| |
|

This overlay will guide you through the buttons:

ब्रह्मोवाच ।।
यदा ययुर्दक्षमखमुत्सवेन सुरर्षयः ॥ तस्मिन्नैवांतरे देवो पर्वते गंधमादने ॥ १ ॥
यदा ययुः दक्ष-मखम् उत्सवेन सुरर्षयः ॥ तस्मिन् न एव अन्तरे पर्वते गंधमादने ॥ १ ॥
yadā yayuḥ dakṣa-makham utsavena surarṣayaḥ .. tasmin na eva antare parvate gaṃdhamādane .. 1 ..
धारागृहे वितानेन सखीभिः परिवारिता ॥ दाक्षायणी महाक्रीडाश्चकार विविधास्सती ॥ २॥
धारागृहे वितानेन सखीभिः परिवारिता ॥ दाक्षायणी महा-क्रीडाः चकार विविधाः सती ॥ २॥
dhārāgṛhe vitānena sakhībhiḥ parivāritā .. dākṣāyaṇī mahā-krīḍāḥ cakāra vividhāḥ satī .. 2..
क्रीडासक्ता तदा देवी ददर्शाथ मुदा सती॥ दक्षयज्ञे प्रयांतं च रोहिण्या पृच्छ्य सत्वरम् ॥ ३ ॥
क्रीडा-सक्ता तदा देवी ददर्श अथ मुदा सती॥ दक्ष-यज्ञे प्रयांतम् च रोहिण्या पृच्छ्य स त्वरम् ॥ ३ ॥
krīḍā-saktā tadā devī dadarśa atha mudā satī.. dakṣa-yajñe prayāṃtam ca rohiṇyā pṛcchya sa tvaram .. 3 ..
दृष्ट्वा सीमंतया भूतां विजयां प्राह सा सती ॥ स्वसखीं प्रवरां प्राणप्रियां सा हि हितावहाम् ॥ ॥ ४ ॥
दृष्ट्वा सीमंतया भूताम् विजयाम् प्राह सा सती ॥ स्व-सखीम् प्रवराम् प्राण-प्रियाम् सा हि हित-आवहाम् ॥ ॥ ४ ॥
dṛṣṭvā sīmaṃtayā bhūtām vijayām prāha sā satī .. sva-sakhīm pravarām prāṇa-priyām sā hi hita-āvahām .. .. 4 ..
सत्युवाच ।।
हे सखीप्रवरे प्राणप्रिये त्वं विजये मम ॥ क्व गमिष्यति चन्द्रोयं रोहिण्यापृच्छ्य सत्वरम् ॥ ५ ॥
हे सखी-प्रवरे प्राण-प्रिये त्वम् विजये मम ॥ क्व गमिष्यति चन्द्रः यम् रोहिण्या आपृच्छ्य स त्वरम् ॥ ५ ॥
he sakhī-pravare prāṇa-priye tvam vijaye mama .. kva gamiṣyati candraḥ yam rohiṇyā āpṛcchya sa tvaram .. 5 ..
ब्रह्मोवाच ।।
तथोक्ता विजया सत्या गत्वा तत्सन्निधौ द्रुतम्॥ क्व गच्छसीति पप्रच्छ शशिनं तं यथोचितम्॥ ६॥
तथा उक्ता विजया सत्या गत्वा तद्-सन्निधौ द्रुतम्॥ क्व गच्छसि इति पप्रच्छ शशिनम् तम् यथोचितम्॥ ६॥
tathā uktā vijayā satyā gatvā tad-sannidhau drutam.. kva gacchasi iti papraccha śaśinam tam yathocitam.. 6..
विजयोक्तमथाकर्ण्य स्वयात्रां पूर्वमादरात् ॥ कथितं तेन तत्सर्वं दक्षयज्ञोत्सवादिकम् ॥ ७॥
विजय-उक्तम् अथ आकर्ण्य स्व-यात्राम् पूर्वम् आदरात् ॥ कथितम् तेन तत् सर्वम् दक्ष-यज्ञ-उत्सव-आदिकम् ॥ ७॥
vijaya-uktam atha ākarṇya sva-yātrām pūrvam ādarāt .. kathitam tena tat sarvam dakṣa-yajña-utsava-ādikam .. 7..
तच्छ्रुत्वा विजया देवीं त्वरिता जातसंभ्रमा॥ कथयामास तत्सर्वं यदुक्तं शशिना सतीम् ॥ ८॥
तत् श्रुत्वा विजया देवीम् त्वरिता जात-संभ्रमा॥ कथयामास तत् सर्वम् यत् उक्तम् शशिना सतीम् ॥ ८॥
tat śrutvā vijayā devīm tvaritā jāta-saṃbhramā.. kathayāmāsa tat sarvam yat uktam śaśinā satīm .. 8..
तच्छ्रुत्वा कालिका देवी विस्मिताभूत्सती तदा॥ विमृश्य कारणं तत्राज्ञात्वा चेतस्यचिंतयत् ॥ ९॥
तत् श्रुत्वा कालिका देवी विस्मिता अभूत् सती तदा॥ विमृश्य कारणम् तत्र अ ज्ञात्वा चेतसि अचिंतयत् ॥ ९॥
tat śrutvā kālikā devī vismitā abhūt satī tadā.. vimṛśya kāraṇam tatra a jñātvā cetasi aciṃtayat .. 9..
दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ॥ आह्वानं न करोति स्म विस्मृता मां प्रियां सुताम् ॥ 2.2.28.१०॥
दक्षः पिता मे माता च वीरिणी नौ कुतस्सती ॥ आह्वानम् न करोति स्म विस्मृता माम् प्रियाम् सुताम् ॥ २।२।२८।१०॥
dakṣaḥ pitā me mātā ca vīriṇī nau kutassatī .. āhvānam na karoti sma vismṛtā mām priyām sutām .. 2.2.28.10..
पृच्छेयं शंकरं तत्र कारणं सर्वमादरात् ॥ चिंतयित्वेति सासीद्वै तत्र गंतुं सुनिश्चया ॥ ११ ॥
पृच्छेयम् शंकरम् तत्र कारणम् सर्वम् आदरात् ॥ चिंतयित्वा इति सा आसीत् वै तत्र गंतुम् सु निश्चया ॥ ११ ॥
pṛccheyam śaṃkaram tatra kāraṇam sarvam ādarāt .. ciṃtayitvā iti sā āsīt vai tatra gaṃtum su niścayā .. 11 ..
अथ दाक्षायणी देवी विजयां प्रवरां सखीम् ॥ स्थापयित्वा द्रुतं तत्र समगच्छच्छिवांतिकम् ॥ १२ ॥
अथ दाक्षायणी देवी विजयाम् प्रवराम् सखीम् ॥ स्थापयित्वा द्रुतम् तत्र समगच्छत् शिव-अन्तिकम् ॥ १२ ॥
atha dākṣāyaṇī devī vijayām pravarām sakhīm .. sthāpayitvā drutam tatra samagacchat śiva-antikam .. 12 ..
ददर्श तं सभामध्ये संस्थितं बहुभिर्गणैः ॥ नंद्यादिभिर्महावीरैः प्रवरैर्यूथयूथपै ॥ १३ ॥
ददर्श तम् सभा-मध्ये संस्थितम् बहुभिः गणैः ॥ नंदि-आदिभिः महा-वीरैः प्रवरैः यूथ-यूथपैः ॥ १३ ॥
dadarśa tam sabhā-madhye saṃsthitam bahubhiḥ gaṇaiḥ .. naṃdi-ādibhiḥ mahā-vīraiḥ pravaraiḥ yūtha-yūthapaiḥ .. 13 ..
दृष्ट्वा तं प्रभुमीशानं स्वपतिं साथ दक्षजा ॥ प्रष्टुं तत्कारणं शीघ्रं प्राप शंकरसंनिधिम् ॥ १४ ॥
दृष्ट्वा तम् प्रभुम् ईशानम् स्व-पतिम् सा अथ दक्षजा ॥ प्रष्टुम् तद्-कारणम् शीघ्रम् प्राप शंकर-संनिधिम् ॥ १४ ॥
dṛṣṭvā tam prabhum īśānam sva-patim sā atha dakṣajā .. praṣṭum tad-kāraṇam śīghram prāpa śaṃkara-saṃnidhim .. 14 ..
शिवेन स्थापिता स्वांके प्रीतियुक्तेन स्वप्रिया ॥ प्रमोदिता वचोभिस्सा बहुमानपुरस्सरम् ॥ १५ ॥
शिवेन स्थापिता स्व-अंके प्रीति-युक्तेन स्व-प्रिया ॥ प्रमोदिता वचोभिः सा बहु-मान-पुरस्सरम् ॥ १५ ॥
śivena sthāpitā sva-aṃke prīti-yuktena sva-priyā .. pramoditā vacobhiḥ sā bahu-māna-purassaram .. 15 ..
अथ शंभुर्महालीलस्सर्वेशस्सुखदस्सताम् ॥ सतीमुवाच त्वरितं गणमध्यस्थ आदरात् ॥ १६ ॥
अथ शंभुः महा-लीलः सर्व-ईशः सुख-दः सताम् ॥ सतीम् उवाच त्वरितम् गण-मध्य-स्थः आदरात् ॥ १६ ॥
atha śaṃbhuḥ mahā-līlaḥ sarva-īśaḥ sukha-daḥ satām .. satīm uvāca tvaritam gaṇa-madhya-sthaḥ ādarāt .. 16 ..
शंभुरुवाच ।।
किमर्थमागतात्र त्वं सभामध्ये सविस्मया ॥ कारणं तस्य सुप्रीत्या शीघ्रं वद सुमध्यमे ॥ १७ ॥
किमर्थम् आगता अत्र त्वम् सभा-मध्ये स विस्मया ॥ कारणम् तस्य सु प्रीत्या शीघ्रम् वद सुमध्यमे ॥ १७ ॥
kimartham āgatā atra tvam sabhā-madhye sa vismayā .. kāraṇam tasya su prītyā śīghram vada sumadhyame .. 17 ..
ब्रह्मोवाच ।।
एवमुक्ता तदा तेन महेशेन मुनीश्वर ॥ सांजलिस्सुप्रणम्याशु सत्युवाच प्रभुं शिवा ॥ १८ ॥
एवम् उक्ता तदा तेन महेशेन मुनि-ईश्वर ॥ स अंजलिः सु प्रणम्य आशु सती उवाच प्रभुम् शिवा ॥ १८ ॥
evam uktā tadā tena maheśena muni-īśvara .. sa aṃjaliḥ su praṇamya āśu satī uvāca prabhum śivā .. 18 ..
सत्युवाच ।।
पितुर्मम महान् यज्ञो भवतीति मया श्रुतम् ॥ तत्रोत्सवो महानस्ति समवेतास्सुरर्षयः ॥ १९ ॥
पितुः मम महान् यज्ञः भवति इति मया श्रुतम् ॥ तत्र उत्सवः महान् अस्ति समवेताः सुर-ऋषयः ॥ १९ ॥
pituḥ mama mahān yajñaḥ bhavati iti mayā śrutam .. tatra utsavaḥ mahān asti samavetāḥ sura-ṛṣayaḥ .. 19 ..
पितुर्मम महायज्ञे कस्मात्तव न रोचते ॥ गमनं देवदेवेश तत्सर्वं कथय प्रभो ॥ 2.2.28.२० ॥
पितुः मम महा-यज्ञे कस्मात् तव न रोचते ॥ गमनम् देवदेवेश तत् सर्वम् कथय प्रभो ॥ २।२।२८।२० ॥
pituḥ mama mahā-yajñe kasmāt tava na rocate .. gamanam devadeveśa tat sarvam kathaya prabho .. 2.2.28.20 ..
सुहृदामेष वै धर्मस्सुहृद्भिस्सह संगतिः ॥ कुर्वंति यन्महादेव सुहृदः प्रीतिवर्द्धिनीम् ॥ २१ ॥
सुहृदाम् एष वै धर्मः सुहृद्भिः सह संगतिः ॥ कुर्वंति यत् महादेव सुहृदः प्रीति-वर्द्धिनीम् ॥ २१ ॥
suhṛdām eṣa vai dharmaḥ suhṛdbhiḥ saha saṃgatiḥ .. kurvaṃti yat mahādeva suhṛdaḥ prīti-varddhinīm .. 21 ..
तस्मात्सर्वप्रयत्नेन मयागच्छ सह प्रभो ॥ यज्ञवाटं पितुर्मेद्य स्वामिन् प्रार्थनया मम॥ २२ ॥
तस्मात् सर्व-प्रयत्नेन मया आगच्छ सह प्रभो ॥ यज्ञ-वाटम् पितुः मेद्य स्वामिन् प्रार्थनया मम॥ २२ ॥
tasmāt sarva-prayatnena mayā āgaccha saha prabho .. yajña-vāṭam pituḥ medya svāmin prārthanayā mama.. 22 ..
ब्रह्मोवाच ।।
तस्यास्तद्वचनं श्रुत्वा सत्या देवो महेश्वरः ॥ दक्ष वागिषुहृद्विद्धो बभाषे सूनृतं वचः ॥ २३ ॥
तस्याः तत् वचनम् श्रुत्वा सत्याः देवः महेश्वरः ॥ दक्ष वाच्-इषु-हृद्-विद्धः बभाषे सूनृतम् वचः ॥ २३ ॥
tasyāḥ tat vacanam śrutvā satyāḥ devaḥ maheśvaraḥ .. dakṣa vāc-iṣu-hṛd-viddhaḥ babhāṣe sūnṛtam vacaḥ .. 23 ..
महेश्वर उवाच ।।
दक्षस्तव पिता देवी मम द्रोही विशेषतः ॥ २४ ॥
दक्षः तव पिता देवी मम द्रोही विशेषतः ॥ २४ ॥
dakṣaḥ tava pitā devī mama drohī viśeṣataḥ .. 24 ..
यस्य ये मानिनस्सर्वे ससुरर्षिमुखाः परे ॥ ते मूढा यजनं प्राप्ताः पितुस्ते ज्ञानवर्जिताः ॥ २५ ॥
यस्य ये मानिनः सर्वे स सुर-ऋषि-मुखाः परे ॥ ते मूढाः यजनम् प्राप्ताः पितुः ते ज्ञान-वर्जिताः ॥ २५ ॥
yasya ye māninaḥ sarve sa sura-ṛṣi-mukhāḥ pare .. te mūḍhāḥ yajanam prāptāḥ pituḥ te jñāna-varjitāḥ .. 25 ..
अनाहूताश्च ये देवी गच्छंति परमंदिरम् ॥ अवमानं प्राप्नुवंति मरणादधिकं तथा ॥ २६ ॥
अनाहूताः च ये देवी गच्छन्ति पर-मंदिरम् ॥ अवमानम् प्राप्नुवन्ति मरणात् अधिकम् तथा ॥ २६ ॥
anāhūtāḥ ca ye devī gacchanti para-maṃdiram .. avamānam prāpnuvanti maraṇāt adhikam tathā .. 26 ..
परालयं गतोपींद्रो लघुर्भवति तद्विधः ॥ का कथा च परेषां वै रीढा यात्रा हि तद्विधा ॥ २७ ॥
पर-आलयम् गतः उपि इंद्रः लघुः भवति तद्विधः ॥ का कथा च परेषाम् वै रीढा यात्रा हि तद्विधा ॥ २७ ॥
para-ālayam gataḥ upi iṃdraḥ laghuḥ bhavati tadvidhaḥ .. kā kathā ca pareṣām vai rīḍhā yātrā hi tadvidhā .. 27 ..
तस्मात्त्वया मया चापि दक्षस्य यजनं प्रति ॥ न गंतव्यं विशेषेण सत्यमुक्तं मया प्रियं ॥ २८॥
तस्मात् त्वया मया च अपि दक्षस्य यजनम् प्रति ॥ न गंतव्यम् विशेषेण सत्यम् उक्तम् मया प्रियम् ॥ २८॥
tasmāt tvayā mayā ca api dakṣasya yajanam prati .. na gaṃtavyam viśeṣeṇa satyam uktam mayā priyam .. 28..
तथारिभिर्न व्यथते ह्यर्दितोपि शरैर्जनः ॥ स्वानांदुरुक्तिभिर्मर्मताडितस्स यथा मतः ॥ २९॥
तथा अरिभिः न व्यथते हि अर्दितः उपि शरैः जनः ॥ स्वानाम् दुरुक्तिभिः मर्म-ताडितः स यथा मतः ॥ २९॥
tathā aribhiḥ na vyathate hi arditaḥ upi śaraiḥ janaḥ .. svānām duruktibhiḥ marma-tāḍitaḥ sa yathā mataḥ .. 29..
विद्यादिभिर्गुणैः षड्भिरसदन्यैस्सतां स्मृतौ ॥ हतायां भूयसां धाम न पश्यंति खलाः प्रिये ॥ 2.2.28.३० ॥
विद्या-आदिभिः गुणैः षड्भिः असत्-अन्यैः सताम् स्मृतौ ॥ हतायाम् भूयसाम् धाम न पश्यंति खलाः प्रिये ॥ २।२।२८।३० ॥
vidyā-ādibhiḥ guṇaiḥ ṣaḍbhiḥ asat-anyaiḥ satām smṛtau .. hatāyām bhūyasām dhāma na paśyaṃti khalāḥ priye .. 2.2.28.30 ..
ब्रह्मोवाच ।।
एवमुक्ता सती तेन महेशेन महात्मना ॥ उवाच रोषसंयुक्ता शिवं वाक्यविदां वरम् ॥ ३१ ॥
एवम् उक्ता सती तेन महेशेन महात्मना ॥ उवाच रोष-संयुक्ता शिवम् वाक्य-विदाम् वरम् ॥ ३१ ॥
evam uktā satī tena maheśena mahātmanā .. uvāca roṣa-saṃyuktā śivam vākya-vidām varam .. 31 ..
सत्युवाच ।।
यज्ञस्स्यात्सफलो येन स त्वं शंभोखिलेश्वर ॥ अनाहूतोसि तेनाद्य पित्रा मे दुष्टकारिणा ॥ ३२ ॥
यज्ञः स्यात् सफलः येन स त्वम् शंभो अखिल-ईश्वर ॥ अनाहूतः असि तेन अद्य पित्रा मे दुष्ट-कारिणा ॥ ३२ ॥
yajñaḥ syāt saphalaḥ yena sa tvam śaṃbho akhila-īśvara .. anāhūtaḥ asi tena adya pitrā me duṣṭa-kāriṇā .. 32 ..
तत्सर्वं ज्ञातुमिच्छामि भव भावं दुरात्मनः ॥ सुरर्षीणां च सर्वेषामागतानां दुरात्मनाम् ॥ ३३॥
तत् सर्वम् ज्ञातुम् इच्छामि भव भावम् दुरात्मनः ॥ सुर-ऋषीणाम् च सर्वेषाम् आगतानाम् दुरात्मनाम् ॥ ३३॥
tat sarvam jñātum icchāmi bhava bhāvam durātmanaḥ .. sura-ṛṣīṇām ca sarveṣām āgatānām durātmanām .. 33..
तस्माच्चाद्यैव गच्छामि स्वपितुर्यजनं प्रभो ॥ अनुज्ञां देहि मे नाथ तत्र गंतुं महेश्वर ॥ ३४ ॥
तस्मात् च अद्य एव गच्छामि स्व-पितुः यजनम् प्रभो ॥ अनुज्ञाम् देहि मे नाथ तत्र गंतुम् महेश्वर ॥ ३४ ॥
tasmāt ca adya eva gacchāmi sva-pituḥ yajanam prabho .. anujñām dehi me nātha tatra gaṃtum maheśvara .. 34 ..
।। ब्रह्मोवाच ।।
इत्युक्तौ भगवान् रुद्रस्तया देव्या शिवस्स्वयम् ॥ विज्ञाताखिलदृक् द्रष्टा सतीं सूतिकरोऽब्रवीत् ॥ ३५ ॥
इति उक्तौ भगवान् रुद्रः तया देव्या शिवः स्वयम् ॥ विज्ञात-अखिल-दृश् द्रष्टा सतीम् सूतिकरः अब्रवीत् ॥ ३५ ॥
iti uktau bhagavān rudraḥ tayā devyā śivaḥ svayam .. vijñāta-akhila-dṛś draṣṭā satīm sūtikaraḥ abravīt .. 35 ..
।। शिव उवाच ।।
यद्येवं ते रुचिर्देवि तत्र गंतुमवश्यकम् ॥ सुव्रते वचनान्मे त्वं गच्छ शीघ्रं पितुर्मखम् ॥ ३६॥
यदि एवम् ते रुचिः देवि तत्र गंतुम् अवश्यकम् ॥ सुव्रते वचनात् मे त्वम् गच्छ शीघ्रम् पितुः मखम् ॥ ३६॥
yadi evam te ruciḥ devi tatra gaṃtum avaśyakam .. suvrate vacanāt me tvam gaccha śīghram pituḥ makham .. 36..
एतं नंदिनमारुह्य वृषभं सज्जमादरात् ॥ महाराजोपचाराणि कृत्वा बहुगुणान्विता ॥ ३७ ॥
एतम् नंदिनम् आरुह्य वृषभम् सज्जम् आदरात् ॥ महा-राज-उपचाराणि कृत्वा बहु-गुण-अन्विता ॥ ३७ ॥
etam naṃdinam āruhya vṛṣabham sajjam ādarāt .. mahā-rāja-upacārāṇi kṛtvā bahu-guṇa-anvitā .. 37 ..
भूषितं वृषमारोहेत्युक्ता रुद्रेण सा सती ॥ सुभूषिता सती युक्ता ह्यगमत्पितुमंदिरम्॥ ३८॥
भूषितम् वृषम् आरोह इति उक्ता रुद्रेण सा सती ॥ सुभूषिता सती युक्ता हि अगमत् पितु-मंदिरम्॥ ३८॥
bhūṣitam vṛṣam āroha iti uktā rudreṇa sā satī .. subhūṣitā satī yuktā hi agamat pitu-maṃdiram.. 38..
महाराजोपचाराणि दत्तानि परमात्मना ॥ सुच्छत्रचामरादीनि सद्वस्त्राभरणानि च ॥ ३९॥
महा-राज-उपचाराणि दत्तानि परम-आत्मना ॥ सु छत्र-चामर-आदीनि सत्-वस्त्र-आभरणानि च ॥ ३९॥
mahā-rāja-upacārāṇi dattāni parama-ātmanā .. su chatra-cāmara-ādīni sat-vastra-ābharaṇāni ca .. 39..
गणाः षष्टिसहस्राणि रौद्रा जग्मुश्शिवाज्ञया ॥ कुतूहलयुताः प्रीता महोत्सवसमन्विताः ॥ 2.2.28.४० ॥
गणाः षष्टि-सहस्राणि रौद्राः जग्मुः शिव-आज्ञया ॥ कुतूहल-युताः प्रीताः महा-उत्सव-समन्विताः ॥ २।२।२८।४० ॥
gaṇāḥ ṣaṣṭi-sahasrāṇi raudrāḥ jagmuḥ śiva-ājñayā .. kutūhala-yutāḥ prītāḥ mahā-utsava-samanvitāḥ .. 2.2.28.40 ..
तदोत्सवो महानासीद्यजने तत्र सर्वतः ॥ सत्याश्शिवप्रियायास्तु वामदेवगणैः कृतः ॥ ४१ ॥
तदा उत्सवः महान् आसीत् यजने तत्र सर्वतस् ॥ सत्याः शिवप्रियायाः तु वामदेव-गणैः कृतः ॥ ४१ ॥
tadā utsavaḥ mahān āsīt yajane tatra sarvatas .. satyāḥ śivapriyāyāḥ tu vāmadeva-gaṇaiḥ kṛtaḥ .. 41 ..
कुतूहलं गणाश्चक्रुश्शिवयोर्यश उज्जगुः ॥ बालांतः पुप्लुवुः प्रीत्या महावीराश्शिवप्रियाः ॥ ४२ ॥
कुतूहलम् गणाः चक्रुः शिवयोः यशः उज्जगुः ॥ बाल-अंतर् पुप्लुवुः प्रीत्या महा-वीराः शिव-प्रियाः ॥ ४२ ॥
kutūhalam gaṇāḥ cakruḥ śivayoḥ yaśaḥ ujjaguḥ .. bāla-aṃtar pupluvuḥ prītyā mahā-vīrāḥ śiva-priyāḥ .. 42 ..
सर्वथासीन्महाशोभा गमने जागदम्बिके ॥ सुखारावस्संबभूव पूरितं भुवनत्रयम् ॥ ४३ ॥
सर्वथा आसीत् महा-शोभा गमने जागदम्बिके ॥ सुख-आरावः संबभूव पूरितम् भुवनत्रयम् ॥ ४३ ॥
sarvathā āsīt mahā-śobhā gamane jāgadambike .. sukha-ārāvaḥ saṃbabhūva pūritam bhuvanatrayam .. 43 ..
इति श्रीशिवमहापुराणे द्वितीयायां रुद्रसंहितायां द्वितीये सतीखंडे सतीयात्रावर्णनं नामाष्टविंशोध्यायः ॥ २८ ॥
इति श्री-शिव-महापुराणे द्वितीयायाम् रुद्रसंहितायाम् द्वितीये सती-खंडे सतीयात्रावर्णनम् नाम अष्टविंशः उध्यायः ॥ २८ ॥
iti śrī-śiva-mahāpurāṇe dvitīyāyām rudrasaṃhitāyām dvitīye satī-khaṃḍe satīyātrāvarṇanam nāma aṣṭaviṃśaḥ udhyāyaḥ .. 28 ..

Add to Playlist

Practice Later

No Playlist Found

Create a Verse Post


Shloka QR Code

🔗

🪔 Powered by Gyaandweep.com

namo namaḥ!

भाषा चुने (Choose Language)

namo namaḥ!

Sign Up to practice more than 100 Vedic Scriptures and 1000s of chants, one verse at a time.

Login to track your learning and teaching progress.


Sign In