ॥ २६॥
sarve śṛṇuta mad-vākyam devarṣi-pramukhāḥ mudā .. kasmāt na eva āgataḥ śaṃbhuḥ asmin yajñe mahā-utsave .. 26..
एते सुरेशा मुनयो महत्तरास्सलोकपालाश्च समागता हि ॥ तथापि यज्ञस्तु न शोभते भृशं पिनाकिना तेन महात्मना विना ॥ २७॥
एते सुर-ईशाः मुनयः महत्तराः स लोकपालाः च समागताः हि ॥ तथा अपि यज्ञः तु न शोभते भृशम् पिनाकिना तेन महात्मना विना ॥ २७॥
ete sura-īśāḥ munayaḥ mahattarāḥ sa lokapālāḥ ca samāgatāḥ hi .. tathā api yajñaḥ tu na śobhate bhṛśam pinākinā tena mahātmanā vinā .. 27..
येनैव सर्वाण्यपि मंगलानि भवंति शंसन्ति महाविपश्चितः ॥ सोऽसौ न दृष्टोऽत्र पुमान् पुराणो वृषध्वजो नीलगलः परेशः ॥ २८ ॥
येन एव सर्वाणि अपि मंगलानि भवन्ति शंसन्ति महा-विपश्चितः ॥ सः असौ न दृष्टः अत्र पुमान् पुराणः वृषध्वजः नीलगलः परेशः ॥ २८ ॥
yena eva sarvāṇi api maṃgalāni bhavanti śaṃsanti mahā-vipaścitaḥ .. saḥ asau na dṛṣṭaḥ atra pumān purāṇaḥ vṛṣadhvajaḥ nīlagalaḥ pareśaḥ .. 28 ..
अमंगलान्येव च मंगलानि भवंति येनाधिगतानि दक्षः ॥ त्रिपंचकेनाप्यथ मंगलानि भवंति सद्यः परतः पुराणि ॥ २९॥
अमंगलानि एव च मंगलानि भवन्ति येन अधिगतानि दक्षः ॥ त्रिपंचकेन अपि अथ मंगलानि भवन्ति सद्यस् परतस् पुराणि ॥ २९॥
amaṃgalāni eva ca maṃgalāni bhavanti yena adhigatāni dakṣaḥ .. tripaṃcakena api atha maṃgalāni bhavanti sadyas paratas purāṇi .. 29..
तस्मात्त्वयैव कर्तव्यमाह्वानं परमेशितुः ॥ त्वरितं ब्रह्मणा वापि विष्णुना प्रभुविष्णुना॥ 2.2.27.३०॥
तस्मात् त्वया एव कर्तव्यम् आह्वानम् परमेशितुः ॥ त्वरितम् ब्रह्मणा वा अपि विष्णुना प्रभु-विष्णुना॥ २।२।२७।३०॥
tasmāt tvayā eva kartavyam āhvānam parameśituḥ .. tvaritam brahmaṇā vā api viṣṇunā prabhu-viṣṇunā.. 2.2.27.30..
इन्द्रेण लोकपालैश्च द्विजैस्सिद्धैस्सहाधुना ॥ सर्वथाऽऽनयनीयोसौ शंकरो यज्ञपूर्त्तये ॥ ३१॥
इन्द्रेण लोकपालैः च द्विजैः सिद्धैः सह अधुना ॥ सर्वथा आनयनीया उसौ शंकरः यज्ञ-पूर्त्तये ॥ ३१॥
indreṇa lokapālaiḥ ca dvijaiḥ siddhaiḥ saha adhunā .. sarvathā ānayanīyā usau śaṃkaraḥ yajña-pūrttaye .. 31..
सर्वैर्भवद्भिर्गंतव्यं यत्र देवो महेश्वरः॥ दाक्षायण्या समं शम्भुमानयध्वं त्वरान्विताः ॥ ३२ ॥
सर्वैः भवद्भिः गंतव्यम् यत्र देवः महेश्वरः॥ दाक्षायण्या समम् शम्भुम् आनयध्वम् त्वरा-अन्विताः ॥ ३२ ॥
sarvaiḥ bhavadbhiḥ gaṃtavyam yatra devaḥ maheśvaraḥ.. dākṣāyaṇyā samam śambhum ānayadhvam tvarā-anvitāḥ .. 32 ..
तेन सर्वं पवित्रं स्याच्छम्भुना परमात्मना ॥ अत्रागतेन देवेशास्सांबेन परमात्मना ॥ ३३॥
तेन सर्वम् पवित्रम् स्यात् शम्भुना परमात्मना ॥ अत्रा आगतेन देवेशाः स अंबेन परमात्मना ॥ ३३॥
tena sarvam pavitram syāt śambhunā paramātmanā .. atrā āgatena deveśāḥ sa aṃbena paramātmanā .. 33..
यस्य स्मृत्या च नामोक्त्या समग्रं सुकृतं भवेत् ॥ तस्मात्सर्वप्रयत्नेन ह्यानेतव्यो वृषध्वजः ॥ ३४॥
यस्य स्मृत्या च नाम-उक्त्या समग्रम् सुकृतम् भवेत् ॥ तस्मात् सर्व-प्रयत्नेन हि आनेतव्यः वृषध्वजः ॥ ३४॥
yasya smṛtyā ca nāma-uktyā samagram sukṛtam bhavet .. tasmāt sarva-prayatnena hi ānetavyaḥ vṛṣadhvajaḥ .. 34..
समागते शंकरेऽत्र पावनो हि भवेन्मखः ॥ भविष्यत्यन्यथाऽपूर्णः सत्यमेतद्ब्रवीम्यहम् ॥ ३५ ॥
समागते शंकरे अत्र पावनः हि भवेत् मखः ॥ भविष्यति अन्यथा अपूर्णः सत्यम् एतत् ब्रवीमि अहम् ॥ ३५ ॥
samāgate śaṃkare atra pāvanaḥ hi bhavet makhaḥ .. bhaviṣyati anyathā apūrṇaḥ satyam etat bravīmi aham .. 35 ..
ब्रह्मोवाच ।।
तस्य तद्वचनं श्रुत्वा दक्षो रोषसमन्वितः॥ उवाच त्वरितं मूढः प्रहसन्निव दुष्टधीः ॥ ३६॥
तस्य तत् वचनम् श्रुत्वा दक्षः रोष-समन्वितः॥ उवाच त्वरितम् मूढः प्रहसन् इव दुष्ट-धीः ॥ ३६॥
tasya tat vacanam śrutvā dakṣaḥ roṣa-samanvitaḥ.. uvāca tvaritam mūḍhaḥ prahasan iva duṣṭa-dhīḥ .. 36..
मूलं विष्णुर्देवतानां यत्र धर्मस्सनातनः॥ समानीतो मया सम्यक् किमूनं यज्ञकर्मणि ॥ ३७॥
मूलम् विष्णुः देवतानाम् यत्र धर्मः सनातनः॥ समानीतः मया सम्यक् किम् ऊनम् यज्ञ-कर्मणि ॥ ३७॥
mūlam viṣṇuḥ devatānām yatra dharmaḥ sanātanaḥ.. samānītaḥ mayā samyak kim ūnam yajña-karmaṇi .. 37..
यस्मिन्वेदाश्च यज्ञाश्च कर्माणि विविधानि च ॥ प्रतिष्ठितानि सर्वाणि सोऽसौ विष्णुरिहागतः॥ ३८॥
यस्मिन् वेदाः च यज्ञाः च कर्माणि विविधानि च ॥ प्रतिष्ठितानि सर्वाणि सः असौ विष्णुः इह आगतः॥ ३८॥
yasmin vedāḥ ca yajñāḥ ca karmāṇi vividhāni ca .. pratiṣṭhitāni sarvāṇi saḥ asau viṣṇuḥ iha āgataḥ.. 38..
सत्यलोकात्समायातो ब्रह्मा लोकपितामहः ॥ वेदैस्सोपनिषद्भिश्च विविधैरागमैस्सह ॥ ३९ ॥
सत्य-लोकात् समायातः ब्रह्मा लोकपितामहः ॥ वेदैः स उपनिषद्भिः च विविधैः आगमैः सह ॥ ३९ ॥
satya-lokāt samāyātaḥ brahmā lokapitāmahaḥ .. vedaiḥ sa upaniṣadbhiḥ ca vividhaiḥ āgamaiḥ saha .. 39 ..
तथा सुरगणैस्साकमागतस्सुरराट् स्वयम्॥ तथा यूयं समायाता ऋषयो वीतकल्मषाः ॥ 2.2.27.४०॥
तथा सुर-गणैः साकम् आगतः सुरराज् स्वयम्॥ तथा यूयम् समायाताः ऋषयः वीत-कल्मषाः ॥ २।२।२७।४०॥
tathā sura-gaṇaiḥ sākam āgataḥ surarāj svayam.. tathā yūyam samāyātāḥ ṛṣayaḥ vīta-kalmaṣāḥ .. 2.2.27.40..
येये यज्ञोचिताश्शांताः पात्रभूतास्समागताः ॥ वेदवेदार्थतत्त्वज्ञास्सर्वे यूयं दृढव्रताः ॥ ॥ ४१ ॥
ये ये यज्ञ-उचिताः शांताः पात्र-भूताः समागताः ॥ वेद-वेद-अर्थ-तत्त्व-ज्ञाः सर्वे यूयम् दृढ-व्रताः ॥ ॥ ४१ ॥
ye ye yajña-ucitāḥ śāṃtāḥ pātra-bhūtāḥ samāgatāḥ .. veda-veda-artha-tattva-jñāḥ sarve yūyam dṛḍha-vratāḥ .. .. 41 ..
अत्रैव च किमस्माकं रुद्रेणापि प्रयोजनम् ॥ कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ॥ ४२ ॥
अत्रा एव च किम् अस्माकम् रुद्रेण अपि प्रयोजनम् ॥ कन्या दत्ता मया विप्र ब्रह्मणा नोदितेन हि ॥ ४२ ॥
atrā eva ca kim asmākam rudreṇa api prayojanam .. kanyā dattā mayā vipra brahmaṇā noditena hi .. 42 ..
हरोऽकुलीनोसौ विप्र पितृमातृविवर्जितः ॥ भूतप्रेतपिशाचानां पतिरेको दुरत्ययः ॥ ४३॥
हरः-अकुलीनः असौ विप्र पितृ-मातृ-विवर्जितः ॥ भूत-प्रेत-पिशाचानाम् पतिः एकः दुरत्ययः ॥ ४३॥
haraḥ-akulīnaḥ asau vipra pitṛ-mātṛ-vivarjitaḥ .. bhūta-preta-piśācānām patiḥ ekaḥ duratyayaḥ .. 43..
आत्मसंभावितो मूढ स्तब्धो मौनी समत्सरः ॥ कर्मण्यस्मिन्न योग्योसौ नानीतो हि मयाऽधुना ॥ ४४॥
आत्म-संभावितः मूढ स्तब्धः मौनी स मत्सरः ॥ कर्मणि अस्मिन् न योग्यः असौ न आनीतः हि मया अधुना ॥ ४४॥
ātma-saṃbhāvitaḥ mūḍha stabdhaḥ maunī sa matsaraḥ .. karmaṇi asmin na yogyaḥ asau na ānītaḥ hi mayā adhunā .. 44..
तस्मात्त्वमीदृशं वाक्यं पुनर्वाच्यं न हि क्वचित् ॥ सर्वेर्भवद्भिः कर्तव्यो यज्ञो मे सफलो महान् ॥ ४५॥
तस्मात् त्वम् ईदृशम् वाक्यम् पुनर् वाच्यम् न हि क्वचिद् ॥ सर्वेः भवद्भिः कर्तव्यः यज्ञः मे सफलः महान् ॥ ४५॥
tasmāt tvam īdṛśam vākyam punar vācyam na hi kvacid .. sarveḥ bhavadbhiḥ kartavyaḥ yajñaḥ me saphalaḥ mahān .. 45..
ब्रह्मोवाच।।
एतच्छ्रुत्वा वचस्तस्य दधीचो वाक्यमब्रवीत्॥ सर्वेषां शृण्वतां देवमुनीनां सारसं युतम् ॥ ४६ ॥
एतत् श्रुत्वा वचः तस्य दधीचः वाक्यम् अब्रवीत्॥ सर्वेषाम् शृण्वताम् देव-मुनीनाम् सारसम् युतम् ॥ ४६ ॥
etat śrutvā vacaḥ tasya dadhīcaḥ vākyam abravīt.. sarveṣām śṛṇvatām deva-munīnām sārasam yutam .. 46 ..
दधीच उवाच ।।
अयज्ञोयं महाजातो विना तेन शिवेन हि ॥ विनाशोपि विशेषेण ह्यत्र ते हि भविष्यति ॥ ४७॥
अयज्ञः उयम् महा-जातः विना तेन शिवेन हि ॥ विनाशः अपि विशेषेण हि अत्र ते हि भविष्यति ॥ ४७॥
ayajñaḥ uyam mahā-jātaḥ vinā tena śivena hi .. vināśaḥ api viśeṣeṇa hi atra te hi bhaviṣyati .. 47..
एवमुक्त्वा दधीचोसावेक एव विनिर्गतः ॥ यज्ञवाटाच्च दक्षस्य त्वरितः स्वाश्रमं ययौ॥ ४८॥
एवम् उक्त्वा दधीचः उसौ एकः एव विनिर्गतः ॥ यज्ञ-वाटात् च दक्षस्य त्वरितः स्व-आश्रमम् ययौ॥ ४८॥
evam uktvā dadhīcaḥ usau ekaḥ eva vinirgataḥ .. yajña-vāṭāt ca dakṣasya tvaritaḥ sva-āśramam yayau.. 48..
ततोन्ये शांकरा ये च मुख्याश्शिवमतानुगाः ॥ निर्ययुस्स्वाश्रमान् सद्यश्शापं दत्त्वा तथैव च ॥ ४९॥
ततस् न्ये शांकराः ये च मुख्याः शिव-मत-अनुगाः ॥ निर्ययुः स्व-आश्रमान् सद्यस् शापम् दत्त्वा तथा एव च ॥ ४९॥
tatas nye śāṃkarāḥ ye ca mukhyāḥ śiva-mata-anugāḥ .. niryayuḥ sva-āśramān sadyas śāpam dattvā tathā eva ca .. 49..
मुनौ विनिर्गते तस्मिन् मखादन्येषु दुष्टधीः ॥ शिवद्रोही मुनीन् दक्षः प्रहसन्निदमब्रवीत् ॥ 2.2.27.५० ॥
मुनौ विनिर्गते तस्मिन् मखात् अन्येषु दुष्ट-धीः ॥ शिव-द्रोही मुनीन् दक्षः प्रहसन् इदम् अब्रवीत् ॥ २।२।२७।५० ॥
munau vinirgate tasmin makhāt anyeṣu duṣṭa-dhīḥ .. śiva-drohī munīn dakṣaḥ prahasan idam abravīt .. 2.2.27.50 ..
गतः शिवप्रियो विप्रो दधीचो नाम नामतः ॥ अन्ये तथाविधा ये च गतास्ते मम चाध्वरात् ॥ ५१ ॥
गतः शिवप्रियः विप्रः दधीचः नाम नामतः ॥ अन्ये तथाविधाः ये च गताः ते मम च अध्वरात् ॥ ५१ ॥
gataḥ śivapriyaḥ vipraḥ dadhīcaḥ nāma nāmataḥ .. anye tathāvidhāḥ ye ca gatāḥ te mama ca adhvarāt .. 51 ..
एतच्छुभतरं जातं संमतं मे हि सर्वथा ॥ सत्यं ब्रवीमि देवेश सुराश्च मुनयस्तथा ॥ ५२ ॥
एतत् शुभतरम् जातम् संमतम् मे हि सर्वथा ॥ सत्यम् ब्रवीमि देवेश सुराः च मुनयः तथा ॥ ५२ ॥
etat śubhataram jātam saṃmatam me hi sarvathā .. satyam bravīmi deveśa surāḥ ca munayaḥ tathā .. 52 ..
विनष्टचित्ता मंदाश्च मिथ्यावादरताः खलाः ॥ वेदबाह्या दुराचारास्त्याज्यास्ते मखकर्मणि॥ ५३॥
विनष्ट-चित्ताः मंदाः च मिथ्या वाद-रताः खलाः ॥ वेद-बाह्याः दुराचाराः त्याज्याः ते मख-कर्मणि॥ ५३॥
vinaṣṭa-cittāḥ maṃdāḥ ca mithyā vāda-ratāḥ khalāḥ .. veda-bāhyāḥ durācārāḥ tyājyāḥ te makha-karmaṇi.. 53..
वेदवादरता यूयं सर्वे विष्णुपुरोगमाः ॥ यज्ञं मे सफलं विप्रास्सुराः कुर्वंतु माऽचिरम् ॥ ५४ ॥
वेद-वाद-रताः यूयम् सर्वे विष्णु-पुरोगमाः ॥ यज्ञम् मे सफलम् विप्राः सुराः कुर्वन्तु मा अचिरम् ॥ ५४ ॥
veda-vāda-ratāḥ yūyam sarve viṣṇu-purogamāḥ .. yajñam me saphalam viprāḥ surāḥ kurvantu mā aciram .. 54 ..
ब्रह्मोवाच ।।
इत्याकर्ण्य वचस्तस्य शिवमायाविमोहिताः ॥ यन्मखे देवयजनं चक्रुस्सर्वे सुरर्षयः ॥ ५५ ॥
इति आकर्ण्य वचः तस्य शिव-माया-विमोहिताः ॥ यत् मखे देव-यजनम् चक्रुः सर्वे सुरर्षयः ॥ ५५ ॥
iti ākarṇya vacaḥ tasya śiva-māyā-vimohitāḥ .. yat makhe deva-yajanam cakruḥ sarve surarṣayaḥ .. 55 ..
इति तन्मखशापो हि वर्णितो मे मुनीश्वर ॥ यज्ञविध्वंसयोगोपि प्रोच्यते शृणु सादरम् ॥ ५६ ॥
इति तद्-मख-शापः हि वर्णितः मे मुनि-ईश्वर ॥ यज्ञ-विध्वंस-योगः उपि प्रोच्यते शृणु सादरम् ॥ ५६ ॥
iti tad-makha-śāpaḥ hi varṇitaḥ me muni-īśvara .. yajña-vidhvaṃsa-yogaḥ upi procyate śṛṇu sādaram .. 56 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In